भाषा

ENहिગુ
ग्रंथ पाठ

भामति · अध्याय 12

12.1

#इति प्रथमाध्यायस्य उपास्यब्रह्मवाचकास्पष्टश्रुतिसमन्वयाख्यो द्वितीयः पादः#
#प्रथमाध्याये तृतीयः पादः# ।
1.3.1.1.
#द्युभ्वाद्यायतनं स्वशब्दात्# ।
इह ज्ञेयत्वेन ब्रह्मोपक्षिप्यते ।
तत्र ऽपारवत्त्वेन सेतुत्वाद्भेदे षष्ठ्याः प्रयोगतः ।
द्युभ्वाद्यायतनं युक्तं नामृतं ब्रह्म कर्हिचित् ॥
ऽ पारावारमथ्यपाती हि सेतुः ताभ्यामवच्छिद्यमानो जलविधारको लोके दृष्टः, नतु बन्धनहेतुमात्रम् ।
हडिनिगाडादिष्वपि प्रयोगप्रसङ्गात्. न चानवच्छिन्नं ब्रह्म सेतुभावमनुभवति ।
न सद्ब्रह्मामृतस्य सेतुरिति युज्यते ।
नच ब्रह्मणो ऽन्यदमृतमस्ति, यस्य तत्सेतुः, स्यात् ।
न चाभेदे षष्ठ्याः प्रयोगो दृष्टपूर्वः ।
तदिदमुक्तम्- #अमृतस्यैष सेतुरिति श्रवणादिति# ।
अमृतस्येति श्रवमात्, इति योजना ।
तत्रामृतस्येति श्रवणादिति विशब्दतया न व्याख्यातम् ।
सेतुरिति श्रवणादिति व्याचष्टे- #पारवानिति# ।
तथाच पारवत्यमृतव्यतिरिक्ते सेतावनुश्रियमाणे प्रधानं वा सांख्यपारिकल्पितं भवेत् ।
तत् खलु स्वकार्योपहितमर्यादतया पुरुषं यावदगच्छद्भवतीति पारवत्, भवति च द्युभ्वाद्यायतनं, तत्प्रकृतित्वात्, प्रकृत्यायतनत्वाच्च विकारामां, भवति चात्मात्मशब्दस्यस्वभाववचनत्वात्, प्रकाशात्मा प्रदीप इतिवत् ।
भवति चास्य ज्ञानमपवर्गोपयोगि, तदभावे प्रधानाद्विवेकेन पुरुषस्यानवधारणादपवनुपर्गापत्तेः ।
यदि त्वस्मिन्प्रमाणाभावेन न परितुष्यसि, अस्तु तर्हि नामरूपबीजशक्तिभूतमव्याकृतं भूतसूक्ष्मं द्युभ्वाद्यायतनं, तस्मिन् प्रामाणिके सर्वस्योक्तस्योपपत्तेः ।
एतदपि प्रधानोपन्यासेन सूचितम् ।
अथ तु साक्षाच्छुत्युक्तं द्युभ्वाद्यायतनमाद्रियमे, ततो वायुरेवास्तु ।
ऽवायुना वै गौतम सूत्रेणाय च लोकः परश्च लोकः सर्वाणि च भूतानि संदृब्धानि भवन्तिऽ इति श्रुतेः ।
यदि पुनरस्य द्युभ्वाद्यायतनस्य सार्वज्ञ्यश्रुतेरत्रापि न परितुष्यमि, भवतु ततो हिरण्यगर्भ एव भगवान् सर्वज्ञः सूत्रात्मा द्युभ्वाद्यायतनम् ।
तस्य हि कार्यत्वेन पारवत्त्वं चामृतात्परब्रह्मणो भेदश्चेत्यादि सर्वमुपपद्यते ।
अयमपि ऽवायुना वै गोतम सूत्रेणऽ इति श्रुतिमुपन्यस्यता सूचितः ।
तस्मादयं द्युपर्भृतीनामायतनमित्येवं प्राप्ते ऽभिधीयते ।
द्यभ्वाद्यायतनं परं ब्रह्मैव, न प्रधानाव्याकृतवायुशारीरहिरण्गर्भाः ।
कुतः, स्वशब्दात् ।
ऽधारणाद्वामृतत्वस्य साधनाद्वास्य सेतुता ।
पूर्वपक्षे ऽपि मुख्यार्थः सेतुशब्दो हि नेष्यते ॥
ऽ नहि मृद्दारुमयो मूर्तः पारावारमध्यवर्ती पाथसां विधारको लोकसिद्धः सेतुः प्रधानं वाव्याकृतं वा वायुर्वा जीवो वा सूत्रात्मा वाभ्युपेयते ।
किन्तु पारवत्तामात्रपरो लक्षणिकः सेतुशब्दो ऽभ्युपेयः ।
सो ऽस्माकं पारवत्तावर्जं विधरणत्वमात्रेण योगमात्राद्रूढिं परित्यज्य प्रवर्त्स्यति ।
जीवानाममृतत्वपदप्राप्तिसाधनत्वं वत्मज्ञानस्य पारवत एव लक्षयिष्यति ।
अमृतशब्दश्च भावप्रधानः ।
यथा ऽद्व्येकयोर्द्विवचनैकवचनेऽ इत्यत्र द्वित्वैकत्वे द्व्येकशब्दार्थौ, अन्यथा द्व्येकेष्विति स्यात् ।
तदिदमुक्तं भाष्यकृता #अमृतत्वसाधनत्वादिति# ।
तथा चामृतस्येति च सेतुरिति च ब्रह्मणि द्युभ्वाद्यायतने उपपत्स्येते ।
अत्र च स्वशब्दादिति तन्त्रोच्चरिततमात्मशब्दादिति च सदायतना इति सच्छब्दादिति च ब्रह्मशब्दादिति च सूचयति ।
सर्वे ह्येते ऽस्य स्वशब्दाः ।
स्यादेतत् ।
आयतनायतनव्भावः सर्वं ब्रह्मेति च सामानाधिकरण्यं हिरण्यगर्भेप्युपपद्यते ।
तथाच स एवात्रास्त्वमृतत्वस्य सेतुरित्याशङ्क्य श्रुतिवाक्येन सावधारणेनोत्तरमाह- #तत्रायतनायतनवद्भावश्रवणादिति# ।
विकाररूपे ऽनिर्वाच्यऽभिसंधानं यस्याभिसंधानुपुरुषस्य स तथोक्तः ।
भेदप्रपञ्चं सत्यमभिमन्यमान इति यावत् ।
तस्यापवादो दोषः श्रूयते #-मृत्योरिति ।
सर्वं ब्रह्मेति त्विति# ।
यत्सर्वमविद्यारोपितं तत्सर्वं परमार्थ ब्रह्म ।
न तु यद्ब्रह्म तत्सर्वमित्यर्थः ।
#अपर आहेति# ।
नात्र द्युभ्वाद्यायतनस्य सेतुनोच्यते येन पारवत्ता स्यात् ।
किन्तु ऽजानथऽ इति यज्ज्ञानं कीर्तितं, यश्च ऽवाचो विमुञ्चथऽ इति वाग्विमोकः, तस्यामृतत्वसाधनत्वेन सेतुतोच्यते ।
तच्चोभयमपि पारदेव ।
नच प्राधान्यादेष इति सर्वनाम्ना द्युभ्वाद्यायतनमात्मैव परामृश्यते, न तु तज्ज्ञानवाग्विमोचने इति सांप्रतम् ।
वाग्विमोचनात्मज्ञानभावनयोरेव विधेयत्वेन प्राधान्यात् ।
आत्मानस्तु द्रव्यस्याव्यापारतयाविधेयत्वात् ।
विधेयस्य व्यापारस्यैव योग्यतया गुणो ऽपि परामृश्यते

12.2

1.3.1.2
#मुक्तोपसृप्यव्यपदेशात्# ।
द्युभ्वाद्यायतनं प्रकृत्याविद्यादिदोषमुक्तैरुपसृत्यं व्यपदिश्यते-ऽभिज्यते हृदयग्रन्थिःऽ इत्यादिना ।
तेन तत् द्युभ्वाद्यायतनविषयमेव ।
ब्रह्मणश्च मुक्तोपसृप्यत्वं ऽयदा सर्वे प्रमुच्यन्तेऽ इत्यादौ श्रुत्यन्तरे प्रसिद्धम् ।
तस्मान्मुक्तोपसृप्यत्वात् ।
द्युभ्वाद्यायतनं ब्रह्मेति निश्चीयते ।
हृदयग्रन्थिश्चाविद्यारागाद्वेषभयमोहाः ।
मोहश्च विषादः, शोकः ।
परं हिरण्यगर्भाद्यवरं यस्य तद्ब्रह्म तथोक्तम् ।
तस्मिन्ब्रह्मणि यद्दृष्टं दर्शनं तस्मिंस्तदर्थमिति यावत् ।
यथा ऽचर्मणि द्वीपिनं हन्तिऽ इति चर्मार्थमिति गम्यते ।
नामरूपादित्यविद्याभिप्रायम् ।
#कामा ये ऽस्य हृदि श्रिता इति# ।
कामा इत्यविद्यामुपलक्षयति

12.3

1.3.1.3.
#नानुमानमतच्छब्दात्# ।
नानुमानमित्युपलक्षणम् ।
नाव्याकृतमित्यपि द्रष्टव्यं, हेतोरुभयत्रापि साम्यात्

12.4

1.3.1.4.
#प्रणभृच्च# ।
चेनातच्छब्दत्वं हेतुरनकृष्यते ।
स्वयं च भाष्यकृदत्र हेतुमाह- #न चोपाधिपरिच्छिन्नस्येति# ।
न सम्यक् संभवति ।
नाञ्जसमित्यर्थः ।
भोग्यत्वेन हि आयतनत्वमिति क्लिष्टम् ।
स्यादेतत् ।
यद्यतच्छब्दत्वादित्यत्रापि हेतुरनक्रष्टव्यः, हन्त कस्मात्पृथग्योगकरणं, यावता ऽन प्राणभृदनुमानेऽ इत्येक एव योगः कस्मान्न कृत इत्यत आह- #पृथगिति# ।
ऽभेदव्यपदेशात्ऽ इत्यादिना हि प्राणभृदेव निषिध्यते, न प्रधानं, तच्चैकयोगकरणे दुर्विज्ञानं स्यादिति

12.5

1.3.1.5.

12.6

1.3.1.6.
#प्रकरणात्# ।
न खलु हिरण्यगर्भादिषु ज्ञातेषु सर्वं ज्ञातं भवति किन्तु ब्रह्मण्येवेति

12.7

1.3.1.7.
#स्थित्यदनाभ्यां च# ।
यदि जीवो हिरण्यगर्भो वा द्युभ्वाद्यायतनं भवेत्, ततस्तत्प्रकृत्या ऽअनश्रन्नन्यो ऽअभिचाकशीतिऽ इति परमात्माभिधानमाकस्मिकं प्रसज्येत ।
नच हिरण्यगर्भ उदासीनः, तस्यापि भोक्तृत्वात् ।
नच जीवात्मैव द्युभ्वाद्यायतनं, तथा सति स एवात्र कथ्यते, तत्कथनाय च ब्रह्मापि कथ्यते, अन्यथा सिद्धान्ते ऽपि जीवात्मकथनमाकस्मिकं स्यादिति वाच्यम् ।
यतो ऽनधिगतार्थावबोधनस्वरसेनाम्नायेन प्राणभृन्मात्रप्रसिद्धजीवात्मधिगमायात्यन्तानवगतमलौकिकं ब्रह्मावबोध्यत इति सुभाषितम्- #यदापि पैङ्ग्युपनिषत्कृतेन व्याख्यानेनेति# ।
तत्र हि ऽअनश्रन्नन्यो ऽअभिचाकशीतिऽ इति जीव उपाधिरहितेन रूपेण ब्रह्मस्वभाव उदासीनो ऽभोक्ता दर्शितः ।
तदर्थमेवाचेतनस्य बुद्धिसत्त्वस्यापारमार्थिकं भोक्तृत्वमुक्तम् ।
तथा चेत्थंभूतं जीवं कथयतानेन मन्त्रवर्णेन द्युभ्वाद्यायतनं ब्रह्मैव कथितं भवति, उपाध्यवच्छिन्नश्च जीवः प्रतिषिद्धो भवतीति ।
न पौङ्गिब्राह्मणविरोध इत्यर्थः ।
#प्रपञ्चार्थमिति# ।
तन्मध्ये न पठितमिति कृत्वाचिन्तयेदमधिकरणं प्रवृत्तमित्यर्थः

12.8

1.3.2.8.
#भूमा संप्रसादादध्युपदेशात्# ।
नारदः खलु देवर्षिः कर्मविदनात्मवित्तया शोच्यमात्मानं मन्यमानो भगवन्तमात्मज्ञमाजानसिद्धं महायोगिनं सनत्कुमारमुपससाद ।
उपसद्य चोवाच्, भगवन्, अनात्मज्ञताजनितशोकसागरपारमुत्तारयतु मां भगवानिति ।
तदुपश्रुत्य सनत्कुमारेण ऽनाम ब्रह्मेत्युपास्त्वऽ इत्युक्ते नारदेन पृष्टं किंनाम्नो ऽस्ति भूय इति ।
तत्र सनत्कुमारस्य प्रतिवचनम्-ऽवाग्वाव नाम्नो भूयसीऽ इति ।
तदेवं नारदसनत्कुमारयोर्भूयसी ।
प्रश्नोत्तरे वागिन्द्रियमुपक्रम्य मनःसंकल्पचित्तध्यानविज्ञानबलान्नतोयवायुसहिततेदोनभः स्मारशाप्राणेषु पर्यवसिते ।
कर्तव्याकर्तव्यविवेकः संकल्पः, तस्य कारणं पूर्वापरविषयनिमित्तप्रयोजननिरूपणं चित्तम् ।
स्मरः स्मरणम् ।
प्राणस्य च समस्तक्रियाकारकफलभेदेन पित्राद्यात्मत्वेन च रथारनाभिदृष्टान्तेन सर्वप्रतिष्ठत्वेन च प्राणभूयस्त्वदर्शिनो ऽतिवादित्वेन च नामादिप्रपञ्चादशान्ताद्भूयस्त्वमुक्त्वापृष्ट एव नारदेन सनत्कुमार एकग्रन्थेन ऽएष तु वा अतिवदति यः सत्येनातिवदतिऽ इति सत्यादीन्कृतिपर्यन्तानुक्त्वोपदिदेश-ऽसुखं त्वेव विजिज्ञासितव्यम्ऽ इति ।
तदुपश्रुत्य नारदेन ऽसुखं त्वेव भगवो विजिज्ञासेऽ इत्युक्ते सनत्कुमारः ऽयो वै भूमा तत्सुखम्ऽ इत्युपक्रम्य भूमानं व्युत्पादयांबभूव-ऽयत्र नान्यत्पश्यतिऽ इत्यादिना ।
तदिदृशे विषये विचार आरभ्यते ।
तत्र संशयः-किं प्राणो भूमा स्यादाहो परमात्मेति ।
भावभवित्रोस्तादात्मविवक्षया सामानाधिकरण्यं संशयस्य बीजमुक्तं भाष्यकृता ।
तत्र ऽएतस्मिन् ग्रन्थसंदर्भे यदुक्ताद्भूयसो ऽन्यतः ।
उच्यमानं तु तद्भूय उच्यते प्रश्नपूर्वकम् ॥
ऽ नच प्राणात् किं भूय इति पृष्टम् ।
नापि भूमा वास्माद्भूयानिति प्रत्युक्तम् ।
तस्मात्प्राणभूयस्त्वाभिधानानन्तरमपृष्ठेन भूमोच्यमानः प्राणस्यैव भवितुमर्हति ।
अपिच भूमेति भावो न भवितारमान्तरेण शक्यो निरूपयितुमिति भवितारमपेक्षमाणः प्राणस्यानन्तर्येण बुद्धिसंनिधानात्तमेव भवितारं प्राप्य निर्वृणोति ।
ऽयस्योभयं हविरार्तिमार्च्छेत्ऽ इत्यत्रार्तिवार्तं हविः ।
यथाहुः ऽमृष्यामहे हविषा विशेषणम्ऽ इति ।
न चात्मनः प्रकरणादात्मैव बुद्धैस्थ इति तस्यैव भूमा स्यादिति युक्तम् ।
सनत्कुमारस्य ऽनाम ब्रह्मेत्युपास्त्वऽ इति ।
प्रतीकोपदेशरूपेणोत्तरेण नारदप्रश्नस्यापि तद्विषयत्वेन परमात्मोपदेशप्रकरणस्यानुत्थानात् ।
अतद्विषयत्वे चोत्तरस्य प्रषश्नोत्तरयोर्वैयधिकरण्येन विप्रतिपत्तेरप्रामाण्यप्रसङ्गात् ।
तस्मादसति प्रकरणे प्राणस्यानन्तर्यात्तस्यैव भूमेति युक्तम् ।
तदेतत्संशयबीजं दर्शयता भाष्यकारेण सूचितं पूर्वपक्षसाधनमिति न पुनरुक्तम् ।
नच भूयोभूयः प्रश्नात्परमात्मैव नारदेन जिज्ञासित इति युक्तम् ।
प्राणोपदेशानन्तरं तस्योपरमात् ।
तदेवं प्राण एव भूमेति स्थिते यद्यत्तद्विरोधितया वचः प्रतिभाति तत्तदनुगुणतया नेयम् ।
नीतं च भाष्यकृता ।
स्यादेतत् ।
ऽएष तु वा अतिवदतिऽ इति तुशब्देन प्राणदर्शिनो ऽतिवादिनो व्यवच्छिद्य सत्येनातिलादित्वं वदन् कथं प्राणस्य भूमानमभिदधीतेत्यत आह- #प्राणमेव त्विति ।
प्राणदर्शिनश्चातिवादित्वमिति# ।
नामाद्याशान्तमतीत्य वदनशीलत्वमित्यर्थः ।
एतदुक्तं भवति-नायं तुशब्दः प्राणातिवादित्वाद्वयवच्छिनत्ति, अपितु तदतिवादित्वमपरित्यज्य प्रत्युत तदनुकृष्य तस्यैव प्राणस्य सत्यस्य श्रवणमननश्रद्धानिष्ठकृतिभिर्विज्ञानाय निश्चयाय सत्येनातिवदतीति प्राणव्रतमेवातिवादित्वमुच्यते ।
तुशब्दो नामाद्यतिवादित्वद्व्यवच्छिनत्ति ।
न नामाद्याशान्तवाद्यतिवादि, अपितु सत्यप्राणवाद्यतिवादित्यर्थः ।
अत्र चागमाचार्योपदेशाभ्यां सत्यस्य श्रवणम् ।
अथागमाविरोधिन्यायनिवेशनं मननं, मत्वा च गुरुशिष्यसब्रह्मचारिभिरनुसूयुभिः सह संवाद्य तत्त्वं श्रद्धत्ते ।
श्रद्धानन्तरं च विषयान्तरदर्शी निरक्तस्ततो व्यावृत्तस्तत्त्वज्ञानाभ्यासं करोति, सेयमस्य कृतिः प्रयत्नः ।
अथ तत्त्वज्ञानाभ्यासनिष्ठा भवति, यदनन्तरमेव तत्त्वविज्ञानमनुभवः प्रादुर्भवति ।
तदेतद्बाह्या ।
अप्याहुः-ऽभूतार्थभावनाप्रकर्षपर्यन्तजं योगिज्ञानम्ऽ इति भावनाप्रकर्षस्य प्रयन्तो निष्ठा तस्माज्जायते तत्त्वानुभव इति ।
तस्मात्प्राण एव भूमेति प्राप्ते ऽभिधीयते-ऽएष तु वा अतिवदति यः सत्येनातिवदतिऽ इत्युक्त्वा भूमोच्यते ।
तत्र सत्यशब्दः परमार्थे निरूढवृत्तिः श्रुत्या परमार्थमाह ।
परमार्थश्च परमात्मैव ।
ततो ह्यन्यत्सर्वं विकारजातमनृतं कयाचिदपेक्षया कथञ्चित्सत्यमुच्यते ।
तथाच ऽएष तु वा अतिवदति यः सत्येनातिवदितिऽ इति ब्रह्मणो ऽतिवादितं श्रुत्यान्यनिरपेक्षया लिङ्गादिभ्यो बलीयस्यावगमितं कथमिव संनिधानमात्रात् श्रुत्याद्यपेक्षादतिदुर्बलात्कथं चित्प्राणनिषयत्वेन शक्यं व्याख्यातुम् ।
एवं च प्राणादूर्ध्वं ब्रह्मणि भूतामवगम्यमानो न प्राणविषयो भवितुमर्हति, किन्तु सत्यस्य परमात्मन एव ।
एवं चानात्मविद आत्मानं विविदिषोर्नारदस्य प्रश्ने परमात्मानमेवास्मै व्याक्यास्यामीत्यभिसंधिमान्सनत्कुमारः सोपानारोहणन्यायेन स्थूलादारभ्य तत्तद्भूमव्युत्पादनक्रमेण भूमानमतिदुर्ज्ञानतया परमसूक्ष्मं व्युत्पादयामास ।
नच प्रश्नपूर्वताप्रवाहपतितेनोत्तरेण सर्वेण प्रश्नपूर्वेणैव भवितव्यमिति नियमो ऽस्तीत्यादिसुगमेन भाष्येण व्युत्पदितम् ।
विज्ञानादिसाधनपरम्परा मननश्रद्धादिः, प्राणान्तरे चानुशासने ततावन्मात्रेणैव प्रकरणसमाप्तेर्न प्राणस्यान्यायत्ततोच्येत ।
तदभिधाने हि सापेक्षत्वेन न प्रकरणं समाप्येत ।
तस्मान्नेदं प्राणस्य प्रकरणमपि तु यदायत्तः प्राणस्तस्य, स चात्मेत्यात्मन एव प्रकरणम् ।
शङ्कते #-प्रकरमान्त इति# ।
प्राणप्रकरणसमाप्तावित्यर्थः ।
निराकरोति- #न ।
स भगव इति# ।
संदंशन्यायेन हि भ्रूम एतत्प्रकरणं, स चोद्भूमा प्राणः, प्राणस्यैतत्प्रकरणं भवेत् ।
तच्चायुक्तमित्युक्तम्

12.9

1.3.2.9.
न केवलं श्रुतेर्भूमात्मता परमात्मनः, लिङ्गादपीत्याह सूत्रकारः- #धर्मोपपत्तेश्च# ।
यदपि पूर्वपक्षिणा कथञ्चिन्नीतं तदनुभाष्य भाष्यकारो दूषयति #-यो ऽप्यसौ सुषुप्तावस्थायामिति# ।
सुषुप्तावस्थायामिन्द्रियाद्यसंयोग्यात्मैव ।
न प्राणः ।
परमात्मप्रकरणात् ।
अन्यदार्तम् ।
विनश्वरमित्यर्थः ।
अतिरोहितार्थमन्यत्

मूल पाठ: Bhāmati a commentary on Śaṃkara's Brahmasūtrabhāṣya · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc