भामति · अध्याय 18
#इति द्वितीयाध्यायस्य सांख्यायोगकारणदादिस्मृतिभिः सांख्यादिप्रयुक्ततर्कैश्च वेदान्तसमन्वयविरोधपरिहाराख्यः प्रथमः पादः#
#द्वितीयाध्याये द्वितीयः पादः# ।
#रचनानुपपत्तेश्च नानुमानम्---#स्यादेतत् ।
इह हि पादे खतन्त्रा वेदनिरपेक्षाः प्रधानादिसिद्धिविषयाः सांख्यादियुक्तयो निराकरिष्यन्ते ।
तदयुक्तमशास्त्राङ्गत्वात् ।
नहीदं शास्त्रमुच्छृङ्खलतर्कशास्त्रवत्प्रवृत्तमपि तु वेदान्तवाक्यानि ब्रह्मपराणीति पूर्वपक्षोत्तरपक्षाभ्यां विनिश्चेतुम् ।
तत्र कः प्रसङ्गः शुष्कतर्कवत्खतन्त्रयुक्तिनिराकरणस्येत्यत आह- #- यद्यपीदं वेदान्तवाक्यानामिति# ।
नहि वेदान्तवाक्यानि निर्णेतव्यानीति निर्णीयन्ते, किन्तु मोक्षमाणानां तत्त्वज्ञानोत्पादनाय ।
यथा च वेदान्तवाक्येभ्यो जगदुपादानं ब्रह्मावगम्यते, एवं सांख्याद्यनुमानेभ्यः प्रधानाद्यचेतनं जगदुपादानमवगम्यते ।
न चैतदेव चेतनोपादानमचेतनोपादानं चेति समुच्चेतुं शक्यं, विरोधात् ।
न च व्यवस्थिते वस्तुनि विकल्पो युज्यते ।
न चागमबाधितविषयतयानुमानमेव नोदीयत इति सांप्रतम्. सर्वज्ञप्रणीततया सांख्याद्यागमस्य वेदागमतुल्यत्वात् तद्भाषितस्यानुमानस्य प्रतिकृतिसिंहतुल्यतयाबाध्यत्वात् ।
तस्मात्तद्विरोधान्न ब्रह्मणि समन्वयो वेदान्तानां सिध्यतीति न ततस्तत्त्वज्ञानं सेद्धुमर्हति ।
नच तत्त्वज्ञानादृते मोक्ष इति स्वतन्त्राणामप्यनुमानानामाभासीकरणमिह शास्त्रेसंगतमेवेति ।
यद्येवं ततः परकीयानुमाननिरास एव कस्मात्प्रथमं न कृत इत्यत आह- #- वेदान्तार्थनिर्णयस्य चेति# ।
ननु वीतरागकथायां तत्त्वनिर्णयमात्रमुपयुज्यते न पुनःपरपक्षाधिक्षेपः, स हि सरागतामावहतीति चोदयति- #- ननु मुमुक्षूणामिति# ।
परिहरति #-- बाढमेवं, तथापीति# ।
तत्त्वनिर्णयावसाना वीतरागकथा ।
नच परपक्षदूषणमन्तरेण तत्त्वनिर्णयः शक्यः कर्तुमिति तत्वनिर्णयाय वीतरागेणापि परपक्षो दूष्यते न तु परपक्षतयेति न वीतरागकथात्वव्याहतिरित्यर्थः ।
पुनरुक्ततां परिचोद्य समाधत्ते #-- नन्वीक्षतेरिति ।
तत्र संख्या इति# ।
यानि हि येन रूपेणा स्थौल्यादा च सौक्ष्म्यात्समन्वीयन्ते तानि तत्करणानि दृष्टानि, यथा धटादयो रुचकादयश्चा स्थौल्यादा च सौक्ष्म्यान्मृत्सुवर्णान्वितास्तत्करणाः, तथा चेदं बाह्यमाध्यात्मिकं च भावजातं सुःखदुःखमोहात्मनान्वितमुपलभ्यते, तस्मात्तदपि सुःखदुःखमोहात्मसामान्यकारणकं भवितुमर्हति ।
तत्र जगत्कारणस्य येयं सुखात्मता तत्सत्त्वं, या दुःखात्मता तद्रजः, या च मेहात्मता तत्तम इति त्रैगुण्यकारणसिद्धिः ।
तथाहि-- प्रत्येकं भावास्त्रैगुण्यवन्तो ऽनुभूयन्ते ।
यथा मैत्रदारेषु पद्मावत्यां मैत्रस्य सुखं, तत् कस्य हेतोः,तंप्रति सत्वगुणसमुद्भवात् ।
तत्सपत्नीनां च दुःखं,तत्कस्य हेतोः, ताः प्रत्यस्या रजोगुणसमुद्भवात् ।
चैत्रस्य तु स्त्रैणस्य तामविन्दतो मोहो विषादः,तत् कस्य हेतोः, तं प्रत्यस्यास्तमोगुणसमुद्भवात् ।
पद्मावत्या च सर्वे भावा व्याख्याताः ।
तस्मात्सर्वं सुःखदुःखमोहान्वितं जगत्तत्कारणं गम्यते ।
तच्च त्रिगुणं प्रधानं प्रधीयते क्रियते ऽनेन जगदिति,प्रधीयते निधीयते ऽस्मिन्प्रलयसमये जगदिति वा प्रधानम् ।
तच्च मृत्सुवर्णवदचेतनं चेतनस्य पुरुषस्य भोगापवर्गलक्षणमर्थं साधयितुं स्वभावत एव प्रवर्तते,न तु केनचित्प्रवर्त्यते. तथा ह्याहुः--- ऽपुरुषार्थ एव हेतुर्न केनचित्कार्यते करणम्ऽ इति. ।
परिमाणादिभिरित्यादिग्रहणेन ऽशक्तितः प्रवृत्तेश्च ।
कारणकार्यविभागादविभागाद्वैश्वरूप्यस्यऽ इत्यव्यक्तसिद्धिहेतवो गृह्यन्ते ।
एतांश्चेपरिष्टाद्व्याखायाय निराकरिष्यत इति ।
तदेतत्प्रधानानुमानं दूषयति- #- तत्र वदाम इति# ।
यदि तावदचेतनं प्रधानमनधिष्ठितत्वेन मृत्सुवर्णादौ दृष्टान्तधर्मिणि व्याप्तेरुपलब्धेर्विरुद्धत्वात् ।
नहि मृत्सुवर्णदार्वादयः कुलालहेमकाररथकारादिभिरनधिष्ठिताः कुम्भरुचकरथाद्युपाददते ।
तस्मात् कृतकत्वमिव नित्यत्वसाधनया प्रयुक्तं साध्यविरुद्धेन व्याप्तं विरुद्धम्,एवं समन्वयादि चेतनानधिष्ठितत्वे साध्य इति रचनानुपपत्तेरिति दर्शितम् ।
यदुच्येत दृष्टान्तधर्मिण्यचेतनं तावदुपादानं दृष्टं,तत्र यद्यपि तच्चेतनप्रयुक्तमपि दृश्यते, तथापि तत्प्रयुक्तत्वं हेतोरप्रयोजकं बहिरङ्गत्वात्,अन्तरङ्गं त्वचैतन्यमात्रमुपादानानुगतं हेतोः प्रयोजकम् ।
यथाहुः-- ऽव्याप्तेश्च दृश्यमानायाः कश्चिद्धर्मः प्रयोजकःऽ इति ।
तत्राह-- #नच मृदादीति# ।
स्वभावप्रतिबद्धं हि व्याप्तं व्यापकमवगमयति ।
स च स्वभावप्रतिबन्धः शङ्कितसमारोपितोपाधिनिरासे सति निश्चीयते ।
तन्निश्चयश्चान्वयव्यतिरेकयोरायतते ।
तौ चान्वयव्यतिरेकौ न तथोपादानाचैतन्ये यथोपादानाचैतन्ये यथा चेतनप्रयुक्तत्वे ऽतिपरिस्फुटौ ।
तदलमत्रान्तरङ्गत्वेनेति भावः ।
एवमपि चेतनप्रयुक्तत्वं नाभ्युपेयेत यदि प्रमाणान्तरविरोधो भवेत्, प्रत्युत श्रुतिरनुगुणतरात्रेत्याह-- #न चैवं सतीति# ।
चकारेण सुःखदुःखादिसमन्वयलक्षणस्य हेतोरसिद्धत्वं समुच्चिनोतीत्याह #-- अन्वयाद्यनुपपत्तेश्चेति# ।
आन्तराः खल्वमी सुःखदुःखमोहविषादा बाह्येभ्यश्चन्दनादिभ्यो ऽतिविच्छिन्नप्रत्ययप्रवेदनीयेभ्यो व्यतिरिक्ता अध्यक्षमीक्ष्यन्ते ।
यदि पुनरेत एव सुःखदुःखादिस्वभावा भवेयुस्ततःस्वरूपत्वाधेमन्ते ऽपि चन्दनः सुखः स्यात् ।
नहि चन्दनः कदाचिदचन्दनः ।
तथा निदाघेष्वपि कुङ्कुमपङ्कः सुखो भवेत् ।
नह्यसौ कदाचिदकुङ्कुमपङ्क इति ।
एवं कण्टकः क्रमेलकस्य सुख इति मनुष्यादीनामपि प्राणभृतां सुखः स्यात् ।
नह्यसौ कांश्चित्प्रत्येव कण्टक इति ।
तस्मादसुखादिस्वभावा अपि चन्दनकुङ्कुमादयो जातिकालावस्थाद्यपेक्षया सुखदुःखादिहेतवो न तु स्वयं सुखादिस्वभावा इति रमणीयम् ।
तस्मात्सुखादिरूपसमन्वयो भावानामसिद्ध इति नानेन तद्रूपं कारणमव्यक्तमुन्नीयत इति ।
तदिदमुक्तम्- #- शब्दाद्यविशेषे ऽपि च भावनाविशेषादिति# ।
भावना वासना संस्कारस्तद्विशेषात् ।
करभजन्मसंवर्तकं हि कर्म करभोचितामेव भावनामभिव्यनिक्तिं, यथास्मै कण्टका एव रोचन्ते ।
एवमन्यत्रापि द्रष्टव्यम् ।
परिमाणादिति सांख्यीयं हेतुमुपन्यस्यति- #- तथा परिमितानां भेदानामिति# ।
संसर्गपूर्वकत्वे हि संसर्गस्यैकस्मिन्नद्वये ऽसंभवान्नानात्वैकार्थसमवेतस्य नानाकरणानि संसृष्टानि कल्पनीयानि,
तानि च सत्त्वरजस्तमांस्येवेति भावः ।
तदेतत्परिमितत्वं सांख्यीयराद्धान्तालोचनेनानैकान्तिकमिति दूषयति-- #सत्त्वरजस्तमसामिति# ।
यदि तावत्परिमितत्वमियत्ता, सा नभसो ऽपि नास्तीत्यव्यापको हेतुः परिमाणादिति ।
अथ न योजनादिमितत्वं परिमाणमियत्तां नभसो ब्रूमः किन्त्वव्यापिताम्, अव्यापि च नभस्तन्मात्रादेः ।
नहि कार्यं कारणव्यापि, किन्तु कारणं कार्यव्यापीति परिमितं नभस्तन्मात्राद्यव्यापित्वात् ।
हन्त सत्त्वरजस्तमांस्यपि न परस्परं व्याप्नुवन्ति, नच तत्त्वान्तरपूर्वकत्वमेतेषामिति व्यभिचारः ।
नहि यथा तैः कार्यजातमाविष्टमेवं तानि परस्परं विशन्ति,मिथः कार्यकारणभावाभावात् ।
परस्परसंसर्गस्त्वावेशश्चितिशक्तौ नास्ति ।
नहि चितिशङ्क्तिः कूटस्थनित्या तैः संसृज्यते, ततश्च तदव्यापका गुणा इति परिमिताः ।
एवं चितिशक्तिरपि गुणैरसंसृष्टेति सापि परिमितेत्यनैकान्तिकत्वं परिमितत्वस्य हेतोरिति ।
तथा कार्यकारणविभागो ऽपि समन्वयवद्विरुद्ध इत्याह- #- कार्यकारणभावस्त्विति
प्रवृत्तेश्च# ।
न केवलं रचनाभेदा न चेतनाधिष्ठानमन्तरेण भवन्त्यपि तु साम्यावस्थायाः प्रच्युतिर्वैषम्यं, तथा च यदुद्भूतं बलीयस्तदङ्ग्यभिभूतं च तदनुगुणतया स्थितमङ्गम्, एवं हि गुणप्रधानभावे सत्यस्य महदादौ कार्ये का प्रवृत्तिः, सापि चेतनाधिष्ठानमेव गमयति ।
न हि चेतनाधिष्ठानमन्तरेण मृत्पिण्डे प्रधाने ऽङ्गभावेन चक्रदण्डसलिलसूतिरादयो ऽवतिष्ठन्ते ।
तस्मात्प्रवृत्तेरपि चेतनाधिष्ठानसिद्धिरिति ऽशक्तितः प्रवृत्तेश्चऽ इत्ययमपि हेतुः सांख्यीयो विरुद्ध एवेत्युक्तं वक्रोक्त्या ।
अत्र सांख्यश्चोदयति-- #ननु चेतनस्यापि प्रवृत्तिरिति# ।
अयमभिप्रायः-- त्वया किलौपनिषदेनास्मधेतून् दूषयित्वा केवलस्य चेतनस्यैवान्यनिरपेक्षस्य जगदुपादानत्वं निमित्तत्वं च समर्थनीयम् ।
तदयुक्तम् ।
केवलस्य चेतनस्य प्रवृत्तेर्दृष्टान्तधर्मिण्यनुपलब्धेरिति ।
औपनिषदस्तु चेतनहेतुकां तावदेष सांख्यः प्रवृत्तिमभ्युपगच्छतु पश्चात् स्वपक्षमत एव समाधास्यामीत्यभिसंधिमानाह-- #सत्यमेतत्# ।
न केवलस्य चेतनस्य प्रवृत्तिर्दृष्टेति ।
सांख्य आह-- #न त्वचेतनसंयुक्तस्येति# ।
तुशब्द औपनिषदपक्षं व्यावर्तयति ।
अचेतनाश्रयैव सर्वा प्रवृत्तिर्दृश्यते न तु चेतनाश्रया काचिदपि ।
तस्मान्न चेतनस्य जगत्सर्जने प्रवृत्तिरित्यर्थः ।
अत्रौपनिषदो गूढाभिसंधिः प्रश्नपूर्वकं विमृशति-- #किं पुनरत्रेति# ।
अत्रान्तरे सांख्यो ब्रूते-- #ननु यस्मिन्निति# ।
न तावच्चेतनः प्रवृत्याश्रयतया तत्प्रयोजकतया वा प्रत्यक्षमीक्ष्यते, केवलं प्रवृत्तिस्तदाश्रयश्चाचेतनो देहरथादिः प्रत्यक्षेण प्रतीयते, तत्राचेतनस्य प्रवृत्तिस्तन्निमित्तैव न तु चेतननिमित्ता ।
सद्भावमात्रं तु तत्र चेतनस्य गम्यते रथादिवैलक्षण्याज्जीवद्देहस्य ।
नच सद्भावमात्रेण कारणत्वसिद्धिः ।
मा भूदाकाश उत्पत्तिमतां घटादीनां निमित्तकारणमस्ति हि सर्वत्रेति ।
तदनेन देहातिरिक्ते सत्यपि चेतने तस्य न प्रवृत्तिं प्रति निमित्तभावो ऽस्तीत्युक्तम् ।
यतश्चास्य न प्रवृत्तिहेतुभावो ऽस्ति अत एव प्रत्यक्षे देहे सति प्रवृत्तिदर्शनादसति चादर्शनाद्देहस्यैव चैतन्यमिति लौकायतिकाः प्रतिपन्नाः, तथा च न चिदात्मनिमित्ता प्रवृत्तिरिति सिद्धम् ।
तस्मान्न रचनायाः प्रवृत्तेर्वा चिदात्मकारणत्वसिद्धिर्जगत इति औपनिषदः परिहरति-- #तदभिधीयते--- न ब्रूम इति# ।
न तावत् प्रत्यक्षानुमानागमसिद्धः शारीरो वा परमात्मा वास्माभिरिदानीं साधनीयः, केवलमस्य प्रवृत्ति प्रति कारणत्वं वक्तव्यम् ।
तत्र मृतशरीरे वा रथादौ वानधिष्ठिते चेतनेन प्रवृत्तेरदर्शनात् तद्विपर्यये च प्रवृत्तिदर्शनादन्वयव्यतिरेकाभ्यां चेतनहेतुकत्वं प्रवृत्तेर्निश्चीयते, न तु चेतनसद्भावमात्रेण,
येनातिप्रसङ्गो भवेत् ।
भूतचैतनिकानामपि चेदनाधिष्ठानादचेतनानां प्रवृत्तिरित्यत्राविवाद इत्याह-- #लौकायतिकानामपीति# ।
स्यादेतत् ।
देहः स्वयं चेतनः करचरणादिमान् स्वव्यापारेण प्रवर्तयतीति युक्तं, न तु तदतिरिक्तः कूटस्थनित्यश्चेतनो व्यापाररहितो ज्ञानैकस्वभावः प्रवृत्त्यभावात् प्रवर्तको युक्त इति चोदयति-- #ननु तवेति# ।
परिहरति- #- न ।
अयस्कान्तवद्रूपादिवच्चेति ।
यथा च रूपादय इति# ।
सांख्यानां हि स्वदेशस्था रूपादय इन्द्रियं विकुर्वते, तेन तदिन्द्रयमर्थं प्राप्तमर्थाकारेण परिणमत इति स्थितिः ।
संप्रति चोदकः स्वाभिप्रायमाविष्करोति-- #एकत्वादिति# ।
येषामचेतनं चेतनं चास्ति तेषामेतद्युज्यते वक्तुं चेतनाधिष्ठितमचेतनं प्रवर्तत इति ।
यथा योगिनामीश्वरवादिनाम् ।
येषां तु चेतनातिरिक्तं नास्त्यद्वैतवादिनां, तेषां प्रवर्त्याभावे कं प्रति प्रवर्तकत्वं चेतनस्येत्यर्थः ।
परिहरति-- #न अविद्येति# ।
कारणभूतया लयलक्षणयाविद्यया प्राक्सर्गोपचितेन च विक्षेपसंस्कारेण यत् प्रत्युपस्थापितं नामरूपं तदेव माया, तदावेशेनास्य चोद्यस्यासकृत्प्रयुक्तत्वात् ।
एतदुक्तं भवति-- नेयं सृष्टिर्वस्तुसती येनाद्वैतिनो वस्तुसतो द्वितीयस्याभावादनुयुज्येत ।
काल्पनिक्यां तु सृष्टावस्ति काल्पनिकं द्वितीयं सहायं मायामयम् ।
यथाहुः-- ऽसहायास्तादृशा एव यादृशी भवितव्यता ।
ऽ इति ।
न चैवं ब्रह्मोपादानत्वव्याघातः, ब्रह्मण एव मायावेशेनोपादानत्वात्तदधिष्ठानत्वाज्जगद्विभ्रमस्य, रजतविभ्रमस्येव शुक्तिकाधिष्ठानस्य शुक्तिकोपादानत्वमिति निरवद्यम्
#पयोम्बुवच्चेत्तत्रापि# ।
यथा पयोम्बुनोश्चेतनानधिष्ठितयोः स्वत एव प्रवृत्तिरेवं प्रधानस्यापीति शङ्कार्थः ।
तत्रापि चेतनाधिष्ठितत्वं साध्यं, न च साध्येनैव व्यभिचारः, तथा सत्यनुमानमात्रोच्छेदप्रसङ्गात्, सर्वत्रास्य सुलभत्वात् ।
न चासाध्यम् ।
अत्रापि चेतनाधिष्ठानस्यागमसिद्धत्वात् ।
न च सपक्षेण व्यभिचार इति शङ्कानिराकरणस्यार्थः ।
#साध्यपक्षे#त्युपलक्षणम् ।
सपक्षनिक्षिप्तत्वादित्यपि द्रष्टव्यम् ।
ननु ऽउपसंहारदर्शनात्ऽ इत्यत्रानपेक्षस्य प्रवृत्तिर्दशिता, इह तु सर्वस्य चेतनापेक्षा प्रवृत्तिः प्रतिपाद्यत इति कुतो न विरोध इत्यत आह-- #उपसंहारदर्शनादिति# ।
स्थूलदर्शिलोकाभिप्रायानुरोधेन तदुक्तं न तु परमार्थत इत्यर्थः
#व्यतिरेकानवस्थितेश्चानपेक्षत्वात्# ।
यद्यपि सांख्यानामपि विचित्रकर्मवासनावासितं प्रधानं साम्यावस्थायामपि तथापि न कर्मवासनाः सर्गस्येशते, किन्तु प्रधानमेव स्वकार्ये प्रवर्तमानमधर्मप्रतिबद्धं सन्न सुखमयीं सृष्टिं कर्तुमुत्सहत इति धर्मेणाधर्मप्रतिबन्धो ऽपनीयते ।
एवमधर्मेण धर्मप्रतिबन्धो ऽपनीयते दःखमय्यां सृष्टौ ।
स्वयमेव च प्रधानमनपेक्ष्य सृष्टौ प्रवर्तते ।
यथाहुः-- ऽनिमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत्ऽ इति ।
ततश्च प्रतिबन्दकापनयसाधने धर्माधर्मवासने अपि संनिहिते इत्यागन्तोरपेक्षणीयस्याभावात् सदैव साम्येन परिणमेत वैषम्येण वा, न त्वयं कादाचित्कः परिणामभेद उपपद्येत ।
ईश्वरस्य तु महामायस्य चेतनस्य लीलया वा यदृच्छया वा स्वभाववैचित्र्याद्वा कर्मपरिपाकापेक्षस्य प्रवृत्तिनिवृत्ती उपपद्येते एवेति
#अन्यत्राभावाच्च न तृणादिवत्# ।
धेनूपयुक्तं हि तृणपल्लवादि यथा स्वभावत एव चेतनानपेक्षं क्षीरभावेन परिणमते न तु तत्र धेनूचैतन्यमपेक्ष्यते, उपयोगमात्रे तदपेक्षत्वात् ।
एवं प्रधानमपि स्वभावत एव परिणंस्यते कृतमत्र चेतनेनेति शङ्कार्थः ।
धेनूपयुक्तस्य तृणादेः क्षीरभावे किं निमित्तान्तरमात्रं निषिध्यते, उत चेतनम् ।
न तावन्निमित्तान्तरं, धेनुदेहस्थस्यौदर्यस्य वह्न्यादिभेदस्य निमित्तान्तरस्य संभवात् ।
बुद्धिपूर्वकारी तु तत्रापीश्वर एव सर्वज्ञः संभवतीति शङ्कानिराकरणस्यार्थः ।
तदिदमुक्तम्-- #किञ्चिद्दैवसंपाद्यमिति#
#अभ्युपगमे ऽप्यर्थाभावात्# ।
पुरुषार्थापेक्षाभावप्रसङ्गात् ।
तदिदमुक्तम्-- #एवं प्रयोजनमपि किञ्चिन्नापेक्षिष्यत इति# ।
अथवा पुरुषार्थाभावादिति योज्यम् ।
तदिदमुक्तम्-- #तथापि प्रधानप्रवृत्तेः प्रयोजनं विवेक्तव्यमिति# ।
न केवलं तात्त्विको भोगो ऽनाधेयातिशयस्य कूटस्थनित्यस्य पुरुषस्य न संभवति, अनिर्मोक्षप्रसङ्गश्च ।
येन हि प्रयोजनेन प्रधानं प्रवर्तितं तदनेन कर्तव्यं, भोगेन चैतत्प्रवर्तितमिति तमेव कुर्यान्न मोक्षं, तेनाप्रवर्तितत्वादित्यर्थः ।
#अपवर्गश्चेत्प्रागपीति# ।
चितेः सदा विशुद्धत्वान्नैतस्यां जातु कर्मानुभववासनाः सन्ति ।
प्रधानं तु तासामनादीनामाधारः ।
तथा च प्रधानप्रवृत्तेः प्राक् चितिर्मुक्तैवेति नापवर्गार्थमपि तत्प्रवृत्तिरिति ।
#शब्दाद्यनुपलब्धिप्रसङ्गश्च# ।
तदर्थमप्रवृत्तत्वात्प्रधा #नस्य ।
उभयार्थताभ्युपगमे ऽपीति# ।
न तावदपवर्गः साध्यस्तस्य प्रधानाप्रवृत्तिमात्रेण सिद्धत्वात् ।
भोगार्थं तु प्रवर्तेत ।
भोगस्य च सकृच्छब्दाद्युपलब्घिमात्रादेव समाप्तत्वान्न तदर्थं पुनः प्रधानं प्रवर्तेतेत्ययत्नसाध्यो मोक्षः स्यात् ।
निःशेषशब्दाद्युपभोगस्य चानन्त्येन समाप्तेरनुपपत्तेरनिर्मोक्षप्रसङ्गः ।
कृतभोगमपि प्रधानमासत्त्वपुरुषान्यताख्यातेः क्रियासमभिहारेण भोजयतीति चेत्, अथ पुरुषार्थाय प्रवृत्तं किमर्थं सत्त्वपुरुषान्यताख्यातिं करोति ।
अपवर्गार्थमिति चेत्, हन्तायां सकृच्छब्दाद्युपभोगेन कृतप्रयोजनस्य प्रधानस्य निवृत्तिमात्रादेव सिध्यतीति कृतं सत्त्वान्यताख्यातिप्रतीक्षणेन ।
न चास्याः स्वरूपतः पुरुषार्थत्वम् ।
तस्मादुभयार्थमपि न प्रधानस्य प्रवृत्तिरुपपद्यत इति सिद्धोर्ऽथाभावः ।
सुगममितरत् ।
शङ्कते-- #दृक्शक्तीति# ।
पुरुषो हि दृक्शक्तिः ।
सा च दृश्यमन्तरेणानर्थिका स्यात् ।
नच स्वात्मन्यर्थवती, स्वात्मनि वृत्तिविरोधात् ।
प्रधानं च सर्गशक्तिः ।
सा च सर्जनीयमन्तरेणानर्थिका स्यादिति यत्प्रधानेन शब्दादि सृज्यते तदेव दृक्शक्तेर्दृश्यं भवतीति तदुभयार्थवत्वाय सर्जनमिति शङ्कार्थः ।
निराकरोति-- #सर्गशक्त्यनुच्छेदवदिति# ।
यथा हि प्रधानस्य सर्गशक्तिरेकं पुरुषं प्रति चरितार्थापि पुरुषान्तरं प्रति प्रवर्तते ऽनुच्छेदात् ।
एवं दृक्शक्तिरपि तं पुरुषं प्रत्यर्थवत्त्वायानुच्छेदात्सर्वदा प्रवर्तेतेत्यनिर्मोक्षप्रसङ्गः ।
सकृद्दृश्यदर्शनेन वा चरितार्थत्वे न भूयः प्रवर्तेतेति सर्वेषामेकपदे निर्मोक्षः प्रसज्येतेति सहसा संसारः समुच्छिद्येतेति
#पुरुषाश्मवदिति चेत्तथापि# ।
नैव दोषात्प्रच्युतिरिति शेषः ।
मा भूत्पुरुषार्थस्य शक्त्यर्थवत्त्वस्य वा प्रवर्तकत्वम्, पुरुष एव दृक्शक्तिसम्पन्नः पङ्गुरिव प्रवृत्तिशक्तिसंपन्नं प्रधानमन्धमिव प्रवर्तयिष्यतीति शङ्का ।
दोषादनिर्मोक्षमाह-- #अभ्युपेतहानं तावदिति# ।
न केवलमभ्युपेतहानम्,अयुक्तं चैतद्भवद्दर्शनालोचनेनेत्याह- #कथं चोदासीन इति# ।
निष्क्रियत्वे साधनम्-- #निर्गुणत्वादिति# ।
शेषमतिरोहितार्थम्
#अङ्गित्वानुपपत्तेश्च# ।
यदि प्रधानावस्था कूटस्थनित्या, ततो न तस्याः प्राच्युतिरनित्यत्वप्रसङ्गात् ।
यथाहुः-- ऽनित्यं तमाहुर्विद्वांसो यः स्वभावो न नश्यतिऽ इति ।
तदिदमुक्तम्-- #स्वरूपप्राणाशभयादिति# ।
अथ परिणामिनित्या ।
यथाहुः-- ऽयस्मिन् विक्रियमाणे ऽपि यत्तत्वं न विहन्यते ।
तदपि नित्यम्ऽ
इति ।
तत्राह-- #बाह्यस्य चेति# ।
यत्साम्यावस्थया सुचिरं पर्यणमत्कथं तदेवासति विलक्षणप्रत्ययोपनिपाते वैषम्यमुपैति ।
अनपेक्षस्य स्वतो वापि वैषम्ये न कदाचित्साम्यं भवेदित्यर्थः
#अन्यथानुमितौ च ज्ञशक्तिवियोगात् ।
एवमपि प्रधानस्येति# ।
अङ्गित्वानुपपत्तिलक्षणो दोषस्तावन्न भवद्भिः शक्यः परिहर्तुमिति वक्ष्यामः ।
अभ्युपगम्याप्यस्यादोषत्वमुच्यत इत्यर्थः ।
संप्रत्यङ्गित्वानुपपत्तिमुपपादयति-- #वैषम्योपगमयोग्या अपीति
विप्रतिषेधाच्चासमञ्जसम् ।
क्वचित्सप्तेन्द्रियाणीति# ।
त्वङ्मात्रमेव हि बुद्धीन्द्रियमनेकरूपादिग्रहणसमर्थमेकं, कर्मेन्द्रियाणि पञ्च, सप्तमं च मन इति सप्तेन्द्रियाणि ।
#क्वचित् त्रीण्यन्तःकरणानि# ।
बुद्धिरहङ्कारो मन इति ।
#क्वचिदेकं#बुद्धिरिति ।
शेषमतिरोहितार्थम् ।
#अत्राह#सांख्यः-- #नन्वौपनिषदानामपीति# ।
तप्यतापकभावस्तावदेकस्मिन्नोपपद्यते ।
नहि तपिरस्तिरिव कर्तृस्थभावकः, किन्तु पचिरिव कर्मस्थभावकः ।
परसमवेतक्रियाफलशालि च कर्म ।
तथा च तप्येन कर्मणा तापकसमवेतक्रियाफलशालिना तापकादन्येव भवितव्यम् ।
अनन्यत्वे चैत्रस्येव गन्तुः स्वसमवेतगमनक्रियाफलनगरप्राप्तिशालिनो ऽप्यकर्मत्वप्रसङ्गात् ।
अन्यत्वे तु तप्यस्य तापकाच्चैत्रसमवेतगमनक्रियाफलभाजो गम्यस्येव नगरस्य तप्यत्वोपपत्ति ।
तस्मादभेदे तप्यतापकभावो नोपपद्यत इति ।
दूषणान्तरमाह-- #यदि चेति# ।
नहि स्वभावाद्भावो वियोजितुं शक्य इति भावः ।
जलधेश्च वीचितरङ्गफेनादयः स्वभावाः सन्त आविर्भावतिरोभावधर्माणो न तु तैर्जलधिः कदाचिदपि मुच्यते ।
न केवलं कर्मभावात्तप्यस्य तापकादन्यत्वमपि त्वनुभवसिद्धमेवेत्याह-- #प्रसिद्धश्चायमिति# ।
तथाहि-- अर्थो ऽप्युपार्जनरक्षणक्षयरागवृद्धिहिंसादोषदर्शनादनर्थः सन्नर्थिनं दुनोति, तदर्थो तप्यस्तापकश्चार्थः, तौ चेमौ लोके प्रतीतभेदौ ।
अभेदे च दूषणान्युक्तानि ।
तत्कथमेकस्मिन्नद्वये भवितुमर्हत इत्यर्थः ।
तदेवमौपनिषदं मतमसमञ्जसमुक्त्वा सांख्यः स्वपक्षे तप्यतापकयोर्भेदे मोक्षमुपपादयति-- #जात्यन्तरभावे त्विति# ।
दृग्दर्शनसक्त्योः किल संयोगस्तापनिदानं, तस्य हेतुरविवेकदर्शनसंस्कारो ऽविद्या, सा च विवेकख्यात्या विद्यया विरोधित्वाद्विनिवर्त्यते,तन्निवृत्तौ तधेतुकः संयोगो निवर्तते, तन्निवृत्तौ च तत्कार्यस्तापो निवर्तते ।
तदुक्तं पञ्चशिखाचार्येण--ऽतत्संयोगहेतुविवर्जनात्स्यादयमात्यन्तिको दुःखप्रतीकारःऽ इति ।
अत्र च न साक्षात्पुरुषस्यापरिणामिनो बन्धमोक्षौ, किन्तु बुद्धिसत्त्वस्यैव चितिच्छायापत्त्या लब्धचैतन्यस्य ।
तथाहि--
इष्टानिष्टगुणस्वरूपावधारणमविभागापन्नमस्य भोगः, भोक्तृस्वरूपावधारणमपवर्गः,तेन हि बुद्धिसत्वमेवापवृज्यते,तथापि यथा जयः पराजयो वा योघेषु वर्तमानः प्राधान्यात्स्वामिन्यपदिश्यते , एवं बन्धमोक्षौ बुद्धिसत्वे वर्तमानौ कथञ्चित्पुरुषे ऽपदिश्येते,स ह्यविभागापत्या तत्फलस्य भोक्तेति ।
तदेतदभिसंघायाह- #स्यादपि#
#कदाचिन्मोक्षोपपत्तिरिति# ।
अत्रोच्यते-- #न ।
एकत्वादेव तप्यतापकभावानुपपत्तेः# ।
यत एकत्वे तप्यतापकभावो नोपपद्यत एकत्वादेव, तस्मात्सांव्यवहारिकभेदाश्रयस्तप्यतापकभावो ऽस्माभिरभ्युपेयः ।
तापो हि सांव्यवहारिक एव न पारमार्थिक अत्यसकृदावेदितम् ।
#भवेदेष दोषो यद्येकात्मतायां तप्यतापकावन्योन्यस्य विषयविषयिभावं प्रतिपद्येयातामि#त्यस्मदभ्युपगम इति शेषः ।
सांख्यो ऽपि हि भेदाश्रयं तप्यतापकभावं ब्रुवाणो न पुरुषस्य तपिकर्मतामाख्यातुमर्हति, तस्यापरिणामितया तपिक्रियाजनितफलशालित्वानुपपत्तेः ।
केवलमनेन सत्त्वं तप्यम् ,अभ्युपेयं तापकं च रजः ।
दर्शितविषयत्त्वात्तु बुद्धिसत्वे तप्ये तदविभागापत्या पुरुषो ऽप्यनुतप्यत इव न तु तप्यते ऽपरिणामित्वादित्युक्तं, तदविभागापत्तिश्चाविद्या, तथा चाविद्याकृतस्तप्यतापकभावस्त्वयाभ्युपेयः, सो ऽयमस्माभिरुच्यमानः किमिति भवतः परुष इवाभाति ।
अपि च नित्यत्वाभ्युपगमाच्च तापकस्यानिर्मोक्षप्रसङ्गः ।
शङ्कते-- #तप्यतापकशक्त्योर्नित्यत्वे ऽपीति# ।
सहादर्शनेन निमित्तेन वर्तत इति सनिमित्तः संयोगस्तदपेक्षत्वादिति ।
निराकरोति-- #न ।
अदर्शनस्य तमस इति# ।
न तावत्पुरुषस्य तप्तिरित्युक्तम् ।
केवलमियं बुद्धिसत्त्वस्य तापकरजोजनिता, तस्य च बुद्धिसत्वस्य तामसविपर्यासादात्मनः पुरुषाद्भेदमपश्यतः पुरुषस्तप्यत इत्यभिमानः,न तु पुरुषो विपर्यासतुषेणापि युज्यते ।
तस्य तु बुद्धिसत्वस्य सात्त्विक्या विवेकख्यात्या तामसीयमविवेकख्यातिर्निवर्तनीया ।
न च तमसि मूले शक्यात्यन्तमुच्छेत्तुम् ।
तथा विच्छिन्नापि छिन्नबदरीव पुनस्तमसोद्भूतेन सत्त्वमभिभूय विवेकख्यातिमपोद्य शतशिखराविद्याविर्भाव्येतेति बतेयमपवर्गकथा तपस्विनो दत्तजलाञ्जलिः प्रसज्येत ।
अस्मत्पक्षे त्वदोष इत्याह-- #औपनिषदस्य त्विति# ।
यथा हि मुखमवदातमपि मलिनादर्शतलोपाधिकल्पितप्रतिबिम्बभेदं मलिनतामुपैति,न च तद्वस्तुतो मलिनं , नच बिम्बात्प्रतिबिम्बं वस्तुतो भिद्यते, अथ तस्मिन् प्रतिबिम्बे मलिनादर्शोपधानान्मलिनता पदं लभते ।
तथा चात्मनो मलिनं मुखं पश्यन् देवदत्तस्तप्यते ।
यदा तूपाध्यपनयाद्बिम्बमेव कल्पनावशात् प्रतिबिम्बं तच्चावदातमिति तत्त्वमवगच्छति तदास्य तापः प्रशाम्यति नच मलिनं मे मुखमिति ।
एवमविद्योपधानकल्पितावच्छेदो जीवः परमात्मप्रतिबिम्बकल्पः कल्पितैरेव शब्दादिभिः संपर्कात्तप्यते नतु तत्त्वतः परमात्मनो ऽस्ति तापः ।
यदा तु ऽतत्त्वमसिऽइति वाक्यश्रवणमननध्यानाभ्यासपरिपाकप्रकर्षपर्यन्तजो ऽस्य साक्षात्कार उपजायते तदा जीवः शुद्धबुद्धतत्त्वस्वभावमात्मनो ऽनुभवन् निर्मृष्टनिखिलसवासनक्लेशजालः केवलः स्वस्थो भवति, न चास्य पुनः संसारभयमस्ति तद्धेतोरवास्तवत्वेन समूलकाषं कषितत्वात् ।
सांख्यस्य तु सतस्तमसो ऽशक्यसमुच्छेदत्वादिति ।
तदिदमुक्तम्-- #विकारभेदस्य च वाचारम्भणमात्रत्वश्रवणादिति
प्रधानकारणवाद इति# ।
यथैव प्रधानकारणवादो ब्रह्मकारणवादविरोध्येवं परमाणुकारणवादो ऽप्यतः सो ऽपि निराकर्तव्यः ।
ऽएतेन शिष्टापरिग्रहा अपि व्याख्याताःऽ इत्यस्य प्रपञ्च आरभ्यते-- तत्र वैशेषिका ब्रह्मकारणत्वं दूषयांबभूवुः ।
चेतनं चेदाकाशादीनामुपादानं तदारब्धमाकाशादि चेतनं स्यात् ।
कारणगुणक्रमेण हि कार्ये गुणारम्भो दृष्टः,यथा शुक्लैस्तन्तुभिरारब्धः पटः शुक्लः, न जात्वसौ कृष्णो भवति ।
एवं चेतनेनारब्धमाकाशादि चेतनं भवेन्न त्वचेतनम् ।
तस्मादचेतनोपादानमेव जगत् ।
तच्चाचेतनं परमाणवः ।
सूक्ष्मात् खलु स्थूलस्योत्पत्तिर्दृश्यते, यथा तन्तुभिः पटस्यैवमंशुभ्यस्तन्तूनामेवमपकर्षपर्यन्तं कारणद्रव्यमतिसूक्ष्ममनवयवमवतिष्ठते, तच्च परमाणु ।
तस्य तु सावयवत्वे ऽभ्युपगम्यमाने ऽनन्तावयवत्वेन सुमेरुराजसर्षपयोः समानपरिमाणत्वप्रसङ्ग इत्युक्तम् ।
तत्र च प्रथमं तावददृष्टवत्क्षेत्रज्ञसंयोगात्परमाणौ कर्म, ततो ऽसौ परमाण्वन्तरेण संयुज्यद्व्यणुकमारभते. बहवस्तु परमाणवः संयुक्ता न सहसा स्थूलमारभन्ते, परमाणुत्वे सति बहुत्वात्, घटोपगृहीतपरमाणुवत् ।
यदि हि घटोपगृहीताः परमाणवो घटमारभेरन् न घटे प्रविभज्यमाने कपालशर्कराद्युपलभ्येत, तेषामनारब्धत्वात्,घटस्यैव तु तैरारब्धत्वात् ।
तथा सति मुद्गरप्रहारात् घटविनाशे न किञ्चिदुपलभ्येत, तेषामनारब्धत्वात् ।
तदवयवानां परमाणूनामतीन्द्रियत्वात् ।
तस्मान्न बहूनां परमाणूनां द्रव्यं प्रति समवायिकारणत्वम्, अपि तु द्वावेव परमाणू द्य्वणुकमारभेते ।
तस्य चाणुत्वं परिमाणं परमाणुपरिमाणात् पारिमाण्डल्यादन्यदीश्वरबुद्धिमपेक्ष्योत्पन्ना द्वित्वसंख्यारभते ।
नच द्व्यणुकाभ्यां द्रव्यस्यारम्भः, वैयर्थ्यप्रसङ्गात् ।
तदपि हि द्व्यणुकमेव भवेन्न तु महत् ।
कारणबहुत्वमहत्त्वप्रचयविशेषेभ्यो हि महत्त्वस्योत्पत्तिः ।
नच द्व्यणुकयोर्महत्त्वमस्ति, यतस्ताभ्यामारब्धं महद्भवेत् ।
नापि तयोर्बहुत्वं, द्वित्वादेव ।
नच प्रचयभेदस्तूलपिण्डानामिव, तदवयवानामनवयवत्वेन प्रशिथिलावयवसंयोगभेदविरहात् ।
तस्मात्तेनापि तत्करणद्व्यणुकवदणुनैव भवितव्यं, तथा च पुरुषोपभोगातिशयाभावाददृष्टनिमित्तत्वाच्च विश्वनिर्माणस्य भोगार्तत्वात्तत्कारणेन च द्व्यणुकेन तन्निष्पत्तेः कृतं द्व्यणुकाश्रयेण द्व्यणुकान्तरेणेत्यारम्भवैयर्थ्यात् ।
आरम्भार्थवत्त्वाय बहुभिरेव द्व्यणुकैस्त्र्यणुकं चतुरणुकं वा द्रव्यं महद्दीर्घमारब्धव्यम् ।
अस्ति तत्र तत्र भोगभेदः ।
अस्ति च बहुत्वसंख्येश्वरबुद्धिमपेक्ष्योत्पन्ना महत्त्वपरिमाणयोनिः ।
त्र्यणुकादिभिरारब्धं तु कार्यद्रव्यं कारणबहुत्वाद्वा कारणमहत्वाद्वा कारणप्रचयभेदाद्वा महद्भवतीति प्रक्रिया ।
तदेतयैव प्रक्रियया कारणसमवायिनो गुणाः कार्यद्रव्ये समानजातीयमेव गुमान्तरमारभन्त इति दूषणमदूषणीक्रियते,व्यभिचारादित्याह-- #महद्दीर्घवद्वा हृस्वपरिमण्डलाब्याम्# ।
यथा महद् द्रव्यं त्र्यणुकादि हृस्वाद् द्व्यणुकाज्जायते,न तु महत्त्वगुणोपजनने द्व्यणुकगतं महत्त्वमपेक्षते,तस्य हृस्वत्वात् ।
यथा वा तदेव त्र्यणुकादि दीर्धं हृस्वाद् द्व्यणुकाज्जायते, न तु तद्गतं दीर्घत्वमपेक्षते,तदभावात् ।
वाशब्दश्चार्थे ऽनुक्तसमुच्चयार्थः ।
यथा द्व्यणुकमणु हृस्वपरिमाणं परिमण्डलात् परमाणोरपरिमण्डलं जायत एवं चेतनाद्ब्रह्मणो ऽचेतनं जगन्निष्पद्यत इति सूत्रयोजना ।
भाष्ये #परमाणुगुणविशेषस्त्विति# ।
पारिमाण्डल्यग्रहणमुपलक्षणम् ।
न द्व्यणुके ऽणुत्वमपि परमाणुवर्ति पारिमाण्डल्यमारभते, तस्य हि द्वित्वसंख्यायोनित्वादित्यपि द्रष्टव्यम् ।
हृस्वपरिमम्डलाभ्यामिति सूत्रं गुणिपरं न गुणपरम् ।
#यदाहि द्वे द्वे द्व्यणुके#इति पठितव्ये प्रमादादेकं द्वेपदं न पठितम् ।
एवं चतुरणुकमित्याद्युपपद्यते ।
इतरथा हि द्व्यणुकमेव तदपि स्यान्न तु महदित्युक्तम् ।
अथवा द्वे इति द्वित्वे , यथा ऽह्येकयोर्द्विवचनैकवचनेऽ इति ।
अत्र हि द्वित्वेकत्वयोरित्यर्थः ।
अन्यथा ह्येकेष्विति स्यात्संख्येयानां बहुत्वात् ।
तदेवं योजनीयम्-- द्व्यणुकाधिकरणे ये द्वित्वे ते यदा चतुरणुकमारभेते संख्येयानां चतुर्णां द्व्यणुकानामारम्भकत्वात्तत्तद्गते द्वित्वसंख्ये अपि आरम्भिके इत्यर्थः ।
एवं व्यवस्थितायां वैशेषिकप्रक्रियायां तद्दूषणस्य व्यभिचार उक्तः ।
अथाव्यवस्थिता तथापि तदवस्थो व्यभिचार इत्याह-- #यदापि बहवः परमाणव इति# ।
नाणु जायते नो हृस्वं जायते इति योजना ।
चोदयति-- #अथ मन्यसे विरोधिना परिमाणान्तरेण#स्वकारणद्वारेणात्क्रान्तत्वादिति ।
परिहरति-- #मैवं मंस्था इति# ।
कारणगता गुणा न कार्ये समानजातीयं गुणान्तरमारभन्त इत्येतावतैवेष्टसिद्धौ न तधेत्वनुसारेण खेदनीयं मन इत्यर्थः ।
अपि च सत्परिमाणान्तरमाक्रामति नोत्पत्तेश्च प्राक् परिमाणान्तरं सदिति कथमाक्रामेत् ।
नच तत्कारणमाक्रामति ।
पारिमाण्डल्यस्यापि समानजातीयस्य कारणस्यात्क्रमणहेतोर्भावेन समानबलतयोभयकार्यानुत्पादप्रसङ्गादित्याशयवानाह-- #नच परिमाणान्तरात्क्रान्तत्वमिति# ।
नच परिमाणान्तरारम्भे व्यापृतता पारिमाण्डलायादीनाम् ।
नच कारणबहुत्वादीनां संनिधानमसंनिधानं च पारिमाण्डल्यस्येत्याह-- #नच परिमाणान्तरारम्भे इति# ।
व्यभिचारान्तरमाह-- #संयोगाच्चेति# ।
शङ्कते- #द्रव्ये प्रकृत इति# ।
निराकरोति- #न ।
दृष्टान्तेनेति# ।
न चास्माकमयमनियमः, भवतामपीत्याह-- #सूत्रकारो ऽपीति# ।
सूत्रं व्याचष्टे-- #यथा प्रत्यक्षाप्रत्यक्षयोरिति# ।
शेषमतिरोहितार्थम्
#उभयथापि न कर्मातस्तदभावः# ।
परमाणूनामाद्यस्य कर्मणः कारणाभ्युपगमे ऽनभ्युपगमे वा न कर्मातस्तदभावस्तस्य द्व्यणुकादिक्रमेण सर्गस्याभावः ।
अथवा यद्यणुसमवाय्यदृष्टमथवा क्षेत्रज्ञसमवायि , उभयथापि तस्याचेतनस्य चेतनानधिष्ठितस्याप्रवृत्तेः कर्मभावो ऽतस्तदभावः सर्गाभावः ।
निमित्तकारणतामात्रेण त्वीश्वरस्याधिष्ठातृत्वमुपरिष्टान्निराकरिष्यते ।
अथवा संयोगोत्पत्त्यर्थं विभागोत्पत्त्यर्थमुभयथापि न कर्मातः सर्गहेतोः संयोगस्याभावात् प्रलयहेतोर्विभागस्याभावात्तदभावः ।
तयोः सर्गप्रलययोरभाव इत्यर्थः ।
तद्तत्सूत्रं तात्पर्यतो व्याचष्टे-- #इदानीं परमाणुकारणवादमिति# ।
निराकार्यस्वरूपमुपपत्तिसहितमाह-- #स च वाद इति# ।
स्वानुगतैः स्वसंबद्धैः ।
संबन्धश्चाधार्याधारभूत इहप्रत्ययहेतुः समवायः ।
पञ्चमभूतस्यानवयवत्वात् #तानीमानि चत्वारि भूतानीति# ।
तत्र परमाणुकारणवादे इयमभिधीयते सूत्रम् ।
तत्र प्रथमां व्याख्यामाह-- #कर्मवतामिति# ।
अभिघातादीत्यादिग्रहणेन नोदनसंस्कारगुरुत्वद्रवत्वानि गृह्यन्ते ।
नोदनसंस्कारावभिघातेन समानयोगक्षेमौ, गुरुत्वद्रवत्वे च परमाणुगते सदातने इति कर्मसातत्यप्रसङ्गः. द्वितीयं व्याख्यानमाशङ्कापूर्वमाह-- #अथादृष्टं#धर्माधर्मौ ।
#आद्यस्य कर्मण इति ।
आत्मनश्च#क्षेत्रज्ञस्य #अनुत्पन्नचैतन्यस्येति ।
अदृष्टवता पुरुषेणेति# ।
संयुक्तसमवायसंबन्ध इत्यर्थः ।
#संबन्धस्य सातत्यादिति# ।
यद्यपि परमाणुक्षेत्रज्ञयोः संयोगः परमाणुकर्मजस्तथापि तत्प्रवाहस्य सातत्यमिति भावः. सर्वात्मना चेदुपचयाभावः ।
एकदेशेन हि संयोगे यावण्वोरेकदेशौ निरन्तरौ ताभ्यामन्ये एकदेशाः संयोगेनाव्याप्ता इति प्रथमोपपद्यते ।
सर्वात्मना तु नैरन्तर्ये परमाणावेकस्मिन् परमाण्वान्तराण्यपि संमान्तीति न प्रथमा स्यादित्यर्थः ।
शङ्कते-- यद्यपि निष्प्रदेशाः परमाणवस्तथापि संयोगस्तयोरव्याप्यवृत्तिरेवंस्वभावत्वात् ।
कैषा वाचोर्युक्तिर्निष्प्रदेशं संयोगो न व्याप्नोतीति ।
एवैष वाचोर्युक्तिर्यद्यथा प्रतीयते तत्तथाभ्युपेयत इति ।
तामिमां शङ्कां सूद्धारामाह-- #परमाणूनां कल्पिता इति# ।
नह्यस्ति संभवो निरवयव एकस्तदैव तेनैव संयुक्तश्चासंयुक्तश्चेति, भावाभावयोरेकस्मिन्नद्वये विरोधात् ।
अविरोधे वा न क्वचिदपि विरोधो ऽवकाशमासादयेत ।
प्रतीतस्तु प्रदेशकल्पनयापि कल्प्यते ।
तदिदमुक्तम्-- #कल्पिताः प्रदेशाः इति# ।
तथा च सूद्धारेयमिति तामुद्धरति-- #कल्पितानामवस्तुत्वादिति# ।
तृतीयं व्याख्यामाह-- #यथा चादिसर्ग इति# ।
नन्वभिघातनोदनादयः प्रलयारम्भसमये कस्माद्विभागारम्भककर्महेतवो न संभवन्त्यत आह-- #नहि तत्रापि किञ्चिन्नियतमिति# ।
संभवन्त्यभिघातादयः कदाचित् क्वचित् ।
न त्वपर्यायेण सर्वस्मिन् ।
नियमहेतोरभावादित्यर्थः ।
#न प्रलयप्रसिद्ध्यर्थमिति# ।
यद्यपि शरीरादिप्रलयारम्भे ऽस्ति दुःखभोगस्तथाप्यसौ पृथिव्यादिप्रलये नास्तीत्यभिप्रेत्येदमुदितमिति मन्तव्यम्
#समवायाभ्युपगमाच्च साम्यादनवस्थितेः# ।
व्याचष्टे-- #समवायाभ्युपगमाच्चेति# ।
न तावत् स्वतन्त्रः समवायो ऽत्यन्तं भिन्नः समवायिभ्यां समवायिनौ घटयितुमर्हत्यतिप्रसङ्गात् ।
तस्मादनेन समवायिसंबन्धिना सता समवायिनौ घटनीयौ, तथा च समवायस्य संबन्धान्तरेण समवायिसंबन्धे ऽभ्युपगम्यमाने ऽनवस्था ।
अथासौ संबन्धिभ्यां संबन्धे न संबन्धान्तरमपेक्षते संबन्धिसंबन्धनपरमार्थत्वात् ।
तथाहि -- नासौ भिन्ने ऽपि संबन्धिनिरपेक्षो निरूप्यते ।
न च तस्मिन् सति समबन्घिनावसंबन्घिनौ भवतः ।
तस्मात् स्वभावादेव समवायः समवायिनोर्न संबन्धान्तरेणेति नानवस्थेति चोदयति-- #नन्विहप्रत्ययग्राह्या इति# ।
परिहरति-- #नेत्युच्यते ।
संयोगो ऽप्येवमिति# ।
तथाहि-- संयोगो ऽपि संबन्धिसंबन्धनपरमार्थः ।
नच भिन्ने ऽपि संयोगिभ्यां विना निरूप्यते ।
नच तस्मिन् सति संयोगिनावसंयोगिनौ भवत इति तुल्यचर्चः ।
यद्युच्येत गुणः संयोगः , नच द्रव्यासमवेतो गुणो भवति, न चास्य समवायं विना समवेतत्वं, तस्मात्संयोगस्यास्ति समवाय इति शङ्कामपाकरोति--- #नच गुणत्वादिति# ।
यद्यसमवाये ऽस्यागुणत्वं भवति कामं भवतु न नः काचित्क्षतिः,तदिदमुक्तम्-- #गुणपरिभाषायाश्चेति# ।
परमार्थतस्तु द्रव्याश्रयीत्युक्तम् ।
तच्च विनापि समवायं स्वरूपतः संयोगस्योपपद्यत एव ।
नच कार्यत्वात्समवाय्यसमवायिकारणापेक्षितया संयोगः समवायीति युक्तम्च अजसंयोगस्यातथात्वप्रसङ्गात् ।
अपि च समवायस्यापि संबन्ध्यधीनसद्भावस्य संबन्धिनश्चैकस्य द्वयोर्वा विनाशित्वेन विनाशित्वात्कार्यत्वम् ।
नह्यस्ति संभवो गुणो वा गुणगुणिनौ वावयवो वावयवावयविनौ वा न स्तो ऽप्यस्ति च तयोः संबन्ध इति ।
तस्मात् कार्यः समवायः ।
तथा च यथैष निमित्तकारणमात्राधीनोत्पाद एवं संयोगो ऽपि ।
अथ समवायो ऽपि समवाय्यसमवायिकारणे अपेक्षते तथापि सैवानवस्थेति ।
तस्मात्समवायवत् संयोगो ऽपि न संबन्धान्तरमपेक्षते ।
यद्युच्येत संबन्धिनावसौ घटयति नात्मानमपि संबन्धिभ्यां, तत् किमसावसंबद्ध एव संबन्धिभ्याम्,एवं चेदत्यन्तभिन्नो ऽसंबद्धः कथं संबन्धिनौ संबन्धयेत् ।
संबन्धने वा हिमवद्विन्ध्यावपि संबन्धयेत् ।
तस्मात्संयोगः संयोगिनोः समवायेन संबद्ध इति वक्तव्यम् ।
तदेतत्समवायस्यापि समवायिसंबन्धे समानमन्यत्राभिनिवेशात् ।
तथा च चानवस्थेति भावः
#नित्यमेव च भावात्# ।
प्रवृत्तेरप्रवृत्तेर्वेति शेषः ।
अतिरोहितार्थमस्य भाष्यम्
#रूपादिमत्त्वाच्च विपर्ययो दर्शनात्# ।
यत् किल भूतभौतिकानां मूलकारणं तद्रूपादिमान् परमाणुर्नित्य इति भवद्भिरभ्युपेयते, तस्य चेद्रूपादिमत्त्वमभ्युपेयेत परमाणुत्वनित्यत्वविरुद्धे स्थौल्यानित्यत्वे प्रसज्येयातां, सो ऽयं प्रसङ्ग एकधर्माभ्युपगमे धर्मान्तरस्य ।
नियता प्राप्तिर्हि प्रसङ्गलक्षणं , तदनेन प्रसङ्गेन जगत्कारणप्रसिद्धये प्रवृत्तं साधनं रूपादिमन्नित्यपरमाणुसिद्धेः प्रच्याव्य ब्रह्मगोचरतां नीयते ।
तदेतद्वैशेषिकाभ्युपगमोपन्यासपूर्वकमाह-- #सावयवानां द्रव्याणामिति# ।
परमाणुनित्यत्वसाधनानि च तेषामुपन्यस्य दूषयति-- #यच्च नित्यत्वे कारणमिति ।
सदिति#प्रागभावाह्यवच्छिनत्ति ।
#अकारणवदिति#घटादेः ।
#यदपि#
#नित्यत्वे द्वितीयमिति# ।
लब्धरूपं हि क्वचित् किञ्चिदन्यत्र निषिध्यते ।
तेनानित्यमिति लौकिकेन निषेधेनान्यत्र नित्यत्वसद्भावः कल्पनीयः, ते चान्ये परमाणव इति ।
तन्न ।
आत्मन्यपि नित्यत्वोपपत्तेः ।
व्यपदेशस्य च प्रतीतिपूर्वकस्य तदभावे निर्मूलस्यापि दर्शनात् ।
यथेह वटे यक्ष इति ।
#यदपि नित्यत्वे तृतीयं कारणमविद्येति# ।
यदि सतां परमाणूनां परिदृश्यमानस्थूलकार्याणां प्रत्यक्षेण कारणाग्रहणमविद्या तया नित्यत्वम्, एवं सति द्व्यणुकस्यापि नित्यत्वम् ।
#अथाद्रव्यत्वे सतीति विशेष्येत#तथा सति न द्व्यणुके व्यभिचारः, तस्यानेकद्रव्यत्वेनाविद्यमानद्रव्यत्वानुपपत्तेः ।
#तथाप्यकारणवत्त्वमेव नित्यतानिमित्तमापद्येत,#यतो ऽद्रव्यत्वमविद्यमानकारणभूतद्रव्यत्वमुच्यते, तथा च पुनरुक्तमित्याह-- #तस्य चेति# ।
अपि चाद्रव्यत्वे सति सत्त्वादित्यत एवेष्टार्थसिद्धेरविद्येति व्यर्थम् ।
अथाविद्यापदेन द्रव्यविनाशकारणद्वयाविद्यमानत्वमुच्यते,द्विविधो हि द्रव्यनाशहेतुरवयवविनाशो ऽवयवव्यतिषङ्गविनाशश्च, तदुभयं परमाणौ नास्ति, तस्मान्नित्यः परमाणुः ।
नच सुखादिभिर्व्यभिचारः, तेषामद्रव्यत्वादित्याह-- #अथापीति# ।
निराकरोति-- #नावश्यमिति# ।
यदि हि संयोगसचिवानि बहूनि द्रव्याणि द्रव्यान्तरमारभेरन्निति प्रक्रिया सिध्येत् सिध्येत् द्रव्यद्वयमेव(?) तद्विनाशकारणमिति ।
नत्वेतदस्ति, द्रव्यस्वरूपापरिज्ञानात् ।
न तावत् तन्त्वाधारस्तद्व्यतिरिक्तः पटो नामास्ति यः संयोगसचिवैस्तन्तुभिरारभ्येतेत्युक्तमधस्तात्. षट्पदार्थस्य दूषयन्नग्रे वक्ष्यति ।
किन्तु कारणमेव #विशेषवदवस्थान्तरमापद्यमानं#कार्यं, तच्च सामान्यात्मकम् ।
तथाहि-- मृद्वा सुवर्णं वा सर्वेषु घटरुचकादिष्वनुगतं सामान्यमनुभूयते ।
न चैते घटरुचकादयो मृत्सुवर्णाभ्यां व्यतिरिच्यन्त इत्युक्तम् ।
अग्रे च वक्ष्यामः ।
तस्मान्मृत्सुवर्णे एव तेन तेनीकारेण परिणममाने घट इति च रुचक इति च कपालशर्कराकणमिति च शकलकणिकाचूर्णमिति च व्याख्यायेते ।
तत्र तत्रोपादानयोर्मृत्सुवर्णयोः प्रत्यभिज्ञानात् ।
न तु घटादयो वा कपालादिषु कपालादयो वा घटादिषु च रुचकादयो वा शकलादिषु शकलादयो वा रुचकादिषु प्रत्यभिज्ञायन्ते यत्र कार्यकारणभावो भवेत् ।
न च विनश्यन्तमेव घटक्षणं प्रतीत्य कपालक्षणो ऽनुपादान एवोत्पद्यते तत्किमुपादानप्रत्यभिज्ञानेनेति वक्तव्यम्, एतस्या अपि वैनाशिकप्रक्रियाया उपरिष्टान्निराकरिष्यमाणत्वात् ।
तस्मादुपजनापायधर्माणो विशेषावस्थाः सामान्यस्योपादेयाः, सामान्यात्मा तूपादानम् ।
एवं व्यवस्थिते यथा सुवर्णद्रव्यं काठिन्यावस्थामपहाय द्रवावस्थया परिगणितं, न च तत्रावयवविभागः सन्नपि द्रवत्वे कारणं, परमाणूनां भवन्मते तदभावेन द्रवत्वानुपपत्तेः, तस्माद्यथा एवं गुणादयो न द्रव्याद्यनधीननिरूपणाः, अपि तु यदा यदा निरूप्यन्ते तदा तदा तदाकारतयैव प्रथन्ते न तु प्रथायामेषामस्ति स्वातन्त्र्यं, तस्मान्नातिरिच्यन्ते द्रव्यादपि तु द्रव्यमेव सामान्यरूपं तथा तथा प्रथत इत्यर्थः ।
द्रव्यकार्यत्वमात्रं गुणादीनां द्रव्याधीनत्वमिति मन्वानश्चोदयति-- #नन्वग्रेरन्यस्यापीति# ।
परिहरति- #भेदप्रतीतेरिति# ।
न तदधीनोत्पादतां तदधीनत्वमाचक्ष्महे किन्तु तदाकारतां, तथा च न व्यभिचार इत्यर्थः ।
शङ्कते- #गुणानां द्रव्याधीनत्वं द्रव्यगुणयोरयुतसिद्दत्वादिति यद्युच्येत# ।
यत्र हि द्वावाकारिणौ विभिन्नाभ्यामाकाराभ्यामवगम्यते तौ संबद्धासंबद्धौ वा वैयधिकरण्येन प्रतिभासेते,यथेह कुण्डे दधि यथा वा गौरश्व इति, न तथा गुणकर्मसामान्यविशेषसमवायाः, तेषां द्रव्यकारतयाकारान्तरायोगेन द्रव्यादाकारिणो ऽन्यत्वेनाकारितया व्यवस्थानाभावात् सेयमयुतसिद्धिः ।
तथा च सामानाधिकरण्येन प्रथेत्यर्थः ।
तामिमामयुतसिद्धिं वकल्प्य दूषयति--
#तत्पुनरयुतसिद्धत्वमिति# ।
तत्रापृथग्देशत्वं तदभ्युपगमेन विरुध्यत इत्याह-- #अपृथग्देशत्व इति# ।
यदि तु संयोगिनोः कार्ययोः संबन्धिभ्यामन्यदेशत्वे युतसिद्धिस्ततो ऽन्यायुतसिद्धिः, नित्ययोस्तु संयोगिनोर्द्वयोरन्यतरस्य वा पृथग्गतिमत्त्वं युतसिद्धिस्ततो ऽन्यायुतसिद्धिः, तथा चाकाशपरमाण्वोः परमाण्वोश्च संयुक्तयोर्युतसिद्धिः सिद्धा भवति ।
गुणगुणिनोश्च शौक्ल्यपटयोरयुतसिद्धिः सिद्धा भवति ।
नहि तत्र शौक्ल्यपटाभ्यां संबन्धिभ्यामन्यदेशौ शौक्ल्यपटौ ।
सत्यपि पटस्य तदन्यतन्तुदेशत्वे शौक्ल्यस्य संबन्धिपटदेशत्वात् ।
तन्न ।
नित्ययोरात्माकाशयोरजसंयोगे उभयस्या अपि युतसिद्धेरभावात् ।
न हि तयोः पृथगाश्रयाश्रितत्वमनाश्रयत्वात् ।
नापि द्वयोरन्यतरस्य वा पृथग्गतिमत्वममूर्तत्वेनोभयोरपि निष्क्रियत्वात् ।
न चाजसंयोगो नास्ति तस्यानुमानसिद्धत्वात् ।
तथाहि -- आकाशमात्मसंयोगि, मूर्तद्रव्यसङ्गित्वात्, घटादिवदित्यनुमानम् ।
पृथगाश्रयाश्रयित्वपृथग्गतिमत्वलक्षणयुतसिद्धेरन्या त्वयुतसिद्धिर्यद्यपि नाभ्युपेतविरोधमावहति तथापि न सामानाधिकरण्यप्रथामुपपादयितुमर्हति ।
एवं लक्षणे ऽपि हि समवाये गुणगुणिनोरभ्युपगम्यमाने संबद्धे इति प्रत्ययः स्यान्न तादात्म्यप्रत्ययः ।
अस्य चोपपादनाय समवाय आस्थीयते भवद्भिः ।
स चेदास्थितो ऽपि न प्रत्ययमिममुपपादयेत् कृतं तत्कल्पनया ।
न च प्रत्यक्षः सामानाधिकरण्यप्रत्ययः समवायगोचरः,तद्विरुद्धार्थत्वात् ।
तद्गोचरत्वे हि पटे शुक्ल इत्येवमाकरः स्यान्न तु पटः शुक्ल इति ।
नच शुक्लपदस्य गुणविशिष्टगुणिपरत्वादेवं प्रथेति सांप्रतम् ।
नहि शब्दवृत्त्यनुसारि प्रत्यक्षम् ।
नह्यग्निर्माणवक इत्युपचरिताग्निभावो माणवकः प्रत्यक्षेण दहनात्मना प्रथते ।
न चायमभेदबिभ्रमः समवायनिबन्धनो भिन्नयोरपीति वाच्यम्, गुणादिसद्भावे तद्भेदे च प्रत्यक्षानुभवादन्यस्य प्रमाणस्याभावात्तस्य च भ्रान्तत्वे सर्वाभावप्रसङ्गात् ।
तदाश्रयस्य तु भेदसाधनस्य तद्विरुद्धयोत्थानासंभवात् ।
तदिदमुक्तम्-- #तस्य तादात्म्येनैव प्रतीयमानत्वादिति# ।
अपि चायुतसिद्धशब्दो ऽपृथगुत्पत्तौ मुख्यः, सा च भवन्मते न द्रव्यगुणयोरस्ति, द्रव्यस्य प्राक्सिद्धेर्गुणस्य च पश्चादुत्पत्तेः, तस्मान्मिथ्यावादो ऽयमित्याह-- #युतसिद्धयोरिति# ।
अथ भवतु कारणस्य युतसिद्धिः, कार्यस्य त्वयुतसिद्धि कारणातिरेकेणाभावादित्याशङ्क्यान्यथा दूषयति-- #एवमपीति# ।
संबन्धिद्वयाधीनसद्भावो हि संबन्धो नासत्येकस्मिन्नपि संबन्धिनि भवितुमर्हति ।
नच समवायो नित्यः स्वतन्त्र इति चोक्तमधस्तात् ।
नच कारणसमवायादनन्या कार्यस्योत्पत्तिरिति शक्यं वक्तुम्, एवं हि सति समवायस्य नित्यत्वाभ्युपगमात् कारणवैयर्थ्यप्रसङ्गः ।
उत्पत्तौ च समवायस्य सैव कार्यस्यास्तु किं समवायेन ।
सिद्धयोस्तु संबन्धे युतसिद्धिप्रसङ्गः ।
न चान्यायुतसिद्धिः संभवतीत्येतदुक्तम् ।
ततश्च यदुक्तं वैशेषिकैर्युतसिद्ध्यभावात् ।
#कार्यकारणयोः संयोगविभागौ न विद्यते इतीदं दुरुक्तं स्यात्# ।
युतसिध्द्यभावस्यैवाभावात् ।
एतेनाप्राप्तिसंयोगौ युतसिद्धिरित्यपि लक्षणमनुपपन्नम् ।
मा भूदप्राप्तिः कार्यकारणयोः, प्राप्तिस्त्वनयोः संयोग एव कस्मान्न भवति,तत्रास्या असंयोगत्वायान्यायुतसिद्धिर्वक्तव्या ।
तथा च सैवोच्यतां किमनया परम्पराश्रयदोषग्रस्तया ।
न चान्या संभवतीत्युक्तम् ।
यद्युच्येताप्राप्तिपूर्विका प्राप्तिरन्यतरकर्मजोभयकर्मजा वा संयोगः, यथा स्थाणुश्येनयोर्मल्लयोर्वा ।
नच तन्तुपटयोः संबन्धस्तथा, उत्पन्नमात्रस्यैव पटस्य तन्तुसंबन्धात् ।
तस्मात्समवाय एवायमित्यत आह-- #यथा चोत्पन्नमात्रस्येति# ।
संयोगजो ऽपि हि संयोगो भवद्भिरभ्युपेयते न क्रियाज एवेत्यर्थः ।
न चाप्राप्तिपूर्विकैव प्राप्तिः संयोगः, आत्माकाशसंयोगे नित्ये तदभावात्, कार्यस्य चेत्पन्नमात्रस्यैकस्मिन् क्षणे कारणप्राप्तिविरहाच्चेति ।
अपि च संबन्धिरूपातिरिक्ते संबन्धे सिद्धे तदवान्तरभेदाय लक्षणभेदो ऽनुश्रीयेत स एव तु संबन्ध्यतिरिक्तो ऽसिद्धः, उक्तं हि परस्तादतिरिक्तः संबन्धिभ्यां संबन्धो ऽसंबद्धो न संबन्धिनौ घटयितुमिष्टे ।
संबन्धिसंबन्धे चानवस्थितिः ।
तस्मादुपपत्त्यनुभवाभ्यां न कार्यस्य कारणादन्यत्वम्, अपि तु कारणस्यैवायमनिर्वाच्यः परिणामभेद इति ।
तस्मात् कार्यस्य कारणादनतिरेकान् किं केन संबद्धं, संयोगस्य च संयोगिभ्यामनतिरेकात् कस्तयोः संयोग इत्याह-- #नापि संयोगस्येति# ।
विचारासहत्वेनानिर्वाच्यतामस्यापरिभावयन्नाशङ्कते-- #संबन्धिशब्दप्रत्यय्यतिरेकेणेति# ।
निराकरोति-- #न ।
एकत्वे ऽपि स्वरूपबाह्यरूपापेक्षयेति# ।
तत्तदनिर्वचनीयानेकविशेषावस्थाभेदापेक्षयैकस्मिन्नपि नानाबुद्धिव्यपदेशोपपत्तिरिति ।
यथैको देवदत्तः स्वगतविशेषापेक्षया मनुष्यो ब्राह्मणो ऽवदातः, स्वगतावस्थाभेदापेक्षया बालो युवा स्थविरः, स्वक्रियाभेदापेक्षया क्षोत्रियः, परापेक्षया तु पिता पुत्रः पौत्रो भ्राता जामातेति ।
निदर्शनान्तरमाह-- #यथा चैकापि सती रेखेति# ।
दार्ष्टान्तिके योजयति-- #तथा संबन्धिनोरिति# ।
अङ्गुल्योर्नौरन्तर्यं संयोगः, दधिकुण्डयोरौत्तराधर्यं संयोगः ।
कार्यकारणयोस्तु तादात्म्ये ऽप्यनिर्वाच्यस्य कार्यस्य भेदं विवक्षित्वा #संबन्धिनो#रित्युक्तम् ।
#नापि संबन्धिविषयत्वे संबन्धशब्दप्रत्यययोः#इत्येतदप्यनिर्वाच्यभेदाभिप्रायम् ।
अपिचादृष्टवत्क्षेत्रज्ञसंयोगात् परमाणुमनसोश्चाद्यं कर्म भवद्भिरिष्यते ।
ऽअग्नेरूर्ध्वज्वलनं वायोस्तिर्यक्पवनमणुमनसोश्चाद्यं कर्मेत्यदृष्टकारितानिऽ इति वचनात् ।
न चाणुमनसोरात्मानाप्रदेशेन संयोगः संभवति ।
संभवे चाणुमनसोरात्मव्यापित्वात् परममहत्त्वेनानणुत्वप्रसङ्गात् ।
नच प्रदेशवृत्तिरनयोरात्मना संयोगो ऽप्रदेशत्वादात्मनः,कल्पनायाश्च वस्तुतत्त्वव्यवस्थापनासहत्वादतिप्रसङ्गादित्याह-- #तथाण्वात्ममनसामिति# ।
#किञ्चान्यत्#द्वाभ्यामणुभ्यां कारणाभ्यां सावयवस्य कार्यस्य #द्व्यणुकस्याकाशेनेव संश्लेषानुपपत्तिः# ।
संश्लेषः संग्रहो यत एकसंबन्ध्याकर्षे संबन्ध्यन्तराकर्षो भवति तस्यानुपपत्तिरिति ।
अत एव संयोगादन्यः #कार्यकारणद्रव्ययोराश्रयाश्रितभावो ऽन्यथा#
#नोपपद्यत इत्यवश्यं कल्पनीयः समवाय इति चेत्# ।
निराकरोति-- #न# ।
कुतः ।
#इतरेतराश्रयत्वात्# ।
तद्विभजते-- #कार्यकारणयोर्हीति ।
किञ्चान्यत् ।
परमाणूनामिति ।
#ये हि परिच्छिन्नास्ते सावयवाः, यथा घटादयः ।
तथा च परमाणवः, तस्मात्सावयवा अनित्याः स्युः ।
अपरिच्छिन्नत्वे चाकाशादिवत् परमाणुत्वव्याघातः शङ्कते-- #यांस्त्वमिति# ।
निराकरोति-- #न ।
स्थूलेति# ।
किं सूक्ष्मत्वात् परमाणवो न विनश्यन्त्यथ निरवयवतया तत्र पूर्वस्मिन् कल्पे इदमुक्तम्-- #वस्तुभूतापीति# ।
भवन्मते उत्तरं कल्पमाशङ्क्य निराकरोति-- #विनश्यन्तो ऽप्यवयवविभागेनेति ।
यथा हि घृतसुवर्णादीनामविभज्यमानावयवानामपीति# ।
यथा हि पिष्टपिण्डो ऽविनश्यदवयवसंयोग एव प्रथते,
प्रथमानश्चाश्वशफाकारतां नीयमानः पुरोडाशतामापद्यते,तत्र पिण्डो नश्यति पुरोडाशश्चोत्पद्यते, नहि तत्र पिण्डावयवसंयोगा विनश्यन्ति,अपि तु संयुक्ता एव सन्तः परं प्रथनेन नुद्यमाना अधिकदेशव्यापका भवन्ति, एवमग्निसंयोगेन सुवर्णद्रव्यावयवाः संयुक्ता एव सन्तो द्रवीभावमापद्यन्ते, नतु मिथो विभज्यन्ते ।
तस्माद्यथावयवसंयोगविनाशावन्तरेणापि सुवर्णपिण्डो विनश्यति, संयोगान्तरोत्पादमन्तरेण च सुवर्णे द्रव उपजायते, एवमन्तरेणाप्यवयवसंयोगविनाशं परमाणवो विनङ्क्ष्यन्त्यन्ये चोत्पत्स्यन्त इति सर्वमवदातम्
मूल पाठ: Bhāmati a commentary on Śaṃkara's Brahmasūtrabhāṣya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0