भामति · अध्याय 20
#नाभाव उपलब्धेः# ।
पूर्वाधिकरणसंगतिमाह-- #एवमिति# ।
बाह्यार्थवादिभ्यो विज्ञानमत्रवादिनां सुगताभिप्रेततया विशेषमाह- #केषाञ्चित्किलेति# ।
अथ प्रमाता प्रमाणं प्रमेयं प्रमितिरिति हि चतुसृषु विधासु तत्वपरिसमाप्तिरासामान्यतमाभावे ऽपि तत्त्वस्याव्यवस्थानात् ।
तस्मादनेन विज्ञानस्कन्धमात्रं तत्त्वं व्यवस्थापयता चतस्रो विधा एषितव्याः, तथाच न विज्ञानस्कन्धमात्रं तत्त्वम् ।
नह्यस्ति संभवो विज्ञानमात्रं चतस्रो विधाश्चेत्यत आह-- #तस्मिंश्च विज्ञानवादे बुद्ध्यारूढेन रूपेणेति# ।
यद्यप्यनुभवान्नान्यो ऽनुभाव्यो ऽनुभवितानुभवनं, तथापि बुद्ध्यारूढेन बुद्धिपरिकल्पितेनान्यस्थ एवैष प्रमाणप्रमेयफलव्यवहारः प्रमातृव्यवहारश्चेत्यपि द्रष्टव्यम् ।
न पारमार्थिक इत्यर्थः ।
एवं च सिद्धसाधनम् ।
न हि ब्रह्मवादिनो नीलाद्याकारां वित्तिमभ्युपगच्छन्ति, किन्त्वनिर्वचनीयं नीलादिति ।
तथाहि- स्वरूपं विज्ञानस्यासत्याकारयुक्तं प्रमेयं प्रमेयप्रकाशनं प्रमाणफलं, तत्प्रकाशनशक्तिः प्रमाणम् ।
बाह्यवादिनोरपि वैभाषिकसौत्रान्तिकयोः काल्पनिक एव प्रमाणफलव्यवहारो ऽभिमत इत्याह-- #सत्यपि#
#बाह्येर्ऽथ इति# ।
भिन्नाधिकरणत्वे हि प्रमाणफलयोस्तद्भावो न स्यात् ।
नहि खदिरगोचरे परशौ पलाशे द्वैधीभावो भवति ।
तस्मादनयोरैकाधिकरण्यं वक्तव्यम् ।
कथं च तद्भवति ।
यदि ज्ञानस्थे एव प्रमाणफले भवतः ।
न च ज्ञानं स्वलक्षणमनंशमंशाभ्यां वस्तुसभ्द्यां युज्यते ।
तदेव ज्ञानमज्ञानव्यावृत्तिकल्पितज्ञानत्वांशं फलम् ।
अशक्तिव्यावृत्तिपरिकल्पितात्मानात्मप्रकाशनशक्त्यंशं प्रमाणम् ।
प्रमेयं त्वस्य बाह्यमेव ।
एवं सौतेरान्तिकसमये ऽपि ।
ज्ञानस्यार्थसारूप्यमनीलाकारव्यावृत्त्या कल्पितनीलाकारत्वं प्रमाणं व्यवस्थापनहेतुत्वात् ।
अज्ञानव्यावृत्तिकल्पितं च ज्ञानत्वं फलं व्यवस्थाप्यत्वात् ।
तथा चाहुः-- ऽनहि वित्तिसत्तैव तद्वेदना युक्ता, तस्याः सर्वत्राविशेषात् ।
तां तु सारूप्यमाविशत्सरूपयत्तद्घटयेत्ऽ इति ।
प्रश्नपूर्वकं बाह्यार्थाभाव उपपत्तीराह-- #कथं#
#पुनरवम्यत इति# ।
स हि विज्ञानालम्बनत्वाभिमतो बाह्योर्ऽथः परमाणुस्तावन्न संभवति ।
एकस्थूलनीलाभासं हि ज्ञानं न परमसूक्ष्मपरमाण्वाभासम् ।
न चान्याभासमन्यगोचरं भवितुमर्हति ।
अतिप्रसङ्गेन सर्वगोचरतया सर्वसर्वज्ञत्वप्रसङ्गात् ।
न च प्रतिभासधर्मः स्थौल्यमिति युक्तम् ।
विकल्पासहत्वात् ।
किमयं प्रतिभासस्य ज्ञानस्य धर्म उत प्रतिभासनकालेर्ऽथस्य धर्मः ।
यदि पूर्वः कल्पः, अद्वा, तथासति हि स्वांशालम्बनमेव विज्ञानमभ्युपेतं भवति ।
एवं च कः प्रतिकूलीभवत्यनुकूलमाचरति ।
द्वितीय इत् चेत् ।
तथा हि-- रूपपरिमाणव एव निरन्तरमुत्पन्ना एकविज्ञानोपारोहिणः स्थौल्यम् ।
न चात्र कस्यचिद्भ्रान्तता ।
नहि न ते रूपपरमाणवः ।
नच न निरन्तरमुत्पन्नाः ।
न चैकविज्ञानानुपारोहिणः ।
तेन मा भून्नीलत्वादिवत्परमाणुधर्मः,प्रत्येकं परमाणुष्वभावात् ।
प्रतिभासदशापन्नानां तु तेषां भविष्यति बहुत्वादिवत्सांवृतं स्थौल्यम् ।
यथाहुः-- ऽग्रहे ऽनेकस्य चैकेन किञ्चिद्रूपं हि गृह्यते ।
सांवृतं प्रतिभासस्थं तदेकात्मन्यसंभवात्
नच तद्दर्शनं भ्रान्तं नानावस्तुग्रहाद्यतः ।
सांवृतं ग्रहणं नान्यत्र च वस्तुग्रहो भ्रमः
ऽइति ।
तन्न ।
नैरन्तर्यावभासस्य भ्रान्तत्वात् ।
गन्धरसस्पर्शपरमाण्वन्तरिता हि ते रूपपरमाणवो न निरन्तराः तस्मादारात्सान्तरेषु वृक्षेष्वेकधनवनप्रत्ययवदेष स्थूलप्रत्ययः परमाणुषु सान्तरेषु भ्रान्त एवेति पश्यामः ।
तस्मात् कल्पनापोढत्वे ऽपि भ्रान्तत्वाद्धटादिप्रत्ययस्य पीतशङ्खादिज्ञानवन्न प्रत्यक्षता परमाणुगोचरत्वाभ्युपगमे ।
तदिदमुक्तम्, #न तावत्परमाणवः स्तम्भादिप्रत्ययपरिच्छेद्या भवितुमर्हन्ति ।
नापि तत्समूहा वा स्तम्भादयो ऽ#वयविनः ।
तेषामभेदे परमाणुभ्यः परमाणव एव ।
तत्र चोक्तं दूषणम् ।
भेदे तु गवाश्वस्येवात्यन्तवैलक्षण्यमिति न तादात्म्यम् ।
समवायश्च निराकृत इति ।
एवं भेदाभेदविकल्पेन जातिगुणकर्मादीनपि प्रत्याचक्षीत ।
तस्माद्यद्यत्प्रतिभासते तस्य सर्वस्य विचारासहत्वात्, अप्रतिभासमानसद्भावे च प्रमाणाभावान्न बाह्यालम्बनाः प्रत्यया इति ।
अपि च न तावद्विज्ञानमिन्द्रियवन्निलीनमर्थं प्रत्यक्षयितुमर्हति ।
नहि यथेन्द्रियमर्थविषयं ज्ञानं जनयत्येवं विज्ञानमपरं विज्ञानं जनयितुमर्हति ।
तत्रापि समानत्वादनुयोगस्यानवस्थाप्रसङ्गात् ।
न चार्थाधारं प्राकट्यलक्षणं फलमाधातुमुत्सहते ।
अतीतानागतेषु तदसंभवात् ।
नह्यस्ति संभवो ऽप्रत्युत्पन्नो धर्मी धर्माश्चास्य प्रत्युत्पन्ना इति ।
तस्माज्ज्ञानस्वरूपप्रत्यक्षतैवार्थप्रत्यक्षताभ्युपेया ।
तच्चानाकारं सदाजानतो भेदाभावात् कथमर्थभेदं व्यवस्थापयेदिति तद्भेदव्यवस्थापनायाकारभेदो ऽस्यैषितव्यः ।
तदुक्तम्-- ऽन हि वित्तिसत्तैव तद्वेदना युक्ता, तस्याः सर्वत्राविशेषात् ।
तां तु सारूप्यमाविशत्सरूपयत्तद्घटयेत्ऽ इति ।
एकश्चायमाकारो ऽनुभूयते ।
स चेद्विज्ञानस्य नार्थसद्भावे किञ्चन प्रमाणमस्तीत्याह-- #अपिचानुभवमात्रेण साधारणात्मनो ज्ञानस्येति ।
अपि च सहोपलम्भनियमादिति# ।
यद्येन सह नियतसहोपलम्भनं तत्ततो न भिद्यते, यथैकस्माच्चन्द्रमसो द्वितीयश्चन्द्रमाः ।
नियतसहोपलम्भनश्चार्थो ज्ञानेनेति व्यापकविरुद्धोपलब्धिः ।
निषेध्यो हि भेदः सहोपलम्भानियमेन व्याप्तो यथा भिन्नावश्विनौ नावश्यं सहोपवभ्येते कदाचिदभ्रापिधाने ऽन्यतरस्यैकस्योपलब्धेः ।
सो ऽयमिह भेदव्यापकानियमविरूद्धो नियम उपलभ्यमानस्तद्व्याप्यं भेदं निवर्तयतीति ।
तदुक्तम्-- ऽसहोपलम्बनियमादभेदो नीलतद्धियोः ।
भेदश्च भ्रान्तिविज्ञानैर्द्दृश्यतेन्दाविवाद्वये ॥
ऽइति. #स्वप्नादिवच्चेदं द्रष्टव्यम्# ।
यो यः प्रत्ययः स सर्वो बाह्यानावम्बनः, यथा स्वप्नमायादिप्रत्ययः, तथा चैष विवादाध्यासितः प्रत्यय इति स्वभावहेतुः ।
बाह्यानालम्बनता हि प्रत्ययत्वमात्रानुबन्धिनी वृक्षतेव शिंशपात्वमात्रानुबन्धिनीति तन्मात्रानुबन्धिनि निरालम्बनत्वे साध्ये भवति प्रत्ययत्वं स्वभावहेतुः ।
अत्रान्तरे सौत्रान्तिकश्चोदयति-- #कथं पुनरसि बाह्येर्ऽथे#नीलमिदं पीतमित्यादि #प्रत्ययवैचित्र्यमुपपद्यते# ।
स हि मेने ये यस्मिन् सत्यपि कादाचित्कास्ते सर्वे तदतिरिक्तहेतुसापेक्षाः,
यथाविवक्षत्यजिगमिषति मयि वचनगमनप्रतिभासाः प्रत्ययाश्चेतनसंतानान्तरसापेक्षाः ।
तथा च विवादाध्यासिताः सत्यप्यालयविज्ञानसंताने षडपि प्रवृत्तिप्रत्यया इति स्वभावहेतुः ।
यश्चासावालयविज्ञानसंतानातिरिक्तः कादाचित्कप्रवृत्तिज्ञानभेदहेतुः स बाह्योर्ऽथं इति ।
वासनापरिपाकप्रत्ययकादाचित्कत्वात् कदाचिदुत्पाद इति चेत् ।
नन्वेकसंततिपतितानामालयविज्ञानानां तत्प्रवृत्तिविज्ञानजननशक्तिर्वासना , तस्याश्च स्वकार्योपजनं प्रत्याभिमुख्यं परिपाकस्तस्य च प्रत्ययः स्वसंतानवर्ती पूर्वक्षणः संतानान्तरापेक्षानभ्युपगमात्, तथाच सर्वे ऽप्यालयसंतानपतिताः परिपाकहेतवो भवेयुः ।
न वा कश्चिदपि, आलयसंतानपातित्वाविशेषात् ।
क्षणभेदाच्छक्तिभेदस्तस्य च कादाचित्कत्वात्कार्यकादाचित्कत्वमिति चेत् ।
नन्वेवमेकस्यैव नीलज्ञानोपजनसामर्थ्यं तत्प्रबोधसामर्थ्यं चेति क्षणान्तरस्यैतन्न स्यात् ।
सत्वे वा कथं क्षणभेदात्सामर्थ्यभेद इत्यालयसंतानवर्तिनः सर्वे समर्था इति समर्थहेतुसद्भावे कार्यक्षेपानुपपत्तेः ।
स्वसंतानमात्राधीनत्वे निषेध्यस्य कादाचित्कत्वस्य विरुद्धं सदातनत्वं तस्योपलब्ध्या कादाचित्कत्वं निवर्तमानं हेत्वन्तरापेक्षत्वे व्यवतिष्ठत इति प्रतिबन्धसिद्धिः ।
नच ज्ञानसंतानान्तरनिबन्धनत्वं सर्वेषामिष्यते प्रवृत्तिविज्ञानानां विज्ञानवादिभिरपि तु कस्यचिदेव विच्छिन्नगमनवचनप्रतिभासस्य प्रवृत्तिविज्ञानस्य ।
अपि च सत्त्वान्तरसंताननिमित्तत्वे तस्यापि सदा संनिधानान्न कादाचित्कत्वं स्यात् ।
न हि सत्त्वान्तरसंतानस्य देशतः कालतो वा विप्रकर्षसंभवः ।
विज्ञानवादे विज्ञानातिरिक्तदेशानाभ्युपगमादमूर्तत्वाच्च विज्ञानानामदेशात्मकत्वात्संसारस्यादिमत्वाप्रसङ्गेनापूर्वसत्त्वप्रादुर्भावानभ्युपगमाच्च न कालतो ऽपि विप्रकर्षसंभवः ।
तस्मादसति बाह्येर्ऽथे प्रत्ययवैचित्र्यानुपपत्तेरस्त्यानुमानिको बाह्यार्थ इति सौत्रान्तिकाः प्रतिपेदिरे, तान्निराकरोति-- #वासनावैचित्र्यादित्याह#विज्ञानवादी ।
इदमत्राकूतम्-- स्वसंतानमात्रप्रभवत्वे ऽपि प्रत्ययकादाचित्कत्वोपपत्तौ संदिग्धविपक्षव्यावृत्तिकत्वेन हेतुरनैकान्तिकः ।
तथाहि-- बाह्यनिमित्तकत्वे ऽपि कथं कदाचित् नीलसंवेदनं कदाचित् पीतसंवेदनम् ।
बाह्यनीलपीतसंनिधानासंनिधानाभ्यामिति चेत् ।
अथ पीतसंनिधाने ऽपि किमिति नीलज्ञानं न भवति, पीतज्ञानं भवति ।
तत्र तस्य सामर्थ्यादसामर्थ्याच्चेतरस्मिन्निति चेत् ।
कुतः पुनरयं सामर्थ्यासामर्थ्यभेदः ।
हेतुभेदादिति चेत् ।
एवं तर्हि क्षणानामपि स्वकारणभेदनिबन्धः शक्तिभेदो भविष्यति ।
संतानिनो हि क्षणाः कार्यभेदहेतवस्ते च प्रतिकार्यं भिद्यन्ते च ।
न च संतानो नाम कश्चिदेक उत्पादकः क्षणानां यदभेदात् क्षणा न भिद्येरन् ।
ननूक्तं न क्षणभेदाभेदाभ्यां शक्तिभेदाभेदौ, भिन्नानामपि क्षणानामेकसामर्थ्योपलब्धेः ।
अन्यथैक एव क्षणे नीलज्ञानजननसामर्थ्यं इति न भूयो नीलज्ञानानि जायेरन्. तत्समर्थस्यातीतत्वात्, क्षणान्तराणां चासामर्थ्यात् ।
तस्मात् क्षणभेदे ऽपि न सामर्थ्यभेदः, संतानभेदे तु सामर्थ्यं भिद्यत इति ।
तन्न ।
यदि भिन्नानां संतानानां नैकं सामर्थ्यं, हन्त तर्हि नीलसंतानानामपि मिथो भिन्नानां नैकमस्ति नीलाकाराधानसामर्थ्यमिति संनिधाने ऽपि नीलसंतानान्तरस्य न नीलज्ञानमुपजायेत ।
तस्मात्संतानान्तराणामिव क्षणान्तराणामपि स्वकारणभेदाधीनोपजनानां केषाञ्चिदेव सामर्थ्यभेदः केषाञ्चिन्नेति वक्तव्यम् ।
तथा चैकालयज्ञानसंतानपतितेषु कस्यचिदेव ज्ञानक्षणस्य स तादृशः सामर्थ्यातिशयो वासनापरनामा स्वप्रत्ययासादितः ।
यतो नीलाकारं प्रवृत्तिविज्ञानं जायते न पीताकारम् ।
कस्यचित्तु स तादृशो यतः पीताकारं ज्ञानं न नीलाकारमिति वासनावैचित्र्यादेव स्वप्रत्ययासादिताज्ज्ञानवैचित्र्यसिद्धेर्न तदतिरिक्तार्थसद्भावे किञ्चनास्ति प्रमाणमिति पश्यामः ।
आलयविज्ञानसंतानपतितमेवासंविदितं ज्ञानं वासना तद्वैचित्र्यान्नीलाद्यनुभववैचित्र्यं, पूर्वनीलाद्यनुभववैचित्र्याच्च वासनावैचित्र्यमित्यनादितानयोर्विज्ञानवासनयोः ।
तस्मान्न परस्पराश्रयदोषसंभवो बीजाङ्कुरसंतानवदिति ।
अन्वयव्यतिरेकाभ्यामपि वासनावैचित्र्यस्यैव ज्ञानवैचित्र्यहेतुता नार्थवैचित्र्यस्येत्याह-- #अपि चान्वयव्यतिरेकाभ्यामिति ।
एवं प्राप्ते ब्रूमः ।
नाभाव उपलब्धेरिति# ।
न खल्वभावो बाह्यस्यार्थस्याध्यवसातुं शक्यते ।
स ह्युपलम्भाभावाद्वाध्यवसीयेत, सत्यप्युपलम्भे तस्य बाह्याविषयत्वाद्वा, सत्यपि बाह्यविषयत्वे बाह्यार्थबाधकप्रमाणसद्भावाद्वा ।
न तावत् सर्वथोपलम्भाभाव इति प्रश्नपूर्वकमाह-- #कस्मात् ।
उपलब्धेरिति# ।
नहि स्फुटतरे सर्वजनीन उपलम्भे सति तदभावः शक्यो वक्तुमित्यर्थः ।
द्वितीयं पक्षमवलम्बते-- #ननु नाहमेवं ब्रवीमीति# ।
निराकरोति-- #बाढमेवं ब्रवीषि# ।
उपलब्धिग्राहिणा हि साक्षिणोपलब्धिर्गृह्यमाणा बाह्यविषयत्वेनैव गृह्यते नोपलब्धिमात्रमित्यर्थः ।
#अतश्च#इति वक्ष्यमाणोपपत्तिपरामर्शः ।
तृतीयं पक्षमालम्बते-- #ननु#
#बाह्यस्यार्थस्यासंभवादिति# ।
निराकरोति-- #नायं साधुरध्यवसाय इति# ।
इदमत्राकूतम्-- घटपटादयो हि स्थूला भासन्ते न तु परमसूक्ष्माः ।
तत्रेदं नानादिग्देशव्यापित्वलक्षणं स्थौल्यं यद्यपि ज्ञानाकारत्वेनावरणानावरणलक्षणेन विरुद्धधर्मसंसर्गेण युज्यते ज्ञानोपाधेरनावृतत्वादेव तथापि तद्देशत्वातद्देशत्वकम्पत्वरक्तारक्तत्वलक्षणैर्विरुद्धधर्मसंसर्गैरस्य नानात्वं प्रसज्यमानं ज्ञानाकारत्वे ऽपि न शक्यं शक्रेणापि वारयितुम् ।
व्यतिरेकाव्यतिरेकवृत्तिविकल्पौ च परमाणोरंशवत्त्वं चोपपादितानि वैशेषिकपरीक्षायाम् ।
तस्माद्बाह्यार्थवन्न ज्ञाने ऽपि स्थौल्यसंभवः ।
न च तावत् परमाण्वाभासमेकज्ञानम्, एकस्य नानात्मत्वानुपपत्तेः ।
आकाराणां वा ज्ञानतादात्म्यादेकत्वप्रसङ्गात् ।
न च यावन्त आकारास्तावन्त्येव ज्ञानानि, तावतां ज्ञानानां मिथो वार्तामभिज्ञतया स्थूलानुभवाभावप्रसङ्गात् ।
न च तत्पृष्ठभावी समस्तज्ञानाकारसंकलनात्मक एकः स्थूलविकल्पो विजृम्भत इति सांप्रतम् ।
तस्यापि साकारतया स्थौल्यायोगात् ।
यथाह धर्मकीर्तिः- ऽतस्मान्नार्थे न च ज्ञाने स्थूलाभासस्तदात्मनः ।
एकत्र प्रतिषिद्धत्वाद्बहुष्वपि न संभवः ॥
ऽइति ।
तस्माद्भवतापि ज्ञानाकारं स्थौल्यं समर्थयमानेन #प्रमाणप्रवृत्त्यप्रवृत्तिपूर्वकौ संभवासंभवा#वास्थेयौ ।
तथा चेदन्तास्पदमशक्यं ज्ञानाद्भिन्नं यबाह्यमपह्नोतुमिति ।
यच्च ज्ञानस्य प्रत्यर्थं व्यवस्थायै विषयसारूप्यमास्थितं, नैतेन विषयो ऽपह्नोतुं शक्यः, असत्यर्थे तत्सारूप्यस्य तद्व्यवस्थायाश्चानुपपत्तेरित्याह- #न च ज्ञानस्य विषयसारूप्यादिति.# ।
यश्च सहोपलम्भनियम उक्तः शो ऽपि व्कल्पं न सहते ।
यदि ज्ञानार्थयोः साहित्येनोपलम्भस्ततो विरुद्धो हेतुर्नाभेदं साधयितुमर्हति, साहित्यस्य तद्विरुद्धभेदव्याप्तत्वादभेदे तदनुपपत्तेः ।
अथैकोपलम्भनियमः ।
न एकत्वस्यावाचकः सहशब्दः ।
अपि च किमेकत्वेनोपलम्भ आहो एक उपालम्भो ज्ञानार्थयोः ।
न तावदेकत्वेनोपलम्भ इत्याह-- #बहिरुपलब्धेश्च विषयस्य# ।
अथैकोपलम्भनियमः, तत्राह-- #अत एव सहोपलम्भनियमो ऽपि प्रत्ययविषयो ऽरुपायोपेयभावहेतुको नाभेदहेतुक इत्यवगन्तव्यम्# ।
यथा हि सर्वं चाक्षुषं प्रभारूपानुविद्धं बुद्धिबोध्यं नियमेन मनुजैरुपलभ्यते, न चैतावता घटादिरूपं प्रभात्मकं भवति,किन्तु प्रभोपायत्वान्नियमः, एवमिहाप्यात्मसाक्षिकानुभवोपायत्वादर्थस्यैकोपलम्भनियम इति ।
अपि च यत्रैकविज्ञानगोचरौ घटपटौ तत्रार्थभेदं विज्ञानभेदं चाद्यवस्यन्ति प्रतिपत्तारः ।
न चैतदेकात्म्ये ऽवकल्पत इत्याह-- #तथा घटदर्शनं पटज्ञानमिति# ।
तथार्थाभेदे ऽपि विज्ञानभेददर्शनान्न विज्ञानात्मकत्वमर्थस्येत्याह-- #तथा घटदर्शनं घटस्मरणमिति# ।
अपि च स्वरूपमात्रपर्यवसितं ज्ञानं ज्ञानान्तरवार्तानभिज्ञमिति ययोर्भेदस्ते द्वे न गृहीते इति भेदो ऽपि तद्गतो न गृहीत इति ।
एवं क्षणिकशून्यानात्मत्वादयो ऽप्यनेकप्रतिज्ञाहेतुदृष्टान्तज्ञानभेदसाध्याः ।
एवं स्वमसाधारणमन्यतो व्यावृतं लक्षणं यस्य तदपि यद्व्यावर्तते यतश्च व्यावर्तते तदनेकज्ञानसाध्यम् ।
एवं सामान्यलक्षणमपि विधिरूपमन्यापोहरूपं वानेकज्ञानगम्यम् ।
एवं वास्यवासकभावो ऽनेकज्ञानसाध्यः ।
एवमविद्योपप्लववशेन यत्सदसद्धर्मत्वं यथा नीलमिति सद्धर्मः, नरविषाणामित्यसद्धर्मः, अमूर्तमिति सदसद्धर्मः ।
शक्यं हि शशविषाणममूर्तं वक्तुम् ।
शक्यं च विज्ञानममूर्तं वक्तुम् ।
यथोक्तम्-- ऽअनादिवासनोद्भूतविकल्पपरिनिष्ठितः ।
शब्दार्थस्त्रिविधो धर्मो भावाभावोभयाश्रयः ॥
ऽइति ।
एवं मोक्षप्रतिज्ञा च यो मुच्यते यतश्च मुच्यते येन मुच्यते तदनेकज्ञानसाध्या ।
एवं विप्रतिपन्नं प्रतिपादयितुं प्रतिज्ञेति यत्प्रतिपादयति येन प्रतिपादयति यश्च तदनेकज्ञानसाध्येत्यसत्येकस्मिन्ननेकार्थज्ञानप्रतिसंघातरि नोपपद्यते ।
तत्सर्वं विज्ञानस्य स्वांशालम्बने ऽनुपपन्नमित्याह-- #अपि च द्वयोर्विज्ञानयोः पूर्वोत्तरकालयोरिति# ।
अपि च भेदाश्रयः कर्मफलभावो नाभिन्ने ज्ञाने भवितुमर्हति ।
नो खलु छिदा छिद्यते किन्तु दारु ।
नापि पाकः पच्यते ऽपि तु तण्डुलाः ।
तदिहापि न ज्ञानं स्वांशेन ज्ञेयमात्मनि वृत्तिविरोधादपि तु तदतिरिक्तोर्ऽथः,पाच्या इव तण्डुलाः पाकातिरिक्ता इति ।
भूमिरचनापूर्वकमाह- #- किञ्चान्यत् ।
विज्ञानं विज्ञानमित्यभ्युपगच्छेतेति# ।
चोदयति #- ननु विज्ञानस्य स्वरूपव्यतिरिक्तग्राह्यत्व इति# ।
अयमर्थः-- स्वरूपादतिरिक्तमर्थं चेद्विज्ञानं गृह्णाति ततस्तदप्रत्यक्षं सन्नर्थं प्रत्यक्षयितुमर्हति ।
न हि चक्षुरिव तन्निलीनमर्थे कञ्चनातिशयमाधत्ते, येनार्थमप्रत्यक्षं सत्प्रत्यक्षयेत् ।
अपितु तत्प्रत्यक्षतैवार्थप्रत्यक्षता ।
यथाहुः-- ऽअप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यतिऽइति ।
तच्चेत् ज्ञानान्तरेण प्रतीयेत तदप्रतीतं नार्थविषयं ज्ञानमपरोक्षयितुमर्हति ।
एवं तत्तदित्यनवस्था तस्मादनवस्थाया बिभ्यता वरं स्वात्मनि वृत्तिरास्थिता ।
अपिच यथा प्रदीपो न दीपान्तरमपेक्षते, एवं ज्ञानमपि न ज्ञानान्तरमपेक्षितुमर्हति समत्वादिति ।
तदेतत्परिहरति-- #तदुभयमप्यसत् ।
विज्ञानग्रहणमात्र एव विज्ञानसाक्षिणो ग्रहणाकाङ्क्षानुत्पादादनवस्थाशङ्कानुपपत्तेः# ।
अयमर्थः-- सत्यमप्रत्यक्षस्योपलम्भस्य नार्थदृष्टिः प्रसिध्यति, न तूपलब्धारं प्रति तत्प्रत्यक्षत्वायोपलम्भान्तरं प्रार्थनीयम्, अपितु तस्मिन्निन्द्रियार्थसंनिकर्षादन्तः करणविकारभेद उत्पन्नमात्र एव प्रभातुरर्थश्चोपलम्भश्च प्रत्यक्षौ भवतः ।
अर्थो हि निलीनस्वभावः प्रमातारं प्रति स्वप्रत्यक्षत्वायान्तःकरणविकारभेदमनुभवमपेक्षते, अनुभवस्तु जडो ऽपि स्वच्छतया चैतन्यूबिम्बोद्ग्रहणाय नानुभवान्तरमपेक्षते, येनानवस्था भवेत् ।
नह्यस्ति संभवो ऽनुभव उत्पन्नश्च,न च प्रमातुः प्रत्यक्षो भवति, यथा नीलादिः ।
तस्माद्यथा छेत्ता छिदया छेद्यं वृक्षादि व्याप्नोति, न तु छिदा छिदान्तरेण, नापि छिदैव छेत्री, किन्तु स्वत एव देवदत्तादिः, यथा वा पक्ता पाक्यं पाकेन व्याप्नोति ननु पाकं पाकान्तरेण, नापि पाक एव पक्ता किन्तु स्वत एव देवदेत्तादिः, एवं प्रमाता प्रमेयं नीलादि प्रमया व्याप्नोति न तु प्रमां प्रमान्तरेण, नापि प्रमैव प्रमात्री, किन्तु स्वत एव प्रमायाः प्रमाता व्यापकः ।
न च प्रमातरि कूटस्थनित्यचैतन्ये प्रमापेक्षासंभवो यतः प्रमातुः प्रमायाः प्रमात्रन्तरापेक्षायामनवस्था भवेत् ।
तस्मात् सुष्ठूक्तं ऽविज्ञानग्रहणमात्र एव विज्ञानसाक्षिणः प्रमातुः कूटस्थनित्यचैतन्यस्य ग्रहणकाङ्क्षानुत्पादात्ऽ इति ।
यदुक्तं ऽसमत्वादवभास्यावभासकभावानुपपत्तेःऽइति ।
तत्राह- #साक्षिप्रत्यययोश्च स्वभाववैषम्यादुपलब्ध्रुपलभ्यभावोपपत्तेः# ।
मा भूत् ज्ञानयोः साम्येन ग्राह्यग्राहकभावः ।
ज्ञातृज्ञानयोस्तु वैषम्यादुपपद्यत एव ।
ग्राह्यत्वं च ज्ञानस्य न ग्राहकक्रियाजनितफलशालितया यथा बाह्यार्थस्य, फले फलान्तरानुपपत्तेः. यथाहुः-- ऽन संविदर्यते फलत्वात्ऽ इति ।
अपि तु प्रमातारं प्रति स्वतःसिद्धप्रकटतया ।
ग्राह्यो ऽप्यर्थः प्रमातारं प्रति सत्यां संविदि प्रकटः संविदपि प्रकटा ।
यथाहुरन्ये-- नास्याः कर्मभावो विद्यते इति ।
स्यादेतत्ष यत्प्रकाशते तदन्येन प्रकाश्यते यथा ज्ञानार्थौ तथा च साक्षिति नास्ति प्रत्ययसाक्षिणोर्वैषम्यमित्यत आह-- #स्वयंसिद्धस्य च साक्षिणो ऽप्रत्याख्येयत्वात्# ।
तथाहि-- अस्य साक्षिणः सदासंदिग्धाविपरीतस्य नित्यसाक्षात्कारतानागन्तुकप्रकाशत्वे घटते ।
तथाहि-- प्रमाता संदिहानो ऽप्यसंदिग्धो विपर्यस्यन्नप्यविपरीतः परोक्षमर्थमुत्प्रेक्षमाणो ऽप्यपरोक्षः स्मरन्नप्यनुभविकः प्राणभृन्मात्रस्य ।
न चैतदन्याधीनसंवेदनत्वे घटे ।
अनवस्थाप्रसङ्गश्चोक्तः ।
तस्मात्स्वयंसिद्धतास्यानिच्छताप्यप्रत्याख्येया प्रमाणमार्गयत्तत्वादिति ।
किञ्चोक्तेन क्रमेण ज्ञानस्य स्वयमवगन्तृत्वाभावात्प्रमातुरनभ्युपगमे #च प्रदीपवद्विज्ञानमवभासकान्तरनिरपेक्षं स्वयमेव प्रथत इति ब्रुवताप्रमाणगम्यं विज्ञानमनवगन्तृकमित्युक्तं स्यात् ।
शिलाघनमध्यस्थप्रदीपसहस्रप्रथनवत्# ।
अवगन्तुश्चेत्कस्यचिदपि न प्रकाशते कृतमवगमेन स्वयंप्रकाशेनेति ।
विज्ञानमेवावगन्त्रिति मन्वानः शङ्कते-- #बाढमेवम् ।
अनुभवरूपत्वादिति# ।
न फलस्य कर्तृत्वं कर्मत्वं वास्तीति प्रदीपवत्कर्त्रन्तरमेषितव्यं, तथा च न सिद्धसाधनमिति परिहरति-- #न ।
अन्यस्यावगन्तुरिति# ।
ननु साक्षिस्थाने ऽस्त्वस्मदभिमतमेव विज्ञानं तथा च नाम्न्येव विप्रतिपत्तिर्नार्था इति शङ्कते-- #साक्षिणो ऽवगन्तुः स्वयंसिद्धतामुपक्षिपता#अभिप्रेय #ता स्वयं प्रथते विज्ञानमित्येष एवेति# ।
निराकरोति-- #नेति# ।
भवन्ति हि विज्ञानस्योत्पादादयो धर्मा अभ्युपेतास्तथा चास्य फलतया नावगन्तृत्वं, कर्तृफलभावस्यैकत्र विरोधात् ।
किन्तु प्रदीपादितुल्यतेत्यर्थः
#वैधर्म्याच्च न स्वप्नादिवत्# ।
बाधाबाधौ वैधर्म्यम् ।
स्वप्नप्रत्ययो बाधितो जाग्रत्प्रत्ययश्चाबाधितः ।
त्वयापि चावश्यं जाग्रत्प्रत्ययस्याबाधितत्वमास्थेयं, तेन हि स्वप्नप्रत्ययो बाधितो मिथ्येत्यवगम्यते ।
जाग्रत्प्रत्ययस्य तु बाध्यत्वे स्वप्नप्रत्ययस्यासौ न बाधको भवेत् ।
नहि बाध्यमेव बाधकं भवितुमर्हति ।
तथा च न स्वप्नप्रत्ययो मिथ्येति साध्यविकलो दृष्टान्तः स्यात् स्वप्नवदिति ।
तस्माद्बाधाबाधाभ्यां वैधर्म्यान्न स्वप्नप्रत्ययदृष्टान्तेन जाग्रत्प्रत्ययस्य शक्यं निरालम्बनत्वमध्यवसातुम् ।
#निद्राग्लानमिति# ।
करणदोषाभिदानम् ।
मिथ्यात्वाय वैधर्म्यान्तरमाह- #- अपि च स्मृतिरेवेति# ।
संस्कारमात्रजं हि विज्ञानं स्मृतिः ।
प्रत्युत्पन्नेन्द्रियसंप्रयोगलिङ्गशब्दसारूप्यान्यथानुपपद्यमानयोग्यप्रमाणानुत्पत्तिलक्षणसामग्रीप्रभवं तु ज्ञानमुपलब्घिः ।
तदिह निद्राणस्यसामग्र्यन्तरविरहात्संस्कारः परिशिष्यते, तेन संस्कारजत्वात्स्मृतिः, सापि च निद्रादोषाद्विपरीतावर्तमानमपि पित्रादि वर्तमानतया भासयति ।
तेन स्मृतेरेव तावदुपलब्धेर्विशेषस्तस्याश्च स्मृतेर्वैपरीत्यमिति ।
अतो महदन्तरमित्यर्थः ।
अपि च स्वतःप्रामाण्ये सिद्धे जाग्रत्प्रत्ययानां यथार्थत्वमनुभवसिद्धं नानुमानेनान्यथयितुं शक्यम्, अनुभवविरोधेन तदनुत्पादात् ।
अबादितविषयताप्यनुमानोत्पादसामग्रीग्राह्यतया प्रमाणम् ।
न च कारणाभावे कार्यमुत्पत्तुमर्हतीत्याशयवानाह- #अपि चानुभवविरोधप्रसङ्गादिति ।
29 ॥
न भावो ऽनुपलब्धेः# ।
यथालोकदर्शनं चान्वयव्यतिरेकावनुश्रियमाणावर्थ एवोपलब्धेर्भवतो नार्थानपेक्षायां वासनायाम् ।
वासनाय अप्यर्थोपलब्ध्यधीनत्वदर्शनादित्यर्थः ।
अपि चाश्रयाभावादपि न लौकिकी वासनोपपद्यते ।
न च क्षणिकमालयविज्ञानं वासनाधारो भवितुमर्हति ।
द्वयोर्युगपदुत्पद्यमानयोः सव्यदक्षिणशृङ्गवदाधाराधेयभावाभावात् ।
प्रागुत्पन्नस्य चाधेयोत्पादसमये ऽसतः क्षणिकत्वव्याघात इत्याशयवानाह-- #अपि च वासना नामेति# ।
शेषमतिरोहितार्थम्
#क्षणिकत्वाच्च# ।
स्यादेतत् ।
यदि साकारं विज्ञानं संभवति बाह्यश्चार्थः स्थूलसूक्ष्मविकल्पेनासंभवी हन्तैवमर्थज्ञाने सत्तेन तावद्विचारं न सहेते ।
नाप्यसत्त्वेन, असतो भासनायोगात् ।
नोभयत्वेन, विरोधात्सदसतोरेकत्रानुपपत्तेः ।
नाप्यनुभयत्वेन,एकनिषेधस्येतरविधाननान्तरीयकत्वात् ।
तस्माद्विचारासहत्वमेवास्तु तत्त्वं वस्तूनाम् ।
यथाहुः--ऽइयं वस्तु बलायातं यद्वदन्ति विपश्चितः ।
यथा यथार्थाश्चिन्त्यन्ते विविच्यन्ते तथा तथा ॥
ऽइति ॥
न क्वचिदपि पक्षे व्यवतष्ठन्त इत्यर्थः ।
तदेतन्निराचिकीर्षुराह- #- शून्यवादिपक्षस्तु सर्वप्रमाणविप्रतिषिद्ध इति तन्निराकरणाय नादरः क्रियते# ।
लौकिकानि हि प्रमाणानि सदसत्त्वगोचराणि ।
तैः खलु सत्सदिति गृह्यमाणं यथाभूतमविपरीतं तत्त्वं व्यवस्थाप्यते ।
असच्चासदिति गृह्यमाणं यथाभूतमविपरीतं तत्त्वं व्यवस्थाप्यते ।
सदसतोश्च विचारासहत्वं व्यवस्थापयता सर्वप्रमाणविप्रतिषिद्धं व्यवस्थापितं भवति ।
तथा च सर्वप्रमाणविप्रतिषेधान्नेयं व्यवस्थोपपद्यते ।
यद्युच्येत तात्त्विकं प्रामाण्यं प्रमाणानामनेन विचारेण व्युदस्यते न सांव्यवहारिकम् ।
तथाच भिन्नविषयत्वान्न सर्वप्रमाणविप्रतिषेध इत्यत आह-- #नह्येयं सर्वप्रमाणप्रसिद्धो ललोकव्यवहारो ऽन्यत्तत्वमनधिगम्य शक्यते ऽपह्नोतुम्# ।
प्रमाणानि हि स्वगोचरे प्रवर्तमानानि तत्त्वमिदमित्येव प्रवर्तन्ते ।
अतात्त्विकत्वं तु तद्गोचरस्यान्यतो बाधकादवगन्तव्यम् ।
न पुनः सांव्यवहारिकं नः प्रामाण्यं न तु तात्त्विकमित्येव प्रवर्तन्ते ।
बाधकं चातात्त्विकत्वमेषां तद्गोचरविपरीततत्त्वोपदर्शनेन दर्शयेत् ।
यथा शुक्तिकेयं न रजतं मरीचयो न तोयमेकश्चन्द्रो न चन्द्रद्वयमित्यादि, तद्वदिहापि समस्तप्रमाणगोचरविपरीततत्त्वान्तरव्यवस्थापनेनातात्त्विकत्वमेषां प्रमाणानां बाधकेन दर्शनीयं न त्वव्यवस्थापिततत्त्वान्तरेण प्रमाणानि शक्यानि बाधितुम् ।
विचारासहत्वं वस्तूनां तत्त्वं व्यवस्थापयद्बाधकमतात्त्विकत्वं प्रमाणानां दर्शयतीति चेत्, किं पुनरिदं विचारासहत्वं वस्तु यत्तत्त्वमभिमतं, किं तद्वस्तु परमार्थतः सदादीनामन्यतमत् केवलं विचारं न सहते, अथ विचारासहत्वेन निस्तत्त्वमेव ।
तत्र परमार्थतः सदादीनीमन्यतमद्विचारं न सहत इति विप्रतिषिद्धम् ।
न सहते चेन्न सदादीनामन्यतमत् ।
अन्यतमच्चेत् कथं न विचारं सहते ।
अथ निस्तत्त्वं चेत् कथमन्यतमत्तत्त्वमव्यवस्थाप्य शक्यमेवं वक्तुम् ।
न च निस्तत्त्वतैव तत्त्वं भावानाम् ।
तासति हि तत्त्वाभावः स्यात् ।
सो ऽपि च विचारं न सहत इत्युक्तं भवद्भिः ।
अपि चारोपितं निषेधनीयम् ।
आरोपश्च तत्त्वाधिष्ठानो दृष्टो यथा शुक्तिकादिषु रजतादेः ।
न चेत् किञ्चिदस्ति तत्त्वं कस्य कस्मिन्नारोपः ।
तस्मान्निष्प्रपञ्चं परमार्थसब्रह्मानिर्वाच्यप्रपञ्चात्मनारोप्यते, तच्च तत्त्वं व्यवस्थाप्यातात्त्विकत्वेन सांव्यवहारिकं प्रमाणानां बाधकेनोपपद्यत इति युक्तमुत्पश्यामः
#सर्वथानुपपत्तेश्च# ।
विराजते- #किं बहुना#उक्तेन #यथायथा#ग्रन्थतोर्ऽथतश्च #अयं वैनाशिकसमय इति# ।
ग्रन्थतस्तावत्पश्यनातिष्ठनामिद्धपोषधाद्यसाधुपदप्रयोगः ।
अर्थतश्च नैरात्म्यमभ्युपेत्यालयविज्ञानं समस्तवासनाधारमभ्युपगच्छन्नक्षरमात्मानमभ्युपैति ।
एवं क्षणिकत्वमभ्युपेत्य ऽउत्पादाद्वा तथागतानामनुत्पादाद्वा स्थितैवैषां धर्माणां धर्मता धर्मस्थितिताऽइति नित्यतामुपैतीत्यादि बहून्नेतव्यमिति
#नैकस्मिन्नसंभवात्# ।
निरस्तो मुक्तकच्छानां सुगतानां समयः ।
विवसनानां समय इदानीं निरस्यते ।
तत्समयमाह संक्षेपविस्ताराभ्याम् ।
#सप्त चैषां पदार्थाः संमता इति# ।
तत्र संक्षेपमाह-- #संक्षेपतस्तु द्वावेव पदार्थाविति# ।
बोधात्मको जीवो जडवर्गस्त्वजीव इति ।
यथायोगं तयोर्जीवाजीवयोरिममपरं प्रपञ्चमाचक्षते ।
तमाह-- #पञ्चास्तिकाया नामेति ।
सर्वेषामप्येषामवान्तरप्रभेदानिति# ।
जीवास्तिकायस्त्रिधा-- बद्धो मुक्तो नित्यसिद्धश्चेति ।
पुद्गलास्तिकायाः षोढा- पृथिव्यादीनि चत्वारि भूतानि स्थारं जङ्गमं च्ति धर्मास्तिकायः प्रवृत्त्यनुमेयो ऽधर्मास्तिकायाः स्थित्यनुमेयः ।
आकाशास्तिकायो द्वेधा- लोकाकाशो ऽलोकाकाशश्च ।
तत्रोपर्युपरि स्थितानां लोकानामन्तर्वर्ती लोकाकाशस्तेषामुपरि मोक्षस्थानमलोकाकाशः ।
तत्र हि न लोकाः सन्ति ।
तदेवं जीवाजीवपदार्थौ पञ्चधा प्रपञ्चितौ ।
आस्रवसंवरनिर्जरास्त्रयः पदार्थाः प्रवृत्तिलक्षणाः प्रपञ्च्यते ।
द्विधा प्रवृत्तिः सम्यङ्मिथ्या च ।
तत्र मिथ्या प्रवृत्तिरास्रवः. सम्यक्प्रवृत्ती तु संवरनिर्जरौ ।
आस्रावयति पुरुषं विषयेष्वितीन्द्रियप्रवृत्तिरास्रवः ।
इन्द्रियद्वारा हि पौरुषं ज्योतिर्विषयान् स्पृशद्रूपादिज्ञानरूपेण परिणमत इति ।
अन्ये तु कर्माण्यास्रवमाहुः ।
तानि हि कर्तारमभिव्याप्य स्रवन्ति कर्तारमनुगच्छन्तीत्यास्रवः ।
सेयं मिथ्याप्रवृत्तिरनर्थहेतुत्वात् ।
संवरनिर्जरौ च सम्यक्प्रवृत्ती ।
तत्र शमदमादिरूपा प्रवृत्तिः संवरः ।
सा ह्यास्रवस्रोतसो द्वारं संवृणोताति संवर उच्यते ।
निर्जरस्त्वनादिकालप्रवृत्तिकषायकलुषपुण्यापुण्यप्रहाणहेतुस्तप्तशिलारोहणादिः ।
स हि निःशेषं पुण्यापुण्यं सुखदुःखोपभोगेन जरयतीति निर्जरः ।
बन्धो ऽष्टविधं कर्म ।
तत्र घातिकर्म चतुर्विधम् ।
तद्यथा-- ज्ञानावरणीयं दर्शनावरणीयं मोहनीयमन्तरायमिति ।
तथा चत्वार्यघातिकर्माणि ।
तद्यथा-- वेदनीयं नामिकं गोत्रिकमायुष्कं चेति ।
तत्र सम्यग् ज्ञानं न मोक्षसाधनं, नहि ज्ञानाद्वस्तुसिद्धिरतिप्रसङ्गादिति विपर्ययो ज्ञानावरणीयं कर्मोच्यते ।
आहर्तदर्शनाभ्यासान्न मोक्ष इति ज्ञानं दर्शनावरणीयं कर्म ।
बहुषु विप्रतिषिद्धेषु तीर्थकरैरुपदर्शितेषु मोक्षमार्गेषु विशेषानवधारणं मोहनीयं कर्म ।
मोक्षमार्गप्रवृत्तानां तद्विध्नकरं विज्ञानमन्तरायं कर्म ।
तानीमानि श्रेयोहन्तृत्वाद्धातिकर्माण्युच्यन्ते ।
अघातानि कर्माणि, तद्यथा वेदनीयं कर्म शुक्लपुद्गलविपाकहेतुः,तद्धि बन्धो ऽपि न निःश्रेयसपरिपन्थि तत्त्वज्ञानाविघातकत्वात् ।
शुक्लपुद्गलारम्भकवेदनीयकर्मानुगुणं नामिकं कर्म, तद्धि शुक्लपुद्गलस्याद्यावस्थां कललबुद्धुदादिमारभते ।
गोत्रिकमव्याकृतं ततो ऽप्याद्यं शक्तिरूपेणावस्थितम् ।
आयुष्कं त्वायुः कायति कथयत्युत्पादनद्वारेत्यायुष्कम् ।
तान्येतानि शुक्लपुद्गलाद्याश्रयत्वादघातीनि कर्माणि ।
तदेतत् कर्माष्टकं पुरुषं बन्धातीति बन्धः ।
विगलितसमस्तक्लेशतद्वासनस्यानावरणज्ञानस्य सुखकतानस्यात्मन उपरि देशावस्थानं मोक्ष इत्येके ।
अन्ये तूर्ध्वगमनशीलो हि जीवो धर्माधर्मास्तिकायेन बद्धस्तद्धिमोक्षाद्यदूर्ध्वं गच्छेत्येव स मोक्ष इति ।
त एते सप्तपदार्था जीवादयः सहावान्तरप्रभेदैरपन्यस्ताः ।
तत्र #सर्वत्र चेमं सप्तभङ्गीनयं नाम न्यायमवतारयन्ति, स्यादस्ति, स्यान्नास्ति, स्यादस्ति च नास्ति च, स्यादवक्तव्यः, स्यादस्ति चावक्तव्यश्च, स्यान्नास्ति चावक्तव्यश्च, स्यादस्ति च नास्ति चावक्तव्यश्चेति# ।
स्याच्छब्दः खल्वयं निपातस्तिङन्तप्रतिरूपको(?) ऽनेकान्तद्योती ।
यथाहुः--ऽवाक्येष्वनेकान्तद्योति गम्यं प्रतिविशेषणम् ।
स्यान्निपातोर्ऽथयोगित्वात्तिङन्तप्रतिरूपकः(?) ॥
ऽइति ॥
यदि पुनरयमनेकान्तद्योतकः स्याच्छब्दो न भवेत् स्यादस्तीतिवाक्ये स्यात्पदमनर्थकं स्यात् तदिदमुक्तम्-- ऽअर्थयोगित्वात्ऽइति ।
अनैकान्तद्योतकत्वे तु स्यादस्ति कथञ्चिदस्तीति स्यात्पदात्कथञ्चिदर्थो ऽस्तीत्यनेनानुक्तः प्रतीयत इति नानर्थक्यम् ।
तथा च ऽस्याद्वादः सर्वथैकान्तत्यागात्किंवृत्तचिद्विधेः ।
सप्तभङ्गनयापेक्षोहेयादेयविशेषकृत् ॥
ऽकिंवृत्ते प्रत्यये खल्वयं चिन्निपातविधिना सर्वथैकान्तत्यागात् सप्तस्वेकान्तेषु यो भङ्गस्तत्र यो नयस्तदपेक्षः सन् हेयोपादेयभेदाय स्याद्वादः कल्पते ।
तथाहि-- यदि वस्त्वस्त्येवेत्येवैकान्ततस्तत् सर्वथा सर्वदा सर्वत्र सर्वात्मनास्त्येवेति न तदीप्साजिहासाभ्यां क्वचित् कदाचित् कथञ्चित् कश्चित् प्रवर्तेत निवर्तेत वा प्राप्ताप्रापणीयत्वात्, हेयहानानुपपत्तेश्च ।
अनैकान्तपक्षे तु क्वचित् कदाचित् कस्यचित् कथञ्चित् सत्त्वे हानोपादाने प्रेक्षावतां कल्पेते इति ।
तमेनं सप्तभङ्गीनयं दूषयति-- #नैकस्मिन्नसंभवात्# ।
विभाजते-- #न ह्येकस्मिन्धर्मणि#परमार्थसति परमार्थसतां #युगपत्सत्त्वादीनां धर्माणां#परस्परपरिहारस्वरूपाणां #समावेशः संभवति# ।
एतदुक्तं भवति-- सत्यं यदस्ति वस्तुतस्तत्सर्वथा सर्वदा सर्वत्र सर्वात्मना निर्वचनीयेन रूपणास्त्येव न नास्ति, यथा प्रत्यगात्मा ।
यत्तु क्वचित् कथञ्चित् कदाचित् केनचिदात्मनास्तीत्युच्यते, यथा प्रपञ्चः, तद्व्यवहारतो न तु परमार्थतः, तस्य विचारासहत्वात् ।
न च प्रत्ययमात्रं वास्तवत्वं व्यवस्थापयति, शुक्तिमरुमरीचिकादिषु रजततोयादेरपि वास्तवत्वप्रसङ्गात् ।
लौकिकानामबाधेन तु तद्व्यवस्थायां देहात्माभिमानस्याप्यबाधेन तात्त्विकत्वे सति लोकायतमतापातेन नास्तिकत्वप्रसङ्गात् ।
पण्डितरूपाणां तु देहात्माभिमानस्य विचारतो बाधनं प्रपञ्चस्याप्यनैकान्तस्य तुल्यमिति ।
अपि च सदसत्त्वयोः परस्परविरुद्धत्वेन समुच्चयाभावे विकल्पः ।
न च वस्तुनि विकल्पः संभवति ।
तस्मात् स्थाणुर्वा पुरुषो वेति ज्ञानवत् सप्तत्वपञ्चत्वनिर्धारणस्य फलस्य निर्धारयितुश्च प्रमातुस्तत्करणस्य प्रमाणस्य च तत्प्रमेयस्य च सप्तत्वपञ्चत्वस्य सदसत्त्वसंशये साधु समर्थितं तीर्थकरत्वभृषेभेणात्मनः ।
निर्धारणस्य चैकान्तसत्त्वे सर्वत्र नानेकान्तवाद इत्याह-- #य एते सप्त पदार्था इति# ।
शेषमतिरोहितार्थम्
#एवं चात्माकार्त्स्त्न्यम्# ।
एवं चेति चेन समुच्चयं द्योतयति ।
शरीरपरिणत्वे ह्यात्मनो ऽकृत्स्नत्वं परिच्छिन्नत्वम् ।
तथा चानित्यत्वम् ।
ये हि परिच्छिन्नास्ते सर्वे ऽनित्या यथा घटादयस्तथा चात्मेति ।
तदेतदाह-- #यथैकस्मिन्धर्मिणीति# ।
इदं चापरमकृत्स्नत्वेन सूत्रितमित्याह-- #शरीराणां चानवस्थितपरिमाणत्वादिति# ।
मनुष्यकायपरिमाणो हि जीवो न हस्तिकायं कृत्स्नं व्याप्तुमर्हत्यल्पत्वादित्यात्मनः कृत्स्नशरीराव्यापित्वादकार्त्स्न्यम्, तथा च न शरीरपरिमाणत्वमिति ।
तथा च हस्तिशीररं परित्यज्य यदा पुत्तिकाशरीरो भवति तदा न तत्र कृत्स्नः पुत्तिकाशरीरे संमीयेतेत्यकार्स्न्यमात्मनः ।
सुगममन्यत् ।
चोदयति-- #स्यादेतत् ।
अनन्तावयव इति# ।
यथा हि प्रदीपो घटमहाहर्म्योदरवर्ती संकोचविकाशवानेवं जीवो ऽपि पुत्तिकाहस्तिदेहयोरित्यर्थः ।
तदेतद्विकल्प्य दूषयति-- #तेषां पुनरनन्तानामिति# ।
न तावत्प्रदीपो ऽत्र निदर्शनं भवितुमर्हति, अनित्यत्वप्रसङ्गात् ।
विशरारवो हि प्रदीपावयवः #,#प्रदीपश्चावयवी प्रतिक्षणमुत्पत्तिनिरोधधर्मा, तस्मादनित्यत्वात्तस्य नास्थिरो जीवस्तदवयवाश्चाब्युपेतव्याः ।
तथा च विकल्पद्वयोक्तं दूषणमिति ।
यच्च जीवावयवानामानन्त्यमुदितं तदनुपपन्नतरमित्याह-- #अपि च शरीरमात्रेति#
शङ्कापूर्वं सूत्रान्तरमवतारयति- #अथ पर्यायेणेति# ।
तत्राप्युच्यते-- #न च पर्यायादप्यविरोधो विकारादिभ्यः ।
कर्माष्टक#मुक्तं ज्ञानावरणीयादि ।
किं चात्मनो नित्यत्वाभ्युपगमे आगच्छतामपगच्छतां चावयवानामियत्तानिरूपेणेन चात्मज्ञानाभावान्नापवर्ग इति भावः ।
#अत एवमादिदोषप्रसङ्गादिति# ।
आदिग्रहणसूचितं दोषं ब्रूमः ।
किं चैते जीवावयवाः प्रत्येकं वा चेतयेरन् समूहो वा ।
तेषां प्रत्येकं चैतन्ये बहूनां चेतनानामेकाभिप्रायत्वनियमाभावात् कदाचिद्विरुद्धदिक्क्रियत्वेन शरीरमुन्मथ्येत ।
समूहचैतन्ये तु हस्तिशरीरस्य पुत्तिकाशरीरत्वे द्वित्रावयवशेषो जीवो न चेतयेत् ।
विगलितबहुसमूहितया समूहस्याभावात्पुत्तिकाशरीरे इति ।
#अथवेति# ।
पूर्वसूत्रप्रसञ्जितायां जीवानित्यतायां बौद्धवत्संताननित्यतामाशङ्क्येदं सूत्रम्-- ऽन च पर्यायादप्यविरोधो विकारादिभ्यःऽ ।
न च पर्यायात् परिमाणानवस्थाने ऽपि संतानाभ्युपगमेनात्मनो नित्यत्वादविरोधो बन्धमोक्षयोः ।
कुतः ।
परिणामादिभ्यो दोषेभ्यः ।
संतानस्य वस्तुत्वे परिणामस्ततश्चर्मवदनित्यत्वादिदोषप्रसङ्गः ।
अवस्तुत्वे चादिग्रहणसूचितो नैरात्म्यापत्तिदोषप्रसङ्ग इति ।
विसिचो विवसनाः
#अन्त्यावस्थितेश्चोभयनित्यत्वादविशेषः# ।
एवं हि मोक्षावस्थाभावि जीवपरिमाणं नित्यं भवेत्,यद्यभूत्वा न भवेत् ।
अभूत्वा भाविनामन्त्यत्वाद्धटदीनाम् ।
कथं चाभूत्वा न भवेद्यदि प्रागप्यासीत् ।
न च परिमाणान्तरावरोधे ऽपूर्वं भवितुमर्हति ।
तस्मादन्त्यमेव परिमाणं पूर्वमप्यासीदित्यभेदः ।
तथा चैकशरीरपरिमाणतैव स्यान्नोपचितापचितशरीरप्राप्तिः शरीरपरिमाणत्वाभ्युपगमव्याघातादिति ।
अत्र चोभयोः परिमाणयोर्नित्यत्वप्रसङ्गादिति योजना ।
एकशरीरपरिमाणतैवेति च दीप्यम् ।
द्वितीये तु व्याख्याने उभयोरवस्थयोरिति योजना ।
एकशरीरपरिमाणता न दीप्या, किन्त्वेकपरिमाणतामात्रमणुर्महान् वेति विवेकः
#पत्युरसामञ्जस्यात्# ।
अविशेषेणेश्वरकारणवादो ऽनेन निषिध्यत इति भ्रमनिवृत्त्यर्थमाह-- #केवलेति# ।
सांख्ययोगव्यपाश्रया हिरण्यगर्भपतञ्जलिप्रभृतयः ।
#प्रधान#मुक्तम् ।
दृक्शक्तिः #पुरुषः#प्रत्ययानुपश्यः ।
स च नानाक्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः प्रधानपुरुषाभ्यामन्यः ।
#माहेश्वरा#श्चत्वारः-- शैवाः, पाशुपताः,कारुणिकसिद्धान्तिनः,कापालिकाश्चेति ।
चत्वारो ऽप्यमी महेश्वरप्रणीतसिद्धान्तानुयायितया माहेश्वराः ।
कारणमीश्वरः ।
कार्यं प्रधानिकं महदादि ।
योगो ऽप्योङ्कारादिध्यानदारणादिः ।
विधिस्त्रिषवणस्नानादिर्गूढचर्यावसानः,दुःखान्तो मोक्षः ।
पशव आत्मानस्तेषां पाशो बन्धनं तद्धिमोक्षो दुःखान्तः ।
एष तेषामभिसंधिः-- चेतनस्य खल्वधिष्ठातुः कुम्भकारादेः कुम्भादिकार्ये निमित्तकारणत्वविरोधादिति प्राप्तम् ।
एवं प्राप्ते ऽभिधीयते-- #पत्युरसामञ्जस्यात् इति# ।
इदमत्राकूतम्---ईश्वरस्यनिमित्तकारणत्वमात्रप्रतिपादनपरत्वादित्यसकृदावेदितम् ।
तस्मादनेनास्मिन्नर्थे प्रमाणान्तरमास्थेयम् ।
तत्रानुमानं तावन्न संभवति ।
तद्धि दृष्ट्यनुसारेण प्रवर्तते तदनुसारेण चासामञ्जस्यम् ।
तदाह-- #हीनमध्यमेति# ।
एतदुक्तं भवति-- आगमादीश्वरसिद्धौ न दृष्टमनुसर्तव्यम् ।
न हि स्वर्गापूर्वदेवतादिष्वागमादवगम्यमानेषु किञ्चिदस्ति दृष्टम् ।
नह्यागमो दृष्टसाधर्म्यात्प्रवर्तते ।
तेन श्रुतसिद्द्यर्थमदृष्टानि दृष्टविपरीतस्वभावानि सुबहून्यपि कल्पमानानि न लोहगन्धितामावहन्ति प्रमाणवत्त्वात् ।
यस्तु तत्र कथञ्चिद्दृष्टानुसारः क्रियते स सुहृद्भावमात्रेण ।
आगमानपेक्षितमनुमानं तु दृष्टसाधर्म्येण प्रवर्तमानं दृष्टविवर्यये तुषादपि बिभेतितरामिति ।
#प्राणिकर्मापेक्षितत्वाददोष इति चेत् ।
न# ।
कुतः ।
#कर्मेश्वरयोर्मिथः प्रवर्त्यप्रवर्तयितृत्व इतरेतराश्रयत्वदोषप्रसङ्गात्# ।
अयमर्थः-- यदीश्वरः करुणापराधीनो वीतरागस्ततः प्रणिनः कपूये कर्मणि न प्रवर्तयेत्,तच्चोत्पन्नमपि नाधितिष्ठेत्,तावन्मात्रेण प्राणिनां दुःखानुत्पादात् ।
न हीश्वराधीना जनाः स्वातन्त्र्येण कपूयं कर्म कर्तुमर्हन्ति ।
तदनधिष्ठितं वा कपूयं कर्म फलं प्रसोतुमुत्सहते ।
तस्मात्स्वतन्त्रो ऽपीस्वरः कर्मभिः प्रवर्त्यत इति दृष्टविपरीतं कल्पनीयम् ।
तथाचायमपरो गण्डस्योपरि स्फोट इतरेतराश्रयः प्रसज्येत, कर्मणेश्वरः प्रवर्तनीय ईश्वरेण च कर्मेति ।
शङ्कते-- #नानादित्वादिति चेत्# ।
पूर्वकर्मणेश्वरः संप्रतितने कर्मणि प्रव्रर्त्यते तेनेश्वरेण संप्रतितनं कर्म स्वकार्ये प्रवर्त्येत इति ।
निराकरोति-- #न वर्तमानकालवदिति# ।
अथ पूर्वं कर्म कथमीश्वराप्रवर्तितमीश्वरप्रवर्तनलक्षणं कार्यं करोति ।
तत्रापि प्रवर्तितमीश्वरेण पूर्वतनकर्मप्रवर्तितेनेत्येवमन्धपरम्परादोषः ।
चक्षुष्मता ह्यन्धो नीयते नान्धान्तरेण ।
तथेहापि द्वावपि प्रवर्त्याविति कः कं प्रवर्तयेदित्यर्थः ।
अपिच नैयायिकानामीश्वरस्य निर्देषत्वं स्वसमयविरुद्धमित्याह-- #अपिचेति# ।
अस्माकं तु नायं समय इति भावः ।
ननु कारुण्यादपि प्रवर्तमानो जनो दृश्यते ।
न च कारुण्यं दोष इत्यत आह-- #स्वार्थप्रयुक्त एव चेति# ।
कारुण्ये हि सत्यस्य दुःखं भवति तेन तत्प्रहाणाय प्रवर्तत इति कारुणिका अपि स्वार्थप्रयुक्ता एव प्रवर्तन्त इति ।
ननु स्वार्थप्रयुक्त एव प्रवर्ततामेवमपि को दोष इत्यत आह-- #स्वार्थवत्वादीस्वरस्येति# ।
अर्थित्वादित्यर्थः ।
#पुरुषस्य चौदासीन्याभ्युपगमान्न#वास्तवी प्रवृत्तिरिति ॥37. ॥
अपरमपि दृष्टानुसारेण दूषणमाह-- #संबन्धानुपपत्तेश्च# ।
दृष्टो हि सावयवानामसर्वगतानां च संयोगः ।
अप्राप्तिपूर्विका हि प्राप्तिः संयोगो न सर्वगतानां संभवत्यप्राप्तेरभावान्निरवयवत्वाच्च ।
अव्याप्यवृत्तिता हि संयोगस्य स्वभावः ।
न च निरवयवेष्वव्याप्यवृत्तिता संयोगस्य संभवतीत्युक्तम् ।
तस्मादव्याप्यवृत्तितायाः संयोगस्य व्यापिकाया निवृत्तेस्तद्व्याप्यस्य संयोगस्य विनिवृत्तिरिति भावः ।
नापि समवायलक्षणः ।
स ह्ययुतसिद्धानामाधाराधेयभूतानामिहप्रत्ययहेतुः संबन्ध इत्यभ्युपेयते ।
न च प्रधानपुरुषेश्वराणां मिथो ऽस्त्याधाराधेयभाव इत्यर्थः ।
नापि योग्यतालक्षणः कार्यगम्यसंबन्ध इत्याह-- #नाप्यन्य इति# ।
नहि प्रधानस्य महदहङ्कारादिकारणत्वमद्यापि सिद्धमिति ।
शङ्कते-- #ब्रह्मवादिन इति# ।
निराकरोति- #न# ।
कुतः ।
#तस्य#मते ऽनिर्वचनीय #तादात्म्यलक्षणसंबन्धोपपत्तेः ।
अपिचेति# ।
आगमो हि प्रवृत्तिं प्रति न दृष्टान्तमपेक्षत इत्यदृष्टपूर्वे तद्विरुद्धे च प्रवर्तितुं समर्थः ।
अनुमानं तु दृष्टानुसारि नैवंविधे प्रवर्तितुमर्हतीति ।
शङ्कते-- #परस्यापीति# ।
परिहरति- #नेति# ।
अस्माकं त्वीश्वरागमयोरनादित्वादीश्वरयोनित्वे ऽप्यागमस्य न विरोध इति भावः
#अधिष्ठानानुपपत्तेश्च# ।
यथादर्शनमनुमानं प्रवर्तते नालौकिकार्थविषयमितीहापि न प्रस्मर्तव्यम् ।
सुगममन्यत्
#करणवच्चेन्न भोगादिभ्यः ।
रूपादिहीनमिति# ।
अनुद्भूतरूपमित्यर्थः. रूपादिहीनकरणाधिष्ठानं हि पुरुषस्य स्वभोगादावेव दृष्टं नान्यत्र ।
नहि बाह्यं कुठाराद्यपरिदृष्टं व्यापारयन् कश्चिदुपलभ्यते ।
तस्माद्रूपादिहीनं करणं व्यापारयत ईस्वरस्य भोगादिप्रसक्तिः तथा चानीश्वरत्वमिति भावः ।
कल्पान्तरमाह-- #अन्यथेति.# ।
पूर्वमधिष्ठितिरधिष्ठानमिदानीं तु अधिष्ठानं भोगायतनं शरीरमुक्तम् ।
तथा भोगादिप्रसङ्गेनानीश्वरत्वं पूर्वमापादितम् ।
संप्रति तु शरीरित्वेन भोगादिप्रसङ्गादनीश्वरत्वमुक्तमिति विशेषः
#अन्तवत्वमसर्वज्ञता वा# ।
अपि च सर्वत्रानुमानं प्रमाणयतः प्रधानपुरुषेश्वराणामपि संख्याबेदवत्त्वमन्तवत्त्वं च द्रव्यत्वात् संख्यान्यत्वे सति प्रमेयत्वाद्वानुमातव्यं, ततश्चान्तवत्त्वमसर्वज्ञता वा ।
अस्माकं त्वागमगम्येर्ऽथे तद्बाधितविषयतया नानुमानं प्रभवतीति भावः ।
#स्वरूपपरिमाणमपि#यस्य यादृशमणु महत् परममहद्दीर्घं ह्रस्वं चेति ।
#अथ मा भूदेष दोष इत्युत्तरो विकल्पः# ।
यस्यान्तो ऽस्ति तस्यान्तवत्त्वाग्रहणमसर्वज्ञतामापादयेत् ।
यस्य त्वन्त एव नास्ति तस्य तदग्रहणं नासर्वज्ञतामावहति ।
नहि शशविषाणाद्यज्ञानादज्ञो भवतीति भावः ।
परिहरति-- #तत इति# ।
आगमानपेक्षस्यानुमानमेषामन्तवत्त्वमवगमयतीत्युक्तम्
#उत्पत्त्यसंभवात्# ।
अन्यत्र वेदाविसंवादाद्यत्रांशे विसंवादः स निरस्यते ।
तमंशमाह-- #यत्पुनरिदमुच्यते वासुदेवात्संकर्षणो#जीव #इति# ।
जीवस्य कारणवत्वे सत्यनित्यत्वम्, अनित्यत्वेपरलोकिनो ऽभावात्परलोकाभावः, ततश्च स्वर्गनरकापवर्गाभावापत्तेर्नास्तिक्यमित्यर्थः ।
अनुपपन्ना च जीवस्योत्पत्तिरित्याह-- #प्रतिषेधिष्यति चेति
न च कर्तुः करणम्# ।
यद्यप्यनेकशिल्पपर्यवदातः परशुं कृत्वा तेन पलाशं छिनत्ति,यद्यपि च प्रयत्नेनेन्द्रियार्थात्ममनः संनिकर्षलक्षणं ज्ञानकरणमुपादायात्मार्थं विजानाति, तथापि संकर्षणो ऽकरणः कथं प्रद्युम्नाख्यं मनः करणं कुर्यात् ।
अकरणस्य वा करणनिर्माणसामर्थ्ये कृतं करणनिर्माणेन ।
अकरणादेव निखिलकार्यसिद्धिरिति भावः
#विज्ञानादिभावे वा तदप्रतिषेधः# ।
#वासुदेवा एवैते#संकर्षमादयो #निर्देषा#अविद्यादिदोषरहिताः ।
#निरधिष्ठाना#निरूपादानाः ।
अत एव #निरवद्या#अनित्यत्वादिदोषरहिताः ।
तस्मादुत्पत्त्यसंभवो ऽनुगुणत्वान्न दोष इत्यर्थः ।
#अत्रोच्यते-- एवमपीति# ।
मा भूदब्युपगमेन दोषः, प्रकारान्तरेण त्वयमेव दोषः ।
प्रश्नपूर्वं प्रकारान्तरमाह- #कथम् ।
यदि तावदिति# ।
न तावदेते परस्परं भिन्ना ईश्वराः परस्परव्याहतेच्छा भवितुमर्हन्ति ।
व्याहतकामत्वे च कार्यानुत्पादात् ।
अव्याहतकामत्वे वा प्रत्येकमीश्वरत्वे एकेनैवेशनायाः कृतत्वादानर्थक्यमितरेषाम् ।
संभूय चेशनायां परिशुद्धो न कश्चिद्दीश्वरः स्यात्, सिद्धान्तहानिश्च ।
भगवानेवैको वासुदेवः परमार्थतत्त्वमित्यभ्युपगमात् ।
तस्मात्कल्पान्तरमास्थेयम् ।
तत्र चोत्पत्त्यसंभवो दोष इत्याशयवान् कल्पान्तरमुपन्यस्योत्पत्त्यसंभवेनापाकरोति-- #अथायमभिप्राय इति# ।
सुगममन्यत्
#विप्रतिषेधाच्च# ।
गुणिभ्यः खल्वात्मभ्यो ज्ञानादीन् गुणान् भेदेनोक्त्वा पुनरभेदं ब्रूते-- #आत्मान एवैते भगवन्तो वासुदेवा इति# ।
आदिग्रहणेन प्रद्युम्नानिरुद्धयोर्मनो ऽहङ्कारलक्षणतयात्मनो भेदमभिधायात्मन एवैत इति तद्विरुद्धाभेदाभिधानमपरं संगृहीतम् ।
वेदविप्रतिषेधो व्याख्यातः
मूल पाठ: Bhāmati a commentary on Śaṃkara's Brahmasūtrabhāṣya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0