भाषा

ENहिગુ
ग्रंथ पाठ

भैषज्यवस्तु · भाग 120

भैषज्यवस्तु
भैषज्यवस्तुनि पिण्डोद्दानम्* ।
भैषज्यं महासेनो राजगृहं वेणुवनषण्डः ।
इच्छानङ्गला च कम्पिल्ल आदिराज्यं कुमारवर्धनम्* ।
ग्लानकाश् च कैनेयो वर्गो भवति समुद्यतः ॥
उद्दानम्* ।
भैषज्यम् अनुज्ञातं वसा कच्छुश् च अञ्जनम्* ।
उन्मत्तकः पिलिन्दश् च रेवतः सौवीरकेण च ॥
बुद्धो भगवान् श्रावस्त्यां विहरति जेतवने अनाथपिण्डदस्यारामे । तेन खलु समयेन भिक्षवः शारदकेन रोगेण बाध्यन्ते । ते शारदकेन रोगेण बाध्यमाना उत्पाण्डूत्पाण्डुका भवन्ति कृषालुका दुर्बलका म्लाना अप्राप्तकायाः ।
जानकाः पृच्छका बुद्धा भगवन्तः । {म्स् अद्द्स् जानन्तः पृच्छन्ति अजानन्तो न पृच्छन्ति । } यावत् पृच्छति बुद्धो भगवान् आयुष्मन्तम् आनन्दम्* । कस्माद् आनन्द एतर्हि भिक्षवः उत्पाण्डूत्पाण्डुकाः कृषालुका दुर्बलका म्लाना अप्राप्तकाया इति । ( म्स्व् इ इइ ) आयुष्मान् आनन्दः कथयति । एतर्हि भदन्त भिक्षवः शारदकेन रोगेण बाध्यन्ते । एतर्हि शारदकेन रोगेण बाध्यमाना उत्पाण्डूत्पाण्डुका भवन्ति कृषालुका दुर्बलका म्लाना अप्राप्तकायाः । भगवान् आह । तस्माद् आनन्द अनुजानामि भिक्षुभिर् भैषज्यं सेवितव्यम् इति ।
उक्तं भगवता भिक्षुभिर् भैषज्यं प्रतिसेवितव्यम् इति । भिक्षवः काले सेवन्ति कालातिक्रान्तं न सेवन्ति । ते भवन्ति उत्पाण्डूत्पाण्डुकाः कृषालुका दुर्बलका म्लाना अप्राप्तकायाः । जानकाः पृच्छका बुद्धा भगवन्तः । पृच्छति बुद्धो भगवान् आयुष्मन्तम् आनन्दम्* । उक्तं मया भिक्षुभिर् भैषज्यं सेवितव्यम् इति । अथ च पुनर् भिक्षवः उत्पाण्डूत्पाण्डुकाः कृषालुका दुर्बलका म्लाना अप्राप्तकायाः । उक्तं भदन्त भगवता भिक्षुभिर् भैषज्यं प्रतिसेवितव्यम् इति । त एते कालभोजिनो वयम् इति काले सेवन्ते कालातिक्रान्तं न सेवन्ते । तेनोत्पाण्डूत्पाण्डुकाः कृषालुका दुर्बलका म्लाना अप्राप्तकायाः । तस्मात् तर्ह्य् आनन्द अनुजानामि भिक्षुभिश् चतुर्विधानि भैषज्यानि प्रतिसेवितव्यानि । कालिकानि यामिकानि साप्ताहिकानि यावज्जीविकानि । तत्र कालिकानि मण्डः ओदनं कुल्माषो मांसम् अपूपाश् च । यामिकम् अष्टौ पानानि । चोचपानं मोचपानं कोलपानम् ( fओल्. 92र्1 = ग्ब्म् 6.766 ) अश्वत्थपानम् उदुम्बरपानं पारुषिकपानं {म्स् परूषक- } मृद्वीकापानं खर्जूरपानं च ।
अन्तरोद्दानम्* ।
चोचं मोचं च कोलं च अश्वत्थोदुम्बरेण च ।
पारुषिकं च मृद्वीका खर्जूरं चाष्टमं मतम्* ॥
साप्ताहिकं सर्पिस् तथा तैलं फाणितं मधु शर्करा । यावज्जीविकं मूलभैषज्यं गण्डभैषज्यं पत्रभैषज्यं पुष्पभैषज्यं फलभैषज्यं पंच जतूनि पञ्च क्षाराः पञ्च लवणानि पञ्च कषायाः ।
तत्र मूलभैषज्यं मुस्तं वचो हरिद्रार्द्रकम् अतिविषा इति । यद् वा पुनर् अन्यद् अपि मूलभैषज्यार्थाय स्फरति नामिषार्थाय । गण्डभैषज्यम्* । चन्दनं चविका पद्मका देवदारु गुडूची दारुहरिद्रा इति । यद् वा पुनर् अन्यद् अपि गण्डभैषज्यार्थाय स्फरति नामिषार्थाय । पत्रभैषज्यम्* । पटोलपत्रं वाशिकपत्रं निम्बपत्रं कोशातकीपत्रं सप्तपर्णपत्रम् इति । यद् वा पुनर् अन्यद् अपि पत्रभैषज्यार्थाय स्फरति नामिषार्थाय । पुष्पभैषज्यम्* । पञ्च पुष्पाणि । वाशिकपुष्पं निम्बपुष्पं धातुकीपुष्पं शटिपुष्पं {म्स् शिकपुष्पं नागापुष्पं । } पद्मकेसरम् इति । यद् वा पुनर् अन्यद् अपि पुष्प भैषज्यार्थाय स्फरति नामिषार्थाय । फलभैषज्यम्* । हरीतकीम् आमलकं विभीतकं मरिचं पिप्पली इति । यद् वा पुनर् अन्यद् अपि फलभैषज्यार्थाय स्फरति नामिषार्थाय । पञ्च जतूनि । हिङ्गुः सर्जरसः तकस् {म्स् तप } तककर्णी तदागतश् च । तत्र हिङ्गुः हिङ्गुवृक्षस्य ( म्स्व् इ इव् ) निर्यासः । सर्जरसः सालवृक्षस्य निर्यासः । तको लाक्षास् तककर्णी सिक्थं तद् आगतस् तद् अन्येषां वृक्षाणां निर्यासः । पञ्च क्षाराः कतमे । यवक्षारः यावशूकक्षारः सर्जिकाक्षारस् तिलक्षारो वासकाक्षारश् च । पञ्च लवणानि कतमानि । सैन्धवं विडं सौवर्चलं रोमकं सामुद्रकम्* । पञ्च कषायाः कतमे । आम्रकषायो निम्बकषायो जम्बूकषायः शिरीषकषायः कोशम्बकषायश् च ।
तत्र यच् च कालिकं यच् च यामिकं यच् च साप्ताहिकं यच् च यावज्जीविकं तच् चेत् कालिकं संसृष्टं भवति काले परिभोक्तव्यं कालातिक्रान्तं न परिभोक्तव्यम्* । यच् च यामिकं यच् च साप्ताहिकं यच् च यावज्जीविकं तच् चेद् यामिकं संसृष्टं भवति यामे परिभोक्तवं यामातिक्रान्तं न परिभोक्तव्यम्* । यच् च साप्ताहिकं यच् च यावज्जीविकं तच् चेत् साप्ताहिकं संसृष्टं भवति सप्ताहे परिभोक्तव्यं सप्ताहातिक्रान्तं न परिभोक्तव्यम्* । यावज्जीविकं यावज्जीविकम् अधिष्ठाय परिभोक्तव्यम्* । एवं च पुनर् अधिष्ठेयम्* । हस्तौ प्रक्षाल्य प्रतिग्राहयित्वा भिक्षूणां पुरतः स्थित्वा इदं स्याद् वचनीयम्* । ( म्स्व् इ व् ) समन्वाहरायुष्मन्* । अहम् एवंनामा इदं भैषज्यं यावज्जीविकम् अधिति ष्ठामि । तेषाम् अर्था य सब्रह्मचारिणां च एवं द्विर् अपि त्रिर् अपि । यथा यावज्जीविकम् अधिष्ठितम् एवं यामिकं साप्ताहिकं वाधिष्ठेयम्* ।

श्रावस्त्यां निदानम्* । अथान्यतमस्य भिक्षोर् वाय्वाबाधिकं ग्लान्यम् उत्पन्नम्* । स वैद्यसकाशम् उपसंक्रान्तः । उपसंक्रम्य कथयति । वाय्वाबाधिकं ( 92व्1 = ग्ब्म् 6.767 ) ग्लान्यम् उत्पन्नं भैषज्यं व्यपदिशेति । स कथयति । आर्य वसां सेवस्व स्वास्थ्यं ते भविष्यतीति । भिक्षुर् आह । भद्रमुख किम् अहं पुरुषादः । स कथयति । भिक्षो । इदं ते भैषज्यं न शक्यम् अन्यथा स्वस्थेन भवितुम् इति । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् आह । यदि वैद्यः कथयति । इदं ते भिक्षोर् भैषज्यं न शक्यम् अन्यथा स्वस्थेन भवितुम् इति सेवितव्या वसेति । भिक्षवो न जानते । तैर् वैद्यः पृष्टः । स कथयति । आर्य युष्माकम् एव शास्ता सर्वज्ञस् तम् एव गत्वा पृच्छेति । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् आह । पञ्च वसाः प्रसेवितव्याः । कतमाः पञ्च । मत्स्यवसा शुशुकावसा शुशुमारवसा रिक्षवसा सूकरवसा च । इतीमाः पञ्च वसाः । अकाले पक्वा अकाले परिस्रुता अकाले प्रतिग्राहिता अकाले ऽधिष्ठिता न परिभोक्तव्याः । काले पक्वा अकाले परिस्रुता अकाले प्रतिग्राहिता अकाले ऽधिष्ठिता न परिभोक्तव्याः । काले पक्वाः काले परिस्रुता अकाले प्रतिग्राहिता अकाले ऽधिष्ठिता न परिभोक्तव्याः । काले पक्वाः काले परिस्रुताः काले प्रतिग्राहिताः काले ऽधिष्ठितास् तैलपरिभोगेन सप्ताहं परिभोक्तव्या इति । ततस् तेन भिक्षुणा वसा परिभुक्ता । स्वस्थः संवृत्तः । ( म्स्व् इ वि ) तेन स्वस्थीभूतो ऽस्मीत्य् अन्यावशिष्टा वसा छोरिता । यावद् अपरस्य भिक्षोस् तादृशम् एव ग्लान्यम् उत्पन्नम्* । सो ऽपि वैद्यसकाशं गत्वा कथयति । भद्रमुख ममैवंविधं ग्लान्यम् उत्पन्नं भैषज्यं व्यपदिशेति । तस्यापि तेन वसा समादिष्टा । स तस्य भिक्षोः सकाशं गतः । स कथयति । आयुष्मंस् त्वया वसोपयुक्ता ममापि वैद्येन वसा व्यपदिष्टा । अस्ति काचिद् अवशिष्टा वसेति । स कथयति । आसीत् सा तु मया छोरिता । न शोभनं कृतम्* । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् आह । न हि भिक्षुणोपयुक्तशेषा वसा छोरयितव्या । वसाधारकस्याहं भिक्षोर् आसमुदाचारिकान् धर्मान् प्रज्ञपयिष्यामि । वसाधारकेण
भिक्षुणोपयुक्तशेषा वसा याचितान्य् अस्य भिक्षोर् दातव्या । नोचेद् ग्लानकल्पिकशालायां स्थापयितव्या । यो ऽर्थी भविष्यति स ग्रहीष्यतीति । वसाधारको भिक्षुर् यथाप्रज्ञप्तान् आसमुदाचारिकान् धर्मान् न समादाय वर्तते सातिसारो भवति ।
भगवान् श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । तेन खलु समयेनान्यतमस्य भिक्षोः कच्छूरोगः समुत्पन्नः । स वैद्यसकाशम् उपसंक्रान्तः । भद्रमुख मे कच्छूरोगः समुत्पन्नो भैषज्यं व्यपदिशेति । स कथयति । आर्य कषायं सेवस्व । स्वास्थ्यं ते भविष्यति । भद्रमुख किम् अहं कामभोगी । स कथयति । इदं ते भिक्षोर् भैषज्यम्* । न शक्यम् अन्यथा स्वस्थेन भवितुम्* । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । पूर्ववद् यावच् छास्ता ते ( म्स्व् इ विइ ) सर्वज्ञः । तम् एव गत्वा पृच्छेति । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् आह । पञ्च ( fओल्. 93र्1 = ग्ब्म् 6.1055 ) कषायाः । आम्रकषायाः पूर्ववत्* । तेन भिक्षुणा कषायं कल्पीकृत्य गात्रं घृष्टम्* । एकधनीभूतम्* । भगवान् आह । चूर्णः कर्तव्यः । भिक्षवः आर्द्रम् एव चूर्णयन्ति । पिण्डी भूतः । भगवान् आह । शोषयितव्यः । ते आतपे शोषयन्ति । निर्वीर्यं भवति । भगवान् आह । नातपे शोषयितव्यः । ते छायायां शोषयन्ति । तथापि पूय्यति । भगवान् आह । छायातपे शोषयितव्य इति । भिक्षवः कषायेण गात्रं म्रक्षयित्वा स्नान्ति । कषायकृत्यं न कुर्वन्ति । भगवान् आह । यावद् हस्तपरामर्शं शोधयितव्यम्* । अथ कषायं दत्वा स्नातव्यम्* । कषायकृत्यं करोतीति {म्स् नाकरिष्यतीति } । भिक्षोः कषायेण रोगो व्युपशान्तः । तेनावशिष्टः कषायः छोरितः । यावद् अपरस्य भिक्षोस् तादृश एव रोगः प्रादु र्भूतः । स वैद्यसकाशं गतः । पूर्ववत्* । स मया छोरितः । न शोभनं कृतम्* । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् आह । कषायधारकस्याहं भिक्षोर् आसमुदाचारिकान् धर्मान् प्रज्ञपयिष्यामि । कषायधारकेण भिक्षुणा ( म्स्व् इ विइइ ) उपयुक्तशेषः कषायो यो भिक्षुर् अर्थी तस्य दातव्यः । ग्लानकल्पिकशालायां वा स्थापयितव्यः । कषायधारको भिक्षुर् यथाप्रज्ञप्तान् आसमुदाचारिकान् धर्मान् न समादाय वर्तते सातिसारो भवति ।
श्रावस्त्यां निदानम्* । तेन खलु समयेनान्यतम स्य भिक्षोर् अक्षिरोगः प्रादुर्भूतः । स वैद्यसकाशम् उपसंक्रान्तः । भद्रमुख अक्षिरोगो मे प्रादुर्भूतः । भैषज्यं व्यपदिशेति । स कथयति । आर्य अञ्जनं प्रतिसेवस्व । स्वास्थ्यं ते भ विष्यति । भद्रमुख किं वयं कामभोगिनः । आर्य इदं ते भैषज्यम्* । न शक्यम् अन्यथा स्वस्थे न भवितुम्* । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् आह । वैद्योपदेशेनाञ्जनं सेवितव्यम्* । ते न जानन्ति । तैर् वैद्यः पृष्टः । स कथ यति । आर्य शास्ता ते सर्वज्ञः । तम् एव गत्वा पृच्छेति । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् आह । पञ्चाञ्जनानि । पुष्पाञ्जनं रसाञ्जनं चूर्णाञ्जनं गुटिकाञ्जनं सौवीरकाञ्जनम्* । तेन सेवितम्* । स्वस्थीभूतः । तेनावशिष्टम् अञ्जनं यत्र तत्र वा स्थापितं विनष्टम्* । यावद् अपरस्य भिक्षोर् अक्षिरोगः प्रादुर्भूतः । स तत् सकाशम् उपसंक्रान्तः । आयुष्मन् ममाप्य् अक्षिरोगः प्रादुर्भूतः । अस्ति तव किञ्चिद् अञ्जनम् अवशिष्टम्* । स समन्वेष यति । न लभते । स कथयति । आयुष्मन् अञ्जनम् ( म्स्व् इ इx ) आसीत्* । इदानीं तु न लभ्यते । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् आह । न भिक्षुणा अञ्जनं यत्र वा तत्र वा स्थापयितव्यम्* । अञ्जनधारकस्याहं भिक्षोर् आसमुदाचारिकान् धर्मान् प्रज्ञपयिष्यामि । अञ्जनधारकैर् भिक्षुभिर् अञ्जनानि एवम् एवं स्थापयितव्यानि । पुष्पाञ्जनं पात्रे ( fओल्. 93व्1 = ग्ब्म् 6.1056) रसाञ्जनं समुद्गके स्थापयितव्यम्* । चूर्णाञ्जनं गुटिकाञ्जनं सौवीरकं च पुटिकां बद्ध्वा नागदन्तके स्थाप यितव्यम्* । अञ्जनधारकस्य भिक्षोर् आसमुदाचारिका धर्मा मया प्रज्ञप्ताः । एतान् न समादाय स्थापयति सातिसारो भवति ।

श्रावस्त्यां निदानम्* । आयुष्मान् सैकत उन्मत्तः क्षिप्तचित्तस् तेन तेनाहिण्डते । स ब्राह्मणगृह पतिस् तं दृष्ट्वा आह । एष आयुष्मान् कस्य पुत्रः । अपरे आहुः । अमुकस्य गृहपतेः । ते कथयन्ति । शाक्यपुत्रीयश्रमणा अनाथा अ प्य् अप्रव्रजिताः । यदि न प्रव्रजितो ऽभविष्यत्* ज्ञातिभिर् अस्य चिकित्सा कृताभविष्यत्* । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भग वान् आह । एवं सति भिक्षवः सैकतस्य भिक्षोर् ग्लान्यनिरूपणाय प्रष्टव्यम्* । अथ ते वैद्यसकाशम् उपसंक्रान्ताः । भद्रमुख अस्यैवम् एवं च ग्लान्यम्* । भैषज्यं व्यपदिश । आर्य आममांसं परिभुञ्जतु । स्वस्थो भविष्यति । भद्रमुख किम् असौ पुरुषादः । आर्य न शक्यम् अन्यथा स्वस्थेन भवितुम्* । एतत् प्रकर णं भिक्षवो भगवत आरोचयन्ति । ( म्स्व् इ x ) भगवान् आह । यद्य् एवं भैषज्यं सेवितव्यम्* । न शक्यम् अन्यथा स्वस्थेन भवितुम्* । मांसं दातव्यम्* । भिक्षवस् तथा एवानुप्रयच्छन्ति । न खादति । भगवान् आह । अक्षिणी पट्टकेन बद्ध्वा दातव्यम्* । तैर् दत्तम्* । अतिशीघ्रं पट्टको मुक्तः । तेन हस्तौ लिप्तौ दृष्टौ । तेन वान्तम्* । भगवान् आह । सद्यो न मोक्तव्यः । अथ चेत्* सद्यो मोक्तव्यस् तदा तस्य हस्तौ तदग्रतः सुशुद्धे पा नीये स्थापयित्वा पश्चात्* पट्टको मोक्तव्यः । स स्वस्थीभूतः । तस्य स एव दोहदः संवृत्तः । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् आह । यदा स्वस्थी भूतस् तदा एवं शिक्षां समादाय तत् समवस्थानम् आचरितव्यम्* । अध्याचरति सातिसारो भवति ।
राजगृहे निदानम्* । आयुष्मान् पिलिन्दवत्सो यतः प्रव्रजितो बह्वाबाधः । स भिक्षुभिर् उच्यते । स्थविर एवं ते आबाधः । स कथयति । आयुष्मन्तः सततम् अहं बह्वाबाधः । निर्याणप्रकरणं नास्ति । ते कथयन्ति । स्थविर पुरा किं धृतम्* । स कथयति । भैषज्यं कच्छपुटम्* । इदानीं किं न धारयसि । भगवता नानुज्ञातम्* । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् आह । एवं सत्य् अनुज्ञातम्* । भिक्षूणां भैषज्यं कच्छपुटं धारयितव्यम्* । भिक्षूणां मूलपुष्पगण्डफलभैषज्यानि धारयितव्यानि । ते सर्व त्र भैषज्यानि कच्छपुटे न दापयन्ति । भगवान् आह । फलभैषज्यानि कच्छपुटे स्थापयितव्यानि । मूलपुष्पगण्डभैषज्यानि ( म्स्व् इ xइ ) वरण्डिकां बद्ध्वा नागदन्तके स्था पयितव्यानि । भगवान् आह । काले काले शोषयित व्यानि । ते आतपे शोषयन्ति । निर्वीर्यं भवति । भगवान् आह । नातपे शोषयितव्यम्* । छायायां शोषयन्ति । तथापि पूय्यति । भगवान् आह । छायातपे शोष यितव्यम्* । {थे fओल्लोwइन्ग् fइर्स्त् त्wओ लिनेस् ओf fओल्. 94र् हवे नोत् बेएन् त्रन्स्लितेरतेद् ब्य् दुत्त्} ते प्रविषजित्वा गच्छन्ति । वातवर्षम् आगच्छति न प्रवेशयन्ति । भगवान् आह ॥ प्रवेशयितव्यं । उक्तं भगवता प्रवेशयितव्यम् इति । ते न जानन्ति केन प्रवेशयितव्यम् इति । भगवान् आह । आ .. .. .. .. .. .. .. .. .. + + + + + + + + न भवति । श्रामणेरकेन । श्रामणेरको न भवति स्वयम् एव प्रवेशयितव्यं । मिश्रीभवन्ति । भिक्षवः संपृष्टा इति कृत्वा न परिभुंजन्ति । भगवान् आह । विचीय विचीय परिभोक्तव्यं नात्र कौकृत्यं करणीयम्* ॥
श्राव स्त्यां निदानम्* । यस्माद् आयुष्म् आन् ( fओल्. 94र्3 = ग्ब्म् 6.769 ) रेवतो यत्र क्वचन कांक्षी तस्य कांक्षारेवतः कांक्षारेवत इति संज्ञा संवृत्ता । स पूर्वाह्णे निवास्य पात्रचीवरम् आदाय श्रावस्तीं पिण्डाय प्रविष्टः । सो ऽनुपूर्वेण गुडशालां गतो यावत् पश्यति कणेन गुडं बध्यमानम्* । स कथयति । भवन्तो मा कणेन गुडं बन्धत । आर्य अस्ति किंचिद् अन्यं बन्धं जानासि । नाहम् अन्यं बन्धं जानामि । अपि तु वयम् अकाले परिभुंजामः । आर्य काले वाकाले वा परिभुञ्ज । एषो ऽस्य बन्धो ऽन्यथा बन्धं न गच्छति । अपरेण समयेन सं घस्य गुडखादनीयं संपन्नम्* । स न खादति । तस्य सार्धंविहार्यन्तेवासिकाः कथयन्ति । आर्य संघस्य गुडखादनीयं संपन्नं परिभुञ्ज । स कथयति । भद्रमुखाः सामिषम् एतत्* । ते ऽपि न भुञ्जते । अन्यैर् भिक्षुभिर् उच्यन्ते । आयुष्मन्तः संघस्य गुडखादनी यं संपन्नं किं न परिभुञ्जत । ते कथयन्ति । उपाध्यायः कथयति सामिषम् एतत्* । तैर् अपि न परिभुक्तम्* । महापरिवारः सः । तैर् न परिभुक्तम् इति यद्भूयसा सर्वसंघेन न परिभुक्तम्* । एतत् प्रकरणं भिक्षवो भगवत ( म्स्व् इ xइइ ) आरो चयन्ति भगवान् आह । न लभ्यन्ते नामिषेणामिषकृत्यं कर्तुम्* । आगारपरिशुद्धम् इति कृत्वा परिभोक्तव्यं नात्र कौकृत्यं करणीयम्* ।
श्रावस्त्यां निदानम्* । अथायुष्मान् रेवतः पूर्वाह्णे निवास्य पात्रचीवरम् आदाय श्राव स्त्यां पिण्डाय प्रविष्टः । सो ऽनुपूर्वेण वीथीं गतः । तेन गांधिको दृष्टः सक्तुं स्पृष्ट्वा गुडं स्पृशति । स कथयति । भद्रमुख मा सक्तुं स्पृष्ट्वा गुडं स्पृश । अस्माभिर् अकाले परिभोक्तव्यम्* । स कथयति । आर्य को मम मुहुर् मुहुर् हस्तशौचं ददाति । अपरेण समये न संघस्य गुडखादनीयं संपन्नम्* । स न परिभुञ्जति । सार्धंविहार्यन्तेवासिनः कथयन्ति । आर्य संघस्य गुडखादनीयं संपन्नं किं न खादसि । स कथयति । भद्रमुखाः सामिषम् एतत्* । तैर् अपि न परिभुक्तम्* । ते भिक्षुभिर् उच्यन्ते । आयुष्मन्तः संघस्य गुड खादनीयं संपन्नम्* । किं न परिभुञ्जत । ते कथयन्ति । उपाध्यायः कथय ति सामिषम् एतत्* । तैर् अपि न परिभुक्तम्* । महापरिवारः सः । तैर् न परिभुक्तम् इति यद्भूयसा सर्वसंघेन न परिभुक्तम्* । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् आह । न लभ्यन्ते नामिषेणामिषकृत्यं कर्तुम्* । आगार परिशुद्धम् ( fओल्. 94व्1 = ग्ब्म् 6.768 ) इति कृत्वा परिभोक्तव्यम्* । नात्र कौकृत्यं करणीयम्* ।

( म्स्व् इ xइइइ ) श्रावस्त्यां निदानम्* । आयुष्मतः शारिपुत्रस्य वाय्वाबाधिकं ग्लान्यम् उत्पन्नम्* । आयुष्मान् महामौद्गल्यायनः संलक्षयति । बहुशो मया आयुष्मतः शारिपुत्रस्य परिचर्या कृता न तु कदाचिद् वैद्यः पृष्टः । यन्व् अहम् इदानीं वैद्यं पृच्छेयम्* । स वैद्यसकाशम् उपसंक्रान्तः । भद्रमुख आयुष्मतः शारिपुत्रस्येदं चेदं च ग्लान्यम् उत्पन्नं तस्यानुलोमिकभैषज्यम् उपदिशेति । स कथयति । आर्य लवणं सौवीरकं भैषज्यं भविष्यतीति । तेन सौवीरकं समुदानीतम्* । लवणं नास्ति । स लवणं पर्येषितुम् आरब्धः । आयुष्मता पिलिन्दवत्सेनोक्तः । अस्ति आयुष्मन् मम शृङ्गापुटं लवणं यावज्जीवम् अधिष्ठितम्* । यदि भगवान् अनुजानीते ददामीति शारिपुत्रेण श्रुतम्* । स कथयति । मम मानस आयुष्मान् महामौद्गल्यायन एवं भवति । न लभ्यं कालिकेन यावज्जीविकं परिभोक्तुम्* । एतत् प्रकरणम् आयुष्मान् महामौद्गल्यायनो भगवत आरोचयति । भगवान् आह । न लभ्यं मौद्ग ल्यायन यच् च कालिकं यच् च यामिकं यच् च साप्ताहिकं यच् च यावज्जीविकम् अधिष्ठितम्* । तत्र मौद्गल्यायन यच् च यामिकं यच् च साप्ताहिकं यच् च यावज्जीविकं तच् चेत् कालिकेन संसृष्टं भवति कालिकसंसृष्टम् इति कृत्वा काले परिभोक्तव्यं कालातिक्रान्तं न परिभोक्तव्यम्* । यच् च यामिकं यच् च साप्ताहिकं यच् च यावज्जीविकं तच् च यामिकेन संसृष्टम् इति कृत्वा यामं परिभोक्तव्यं यामातिक्रान्तं ( म्स्व् इ xइव् ) न परिभोक्तव्यम्* । यच् च साप्ताहिकं यच् च यावज्जीविकं तच् चेत् साप्ताहिकेन संसृष्टं भवति साप्ताहिकसंसृष्टम् इति कृत्वा साप्ता हं परिभोक्तव्यं सप्ताहाति क्रान्तं न परिभोक्तव्यम्* {म्स् अद्द्स् सप्ताहस्यात्ययान् न परिभोक्तव्यम्* } । यन् नु यावज्जीविकं तद् यावज्जीविकं परिभोक्तव्यम्* । अन्यथा परिभुञ्जति सातिसारो भवति ।
उद्दानम्* ।
महासेनो मांसमर्शो वातव्याधिश् च पूर्णकः ।
..... ॥
बुद्धो भगवान् काशीषु जनपदेषु चारिकां चरन् वाराणसीम् अनुप्राप्तः । वाराणस्यां विहरति ऋषिवदने मृगदावे । वाराणस्यां महासेनो नाम गृहपतिः प्रतिवसति आढ्यो महाधनो महाभोगः । तस्य पत्नी महासेना नाम । स सपत्नीकः श्राद्धो भद्रः कल्याणाशयः । तेन स्रुतम्* । भगवान् काशीषु जनपदेषु चारिकां चरन् वाराणसीम् अनुप्राप्तः । वाराणस्यां विहरति ऋषिवदने मृगदावे इति । श्रुत्वा च पुनर् अप्य् एतद् अभवत्* । बहुशो मया भगवान् अन्तर्गृहे उपनिमन्त्रितो न त्व् एव सर्वोपकरणैः प्रवारितः । यन्व् अहम् एतर्हि भगवन्तं त्रैमासीं सर्वोपकरणैः प्रवारयेयम् इति विदित्वा येन भगवांस् तेनोपसंक्रान्तः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः ।
[fओलिओस् 95 तो 140 अरे मिस्सिन्ग्]
( fओल्. 141र्3 = ग्ब्म् 6.950; म्स्व् इ अ ) अद्राक्षीद् भगवान् दूराद् एव नीलनीलां वनराजिम्* । दृष्ट्वा च पुनर् वज्रपाणिं यक्षम् आमन्त्रयते । पश्यसि त्वं वज्रपाणे नीलनीलाम् एतां वनराजिम्* । पश्यामि भदन्त । एष वज्रपाणे काश्मीरम ण्डलम्* । मम वर्षशतपरिनिर्वृतस्य माध्यन्दिनो नाम भिक्षुर् भविष्यत्य् आनन्दस्य भिक्षोः सार्धंविहारी । स हुलुटं दुष्टनागं वि नेष्यति । अथ पर्यङ्कं बद्ध्वा समग्रे काश्मी रमण्डले शासनं प्रवेशयिष्यति । विपश्यनानुकूलानां शयनासनं यदुत काश्मीरमण्डलम्* ।
षष्टिग्रामसहस्रा णि षष्टिग्रामशतानि च ।
षष्टिर् ग्रामास् त्रयो ग्रामा ह्य् एतत् का श्मीरमण्डलम्* ।
भ्रष्टालायाम् ऋषिर् विनीतः आपन्नकश् च यक्षः सपरिवारः । कन्थायां यक्षिणी सपरिवारा विनीता । धान्यपु रम् अनुप्राप्तः । धान्यपुरे सेनराजः परमसत्येषु प्रति ष्ठापितः । नैतरीम् अनुप्राप्तः । नैतर्याम् अन्यतमः कुम्भकारः । सो ऽतीव शिल्पमदमत्तः । शुष्काणि भाजनानि चक्राद् अवतारयति । भगवांस् तस्य विनयकालं ज्ञात्वा कुम्भकारवेषं गृहीत्वा तेन सार्धं जल्पं कर्तुम् आरब्धः । त्वं कीदृशानि भाजनानि चक्राद् अवतारयसि । स कथयति । शुष्काणि । अहम् अपि शुष्काण्य् अवतारयामि । समस् त्वं मया । किम् ए तद् भङ्गुरेण । अहं दन्तमयान्य् अपि अवतारयामि । त्वं मत्तः कुशलतरो ऽसि । न केवलं दन्तमयानि सुवर्णरौप्यवैडू र्यस्फटिकमयान्य् अपि । सो ऽभिप्रसन्नः । ततो भगवता कुम्भकारवेषम् ( म्स्व् इ ब् ) अन्तर्धाप्य स्ववेषेण स्थित्वा सपरिजनः सत्येषु प्रतिष्ठापितः । शाद्वला म् अनुप्राप्तः । शाद्वलायां महायक्षपरिवारः शरणगमनशिक्षापदेषु प्र तिष्ठापितः पालितकोटो नागपालकश् च । नन्दि वर्धनम् अनुप्राप्तः । नन्दिवर्धने भवदेवो राजा सपरिवारः सत्येषु प्रति ष्ठापितः ससप्तमातङ्गपुत्रो भूपयक्षश् च । तत्राश्वकपुनर्वसुकौ ( fओल्. 141व्1 = ग्ब्म् 6.951 ) नागयोनाव् उपपन्नौ । द्वादशानां वर्षाणाम् अ त्ययात् क्षुब्धौ । ताव् एवम् आहतुः । नावयोर् भगवता धर्मो देशितो येनावां विनिपतितौ नागयो नौ जातौ । कथं वयम् अस्य देशनां ज्ञास्यामः । भगवत एतद् अभवत्* । तयोर् महा नुभावः । स्थानम् एतद् विद्यते यत् परिनिर्वृतस्य मे शासनं भस्म करिष्यत इति विदित्वा येनाश्वकपुनर्वसुकयोर् भवनं तेनोपसंक्रान्तः । उपसंक्रम्या श्वकपुनर्वसुकाभ्यां चतुष्पदिको धर्मपर्यायो देशितः । एतस्य व्याख्यां ज्ञास्यथ । के वयं सद्धर्मस्य ज्ञातार इति विदित्वा तत्रैव निमग्नौ । तयोर् एतद् अभवत्* । देशितो ऽस्माकं भगवता धर्मः । अस्माभिस् तु न विज्ञात इ ति । भगवता तस्मिन्न् एव प्रदेशो प्रतिमैका दत्ता । अश्वकपुनर्वसुकौ तत्र पुनर् निमज्जतः । अद्यापि भगवांस् तिष्ठतीति तस्मिन्न् एव प्रदेशे

। भगवता नाली उदर्या च यक्षिणी विनीता । कुन्तीनगरम् अनुप्राप्तः । कुन्तीनगरे कुन्ती यक्षिणी इति ख्याता क्रोधान्विता चण्डा च प्रतिवसति । कुन्तीनगरस्य ब्राह्मण गृहपतीनां जातानि जातान्य् अ पत्यानि भ क्षयति । अश्रौषुः कौन्तीनागरा ब्राह्मणगृहपतयो भगवान् कुन्तीनगरम् अनुप्राप्तः । तस्मिन् प्रदेशे तिष्ठती ति श्रुत्वा ते सन्निपतिताः कुन्तीनगरान् निर्गताः । ( म्स्व् इ 1 ) येन भगवां स् तेनोपसंक्रान्ताः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णाः । एकान्तनिषण्णानां कौन्तीनागराणां ब्राह्मणगृहपतीनां भगवान्* धर्म्यया कथया पूर्ववद् यावत् संप्रहर्ष्य तूष्णीम्* । अथ श्राद्धा ब्राह्मणगृहपतय उ त्थायासनाद् एकांसम् उत्तरासंगं कृत्वा येन भगवांस् तेनाञ्जलिं प्रणम्य भगवन्तम् इदम् अवोचन्* । अधिवासयत्व् अस्माकं भगवान्* श्वो ऽन्तर्गृहे भक्तेन सार्धं भिक्षुसंघेनेति । अथ भगवन्तं भुक्तवन्तं धौतहस्तम् अपनीतपात्रं निषण्णं विदित्वा सौवर्णं भृङ्गारं गृहीत्वा भगवतः पुरतः स्थित्वा याचमान एवं चाह । भगवता ते ते दुष्टनागा दुष्टयक्षा विनीताः । इयं भदन्त कुन्ती यक्षिणी अस्माकं दीर्घरात्रम् असपत्नानां सपत्नी अद्रुग्धानां द्रोग्ध्री जातानि जातान्य् अपत्यानि हरति । अहो वत भगवान् कुन्तीं यक्षिणीं विनयेद् अनुकम्पाम् उपादायेति । तेन खलु सम येन कुन्ती यक्षिणी तस्याम् एव पर्षदि सन्निषण्णाभूत्* सन्निपतिता । तत्र भगवान् यक्षीणीम् आमन्त्रयते । श्रुतं ते कुन्ति । श्रुतं मे भगवन्* । श्रुतं ते कुन्ति । श्रुतं मे सुगत । विरम त्वम् अस्मात् पापकाद् असद्धर्मात्* । समयेनाहं भदन्त ( fओल्. 142र्1 = ग्ब्म् 6.952 ) विरंस्यामि यद्य् एते ममार्थाय विहारं कारयन्ति । तत्र भगवान् कौन्तीनागरान् ब्राह्मणगृहपतीन् आमन्त्रयते । श्रुतं वो ब्राःमणगृहपतयः । श्रुतं भगवन्* । कथं वो ऽत्र भवति । करिष्यामो भगवन्* । अथ भगवान् कुन्तीं यक्षीणीं सपरिवारां विनीय प्रक्रान्तः । भगवान् खर्जूरिकाम्
अनुप्राप्तः । खजूरिकायां बालदारकान् पांसुस्तूपकैः क्रीडतो ऽद्राक्षीत्* । भगवान् बालदारकान् पांसुस्तूपकैः क्रीडतो दृष्ट्वा च ( म्स्व् इ 2 ) पुनर् वज्रपाणिं यक्षम् आमन्त्रयते । पश्यसि त्वं वज्रपाणे बालदारकान् पांसुस्तूपकैः क्रीडतः । एवं भदन्त । एष चतुर्वर्षशतपरिनिर्वृतस्य मम वज्रपाणे कुशनवंश्यः कनिष्को नाम राजा भविष्यति । सो ऽस्मिन् प्रदेशे स्तूपं प्रतिष्ठापयति । तस्य कनिष्कस्तूप इति संज्ञा भविष्यति । मयि च परिनिर्वृते बुद्धकार्यं करिष्यति ।
ततो भगवान् यावच् चापलालस्य भवनं यावच् च रोहितकम् अत्रान्तरे सप्तसप्ततिप्राणिशतसहस्राणि विनीय रोहितकम् आगत्य विहारं प्रविश्य प्रतिसंलीनः । भगवान् सायाह्ने प्रतिसंलयनाद् व्युत्थायायुष्मन्तम् आनन्दम् आमन्त्रयते । आगमयानन्द येनादिराज्यम् इति ।
अथायुष्मान् आनन्दो भगवन्तम् इदम् अवोचत्* । पूर्वं भदन्त भगवान् एवम् आह । उत्तरापथे नागराजम् अपलालं वि नेष्यामः । पञ्चानुशंसा उत्तरापथेनेति । अथ च पुनर् भगवान् आह । आगमयानन्द येनादिराज्यम् इति । तत् कथम्* । भगवान् आह । गतो ऽहम् आनन्द वज्रपाणिसहीय उत्तरापथम्* । व्याकृतं तमसावनं यावद्* । व्याकृतं वालुकास्तूपम्* । गतो ऽहम् आनन्द यावच् च रोहितकं यावच् चापलालस्य नागराजस्य भुवनम्* । अत्रान्तरे तथागतेन राज्ञा सप्तसप्ततिप्राणिशतसहस्राणि विनीतानि । पञ्चादीनवा उत्तरापथे स्थाणुकण्टकद्रुमपाषाणशर्करश् चण्डकुक्कुरो दुष्ठुलसमुदाचारो मातृग्रामः ।
उद्दानम्* ।

आदिराज्यं च भद्राश्वो मथुरा ओतला च ।
आरामवैरंभ्य अयोध्या च नदी गङ्गा प्रेता वेलामो भवति पश्चिमः ॥
अथ भगवाञ् छूरसेनेषु जनपदेषु चारिकां चरन्न् आदिराज्यम् अनुप्राप्तः । तत्र भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते । अस्मिन्न् आनन्द प्रदेशे महासम्मतो राजा प्रथमतो राज्याभिषेकेनाभिषिक्तः । अभिषिक्तो ऽयं च राज्ञाम् आदिरतो ऽस्यादिराज्यः आदिराज्य इति संज्ञा संवृत्ता ।
भद्राश्वम् अनुप्राप्तः । तत्र भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते । अस्मिन्न् आनन्द प्रदेशे राज्ञो महासम्मतस्य भद्रम् अश्वरत्नं प्रादुर्भूतं यतो ऽस्य भद्राश्वो भद्राश्व इति संज्ञा संवृत्ता ।
तत्र भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते । आगमयानन्द येन मथुरा इति ( fओल्. 142व्1 = ग्ब्म् 6.953 ) । एवं भदन्त इत्य् आयुष्मान् आनन्दो भगवतः प्रत्यश्रौषीत्* । अथ भगवान् मथुरां संप्रस्थितः । दूराद् एव नीलनीलां भगवान् वनराजिं दृष्ट्वा पुन र् आयुष्मन्तम् आनन्द म् आमन्त्रयते । पश्यसि त्वम् आनन्द एतां नीलनीलां वनराजिम्* । एवम् भदन्त । एष आनन्द उरमुण्डो नाम पर्वतः । अत्र मथुरायां नटो भटश् च द्वौ भ्रातरौ मम वर्ष शतपरिनिर्वृत स्य विहारं प्रतिष्ठापयतः । ततस् तस्य नटभटिक इति संज्ञा भविष्यति । अग्रं च भविष्यति ( म्स्व् इ 4 ) शमथविपश्यनानुकूलानां शयना स नानाम्* । अद्यानन्द मथुरायां गुप्तो नाम गान्धिकदारको भविष्यति । तस्य पुत्रः उपगुप्तो नाम भविष्यति अलक्षण को बुद्धः । स मम वर्षोषितस्य परिनिर्वृतस्य शासने प्रव्रज्य बुद्धकार्यं करिष्यति । माध्यन्दिनो नाम्ना आनन्दस्य भिक्षोः सार्धंविहारी । स उपगुप्तं प्रव्राजयिष्यति । उपगुप्तः पश्चिमको भविष्यति अववादकानाम्* । वृक्ष वाटिकायां गुहा भविष्यति । दैर्घ्येणाष्टादशहस्ता । विस्तारेण द्वादश । उच्छ्रायेण सप्त । ये ये तस्याववादे अर्हत्वं साक्षात्करिष्यन्ति ते ते चतुरङ्गुलमात्रां कटिकां तस्यां गुहायां प्रक्षेप्स्यन्ते । यदा सा गुहा पुर्णा भविष्यति अर्हत्कटिकाभिस् तदा उपगुप्तः परिनिर्वास्यति । परिनिर्वृतं चैनं ताभिर् एवार्हत्कटिकाभिः समेत्य ते ध्मापयिष्यन्ति । भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं परिपप्रच्छुः । भदन्त भगवता आयुष्मान् उपगुप्तो ऽनागत एव बहुजनानुकम्पी व्याकृत इति । भगवान् आह । न भिक्षव एतर्हि यथासाव् अतीते ऽप्य् अध्वनि बहुजनहिताय प्रतिपन्नस् तच् छृणुत साधु च सुष्ठु च मनसि कुरुत भाषिष्ये ।
भूतपूर्वं भिक्षवः अस्यैव उरुमुण्डस्य पर्वतस्य त्रिषु पार्श्वेषु प्रत्येकबुद्धा ऋषयो मर्कटाश् च प्रतिवसन्ति । एकस्मिन् पार्श्वे पञ्च ( म्स्व् इ 5 ) प्रत्येकबुद्धशतानि द्वितीये पञ्च ऋषिशतानि तृतीये पञ्च मर्कटशतानि । आचरितं मर्कटयूथपतेर् जातं जातं मर्कटशावकं प्रघातयति । ततस् ता मर्कट्यः शावकशोकाभिभूताः परस्परं संजल्पं कर्तुम् आरब्धाः । शृण्वन्तु भवन्त्यो मर्कट्यः । अयम् अस्माकं यूथपतिर् जातं जातं शावकं प्रघातयति । तद् उपायसंविधानं कर्तव्यम्* । या अस्माकं मर्कटी आपन्नसत्वा भवति तया यूथपतेर् नारोचयितव्यम् इति । यावद् अपरेण समयेनान्यतमा मर्कटी आपन्नसत्वा संवृत्ता । सा ताभिः प्रतिगुप्ते प्रदेशे गोपायित्वा मूलफलैर् उपस्थापिता । मर्कटशावको जातः । सो ऽपि ताभिः प्रतिगुप्ते प्रदेशे स्थापितः पोषितः संवर्धितः । स यदा महान् संवृत्तस् तदा तेनासौ यूथपतिः स्वयूथात् प्रच्यावितः । उरुमुण्डपर्वते इतश् चामुतश् च ( fओल्. 143र्1 = ग्ब्म् 6.954 ) परिभ्रमितुम् आरब्धः । तेन परिभ्रमता प्रत्येकबुद्धानां शब्दः श्रुतः । स तेषां सकाशं गतः । यदा विश्वस्तसंवासः संवृत्तस् {म्स् स्मृतः } तदा तेषां मूलपत्रपुष्पफलदन्तकाष्ठैर् उपसंहारं करोति । ते ऽपि तस्य पात्रशेषं छोरयन्ति । आचरितं तेषां प्रत्येकबुद्धानां भुक्त्वा भुक्त्वा पर्यङ्के निषीदन्ति । सो ऽपि मर्कटस् तेषाम् ईर्यापथं दृष्ट्वा पर्यङ्केन निषीदति । यावद् अपरेण समयेन तेषां प्रत्येकबुद्धानाम् एतद् अभवत्* । यद् अस्माभिर् अनेन क्वाथकायेन प्राप्तव्यम्* । प्राप्तं तद् यन् नु वयं शान्तं निर्वाणधातुं प्रविशेम इति । ततस् ते ज्वलनतपनवर्षणविद्योतनप्रातिहार्याणि कृत्वा निरुपधिशेषे निर्वाणधातौ परिनिर्वृताः । तेषां व्युत्थानकालः । तस्मिन् ( म्स्व् इ 6 ) नोत्तिष्ठन्ति इति । स मर्कटस् तान् अपश्यन् धृतिं न लभते । यावद् असौ मर्कटो गुहां प्रविश्य तेषां प्रत्येकबुद्धानां चीवराणि विकोपयितुम् आरब्धः । या देवता तस्यां गुहायाम् अध्युषिता तस्या एतद् अभवत्* । मा हैवायं शाखामृगः
प्रत्येकबुद्धचीवराणि विकोपयिष्यतीति द्वारं महत्या शिलया पिधायावस्थिता । ततो ऽसौ मर्कटः शोचित्वा क्लमित्वा परिदेवित्वा प्रक्रान्तः । उरुमुण्डपर्वते समन्तात् परिक्रामति । अन भिरतित्वाद् धृतिं न लभमानो ऽवहितश्रोत्रो मनुष्यशब्दम् आकांक्षति । तेन तेषाम् ऋषीणां वाक्प्रव्याहारशब्दः श्रुतः । स मार्गप्रनष्ट इवाध्वगस् त्वरितत्वरितं तेषां सकाशम् उपसंक्रान्तः । तेन ऋषयः कष्टानि तपांसि तप्यन्ते । केचिद् ऊर्ध्वहस्तकास् तिष्ठन्ति । केचिद् एकेन पादेन । केचित् पञ्चतपस् तप्यन्ते । यदासौ मर्कटस् तैः सार्धं विश्वस्तसंवासः संवृत्तस् तदा तेषाम् ऋषीणां मूलपत्रपुष्पफलदन्तकाष्ठैर् उपसंहारं करोति । ते ऽपि तस्य भैक्षशेषं छोरयन्ति । स तेषाम् ईर्यापथं व्याकोप्य प्रत्येकबुद्धेर्यापथं देशयति । तत्र ये ऊर्ध्वहस्तकास् तेषां हस्तान् अधः कृत्वा रिच्छटाशब्दं च कृत्वा पुरस्तात् पर्यङ्कं बद्ध्वावतिष्ठते । ये पञ्चतपस् तप्यन्ते तेषाम् अग्निं निर्वाप्य रिच्छटाशब्दं कृत्वा पुरस्तात् पर्यङ्केनावतिष्ठते । ततस् तैः ऋषिभिर् अववादकस्यारोचितम्* । उपाध्याय एष शाखामृगो ऽस्माकं तपोविघ्नं करोति । तैस् तस्य विस्तरेणारोचितम्* । स कथयति । भवन्तः स्मृतिमन्तो ह्य् एते शाखामृगा भवन्ति । नूनम् अनेन ईर्यापथेन के ( म्स्व् इ 7 ) ऋषयो ऽनेन दृष्टा भविष्यन्ति । यूयम् अपि यथास्थापितं पर्यङ्कं बद्ध्वा निषीदथ । ते तथैव पर्यङ्कं बद्ध्वा निषण्णाः । तेषां पूर्वकानि कुशलमूलान्य् आमुखीभूतानि । तैर् अना चा र्यकैर् अनुपाध्यायकैर् ज्ञानेन सप्तत्रिंशद्बोधिपक्षधर्मान् उत्पाद्य प्रत्येकबोधिः साक्षात्कृत स् तेषां मर्कटस्यान्तिके धर्मान्वयः प्रसाद उत्पन्नः । ते यानि नवशस्यानि ( fओल्. 143व्1 = ग्ब्म् 6.955 ) नवफलानि नवर्तुकानि जनपदात् पिण्डपातं प्रतिलभते तानि तस्मै प्रथमतो दत्वा तत आत्मनः परिभुञ्जते । तावद् अपरेण समयेन स मर्कटः कालगतः । ततस् तैः प्रत्येकबुद्धैर् नानादिग्देशाधिष्ठानेषु गन्धकाष्ठानि समादाप्य सर्वगन्धकाष्ठैश् चितां चित्वा ध्मापितः
।

किं मन्यध्वे भिक्षवः । यो ऽसौ प्रत्येकबुद्धैः संपोषितो मर्कटः स एवासाव् उपगुप्तः । तदाप्य् असौ बहुजनहिताय प्रतिपन्नः एतर्ह्य् अप्य् असौ मया बहुजनहितानुकम्पी व्याकृत इति ।
अथ भगवाञ् छूरसेनेषु जनपदेषु चारिकां चरन् मथुराम् अनुप्राप्तः । अश्रौषुर् माथुरा ब्राह्मणाः श्रमणो गौतमो मथुराम् अनुप्राप्तः । सो ऽत्यर्थं चातुर्वर्णविशुद्धिं रोचयति दीपयति प्रज्ञपयति प्रस्थापयति विरुजति विवृणोति उत्तानीकरोति देशयति । यद्य् असौ मथुरां प्रवेक्ष्यति अस्माकं लाभान्तरायो भविष्यति । स चासत्कारभीतः श्रूयते । यदि तस्य कश्चिद् असत्कारं कुर्याद् एवम् असौ मथुरां न प्रविशेत्* इति चास्य नीचपुरुषो ऽसत्कारं कुर्यात्* ( म्स्व् इ 8 ) प्रवेक्ष्यति न चित्रीकरिष्यति । यद्य् अस्य प्रधानपुरुषः कश्चिद् असत्कारं कुर्याच् छोभनं स्यात्* । तत् को ऽस्माकं प्रधानपुरुषः । तेन खलु समयेन मथुरायां नीलभूतिर् नाम ब्राह्मणो वेदवेदाङ्गपारगः स्ववादोद्द्योतकः परवादनिग्रहसमर्थः । तस्य वाक् सत्यानुपरिवर्तिनी । ततो माथुरा ब्राह्मणाः सङ्गम्य समागम्य नीलभूतेः सकाशम् उपसंक्रान्ताः । उपाध्याय श्रूयते श्रमणो गौतमो इहागत इति । सो ऽत्यर्थं चातुर्वर्णविशुद्धिं पूर्ववद् यावत् संप्रकाशयति । स चासत्कारभीतः श्रूयते । यदि तस्य कश्चिद् असत्कारं कुर्याद् एवम् असौ मथुरां न प्रवेक्ष्यति । यदि चास्य नीचपुरुषो ऽसत्कारं करिष्यति न चित्रीकरिष्यति । यद्य् अस्य प्रधानपुरुषः कश्चिद् असत्कारं कुर्याच् छोभनं स्यात्* । ततो ऽस्माकं कः प्रधानपुरुषः ऋते उपाध्यायात्* । त्वम् अस्यासत्कारं कुरु वाग्दण्डैर् आक्रोशय । नीलभूतिः कथयति । भवन्तो ममेयं जिह्वा सत्यानुप्रवर्तिनी । यद्य् आक्रोशार्हो भविष्यति आक्रोक्ष्यामि । अथ स्तवार्हस् तोष्यामीति । ततो नीलभूतिर् ब्राह्मणो वृद्धवृद्धैर् मथुरानिवासिभिर् ब्राह्मणैः संपुरस्कृतो येन भगवांस् तेनोपसंक्रान्तः । अद्राक्षीन् नीलभूतिर् ब्राह्मणो भगवन्तं दूराद् एव द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्योमप्रभालङ्कृतं सूर्यसहस्रातिरेकप्रभं ( म्स्व् इ 9 ) जंगमम् इव रत्नपर्वतं समन्ततो भद्रकम् अन्यतरं वृक्षमूलं निश्रित्य शान्तेन ईर्यापथेन निषण्णम्* । दृष्ट्वा च विस्मयोत्फुल्लदृष्टिः स्तोतुम्
आरब्धः ।
प्रणिधाय मनः सहेन्द्रियैर् विधिवद्* ( fओल्. 144र्1 = ग्ब्म् 6.956 ) वाक्* च शरीरम् एव च ।
गुणभूत महागुणोदधेस् तव वक्ष्यामि गुणैकदेशताम्* ॥ 1
परमप्रवरो ऽसि वादिनाम् अनवद्यः सुसमाहितेन्द्रियः ।
परमार्थविद् अप्रकम्पितः प्रयतैः सर्वपरप्रवादिभिः ॥ 2
चरणं सुसमाप्तम् एव ते सुसमाप्तव्रत साधितव्रतः ।
बलवांश् च समाधिर् अव्ययस् तव नारायणशैलराजवत्* ॥ 3
पुरुषर्षभ नास्ति ते व्यथा न विषादो न भयं न च क्लमः ।
न च ते व्यसनं कुतः कलिर् न च भूतेषु कदाचिद् अक्षमा ॥ 4
न च धावसि नातिलीयसे न च सन्तप्यसि नापि हृष्यसे ।
सततं शुभम् एव ते मनः सततं मेरुर् इवाचलाधिपः ॥ 5
मुनिपुङ्गव सर्वधातुभिर् विपुलं ज्ञानम् अपावृतं तव ।
अपराहतम् अक्षयव्ययं विविधेष्व् आयतनेषु वर्तसे ॥ 6
न च ते ऽस्ति मुने कथंकथा विमतिर् नास्ति न संशयः क्वचित्* ।
स्वयम् एव न ते परापरं विदितं सर्वम् अवेदि विद्यया ॥ 7
प्रियदर्शनसाधुदर्शनप्रियसाधुप्रियपण्डितप्रियः ।
समम् एव हि ते प्रियाप्रियं सततं प्रीतिकरस् तथेर्यसे ॥ 8
मधुरप्रतिभानवानसि स्मितवाक्यः स्मृतिमान् विशारदः ।
विविदानुमतं प्रभाषसे त्रिषु लोकेषु च ते स्तृतं यशः । 9
नृसुरासुरयक्षराक्षसा बहवस् त्वाम् इहलोकपण्डिताः ।
उपगम्य मुने पुनः पुनः परिपृच्छन्ति न चाभिषूयसे ॥ 10
स्ववचःपरितोषितास् त्वया नरदेवाः सुरयक्षराक्षसाः ।
प्रतियान्ति विनीतसंशयाश् चरणौ वन्द्य च ते महामुने ॥ 11
स्थितम् आसितम् आगतं गतं शयितं मौनम् अथाभ्युदीरितम्* ।
अथ चीवरपात्रधारणं रुचिरं गौतम सर्वम् एव ते ॥ 12
अविलम्बितम् अद्रुतं समं स्वरमाधुर्यगुणैः समन्वितम्* ।
वचनं पुनर् उक्तवर्जितं समये व्याहरसे नरोत्तम ॥ 13
बलवान् असि लोकविश्रुतः पुरुषज्ञः पुरुषर्षभः प्रभुः ।
न च मन्यसि नावमन्यसे सकलं लोकम् इमं सदैवतम्* ॥ 14
न च विस्मयसे कदाचन प्रकृतिस्थेषु चलाचलेषु च ।

सुहृदेषु च दुर्हृदेषु च प्रतिकूलेष्व् अनुलोमवत्सु च ॥ 15
परिदेव्यम् अदीननिस्वनं स्रुतलालार्पितसन्निनादितम्* ।
परिदाहविदाहसंयुतं भयरोगज्वरशोककर्षितम्* ॥ 16
प्रसमीक्ष्य जगत् समाकुलं विविधैर् दुःखशतैर् उपद्रुतम्* ।
चिररात्रम् अनाथम् उत्सुकं भवतृष्णाप्रसृतं तमोवृतम्* ॥ 17
अवतार्य मुनेर् महाकृपां विविधां चात्मगतां प्रभावताम्* ।
स्वयम् एव हि शाक्यपुङ्गव व्यथितान् मोचयितुं त्वम् उद्यतः ॥ 18
भवदुःखम् इदं सहेतुकं भवदुःखस्य च यः परिक्षयः ।
भवदुःखनिरोधगामिनी प्रतिपच्चाप्रतिमं त्वयोच्यते ॥ 19
अतिवीर्य महाविनायकप्रवराणाम् अनुवादिनां वर ।
न च ते सदृशः कुतो ऽधिकस् त्रिषु लोकेष्व् अपि नैव विद्यते ॥ 20
प्रतिघानुनया ( fओल्. 144व्1 = ग्ब्म् 6.957 ) न सन्ति ते न च ते सन्ति मुने परिस्रवाः ।
अनुरोधविरोधविग्रहाः सततं सुव्रत नैव नैव ते ॥ 21
अपहाय मुने प्रियाप्रिये सुखदुःखे वि षमं समं तथा ।
अरतिं च रतिं विपर्ययन्न् उपशान्तश् चरसीह संयतः ॥ 22
व्यसने न च नाम निर्मना न च नामोन्नमसे प्रशंसया ।
अयशश् च यशश् च ते समं समम् आक्रुष्टम् अथापि वन्दितम्* ॥ 23
अतिवाक्यम् अथो तितिक्षसे पुरुषं पापजनैर् उदीरितम्* ।
समराग्रगतो विषाणवान् भृशमुक्तान् इव कुञ्जरः शरान्* ॥ 24
सुवचस् त्वम् ऋषे वचःक्षमः सुदुरुक्तेष्व् अपि नाभिषूयसे ।
समम् एव च वर्तसे मुने परिभाषासु शुभासु वाक्षु च ॥ 25
सततं च वरार्ह पूज्यसे नरदेवासुरयक्षराक्षसैः ।
ऋषिभिश् च सदा महात्मभिर् न च ते विक्रियते स्थिरं मनः ॥ 26
प्रवरो ऽहम् इतो न मन्यसे ऽत्यवरो ऽहम् इतो न मन्यसे ।
सदृशो ऽहम् इतो न मन्यसे त्रिविधा मानविधा न सन्ति ते ॥ 27
धृतिमान् समलोष्टकाञ्चनः समवैडूर्यकठल्लशर्करः ।
तृणकाष्ठसमं महामुने चरसीदं हि सदेवकं जगत्* ॥ 28
हिमभास्कररश्मिसंगमाच् छिशिरोष्णं पवनं समुद्वहन्* ।
अधिवासयसे नगेन्द्रवन् न च ते प्रव्यथते स्थिरं मनः ॥ 29
शयनासनपानभोजनं विविधं चीवरम् उत्तराधरम्* ।
इदम् अर्थिकतो निदेशसे प्रतिसंख्याय मुने निरास्रवम्* ॥ 30
न च शोचसि नाथ नास्ति मे न च ते सन्ति मुने परिग्रहाः ।
असितो ऽसि सुवाक्यनिर्ममः परिमुक्तो विविधैर् उपद्रवैः ॥ 31
न च लाभम् अवाप्य हृष्यसे तदलाभाच् च लयं न गच्छसि ।
अवमानम् अथो तितिक्षसे न च संमानम् इहाभिनन्दसि ॥ 32
क्षतजोपमम् अग्रचन्दनं सुरभूमन्दरसानुसम्भवम्* ।
असयो निशिताः शराश् च ते न विकुर्वन्ति मनः कदाचन ॥ 33
न कथां कथयस्य् अनर्थिकां न च या दुर्जनसेविता कथा ।
न च लाभकथा न सामिषा न च या नानुमता महात्मभिः ॥ 34
प्रविवेककथाः सुखावहाः प्रशमं याः प्रवदन्ति केवलम्* ।

कथयस्य् अतिदेवताः कथाः कथिता या विनयन्ति किल्विषम्* ॥ 35
मधुराणि च सङ्गतानि च स्वभिनीतानि च सारवन्ति च ।
वचनानि मुने प्रभाषसे जगदर्थाय विनिश्चितानि च ॥ 36
अबुधा विपरीतदर्शनाश् चपलाः साहसिकाः प्रियान्विताः ।
पिशुनाः परुषाः शठाश् च ये भगवंस् तैः सह सङ्गतं न ते ॥ 37
अशठा ऋजवश् च ये नराः शुचयः सत्यरता जितेन्द्रियाः ।
सततं च समीक्ष्यकारिणो भगवंस् तैः सह सङ्गतं तव ॥ 38
धर्मज्ञ नयज्ञ पुद्गलज्ञ त्वां वन्दे षडभिज्ञ सर्वदैव ।
क्षेत्रज्ञ मुने परापरज्ञ त्वां वन्दे शिरसा नयानयज्ञ ॥ 39
पृथुम् अपि समीक्षते गुणं तव परिकथितो हि मया गुणैकदेशः ।
न तव गुणमहार्णवस्य पारं जगति पुमान् अधिगन्तुम् आर्य शक्तः ॥ 40
इत्य् एवमादिभिः पञ्चभिः स्तोत्रशतैर् भगवान् अभिष्टुतः {म्स् अभितुष्टः } । तथाभिप्रसन्नस्य च भगवता नीलभूतेर् धर्मो देशितः । यथा यथा तस्मिन्न् एवासने निषण्णेन सत्यदर्शनं कृतम्* । अथ नीलभूतिर् ब्राह्मणो भगवन्तं स्तुत्वा प्रक्रान्तः । सो ऽध्वप्रतिपन्नो माथुर्यैर् ब्राह्मणैः संचम्परीकृतः । उपाध्याय त्वम् अस्माभिर् अभिहितः । श्रमणस्य गौतमस्यासत्कारं कुरुष्वेति । स त्वम् एतर्हि स्तुत्वा आगतः । भवन्तो न त्व् अहं पूर्वम् अवोचम्* । मम जिह्वा सत्याभिधायिनी । यद्य् आक्रोशार्हो भविष्यति । आक्रोशे । स्तवार्हो भविष्यति । स्तोष्य इति । स्तवार्हः श्रमणो गौतमो मया स्तुतः ।
अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरम् आदाय मथुरां पिण्डाय प्राविक्षत्* । तेन खलु समयेन मथुरायां नक्षत्ररात्रः प्रत्युपस्थितः । अथ या देवता मथुरायाम् अध्युषिता तस्या एतद् अभवत्* । यदि श्रमणो गौतमो मथुरां प्रवेक्ष्यति । मम नक्षत्ररात्रेर् अन्तरायं करिष्यतीति विदित्वा भगवतः पुरस्ताद् विनग्नो ऽस्थात्* । भगवान् आह । अप्रतिच्छन्नस् तावद् देवते मातृग्रामो न शोभते प्राग् एव विनग्न इति । अथ सा देवता जिह्रीय नग्नरूपा एकान्ते ऽपक्रान्ता । ततो भगवान् मार्गाद् अपक्रम्य पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः । निषद्य भगवान् भिक्षून् आमन्त्रयते स्म । पञ्चेमे भिक्षव आदीनवा मथुरायाम्* । कतमे पञ्च । उत्कूलनिकूलाः स्थाणुकण्टकप्रधाना ( म्स्व् इ 15 ) बहुपाषाणशर्करकठल्ला उच्चन्द्रभक्ताः प्रचुरमातृग्रामा इति ।
अथ बहगवान् न प्रविशन्न् एव मथुरां येन गर्दभस्य यक्षस्य भवनं तेनोपसंक्रान्तः । उपसंक्रम्य गर्दभस्य यक्षस्य भवनम् अभ्यवगाह्यान्यतरद् वृक्षमूलं निश्रित्य निषण्णो दिवाविहाराय । अश्रौषुर् माथुरा ब्राह्मणगृहपतयो भगवान् पिण्डाय प्राविशत्* देवतया विहेठितः । अप्रविशन्न् एव मथुरां गर्दभस्य यक्षस्य भवनं गत इति श्रुत्वा च पुनः शुचिनः प्रणीतस्य खादनीयभोजनीयस्य प्रत्येकं प्रत्येकं स्थालीपाकं समुदानीय शकटे आरोप्य येन भगवांस् तेनोपसंक्रान्तः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णः । एकान्तनिषण्णान्* श्राद्धान् माथुरान् ब्राह्मणगृहपतीन् भगवान् धर्म्यया कथया पूर्ववद् यावत् संप्रहर्ष्य तूष्णीम्* । अथ श्राद्धा ब्राह्मणगृहपतय उत्थायासनाद् एकांसम् उत्तरासङ्गं कृत्वा येन भगवांस् तेनाञ्जलिं प्रणम्य भगवन्तम् इदम् अवोचत्* । इहास्माभिर् भदन्त भगवन्तम् उद्दिश्य शुचिनः प्रणीतस्य खादनीयभोजनीयस्य शकटं पूर्णम् आनीतम्* । तद् भगवान् प्रतिगृह्णातु अनुकम्पाम् उपादाय इति । तत्र भगवान् आनन्दम् आयुष्मन्तम् आमन्त्रयते । गच्छानन्द यावन्तो भिक्षवो गर्दभस्य यक्षस्य भवनम् ( fओल्. 145व्1 = ग्ब्म् 6.959 ) उपनिश्रित्य ( म्स्व् इ 16 ) विहरन्ति तान् सर्वान् उपस्थानशालायां सन्निपातय । परिभोक्ष्यन्ते पिण्डपातम् इति । एवं भदन्त इत्य् आयुष्मान् आनन्दो भगवतः प्रतिश्रुत्य यावन्तो भिक्षवो गर्दभस्य यक्षस्य भवनम् उपनिश्रित्य विहरन्ति तान् सर्वान् उपस्थानशालायां सन्निपात्य येन भगवांस् तेनोपसंक्रान्तः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते ऽस्थात्* । एकान्तस्थित आयुष्मान् आनन्दो भगवन्तम् इदम् अवोचत्* । यावन्तो भदन्त भिक्षवो गर्दभस्य यक्षस्य भवनम् उपनिश्रित्य विहरन्ति सर्वे ते उपस्थानशालायां सन्निषण्णाः सन्निपतिताः । यस्येदानीं भगवान् कालं मन्यत इति । अथ भगवान् येनोपस्थानशाला तेनोपसंक्रान्तः । उपसंक्रम्य पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः । अथ माथुराः श्राद्धा ब्राह्मणगृहपतयः सुखोपनिषण्णं
बुद्धप्रमुखं भिक्षुसंघं विदित्वा पूर्ववद् यावद् धौतहस्तम् अपनीतपात्रं भगवतः पुरस्तात् तस्थुर् आयाचमानं चाहुः । भगवता भदन्त ते ते दुष्टनागा दुष्टयक्षाश् च विनीताः । अयं भदन्त गर्दभको यक्षो ऽस्माकं दीर्घरात्रम् अवैरिणां वैरी । असपत्नानां सपत्नः । अद्रुग्धानां द्रोग्धा । जातानि जातान्य् अपत्यान्य् अपहरति । अहो वत भगवान् गर्दभकं यक्षं विनयेद् अनुकम्पाम् उपादायेति । तेन खलु समयेन गर्दभको यक्षस् तस्याम् एव पर्षदि सन्निषण्णो ऽभूत् सन्निपतितः । तत्र भगवान् गर्दभकं यक्षम् आमन्त्रयते । श्रुतं ते गर्दभक । श्रुतं मे भगवन्* । श्रुतं ते गर्दभक ( म्स्व् इ 17 ) । श्रुतं मे सुगत । विरमास्मात् पापकाद् असद्धर्मात्* । भगवन् समयतो ऽहं विरमामि । यदि माम् उद्दिश्य चातुर्दिशाय भिक्षुसंघाय विहारं कारयन्तीति । तत्र भगवान् माथुरान् श्राद्धान् ब्रह्मणगृहपतीन् आमन्त्रयते । श्रुतं वो ब्राह्मणगृहपतयः । श्रुतं भगवन्* । कारयिष्यामः । तत्र भगवता गर्दभको यक्षः पञ्चशतपरिवारो विनीतः । श्राद्धैर् ब्राह्मणगृहपतिभिस् तान् उद्दिश्य पञ्च विहारशतानि कारितानि । एवं शरो यक्षो वनो यक्षः आलिकावेन्दा मघा यक्षिणी विनीता । अथ भगवता ऋद्ध्या मथुरां प्रविश्य तिमिसिका {म्स् भगवतो भगवान् ऋद्ध्या विनीता } यक्षिणी पञ्चशतपरिवारा विनीता । ताम् अप्य् उद्दिश्य पञ्चविहारशतानि कारितानीति । तत्र भगवता सान्तर्बहिर् मथुरायाम् अर्धतृतीयानि यक्षसहस्राणि विनीतानि । तान्य् उद्दिश्य श्राद्धैर् ब्राह्मणगृहपतिभिर् अर्धतृतीयानि विहारसहस्राणि कारितानि ।
अथ भगवान् ओतलाम् अनुप्राप्तः । ओतलायां विहरति । ओतलीये वनषण्डे । तत्र ओतलायनो नाम ब्राह्मणमहाशालः प्रतिवसति आढ्यो महाधनो महाभोग इति विस्तरः ।
अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरम् आदाय ओतलायां पिण्डाय प्राविक्षत्* । अन्यतमस्मिन् प्रदेशे पञ्चमात्राणि कार्षिकशतानि ( म्स्व् इ 18 ) उद्रजःशिरस्कानि शणशाटीनिवस्तानि हलं वाहयन्ति । अद्राक्षुस् ते कार्षिका बुद्धं भगवन्तं द्वात्रिं शन् महापुरुषलक्षणा लंकृतं ( fओल्. 146र्1 = ग्ब्म् 6.960 ) द्योतितमूर्तिम् इति विस्तरः । भगवता तेषां धर्मो देशितः । यावन् मान्याश् चाभिवाद्याश् च संवृत्ताः ।

अथ तद् बलीवर्दसहस्रं योक्त्राणि वरत्राणि च्छित्वा येन भगवांस् तेनोपसंक्रान्तम्* । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा संपरिवार्यावतस्थुः । भगवता तेषां त्रिभिः पदैर् धर्मो देशितो यावच् चातुर्महाराजिकेषु देवेषूपपन्नाः । यावद् दृष्टसत्याः स्वभवनं गताः ।
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः । किं भदन्त एभिः पञ्चभिः कार्षिकशतैर् एभिश् च बलीवर्दैः कर्म कृतं यस्य कर्मणो विपाकेन कार्षिकाः संवृत्ता दरिद्रगृहेषूपपन्नाः । इमे च बलीवर्दाः संवृत्ताः । भगवान् आह । एभिर् एवं भिक्षवः कर्माणि कृतानीति विस्तरः ।
एते काश्यपस्य सम्यक्संबुद्धस्य शासने प्रव्रजिताः । एभिस् तत्र कौसीद्येनाभिनामितम्* । तस्य कर्मणो विपाकेन कार्षिकाः संवृत्ताः । एभिश् च बलीवर्दैस् तत्रैव प्रव्रजितैः क्षुद्रानुक्षुद्रैः शिक्षापदैर् अनादरं कृतम्* । तस्य कर्मणो विपाकेन तिर्यक्षूपपन्नाः । यत् ते काश्यपस्य सम्यक्संबुद्धस्य शासने प्रव्रजितास् तस्य कर्मणो विपाकेन ममान्तिकात् सत्यदर्शनं कृतम् इति हि भिक्षवः एकान्तकृष्णानाम् इति विस्तरः ।
अश्रौषीद् ओतलायनो ब्राह्मणः श्रमणो गौतमो ओतलाम् अनुप्राप्तः । ओतलायां विहरति ओतलीयके वनषण्ड इति ।
ओतलायनसूत्रं विस्तरेण संयुक्तागमे मार्गवर्गनिपाते ।{म्स् ग्ब्म् 960.6: संयुक्तकागमे मार्गवर्गनिपाते }
अथ ओतलायनस्य ब्राह्मणस्यैतद् अभवत्* । किं पुनर् अस्यानर्थं करिष्यामः । तेन च पूर्वं श्रुतं श्रमणो गौतमः सश्रावकं संघं भोजयित्वा प्रणिधानं करोति । स यच् चिन्तयति यत् प्रार्थयते तत् सर्वं प्रतिलभते इति । अथ ओतलायनो ब्राह्मणः उत्थायासनाद् एकांसम् उत्तरासंगं कृत्वा येन भगवांस् तेनाञ्जलिं प्रणम्य भगवन्तम् इदम् अवोचत्* । अधिवासयतु मे भगवन् गौतम श्वो ऽन्तर्गृहे भक्तेन सार्धं भिक्षुसंघेन । पूर्ववद् यावद् भुक्तवन्तं विदित्वा धौतहस्तम् अपनीतपात्रं नीचतरम् आसनं गृहीत्वा भगवतः पुरस्तान् मिथ्याप्रणिधानं चिन्तयितुम् आरब्धः । यावन्त इमे श्रमणाः शाक्यपुत्रीया मया भोजिताः सर्व एते मम बलीवर्दाः स्युर् इति । अथ भगवान् ओतलायनस्य ब्राह्मणस्य चेतसा चित्तम् आज्ञाय ओतलायनं ब्राह्मणम् इदम् अवोचत्* । अप्रतिरूपं ते ब्राह्मण चित्तम् उत्पादितम्* । नैतत् समृध्यति । तथा ह्य् एते सर्वे भिक्षवः क्षीणपुनर्भवाः । अन्यच् चित्तम् उत्पादयेत्य् उक्त्वा भगवान् दक्षिणादेशनां कृत्वा प्रक्रान्तः । अथ भगवान् विहारं गतः पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः । निषद्य भगवान् भिक्षून् आमन्त्रयते स्म । ओतलायनेन भिक्षवो ब्राह्मणेन मिथ्याप्रणिधानसमुत्थं ( म्स्व् इ 20 ) पापकं चित्तम् उत्पादितम्* । युष्माभिर् ( fओल्. 146व्1 = ग्ब्म् 6.961 ) भुक्त्वा आर्षा गाथा वक्तव्या । मिथ्याप्रणिधानं न समर्द्धिष्यति ।
अथ भगवांस् तस्या एव रात्रेर् अत्ययाद् ओतलां पिण्डाय प्राविक्षद् आयुष्मता आनन्देन पश्चाच्छ्रमणेन । तदा ओतलायां कचंगला नाम वृद्धा । सा उदकार्थिनी कूलम् अपसृता । भगवांस् तस्य विनयकालम् अवेक्ष्यायुष्मन्तम् आनन्दम् आमन्त्रयते । गच्छानन्द एतस्या वृद्धायाः कथय । भगवांस् तृषितः पानीयम् अनुप्रयच्छेति । एवं भदन्तेत्य् आयुष्मान् आनन्दो भगवतः प्रतिश्रुत्य येन कचंगला वृद्धा तेनोपसंक्रान्तः । उपसंक्रम्य कचंगलां वृद्धाम् इदम् अवोचत्* । कचंगले भगवांस् तृषितः पानीयम् अनुप्रयच्छेति । सा कथयति । आर्य अहं स्वयम् एवानेष्यामीति । ततः कचंगला उदकघटं पूरयित्वा त्वरितत्वरिता येन भगवांस् तेनोपसंक्रान्ता । ददर्श कचंगला बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यंजनैर् विराजितगात्रं व्योमप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* । कचंगलासहदर्शनाद् अस्याः पुत्रस्नेहम् उत्पन्नम्* । सा ऊर्ध्वबाहुः पुत्र पुत्रेति भगवन्तं परिष्वङ्क्तुम् आरब्धा । भिक्षवस् तां वारयन्ति । भगवान् आह । मा यूयं भिक्षवः एतां वृद्धां वारयत । तत् कस्य हेतोः ।
पञ्च जन्मशतान्य् एषा मे माताभून् निरन्तरम्* ।
सा चेद् एषा निवारिता मम गात्रस्य श्लेषणात्* ॥
इदानीं रुधिरं ह्य् उष्णं कण्ठाद् एषा वमेत् क्षणात्* ।
कृतज्ञताम् अनुस्मृत्य दृष्ट्वेमां पुत्रलालसाम्* ।
कारुण्याद् गात्रसंश्लेषं प्रददाम्य् अनुकम्पया ॥ इति ॥
भगवता तस्याः कण्ठाश्लेषो दत्तः । पुत्रस्नेहं विनोद्य भगवतः पुरस्तान् निषण्णा धर्मश्रवणाय । ततो भगवता तस्या आशयानुशयं धातुं प्रकृतिं च ज्ञत्वा तादृशी चातुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता यां श्रुत्वा कचंगलया विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतापत्तिफलं साक्षात्कृतम्* । सा दृष्टसत्या त्रिर् उदानम् उदानयति । इदम् अस्माकं भदन्त न मात्रा कृतं न पित्रा । पूर्ववद् यावत्* । अनाद्यकालोपचितं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतापत्तिफलं साक्षात्कृतम्* । गाथां च भाषते ।
यत् कर्तव्यं सुपुत्रेण मातानुग्रहकारिणा ।
तत् कृतं भवता मे ऽद्य चित्तं मोक्षपरायणम्* ॥
दुर्गतिभ्यः समुद्धृत्य स्वर्गे मोक्षे च ते अहम्* ।
स्थापिता सुप्रयत्नेन साधु ते दुष्करं कृतम्* ॥
इत्य् उक्त्वा भगवतः पादौ शिरसा वन्दित्वा भगवतो ऽन्तिकात् प्रक्रान्ता । अथ कचंगला अपरेण समयेन स्वामिनम् अनुज्ञाप्य येन भगवांस् तेनोपसंक्रान्ता । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णा । एकान्तनिषण्णा कचंगला भगवन्तम् इदम् अवोचत्* । लभेयाहं भदन्त स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुणीभावं चरेयम् अहं भगवतो ( fओल्. 147र्1 = ग्ब्म् 6.962 ) ऽन्तिके ब्रह्मचर्यम् इति । भगवता महाप्रजापत्ये संन्यस्ता । ततस् तया प्रव्राजिता उपसंपादिता अववादो दत्तः । तया युज्यमानया घटमानया व्यायच्छमानया सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । अर्हन्तिनी च बभूव । त्रैधातुकवीतरागा पूर्ववन् मान्या च संवृत्ता ।
यदा भगवान् भिक्षुणीनां संक्षेपेणोद्दिश्य विहारं प्रविशति प्रतिसंलयनाय तदा तं कचंगला विस्तरेण व्याकरोति । तत्र भगवान् भिक्षून् आमन्त्रयते स्म । एषाग्रा मे भिक्षवो भिक्षुणीनां मम श्राविकाणां सूत्रान्तविभागकर्त्रीणां यदुत कचंगला भिक्षुणी इति ।

भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः । किं भदन्त कचंगलायाः कर्म कृतं येन वृद्धा प्रव्रजिता । किं च कर्म कृतं येन दरिद्रा दासी च संवृत्ता भगवांश् च पश्चिमेन गर्भवासेन धारितः । प्रव्रज्यार्हत्वं च साक्षात्कृतम्* । भगवता च सूत्रान्तविभागकर्त्रीणाम् अग्रा निर्दिष्टेति । भगवान् आह । कचंगलयैव ( म्स्व् इ 23 ) भिक्षवो भिक्षुण्या कर्मा णि कृतान्य् उपचितानि लब्धसंभाराणि पूर्ववद् यावत् फलन्ति खलु देहिनाम्* ।
भूतपूर्वं भिक्षवो बोधिसत्वचर्यायां वर्तमानस्य एषा मम माता बभूव । यदाहं प्रव्रजितुम् इच्छामि तदा माम् एव वारयति । तस्य कर्मणो विपाकेन वृद्धा प्रव्रजिता । दानं ददतो मे ऽनया दानान्तरायः कृतः । तेन दरिद्रा संवृत्ता । न चानया पुण्यमहेशाख्यसंवर्तनीयानि कर्माणि कृतानि यथा महामायया येनाहम् अनया पश्चिमे गर्भवासेन धारितः । काश्यपे च सम्यक्संबुद्धे प्रव्रजिता याः शैक्षाशैक्षा भिक्षुण्यो दासीवादेन समुदाचरिताः । तेन दासी संवृत्ता । यत् तत्रानया पठितं स्वाध्यायितं स्कन्धकौशलं धातुकौशलम् आयतनकौशलं प्रतीत्यसमुत्पादकौशलं स्थानास्थानकौशलं च कृतं तेन मम शासने प्रव्रज्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । यस्याश् चोपाध्यायिकायाः सकाशे प्रव्रजिता सा भगवता काश्यपेन सम्यक्संबुद्धेन सूत्रान्तविभागकर्त्रीणाम् अग्रा निर्दिष्टा । तत्रानया मरणकालसमये प्रणिधानं कृतं यन् मया भगवति काश्यपे सम्यक्संबुद्धे अनुत्तरे दक्षिणीये यावद् आयुर् ब्रह्मचर्यं चरितं न च कश्चिद् गुणगणो ऽधिगतः । अनेन कुशलमूलेन यो ऽसौ भगवता काश्यपेनोत्तरो नाम माणवो व्याकृतो भविष्यति । त्वं माणव वर्षशतायुषि प्रजायां शाक्यमुनिर् नाम तथागतो ऽर्हत् सम्यक्संबुद्ध इति । तस्याहं शासने प्रव्रजेयम्* । ( म्स्व् इ 24 ) यथैषा मे उपाध्यायिका भगवता काश्यपेन सम्यक्संबुद्धेन सूत्रान्तविभागकर्त्रीणाम् अग्रा निर्दिष्टा । ( fओल्. 147व्1 = ग्ब्म् 6.963 ) एवं माम् अप्य् असौ भगवान् शाक्यमुनिः सूत्रविभागकर्त्रीणाम् अग्रां निर्दिशेद् इति । तत् प्रणिधानवशाद् एतर्हि मया सूत्रान्तविभागकर्त्रीणाम् अग्रा निर्दिष्टा । इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः । पूर्ववद् यावत्* । आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम् इदम् अवोचत्* ।
तत्र भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते । आगमयानन्द येन वैरंभ्यम् इति । एवं भदन्तेत्य् आयुष्मान् आनन्दो भगवतः प्रत्यश्रौषीत्* । अथ भगवान् संप्रस्थितो यावद् अन्यतमस्मिन्न् आरामे । ब्राह्मणः कूपात् पानीयम् उद्धरति । आरामं सेक्तुम् आरब्धः । अद्राक्षीत् स ब्राह्मणो भगवन्तं दूराद् एव । दृष्ट्वा च पुनः संलक्षयति । यदि श्रमणो गौतम आरामं प्रवेक्ष्यति । आरामाम् उदपानं स दूषयतीति । ततो रज्जुं तिप्यकं च गोपायित्वा स्थितः । अथ भगवान् ऋद्ध्यारामं प्रविष्टः । पांचिकेन च महायक्षसेनापतिना तद् उदपानं प्लावीकृतम्* । सर्वो ऽसाव् आराम उदकेन प्लावितः । ततो ऽसौ ब्राह्मणो महर्धिको ऽयं श्रमणो गौतमो महानुभाव इति विदित्वातिप्रसन्नः कथयति । ( म्स्व् इ 25 ) आगच्छतु भगवन् गौतम । इयं रज्जुर् इदं तिप्यकम्* । गृह्णातु पानीयं यथासुखम् इति ।
अथ भगवांस् तस्यां वेलायां गाथां भाषते ।

किं कुर्याद् उदपानेन आपश् चेत् सर्वतो यदि ।
छित्वेह मूलं तृष्णायाः कस्य पर्येषणां चरेत्* ॥ इति ॥
अथासौ ब्राह्मणो भगवन्तम् इदम् अवोचत्* । लभेयाहं भदन्त स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुभावं पूर्ववद् यावत्* । एहिभिक्षुकया प्रव्राजितः ।
एहीति चोक्तः स तथागतेन मुण्डश् च संघाटीपरीतदेहः ।
सद्यः प्रशान्तेन्द्रिय एव तस्थौ नैव स्थितो बुद्धमनोरथेन ॥ {म्स्: तस्थुर् नेपच्छिता ; च्f. नेपच्छिता -> प्रव्र्-व् इइइ, fओल्.47र्6}
तेनोद्यच्छमानेन घटमानेन व्यायच्छमानेन सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । अर्हन् संवृत्तः । त्रैधातुकवीतरागः पूर्ववद् यावद् अभिवाद्यश् च संवृत्तः ।
अथ भगवाञ् छूरसेनेषु जनपदेषु चारिकां चरन् वैरंभ्यम् अनुप्राप्तो वैरंभ्ये विहरति नडेरपिचुमन्दमूले । तेन खलु समयेन वैरंभ्येष्व् अग्निदत्तो नाम ब्राह्मणराजो राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च । अश्रौषीद् अग्निदत्तो ब्राह्मणराजः श्रमणो गौतमः शूरसेनेषु जनपदेषु चारिकां चरन् वैरंभ्यम् अनुप्राप्तो वैरंभ्ये विहरति नडेरपिचुमन्दमूले ( म्स्व् इ 26 ) इति । श्रुत्वा च पुनर् अस्यैतद् अभवत्* । श्रमणो गौतमः सर्वसामन्तराजानां सत्कृतो गुरुकृतो मानितः पूजितो ऽर्हत्संमतः । सचेद् अहं श्रमनं गौतमं न सत्करिष्यामि प्रातिसीमानां कोट्टराजानां गर्ह्यो भविष्यामि । बालो वत भवन्तो ऽग्निदत्तो ब्राह्मणराजो यस्य ग्रामक्षेत्रम् उपनिश्रित्य श्रमणो गौतमो विहरति न च सत्करोति । ( fओल्. 148र्1 = ग्ब्म् 6.964 ) यन्व् अहं श्रमणं गौतमं सश्रावकसंघं सर्वोपकरणैः प्रवारयेयम् इति विदित्वा महत्या राजर्द्ध्या महता राजानुभावेन वैरंभ्यान् निष्क्रम्य येन भगवांस् तेनोपसंक्रान्तः । उपसंक्रम्य भगवता सार्धं संमुखं संमोदनीं संरञ्जनीं विविधां कथां व्यतिसार्य एकान्ते निषण्णः । एकान्तनिषण्णम् अग्निदत्तं ब्राह्मणराजं भगवान् धर्म्यया कथया संदर्शयति समादापयति पूर्ववद् यावत् संप्रहर्ष्य तूष्णीम्* ।
अथाग्निदत्तो ब्राह्मणराज उत्थायासनाद् एकांसम् उत्तरासंगं कृत्वा येन भगवांस् तेनाञ्जलिं प्रणम्य भगवन्तम् इदम् अवोचत्* । अधिवासयतु मे भगवान् गौतमस् त्रैमासीं चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सार्धं भिक्षुसंघेन इति । अधिवासयति भगवान् अग्निदत्तस्य ब्राह्मणराजस्य तूष्णींभावेन । अथाग्निदत्तो ब्राह्मणराजो भगवतस् तूष्णींभावेनाधिवासनां विदित्वा भगवतो भाषितम् अभिनन्द्यानुमोद्य भगवतो ऽन्तिकात् प्रक्रान्तः । तेन निवेशनं गत्वा अमात्यानाम् आज्ञा दत्ता । प्रतिदिवसम् अष्टादशप्रकारं खाद्यकं पचत नानासूपिकरसव्यंजनोपेतं च प्रभूतं भक्तम्* । वैरंभ्ये च घण्टावघोषणं कारितम्* । नान्येन श्रमणो गौतमस् त्रैमासीं भोजयितव्यः । यो भोजयति तस्य वधो दण्ड इति । स एवं घण्टावघोषणं कृत्वा ( म्स्व् इ 27 ) रात्रौ शयितः स्वप्नम् अद्राक्षीत्* । आत्मीयैर् अन्त्रैः {म्स् आत्मदीयैर् अन्त्रैः } सर्वं वैरंभ्यं नगरं वेष्टितम्* । दृष्ट्वा च पुनर् भीतः संतप्तः आहृष्टरोमकूपो लघु लघ्व् एव महार्हशयनाद् उत्थाय करे कपोलं दत्वा चिन्तापरो व्यवस्थितः । मा हैव मे अतोनिदानं राज्याच् च्युतिर् भविष्यति जीवितस्य वान्तराय इति । स प्रभातायां रजन्यां ब्राह्मणाय पुरोहिताय निवेदयामास । उपाध्याय मया ईदृशः स्वप्नो दृष्टः । कथम् अत्र प्रतिपत्तव्यम् इति । ब्राह्मणः पुरोहितः संलक्षयति । किं चापि देवेनाशोभनः स्वप्नो दृष्टः । यद्य् अहम् एनम् अनुसंवर्णयेयं भूयस्या मात्रया श्रमणो गौतमः प्रसादम् उत्पादयिष्यति । यन्व् अहम् एनं विवर्णयेयेअम् इति विदित्वा कथयति । देवेन शोभनः स्वप्नो न दृष्टः । उपाध्याय किंविपाको ऽयं भविष्यति । नियतं देवस्य राज्यच्युतिर् भविष्यति जीवितस्य वान्तरायः । राजा संलक्षयति । अहो वत मे न राज्यच्युतिः स्याद् वा जीवितस्यान्तराय इति विदित्वा ब्राह्मणं पुरोहितम् इदम् अवोचत्* । उपाध्याय को ऽसाव् उपायः स्याद् येन मे न राज्यच्युतिर् भवेन् नापि जीवितस्यान्तराय इति । स कथयति । यदि देवस् त्रैमासीम् अदर्शनपथे तिष्ठति एवं देवस्य न राज्यच्युतिर्
भवति नापि जीवितस्यान्तरायः । अग्निदत्तो ब्राह्मणराजः संलक्षयति । यद्य् एवं सुकरम्* । एवं कारयामि घण्टावघोषणम् इति । तेन सर्वविजिते घण्टावघोषणं कारितम्* । न ( fओल्. 148व्1 = ग्ब्म् 6.965 ) मम केनचित् त्रैमासीं दर्शनायोपसंक्रमितव्यम्* । य उपसंक्रामति तस्य वधो दण्ड इति । स घण्टावघोषणं कृत्वा ( म्स्व् इ 28 ) त्रैमासीम् अदर्शनपथे स्थितः । आयुष्मान् आनन्दः काल्यम् एवोत्थाय येनाग्निदत्तस्य ब्राह्मणराजस्य निवेशनं तेनोपसंक्रान्तः । यावत् पश्यत्य् अग्निदत्तस्य ब्राह्मणराजस्य पौरुषेया अल्पोत्सुकान् कृत्वा तिष्ठन्ति । दृष्ट्वा च पुनः कथयति । भवन्तः किम् अल्पोत्सुकास् तिष्ठथ । ते कथयन्ति । आर्य किं कुर्मः । न त्व् अग्निदत्तेन ब्राह्मणराजेन बुद्धप्रमुखो भिक्षुसंघस् त्रैमासीं सर्वोपकरणैः प्रवारितः । ते यूयम् अल्पोत्सुकास् तिष्ठथ नाहारं सज्जीकुरुथ नासनप्रज्ञप्तिम्* । किं बुद्धप्रमुखो भिक्षुसंघो भक्तच्छेदं करिष्यतीति । ते कथयन्ति । आर्यानन्द देवेनाज्ञा दत्ता । पंचानां शतानाम् आहारं सज्जीकुरुत प्रणीतं प्रभूतं चेति । न तूक्तम् अमुकस्यार्थायेति । भवन्तो गत्वा आरोचयत । आर्य देवेन घण्टावघोषणं कारितम्* । न मम केनचिद् दर्शनायोपसंक्रमितव्यम्* । य उपसंक्रामति तस्य वधो दण्ड इति । तत् किम् अस्माकं शिरोद्वयम्* । न वयम् आरोचयाम इति । अथायुष्मान् आनन्दो येन भगवांस् तेनोपसंक्रान्तः । उपसंक्रम्य एतत् प्रकरणं भगवतो विस्तरेणारोचयति । तत्र भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते । गच्छानन्द संघाटीम् आदाय पश्चाच्छ्रमणं च वैरंभ्ये रथ्यावीथीचत्वरशृङ्गाटकेष्व् आरोचय । यो युष्माकं भवन्तः उत्सहते बुद्धप्रमुखं भिक्षुसंघं च त्रैमासीं भोजयितुं भोजयत्व् इति । एवं भदन्तेत्य् आयुष्मान् आनन्दो भगवतः प्रतिश्रुत्य संघाटीम् आदाय पश्चाच्छ्रमणं च रथ्यावीथीचत्वरशृङ्गाटकेष्व् आरोचयति । यो युष्माकं भवन्तः उत्सहते बुद्धप्रमुखं भिक्षुसंघं त्रैमासीं भोजयितुं स भोजयत्व् इति । वैरंभ्या ब्राह्मणगृहपतयः ( म्स्व् इ 29 ) कथयन्ति । आर्यानन्द
एकैको ऽस्माकम् उत्सहते त्रैमासीं भोजयितुम्* । अपि तु अनेन कलिराजेन घण्टावघोषणं कारितम्* । नान्येन केनचित् त्रैमासीम् उपनिमंत्र्य बुद्धप्रमुको भिक्षुसंघो भोजयितव्यम्* । यो भोजयति तस्य वधो दण्ड इति ।

यावद् उत्तरापथात् सार्थवाहः पंचाश्वशतानि पण्यम् आदाय वैरंभ्यम् अनुप्राप्तः । स संलक्षयति । यद् इदानीं गमिष्यामि अश्वानां खुरः क्लेदम् आपत्स्यते । अपर्णा भविष्यन्ति । इहैव तिष्ठामीति । स तत्रैवावस्थितः । तेनाश्वाजानेयस्य द्वौ यवप्रस्थौ प्रज्ञप्तौ । अवशिष्टानाम् अश्वानाम् एकैकः । श्रुतं चानेन राज्ञा अयं चायं च क्रियाकारः कृतः । आयुष्मतानन्देन एवम् आरोचितम् इति । स संलक्षयति । नाहम् अस्य राज्ञो विषये निवासी । किं मम राजा ( fओल्. 149र्1 = ग्ब्म् 6.966 ) करिष्यति । इति विदित्वायुष्मन्तम् आनन्दम् इदम् अवोचत्* । आर्यानन्द मया अश्वाजानेयस्य द्वौ यवप्रस्थौ प्रज्ञप्तौ । अवशिष्टानाम् अश्वानाम् एकैकः । यदि भगवान् उत्सहते यवान् परिभोक्तुम् अहं भगवतः प्रस्थद्वयम् अनुप्रयच्छामि । अन्येषां च भिक्षूणाम् एकैकम् इति ।
अथायुष्मान् आनन्दो येन भगवांस् तेनोपसंक्रान्तः । उपसंक्रम्य एतत् प्रकरणं भगवतो विस्तरेणारोचयति । अथ भगवत एतद् अभवत्* । मयैवैतानि कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितानि । अवश्यंभावीनि मयैवैतानि कर्माणि कृतान्य् उपचितानि को ऽन्यः प्रत्यनुभविष्यति । न हि कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते । ( म्स्व् इ 30 ) नाब्धातौ । न तेजोधातौ । न वायुधाताव् अपि । पूर्ववद् यावत् फलन्ति खलु देहिनाम् इति ।
आयुष्मन्तम् आनन्दम् आमन्त्रयते । गच्छानन्द भिक्षूणां शलाकां {दुत्त् थ्रोउघोउत् शिलाकां } चारय । यो युष्माकम् उत्सहते तथागतेन सार्धं वैरंभ्ये त्रैमासीं यवान् परिभोक्तुं स शलाकां गृह्णात्व् इति । एवं भदन्तेत्य् आयुष्मान् आनन्दो भगवतः प्रतिश्रुत्य शलाकां चारयितुम् आरब्धः । यावद् भगवता शलाकां गृहीत्वा भिक्षुद्वयोनैश् च पांचभिर् भिक्षुशतैः । आयुष्मांस् तु शारिपुत्रः कथयति । भगवन्न् अहं वाय्वाबाधिको नोत्सहे त्रैमासीं यवान् परिभोक्तुम् इति । आयुष्मान् महामौद्गल्यायनः कथयति । अहम् अस्योपस्थायिक इति । ततो भगवान् भिक्षुद्वयौनैः पंचभिर् भिक्षुशतैः सार्धं वैरंभ्ये वर्षा उपगतः । आयुष्मन्तौ शारिपुत्रमौद्गल्यायनौ त्रिशङ्कुं पर्वतं गत्वा वर्षा उपगतौ । ततः शक्रेण देवेन्द्रेण दिव्यया सुधया प्रवारितौ । ततः सार्थवाहो भगवतो द्वौ यवप्रस्थाव् अनुप्रयच्छति । अन्येषां च भिक्षूणाम् एकैकम्* ।
तत्र भगवान् आयुष्मन्तम् आनन्दम् इदम् अवोचत्* । गच्छानन्द तथागतस्यार्थाय यवान् परिकर्मयेति । एवं भदन्तेति आयुष्मान् आनन्दो भगवतः प्रत्यंशम् आदाय येनान्यतमा वृद्धा स्त्री तेनोपसंक्रान्तः । उपसंक्रम्य ( म्स्व् इ 31 ) तां स्त्रियम् इदम् अवोचत्* । भगिनि तथागतस्यार्थाय यवान् परिकर्मीकुरु । सा कथयति । आर्य अहं वृद्धा न शक्नोमि । अपि त्व् एषा तरुणिका दारिका । अस्या अनुप्रयच्छ । एषा परिकर्मयतीति । आयुष्मान् आनन्दस् तस्याः सकाशम् उपसंक्रान्तः । भगिनि शक्ष्यसि त्वं तथागतस्यार्थाय यवान् परिकर्मीकर्तुम् इति । सा कथयति । आर्य समयेनाहं परिकर्मयामि । यदि मे आलापम् अनुप्रच्छसीति । स कथयति । परिकर्मय दास्यामीति । सा परिकर्मयितुम् आरब्धा । पृच्छति च । आर्यक एष बुद्धो नाम इति । आयुष्मान् आनन्दः संलक्षयति । यद्य् अहम् अस्या बुद्धवर्णोदाहरणं करिष्ये ( fओल्. 149व्1 = ग्ब्म् 6.967 ) गम्भीरा बुद्धधर्माः स्थानम् एतद् विद्यते यद् असौ न विज्ञास्यतीति यन्व् अहम् अस्याश् च क्ररत्न वर्णोदाहरणम् उदाहरेयम् इति विदित्वा कथयति ।
राज्ञो भगिनि चक्रवर्तिनो लोके प्रादुर्भावात् सप्तानां रत्नानां लोके प्रादुर्भावो भवति । कतमेषां सप्तानाम्* । तद्यथा । चक्ररत्नस्य हस्तिरत्नस्याश्वरत्नस्य मणिरत्नस्य स्त्रीरत्नस्य गृहपतिरत्नस्य परिणायकरत्नस्य सप्तमस्य ।
राज्ञो भगिनि चक्रवर्तिनो लोके प्रादुर्भावात् कथंरूपस्य चक्ररत्नस्य लोके प्रादुर्भावो भवति । इह भगिनि राज्ञः क्षत्रियस्य मूर्धाभिषिक्तस्य तद् एव पोषधे पंचदश्यां शिरःस्नातोपवासैर् अलंकृतस्य उपरि प्रासादतलगतस्यामात्यगणपरिवृतस्य पूर्वस्यां दिशि चक्ररत्नं प्रादुर्भवति सहस्रारं सनाभिकं सनेमिकं सर्वाकारपरिपूर्णं ( म्स्व् इ 32 ) शुभम् अकर्मारकृतं दिव्यं सर्व सौवर्णम्* । शुभं चानेन भवति । यस्य राज्ञः क्षत्रियस्य मूर्धाभिषिक्तस्य तद् एव पोषधे पंचदश्यां पूर्ववद् यावत् सर्वसौवर्णम्* । भवति स राजा चक्रवर्तीति । अद्धाहम् अस्मि राजा चक्रवर्तीति चक्ररत्नं मीमांसितुकाम उत्थायासनाद् एकांसम् उत्तरासंगं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य तच् चक्ररत्नम् उभाभ्यां पाणिभ्यां प्रतिगृह्य वामे पाणौ प्रतिष्ठाप्य दक्षिणेन पाणिना अनुवर्तयति । जयस्व भो चक्ररत्न येनार्यः पुराणश् चक्रवर्तिपथ इति ।

अथ चक्र र त्नं राज्ञा चक्रवर्तिना अनुप्रवर्तितम् उपरिविहाय सम् अ भ्युद्गम्य पूर्वेण प्रायासीद्येनार्यः पुराणश् चक्रवर्तिपथः । अन्वेति राजा चक्रवर्ती तच् चक्ररत्नं सार्धं चतुरङ्गेण बलकायेन । यस्मिंश् च प्रदेशे तच् चक्ररत्नं प्रतितिष्ठति तत्र राजा चक्रवर्ती वासं कल्पयति सार्धं चतु रङ्गेण ब लकायेन । ये खलु पूर्वस्यां दिशि कोट्टराजानस् ते येन राजा चक्रवर्ती तेनोपसंक्रामन्ति । उपसंक्रम्य राजानं चक्रवर्तिनम् एवं वदन्ति । एतु देवः । स्वागतं देवस्य । इमे देवस्य जनपदा ऋद्धाश् च स्फीताश् च क्षेमाश् च सुभिक्षा श् चाकीर्णबहुजन मनुष्या श् च तान् देवः समनुशास्तु । वयं देवस्यानुयात्रिका भविष्यामः । तेन हि यूयं ग्रामण्यः स्वकस्वकानि विजितानि समनुशासथ ( म्स्व् इ 33 ) धर्मेण माधर्मेण । मा च वः कस्यचिद् अधर्मचारिणो वि प च्चारिणो राष्ट्रे वासो रोचताम्* । ए तत् प्रकार म् आनुयात्रिका भविष्यथ । अथ तच् चक्ररत्नं पूर्वां दिशम् अभिनिर्जित्य पूर्व व न् महासमुद्रं प्रत्युत्तीर्य दक्षिणेन पश्चिमेनोत्तरेण प्रायासीद् येनार्यः पुराणश् चक्रवर्तिपथः । अथ चक्ररत्नं राज्ञा चक्रवर्तिनानुप्रवर्तितम् उपरि विहाय सम् अभ्युद्गम्य उत्तरेणान्वावृतं येनार्यः पुराणश् चक्रवर्तिपथः । अन्वेति राजा चक्रवर्ती तच् चक्ररत्नं सार्धं चतुरङ्गेण बलकायेन ( fओल्. 150र्1 = ग्ब्म् 6.968 ) । यस्मिन् प्रदेशे तच् चक्ररत्नं प्रतितिष्ठति तत्र राजा चक्रवर्ती वासं कल्पयति सार्धं चतुरङ्गेण बलकायेन । ये खलूत्तर स्यां दिशि कोट्टराजानः ते येन राजा चक्रवर्ती तेनोपसंक्रामन्ति । उपसंक्रम्य राजानं चक्रवर्तिनम् एवं वदन्ति । एहि देव । स्वागतं देवस्य । इमे देवस्य जनपदा ऋद्धाश् च स्फीताश् च क्षेमाश् च सुभिक्षाश् चाकीर्णबहुजनमनुष्याश् च । तान् देवः समनुशास्तु । वयं देवस्या नुयात्रिका भ विष्यामः । तेन हि यूयं ग्रामण्यः स्वकस्वकानि विजितानि समनुशासथ धर्मेण माधर्मेण । मा च वः कस्यचिद् अधर्मचारिणो राष्ट्रे वासो रोचताम् इति । अथ चक्ररत्नम् उत्तरां दिशम् अभिनिर्जित्योत्तरमहासमुद्रं
प्रत्युत्तीर्य ताम् एव राजधानीम् आगत्योपर्यस्याधिकरणस्योच्छ्रापितम् इवास्थात्* । राज्ञो भगिनि चक्रवर्तिनो ( म्स्व् इ 34 ) लोके प्रादुर्भावाद् अस्यैवंरूपस्य चक्ररत्नस्य लोके प्रादुर्भावो भवति ।
राज्ञो भगिनि चक्रवर्तिनो लोके प्रादुर्भावात् कथंरूपस्य हस्तिरत्नस्य लोके प्रादुर्भावो भवति । इह भगिनि राज्ञश् चक्रवर्तिनो हस्ती भवति सर्वश्वेतः कुमुदवर्णः सप्ताङ्गः सुप्रतिष्ठितो ऽभिरूपो दर्शनीयः प्रासादिकः । यं दृष्ट्वा राज्ञश् चक्रवर्तिनश् चित्तम् अभिप्रसीदति । भद्रकं वरहस्तिरत्नं स कृद् द मथम् ( fओल्. 150व्1 = ग्ब्म् 6.969 ) एष्यतीति । अथ राजा चक्रवर्ती संख्यातं हस्तिदमकं दूतेन प्रक्रोष्येदम् अवोचत्* । इदं त्वया सौम्य संख्यातं हस्तिरत्नं क्षिप्रम् एव सुदान्तं कृत्वास्माकम् उपनयितव्यम् इति । एवं देव इति संख्यातो हस्तिदमको राज्ञश् चक्रवर्तिनः प्रतिश्रुत्य हस्तिरत्नम् एकाह्ना सर्वचारणेभिर् उपसंक्रामति । तदेकाह्ना सर्वचारणेभिर् उपसंक्रम्यमानम् एकाह्ना सर्वचारणैः प्रतिगृह्णाति । तद्यथान्ये हस्तिनो ऽनेकवार्षिका अनेकवर्षगणदान्ताः सर्वचारणेभिर् उपसंक्रम्यमानं प्रतिगृह्णन्ति । एवम् एतद् धस्तिरत्नम् एकाह्ना सर्वचारणैः प्रतिगृह्णाति । दान्तं चैनं विदित्वा राज्ञश् चक्रवर्तिनः उपनामयति । दान्तं देव भद्रं हस्तिरत्नम्* । यस्येदानीं देवः कालं मन्यत इति । अथ राजा चक्रवर्ती तद् धस्तिरत्नं मीमांसितुकामः सूर्यस्याभ्युद्गमनकालसमये तद् धि हस्ति रत्नम् अभि रु ह्येमाम् एव समुद्रपर्यन्तां महापृथिवीम् अन्वाहिण्ड्य ताम् एव राजधानीम् ( म्स्व् इ 35 ) आगत्य प्रातराशिकम् अकार्षीत्* । राज्ञो भगिनि चक्रवर्तिनो लोके प्रादुर्भावाद् अस्यैवंरूपस्य हस्तिरत्नस्य प्रादुर्भावो भवति ।
राज्ञो भगिनि चक्रवर्तिनो लोके प्रादुर्भावात् कथंरूपस्याश्वरत्नस्य लोके प्रादुर्भावो भवति । इह भगिनि राज्ञश् चक्रवर्तिनः अश्वो भवति सर्वनीलः कृष्णशिरा मनोज्ञो जवनो ऽभिरूपो दर्शनीयः प्रासादिकः । यं दृष्ट्वा राज्ञश् चक्रवर्तिनश् चित्तम् अभिप्रसीदति । भद्रकं वताश्वरत्नं सकृद् दमथ म् एष्यतीति । अथ राजा चक्रवर्ती संख्यातम् अश्वदमकं दूतेन प्रक्रोष्येदम् अवोचत्* । इदं त्वया सौम्य संख्यातम् अश्वरत्नं क्षिप्रम् एव सुदान्तं कृत्वास्माकम् उपनयितव्यम् इति । एवं देवेति संख्यातो ऽश्वदमको राज्ञश् चक्रवर्तिनः प्रतिश्रुत्य तद् अश्वरत्नम् एकाह्ना सर्वचारणैर् उपसंक्रामति । तदेकाह्ना सर्वचारणेभिर् उपसंक्रम्यमानम् एकाह्ना सर्वचारणैः प्रतिगृह्णाति । तद्यथान्ये अश्वा अनेकवार्षिका अनेकवर्षगणदान्ताः सर्वचारणेभिर् उपसंक्रम्यमानाः सर्वचारणैः प्रतिगृह्णन्ति । एवम् एव तद् अश्वरत्नम् एकाह्ना सर्वचारणेभिर् उपसंक्रम्यमानम् एकाह्ना सर्वचारणैः प्रतिगृह्णाति । दान्तं चैनं विदित्वा राज्ञश् चक्रवर्तिन उपनामयति । दान्तं देव भद्रम् अश्वरत्नं यस्येदानीं देवः कालं मन्यते । अथ राजा चक्रवर्ती अश्वरत्नं मीमांसितुकामः सूर्यस्याभ्युद्गमनकालसमये तद् अश्वरत्नम् अभिरुह्येमाम् एव समुद्रपर्यन्तां महापृथिवी म् अन्वाहिण्ड्य ताम् एव राजधानीम् आगत्य ( म्स्व् इ 36 ) प्रातराशम् अकार्षीत्* । राज्ञो भगिनि चक्रवर्तिनो लोके प्रादुर्भावाद् अस्यैवंरूपस्याश्वरत्नस्य लोके प्रादुर्भावो भवति ।
राज्ञो भगिनि चक्रवर्तिनो लोके प्रादुर्भावात् कथंरूपस्य मणिरत्नस्य लोके प्रादुर्भावो भवति । इह भगिनि राज्ञश् चक्रवर्तिनो मणिर् भवति अष्टांशो वैडूर्यः शुभो जातिमानच्छो विप्रसन्नः अनाविलः । यावद् राज्ञश् चक्रवर्तिनो ऽन्तःपुरे दीपकृत्यं सर्वं तन्मणेर् आभया । अथ राजा चक्र वर्ती तन् मणि रत्नं मीमांसितुकामो ऽन्धकारतमिस्रायां रात्र्यां शनैर् मन्दं मन्दं देवे वृष्टायमाने विद्युत्सु निश्चरन्तीषु मणिरत्नं ध्वजाग्रे आरोप्योद्यानभूमिं निर्याति सार्धं चतुरङ्गेण बलकायेन । यावत् खलु राज्ञश् चक्रव र्तिनो चतुरङ्गो बलकायः सर्वः स्फुटो म णेर् आभया । अर्धयोजनं च सामन्तकेन । राज्ञो भगिनि चक्रवर्तिनो लोके प्रादुर्भावाद् अस्यैवंरूपस्य मणिरत्नस्य लोके प्रादुर्भावो भवति ।
राज्ञो भगिनि चक्रवर्तिनो लोके प्रादुर्भावात् कथंरूप स्य स्त्रीर त्नस्य लोके प्रादुर्भावो भवति । इह भगिनि राज्ञश् चक्रवर्तिनः स्त्री भवति अभिरूपा दर्शनीया प्रासादिकी नातिगौरी नातिश्यामा मद्गुरुच्छविर् नातिदीर्घा नातिह्रस्वा सुप्रतिष्ठिता नातिकृशा नातिस्थूला नात्युत्सदमांसा तनुगा त्री । तस्याः खलु भगिनि शीते उष्ण स ंस्पर्शानि गात्राणि उष्णे शीतसंस्पर्शानि गात्राणि कालिङ्गप्रावारमृदुसंस्पर्शानि । तस्याः खलु भगिनि सर्वरोमकूपेभ्यश् चन्दनगन्धो वाति मुखाच् च उत्पलगन्धः ।

यावद् आ युष्मा न् आनन्दः स्त्रीरत्नं विभजति तावत् तया दारिकया ते यावः परिकर्मिताः । सा पादयोर् निपत्य प्रणिधानं कर्तुम् आरब्धा ( fओल्. 151र्1 = ग्ब्म् 6.970 ) । आर्य अनेनाहं कुशलमूलेन राज्ञश् चक्रवर्तिनः स्त्रीरत्नं स्याम् इति । अथायुष्मान् आनन्दो यवान् परिकर्मितान् आदाय येन भगवांस् तेनोपसंक्रान्तः । उपसंक्रम्य भगवतो यवान् उपनामयति । जानकाः पृच्छका बुद्धा भगवन्तः । पृच्छति बुद्धो भगवान् आयुष्मन्तम् आनन्दम्* । केनैते आनन्द यवाः परिकर्मिताः । अमुकया भदन्त ब्राह्मणदारिकया । किम् अ भूत् ते आनन्द तया ब्राह्मणदारिकया सार्धम् अन्तराकथासमुदाहारः । तेन ह्य् आनन्द यावांस् ते ऽभूत् तया ब्राह्मणदारिकया सार्धम् अन्तराकथासमुदाहारस् तत् सर्वम् अस्माकं विस्तरेणारोचय । अथायुष्मान् आनन्दो यत् त् अस्याभूत् तया ब्राह्मणदारिकया सार्धम् अन्तराकथासमुदाहारस् तत् सर्वं भगवतो विस्तरेणारोचयति । एवम् उक्ते भगवान् आयुष्मन्तम् आनन्दम् इदम् अवोचत्* । कस्मात् त्वयानन्द तया दारिकया बुद्धवर्णोदाहरणं न कृतम्* । मम भदन्त एवं भवति । गम्भीरा बुद्धधर्माः स्थानम् एतद् विद्यते यद् असौ दारिका न विज्ञास्यतीति । मया तस्याश् चक्रवर्तिवर्णोदाहरणं कृतम्* । क्षीणस् त्वम् आनन्द । सचेत् त्वया तस्या बुद्धवर्णोदाहरणं कृतम् अभविष्यत् स्थानम् एतद् विद्यते यत् तु याम् अनुत्तरायां सम्यक्संबोधौ अवैवर्तिकं चित्तम् उत्पादितम् अभविष्यत्* । अपि त्व् आनन्द भविष्यत्य् असौ दारिका राज्ञश् चक्रवर्तिनः स्त्रीरत्नम्* । {म्स् (ग्ब्म् 970.5f.) अद्द्स् भगवान् संलक्षयति । यः कश्चिद् आदीनवो भिक्षवः पटप्लोतिकं प्रावृत्यान्तर्गृहं गच्छति । तस्मान् न भिक्षुणा पटप्लोतिं प्रावृत्यान्तर्गृहं गन्तव्यम्* । गच्छति सातिसारो भवति । }
सामन्तकेन शब्दो विस्तृतः । अमुकया ब्राह्मणदारिकया भगवतो ऽर्थाय यवाः परिकर्मिताः । सा भगवता राज्ञश् चक्रवर्तिनः स्त्रीरत्नं व्याकृता । इति श्रुत्वा यैः पंचभिर् दारिकाशतैर् द्व्यूनैर् भिक्षुद्वयोनानां पंचानां भिक्षुशतानां यवाः परिकर्मिताः । ताभिर् अपि प्रणिधानं कृतम्* । वयम् अस्याः परिवाराः स्याम इति ।
यावद् भगवान् यवान् परिभोक्तुम् आरब्धाः आयुष्मान् आनन्दो विक्लवः अश्रूणि प्रमोक्तुम् आरब्धः । भगवता तेषु जन्मपरिवर्तेषु करचरणशिरश्छेदादीनि दानानि दत्वा त्रिभिः कल्पासंख्येयैः सर्वज्ञत्वम् अवाप्य इदानीं कोटरयवान् भक्षयतीति । तत्र भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते । कस्मात् त्वम् आनन्द विक्लवः अश्रूणि प्रमुंचसि । भगवान् भदन्त चक्रवर्तिकुले जातो राज्यम् अपहाय प्रव्रजितः करचरणशिरादीनि दानानि दत्वा त्रिभिः कल्पासंख्येयैः सर्वज्ञत्वम् अवाप्य इदानीं कोटरयवान् भक्षयतीति । भगवान् आह । आकांक्षसि त्वम् आनन्द तथागतस्य दंष्ट्रान्तरविनिर्गतान् यवान् परिभोक्तुम्* । आकांक्षामि भगवन्* । ततो भगवता आयुष्मत आनन्दाय दंष्ट्रान्तरविनिर्गतानां ( fओल्. 151व्1 = ग्ब्म् 6.971 ) यवाना म् एको दत्तः । तथा ह्य् आनन्द तथागतस्य ( म्स्व् इ 39 ) रसाग्र ग तानां रसहरणी सुपरिशुद्धा । यदि तथागतः प्राकृतम् अप्य् आहारं परिभुंक्ते तद् अपि तथागतस्यान्नशतरसं संपरिवर्तते ।
तैः सामन्तकैः शब्दो विस्तृतः । अग्निदत्तो ब्राह्मणराजो बुद्धप्रमुखं भिक्षुसंघम् उपनिमंत्र्यादर्शनपथे स्थितो भगवान् वैरंभ्ये यवान् परिभुंक्ते इति । सामन्तराजैर् अपि श्रुतं तैर् अग्निदत्तस्य ब्राह्मणराजस्य दूतसंप्रेषणं कृतम्* । ते प्रवेशं न लभन्ते द्वारि स्थिताः । अनाथपिण्डदेन गृहपतिना श्रुतं तेन पंचमात्राणि शकटशतानि पर्णोपगूठस्य शालेः प्रेषितानि । अथ मारस्य पापीयस एतद् अभवत्* । बहुशो मया श्रमणो गौतमो विहेठितो न कदाचिद् अवतारो लब्धः । अत्रापि तावद् अस्य प्रहरामि इति विदित्वा आयुष्मन्तम् आनन्दम् आत्मानं विनिर्माय तेषां पंचानां शकटशतानां पुरतः स्थित्वा कथयति । भवन्तः कुत्र गम्यते । ते कथयन्ति । आर्य आनन्द अग्निदत्तो ब्राह्मणराजो भगवन्तं सश्रावकसंघम् उपनिमंत्र्यादर्शनपथे स्थितो भगवान् वैरंभ्ये यवान् परिभुंक्ते इति । अनाथपिण्डदेन गृहपतिना श्रुत्वैतानि पर्णोपगूठस्य शालेर् भगवतो ऽर्थाय पंच शकटशतानि प्रेषितानि इति । स कथयति । भवन्तो देवो अभिप्रसन्ना नागा यक्षाः । यदि भगवान् आकाशे पात्रं प्रसारयति तद् अपि देवास् त्रयस्त्रिंशा दिव्यायाः सुधायाः पूरयन्ति । किमर्थं भगवान् यवान् परिभुंक्ते । निवर्तयथ ( म्स्व् इ 40 ) इति । ते कथयन्ति । आर्यानन्द संप्रस्थिता वयं किम् इदानीं निवर्तामः । गच्छाम इति । मारः संलक्षयति । न शक्यम् एते निवर्तयितुम्* । उपायसंविधानं कर्तव्यम् इति । स उपरिविहायसम् अभ्युद्गम्य अक्षमात्राभिर् वारिधाराभिर् वर्षितुम् आरब्धः । तेन तावद् दृष्टं यावत् तानि शकटानि नाभिं यावन् निमग्नानि । ततस् ते शाकटिका बलीवर्दान् मुक्त्वा प्रक्रान्ता इति । तत्र भगवता वैरंभ्ये यवाः परिभुक्ताः सार्धं द्वयोनैः पंचभिर् भिक्षुशतैः । आयुष्मद्भ्यां शारिपुत्रमौद्गल्यायनाभ्यां त्रिशंकुके पर्वते वर्षोपगताभ्यां दिव्या सुधा परिभुक्ता ।
ततस् तेन सार्थवाहेन त्रैमासस्यात्ययाद् भगवान् सश्रावकसंघो भक्तेनोपनिमंत्रितः । अधिवासितं च भगवता तूष्णींभावेन । स सार्थवाहस् ताम् एव रात्रिं शुचिं प्रणीतं खादनीयभोजनीयं समुदानीय पूर्ववद् यावद् भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तम् अपनीतपात्रं भगवतः पादयोर् निपत्य प्रणिधानं कर्तुम् आरब्धः । अनेनाहं कुशलमूलेन राजा भवेयं चक्रवर्ती अश्वाजानेयः पुत्रो युवराजस् तान्य् अपि पंचाश्वशतानि पंच पुत्रशतानि । ( fओल्. 152र्1 = ग्ब्म् 6.972 ) या सा दारिका भगवता स्त्रीरत्नं यानि पंच दारिकाशतानि तस्याः परिचारिका इति । ततो भगवांस् तस्य सार्थवाहस्य चेतसा चित्तम् आज्ञाय तं सार्थवाहम् इदम् अवोचत्* । भविष्यसि त्वं सार्थवाह राजा चक्रवर्ती अश्वाजानेयस् ते पुत्रो युवराजस् तान्य् अपि पंचाश्वशतानि पंच पुत्रशतानि । सा दारिका ( म्स्व् इ 41 ) स्त्रीरत्नम्* । तान्य् अपि द्व्यूनानि पंच दारिकाशतानि तस्याः परिचारिका इति ।

अथ भगवान् त्रैमासस्यात्ययात् कृतचीवरो निष्ठितचीवरः आयुष्मन्तम् आनन्दम् आमन्त्रयते । गच्छानन्द अग्निदत्तं ब्राह्मणराजम् आरोचय । एवं च वद । उषिताः स्मो महाराज तव विजिते । अवलोकितो भव । गच्छाम इति । एवं भदन्त इति । आयुष्मान् आनन्दो भगवतः प्रतिश्रुत्य येनाग्निदत्तस्य ब्राह्मणराजस्य निवेशनं तेनोपसंक्रान्तः । तेन खलु समयेनाग्निदत्तो ब्राह्मणराजः पुण्याहम् आगमयंस् तिष्ठति । अथायुष्मान् आनन्दो दौवारिकं पुरुषम् आमन्त्रयते । एहि त्वं भोः पुरुष येनाग्निदत्तो ब्राह्मणराजस् तेनोपसंक्रम । उपसंक्रम्याग्निदत्तं ब्राह्मणराजम् एवं वद । आनन्दो भिक्षुर् द्वारे तिष्ठति देवं द्रष्टुकाम इति । एवम् आर्य इति दौवारिकपुरुषः आयुष्मत आनन्दस्य प्रतिश्रुत्य येनाग्निदत्तो ब्राह्मणराजस् तेनोपसंक्रान्तः । उपसंक्रम्याग्निदत्तं ब्राह्मणराजम् इदम् अवोचत्* । देवार्यानन्दो भिक्षुर् द्वारे तिष्ठति देवं द्रष्टुकामः । स कथयति । अहं भोः पुरुष पुण्याहम् आगमयंस् तिष्ठामि । आनन्दो भिक्षुः पुण्यमहेशाख्यः । स एव पुण्याहो भवतु ।
पंचकल्याणश् चायम्* । नामकल्याणो रूपकल्याणो वर्णकल्याणः प्रतिभानकल्याणः प्रतिपत्तिकल्याणश् च ।
प्रविशतु । को भवन्तम् आनन्दं वारयतीति । दौवारिकेणायुष्मत आनन्दायैवम् आरोचितम्* आयुष्मान् आनन्दः प्रविष्टः । ते ऽपि सामन्तराजानां दूतास् तेनैव सार्धं प्रविष्टाः ।
अथायुष्मान् आनन्दो ऽग्निदत्तं ब्राहमणराजम् आरोग्ययित्वा एकान्ते निषण्णः । एकान्तनिषण्णः आयुष्मान् आनन्दो ऽग्निदत्तं ब्राह्मणराजम् इदम् अवोचत्* । भगवांस् ते महाराज आरोग्ययति कथयति च । उषिताः स्मो महाराज तव विजिते त्रैमासीम्* । अवलोकितो भव । गच्छाम इति । वन्दे आर्यानन्द बुद्धं भगवन्तम्* । कच्चिद् आर्यानन्द भगवान् वैरंभ्येषु जनपदेषु सुखं वर्षोषितः । न च पिण्डकेन क्लान्त इति । तैः सामन्तराजदूतैर् उक्तः । देवो ऽप्रत्यक्षितराज्यस् त्वं यो भगवन्तं सश्रावकसंघं त्रैमासीम् उपनिमंत्र्यादर्शनपथे व्यवस्थितः । त्रैमासीं कोटरयवाः परिभुक्ता इति । स कथयति । सत्यम् आर्यानन्द भगवता त्रैमासीं यवाः परिभुक्ताः । सत्यं महाराज । स संमूर्छितः ( fओल्. 152व्1 = ग्ब्म् 6.973 ) पृथिव्यां निपतितो महता जलपरिषेकेण प्रत्यागतप्राणः अमात्यान् आहूय पृच्छति । भवन्तो न मया युष्माकम् आज्ञा दत्ता । प्रतिदिवसं पंचानां शतानाम् आहारं सज्जीकुरु । प्रणीतं प्रभूतं चेति । ते कथयन्ति । अस्ति देवेनैवम् आज्ञप्तम्* । न त्व् आज्ञा दत्ता अमुकस्य दातव्यम् इति । अपि तु अद्याप्य् आहारः सज्जीकृत एव । अथाग्निदत्तो ब्राह्मणराजो येन भगवांस् तेनोपसंक्रान्तः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः । एकान्तनिषण्णम् अग्निदत्तं ब्राह्मणराजं भगवान् धर्म्यया कथया संदर्शयति पूर्ववद् यावत् संप्रहर्ष्य तूष्णीम्* । अथाग्निदत्तो ब्राह्मणराजो भगवतः पादयोर् निपत्य भगवन्तम् इदम् अवोचत्* । ( म्स्व् इ 43 ) अत्ययो भगवन्न् अत्ययः सुगत यथा बालो यथा मूढो यथाव्यक्तो यथाकुशलो यो ऽहं भगवन्तं सश्रावकसंघं त्रैमासीम् उपनिमंत्र्यादर्शनपथे व्यवस्थितः । तस्य मम भगवन्न् अत्ययं जानतो ऽत्ययं पश्यतः अत्ययम् अत्ययतः प्रतिगृह्णीष्वानुकम्पाम् उपादाय । तथ्यं ते महाराज अत्ययम् अत्ययत आगमा यथा बालो यथा मूढो यथाव्यक्तो यथाकुशलो यस् त्वं तथागतं त्रैमासीम् उपनिमंत्र्यादर्शनपथे व्यवस्थितः । यतस् त्वं महाराज अत्ययं जानास्य् अत्ययं पश्यसि तं च दृष्ट्वादेशयसि वृद्धिर् एव ते प्रतिकांक्षितव्या
कुशलानां धर्माणां न हानिः ।
अथाग्निदत्तो ब्राह्मणराजो भगवन्तम् इदम् अवोचत्* । अधिवासयतु मे भगवान् यावज्जीवं चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सार्धं भिक्षुसंघेनेति । भगवान् आह । तथागतो महाराज अल्पायुष्के काले जातः प्रभूतं च कार्यं करणीयम्* । निर्वाणकालसमयश् चेति । नाधिवासयति । यद्य् एवम् अधिवासयतु मे भगवान् सप्तवर्षाणि सप्तमासान् सप्तदिवसान्* । तथापि भगवान् नाधिवासयति । अग्निदत्तो ब्राह्मणराजो भगवन्तम् इदम् अवोचत्* । अधिवासयतु मे भगवान् श्वो ऽन्तर्गृहे भक्तेन सार्धं भिक्षुसंघेनेति । भगवान् संलक्षयति । यद्य् अहम् अस्यैकभक्तकम् अपि नाधिवासयामि स्थानम् एतद् विद्यते यद्य् अग्निदत्तो ब्राह्मणराज उष्णं ( म्स्व् इ 44 ) शोणितं छर्दयित्वा कालं करिष्यतीति विदित्वा अधिवासितं भगवता तूष्णींभावेन । अथाग्निदत्तो ब्राह्मणराजो भगवतस् तूष्णींभावेनाधिवासनां विदित्वा भगवतो ऽन्तिकात् प्रक्रान्तो येन स्वं निवेशनं तेनोपसंक्रान्तः । उपसंक्रम्यामात्यान् आमंत्रयते भवन्तः को ऽसौ उपायः स्याद् येन सर्वो ऽयम् आहारो बुद्धप्रमुखेन भिक्षुसंघेन परिभुक्तो भवेद् इति । ते कथयन्ति । देव सर्वो ऽयं पृथिव्याम् आहारस् तीर्यताम्* । भिक्षवः पद्भ्याम् आक्रमिष्यन्ति । एवं परिभुक्तो भविष्यतीति । तेन ( fओल्. 153र्1 = ग्ब्म् 6.974 ) पौरुषेयाणाम् आज्ञा दत्ता । भवन्तो यावान् अयम् आहारः सर्वम् एतत् समन्तात् पृथिव्याम् आकिरत इति । तैः सर्वं समन्ताद् आकीर्णम्* । अथाग्निदत्तो ब्राह्मणराजस् ताम् एव रात्रिं शुचि प्रणीतं खादनीयभोजनीयं समुदानीय पूर्ववद् यावद् भगवान् पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः । यावद् अन्यतमेन महल्लेन संजातामर्षेणास्माभिस् त्रैमासीं कोटरयवाः परिभुक्ताः । इदानीम् अयं कलिराजो विभवं दर्शयतीति विदित्वा खादनीयभोजनीयस्य पृथिव्याम् आकीर्णस्योपरि पार्ष्णिप्रहारो दत्तः । ब्राह्मणगृहपतयो ऽवध्यायन्ति क्षिपन्ति विवाचयन्ति । आर्य खादनीयभोजनीयं मुखाभ्यवहार्यं पादेन स्पृशन्ति । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् संलक्ष य ति । यः कश्चिद् आदीनवो
भिक्षवः खादनीयभोजनीयं ( म्स्व् इ 45 ) मुखाभ्यवहार्यं पादेन स्पृशन्तीति विदित्वा भिक्षून् आमन्त्रयते स्म । अमुकेन भिक्षवो महल्लभिक्षुणा संजातामर्षेण खादनीयभोजनीयस्य मुखाभ्यवहार्यस्य पृथिव्याम् आकीर्णस्योपरि पार्ष्णिप्रहारो दत्त इति । ब्राह्मणगृहपतयो ऽवध्यायन्ति क्षिपन्ति वि वाचयन्ति । तस्मान् न भिक्षुणा खादनीयभोजनीयं मुखाभ्यवहार्यं पादेनाक्रमितव्यम्* । आक्रामति सातिसारो भवतीति ।

अथाग्निदत्तो ब्राह्मणराजः सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं सन्तर्पयति पूर्ववद् यावद् धौतहस्तम् अपनीतपात्रं नीचतरम् आसनं गृहीत्वा भगवतः पुरस्तान् निषण्णो धर्मश्रवणाय । अथ भगवान् अग्निदत्तं ब्राह्मणराजं धर्म्य या कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति । अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य उत्थायासनात् प्रक्रान्तः । अथ संबहुला भिक्षवस् त्रयाणां वार्षिकाणां मासानाम् अत्ययात् कृतचीवरा निष्ठितचीवराः समादाय पात्रचीवरं येन भगवांस् तेनोपसंक्रान्ताः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते ऽस्थ् उर् । एकान्तस्थिताः संबहुला भिक्षवो भगवन्तम् इदम् अवोचन्* । उषिताः स्मो भदन्त वैरंभ्ये त्रैमासीम्* । {तिब्. इन्सेर्त्स् थे wहोले वैरम्भसूत्र; च्f. अन् इइ 54-57}
विस्तरेण वैरंभ्यसूत्रम् एकोत्तरिकागमे चतुष्कनिपाते ।
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं ( म्स्व् इ 46 ) पप्रच्छुः । किं भदन्त भगवता कर्म कृतं येन करचरणशिरश्छेदादिना दानसंभारेण यावद् दीनजनं संतर्प्य कल्पासंख्येयं यत् त्रयं सत्वार्थे आत्मानं परिखेद्यापगतसर्वकार्यो वैरंभ्ये कोटरयवान् परिभुक्तवान् सार्धं भिक्षुद्व्यूनैः पंचभिर् भिक्षुशतैः । आयुष्मन्तौ शारिपुत्रमौद्गल्यायनौ ( fओल्. 153व्1 = ग्ब्म् 6.975 ) दिव्यां सुधाम् इति । भगवान् आह । तथागतेनैव एतानि भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि पूर्ववद् यावत् फलन्ति खलु देहिनाम्* ।
भूतपूर्वं भिक्षवः अशीतिवर्षसहस्रायुषि प्रजायां विपश्यी नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* । सः अशीतिभिक्षुसहस्रपरिवारो बन्धुमतीं राजधानीम् उपनिश्रित्य विहरति । तेन खलु समयेन बन्धुमत्यां राजधान्याम् अन्यतमो गणवाचको ब्राह्मणः पाञ्चशतिकं गणं ब्राह्मणकान् मंत्रान् पाठयति । सर्वलोकस्य चात्यर्थं सत्कृतो गुरुकृतो मानितः पूजितो ऽर्हत् संमतः । यत एव विपश्यी सम्यक्संबुद्धो बन्धुमतीं राजधानीम् अनुप्राप्तस् तत एव तं न कश्चित् सत्करोति न गुरुकरोति न मानयति न पूजयति । स विपश्यति । तथागते सश्रावकसंघे ऽत्यर्थम् ईर्ष्यावान् संवृत्तः । यावत् संबहुलाः शैक्षाशैक्षा भिक्षवः पूर्वाह्णे निवास्य पात्रचीवरम् आदाय बन्धुमतीं ( म्स्व् इ 47 ) राजधानीम् अनुप्राप्ताः । ततो नानासूपिकरसोपेतस्य भक्तस्य पात्राणि पूरयित्वा निर्गच्छन्ति । तेन च ब्राह्मणेन दृष्टाः पृष्टाश् च । भो भिक्षवः पश्यामि कीदृशः पिण्डपातो लब्ध इति । तैः ऋजुको ऽयं दर्शितः । तत ईर्ष्याप्रकृत्या संजातामर्षेण माणवका अभिहिताः । नार्हन्तीमे मुण्डकाः श्रमणका नानासूपिकरसव्यंजनोपेतं शाल्योदनं परिभोक्तुम्* । अर्हन्ति तु कोटरयवान् परिभोक्तुम् इति । तैर् अप्य् अनुसंवर्णितम्* । एवम् एतद् उपाध्याय एवम् एतत्* । नार्हन्त्य् एव इमे मुण्डकाः श्रमणका नानासूपिकरसव्यंजनोपेतं शाल्योदनं परिभोक्तुम्* । अर्हन्ति तु कोटरयवान् परिभोक्तुम् इति । तत्र च द्वौ माणवकौ श्राद्धौ भद्रौ कल्याणाशयौ । तौ कथयतः । उपाध्याय मैवं वोचुः । महात्मान एते ऽर्हन्त्य् एव दिव्यां सुधां परिभोक्तुं न कोटरयवान् इति ।
किं मन्यध्वे भिक्षवः । यो ऽसौ विपश्यितथागतेन गणवाचको ब्राह्मणः अहम् एव स तेन कालेन तेन समयेन । यानि तानि द्व् यूनानि पंच माणवकशतानि एतान्य् एव पंच भिक्षुशतानि । यौ तौ द्वौ माणवकौ श्राद्धौ भद्रौ कल्याणाशयौ एताव् एव तौ शारिपुत्रमौद्गल्यायनौ भिक्षू । यन् मया विपश्यिनः सम्यक्संबुद्धस्य शैक्षाशैक्षाणां श्रावकाणाम् अन्तिके चित्तं प्रदूष्य खरं वाक्कर्म निश्चारितं द्व्यूनैश् च पंचभिर् माणवकशतैर् अनुमोदितं द्वाभ्यां तु नानुमोदितं तस्य कर्मणो विपाकेनैतर्हि तथागतेन वैरंभ्ये कोटरयवाः परिभुक्ताः ( म्स्व् इ 48 ) सार्धं भिक्षुद्व्यूनैः पंचभिर् भिक्षुशतैः । शारिपुत्रमौद्गल्यायनाभ्यां तु दिव्या सुधा परिभुक्ता । इति हि भिक्षवः एकान्तकृष्णानां ( fओल्. 154र्1 = ग्ब्म् 6.976 ) कर्मणाम् एकान्तकृष्णो विपाकः पूर्ववद् यावद् एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ।
{मर्क् अल्लोन् 2003: परल्लेल् सेए स्न् इव् 179-181} तत्र भगवान् आयुष्मन्तम् आनन्दम् आमंत्रयते स्म । आगमयानन्द येनायोध्येति । एवं भदन्तेत्य् आयुष्मान् आनन्दो भगवतः प्रत्यश्रौषीत्* । अथ भगवान् दक्षिणपंचाले जनपदचारिकां चरन्न् अयोध्याम् अनुप्राप्तः अयोध्यायां विहरति नद्या गंगायास् तीरे । अथान्यतमो भिक्षुर् येन भगवांस् तेनोपसंक्रान्तः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते ऽस्थात्* । एकान्तस्थितः स भिक्षुर् भगवन्तम् इदम् अवोचत्* । साधु मे भगवंस् तथा संक्षिप्तेन धर्मं देशयतु यथाहं भगवतो ऽन्तिके संक्षिप्तेन धर्मं श्रुत्वा एको व्यपकृष्टो ऽप्रमत्तः आतापी प्रहितात्मा विहरेयम्* । एको व्यपकृष्टो ऽप्रमत्तः आतापी प्रहितात्मा विहरन् यद् अर्थं कुलपुत्राः केशश्मश्र्व् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजन्ति तद् अनुत्तरं ब्रह्मचर्यपर्यवसानं दृष्ट एव धर्मे स्वयम् अभिज्ञाय साक्षात्कृत्वोपसंपद्य प्रवेदयेयम्* । क्षीणा मे जातिर् उषितं ब्रह्मचर्यं कृतं करणीयं नापरम् अस्माद् भवं प्रजानामीति । एवम् उक्ते भगवान् येन गंगा नदी तेन व्यवलोकयन् व्यवलोकयति । अद्राक्षीद् भगवान् नद्या गंगायाः स्रोतसा महान्तं दारुस्कन्धम् उह्यमानम्* । दृष्ट्वा च पुनस् तं भिक्षुम् आमन्त्रयते । पश्यसि त्वं भिक्षो नद्या गंगायाः स्रोतसा महान्तं दारुस्कन्धम् उह्यमानम्* ( म्स्व् इ 49 ) । एवं भदन्त सचेद् एष न पारिमे तीरे संस्रक्ष्यति । नापारिमे तीरे संस्रक्ष्यति । न मध्ये संस्रक्ष्यति । न स्थले उत्पत्स्यति । न मनुष्यग्राह्यो भविष्यति । नामनुष्यग्राह्यः । नावर्तग्राह्यः । नान्तःपूतीभावं गमिष्यति । एवम् एष भिक्षो दारुस्कन्धो ऽनुपूर्वेण समुद्रनिम्नो भविष्यति समुद्रप्रवणः समुद्रप्राग्भारः । एवम् एव सचेत् त्वं भिक्षो न पारिमे तीरे संस्रक्ष्यसि । पूर्ववद् यावत्* । नान्तःपूतीभावं गमिष्यसि । एवं हि त्वं भिक्षो अनुपूर्वेण निर्वाणनिम्नो भविष्यसि निर्वाणप्रवणो निर्वाणप्राग्भारः । नाहं भदन्त जाने किम् अपारिमं तीरं किं पारिमं तीरम्* । किं मध्ये

सं सदनम्* । किं स्थले उत्सदनम्* । को मनुष्यग्राहः । कः अमनुष्यग्राहः । कः आवर्तग्राहः । को ऽन्तःपूतीभाव इति । साधु मे भगवांस् तथा संक्षिप्तेन धर्मं देशयतु यथाहं भगवतो ऽन्तिकात् संक्षिप्तेन धर्मं श्रुत्वा पूर्ववद् यावन् नापरम् अस्माद् भवं प्रजानामीति ।
अपारिमं तीरम् इति भिक्षो षण्णाम् आध्यात्मिकानाम् आयतनानाम् एतद् अधिवचनम्* । पारिमं तीरम् इति षण्णां बाह्यानाम् आयतनानाम् एतद् अधिवचनम्* । मध्ये संसदनम् इति नन्दीरागस्यैतद् अधिवचनम्* । स्थले उत्सदनम् इति अस्मिमानस्यैतद् अधिवचनम्* । मनुष्यग्राह इति यथापीहैकः संसृष्टो ( fओल्. 154व्1 = ग्ब्म् 6.977 ) विहरति गृहस्थप्रव्रजितैः ( म्स्व् इ 50 ) सहनन्दी सहशोकः । स सुखितेषु सुखितो दुःखितेषु दुखितः उत्पन्नोत्पन्नेषु किं करणीयेषु समादाय पर्यवसानानुवर्ती भविष्यति । अमनुष्यग्राह इति यथापीहैक इति प्रणिधाय ब्रह्मचर्यं चरतीत्य् अनेनाहं शीलेन वा व्रतेन वा तपेन वा ब्रह्मचर्यवासेन वा स्यां देवो देवान्यतमो वेति । आवर्तग्राह इति यथापीहैकः शिक्षां प्रत्याख्याय हानायावर्तते । अन्तःपूतीभाव इति यथापीहैको दुःशीलो भवति पापधर्मा अन्तःपूतिर् अवस्रुतः कषंवकजातः शंखस्वरसमाचारः । अश्रमणः श्रमणप्रतिज्ञो ऽब्रह्मचारी ब्रह्मचारिप्रतिज्ञः । एवं हि सचेत् त्वं भिक्षो नापारिमे तीरे संस्रक्ष्यसि पूर्ववद् यावन् निर्वाणप्राग्भारः ।
अथ स भिक्षुर् भगवतो भाषितम् अभिनन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वा भगवतो ऽन्तिकात् प्रक्रान्तः । अथ स भिक्षुर् भगवता अनेन दारुस्कन्धोपमेनाववादेनाववादितः । एको व्यपकृष्टो ऽप्रमत्तः आतापी प्रहितात्मा विहरन् यद् अर्थं कुलपुत्राः केशश्मश्रूण्य् अवतार्य काषायाणि वस्त्राण्य् आच्छद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजन्ति तद् अनुत्तरं ब्रह्मचर्यपर्यवसानं दृष्ट एव धर्मे स्वयम् अभिज्ञाय साक्षात्कृत्वोपसंपद्य प्रवेदयते क्षीणा मे जातिर् उषितं ब्रह्मचर्यं कृतं करणीयं नापरम् अस्माद् भवं प्रजानामीत्य् आज्ञातवान्* । स आयुष्मान् अर्हन् बभूव सुविमुक्तचित्तः ।
तेन खलु समयेन नन्दो गोपालको भगवतो नातिदूरे स्थितो ऽभूत्* । दण्डम् अवष्टभ्य गाश् चारयति । तेन दण्डेनावष्टब्धो मण्डूकः संछिद्यमानेषु चर्मसु मुच्यमानेषु सन्धिषु चित्तम् उत्पादयति यद्य् अहं कायं वा चालयेयं वाचं वा निश्चारयेयं स्याद् अतोनिदानं नन्दस्य गोपालस्य कथाव्याक्षेपम् इति विदित्वा भगवतो ऽन्तिके चित्तम् अभिप्रसाद्य कालगतश् चातुर्महाराजिकेषु देवेषूपपन्नः ।
अथ नन्दो गोपालको दण्डम् एकान्ते उपनिक्षिप्य येन भगवांस् तेनोपसंक्रान्तः । उप्ससंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते ऽस्थात्* । एकान्तस्थितो नन्दो गोपालको भगवन्तम् इदम् अवोचत्* । अहं भदन्त नापारिमे तीरे संस्रक्ष्यामि । न पारिमे तीरे संस्रक्ष्यामि । न मध्ये संस्रक्ष्यामि । न स्थले उत्स्रक्ष्यामि । न मनुष्यग्राहो भविष्यामि । नामनुष्यग्राहो नावर्तग्राहो नान्तःपूतीभावं गमिष्यामि । लभेयाहं भदन्त स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुभावं चरेयम् अहं भगवतो ऽन्तिके ब्रह्मचर्यम् इति । तेन हि न न्देन स्वामिनां गावो दत्ताः । नो भदन्त । तत् कस्य हेतोः । भदन्त गावस् तरुणवत्सा ज्ञास्यन्ति स्वकस्वकानि गोकुलानि । गमिष्यन्ति स्वकस्वकानि निवेशनानि । लभेयाहं भदन्त स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं ( fओल्. 155र्1 = ग्ब्म् 6.978 ) भिक्षुभावं चरेयम् अहं भगवतो ऽन्तिके ब्रह्मचर्यं । किं चापि नन्द दहरा गावस् तरुणवत्सा ज्ञास्यन्ति स्वकस्वकानि गोकुलानि । गमिष्यन्ति स्वकस्वकानि निवेशनानि । अपि तु करणीयम् एतद् गोपालकेन यथापि तत् स्वामिना भक्ताच्छादनं स्वीकुर्वता ।
अथ नन्दो गोपालको भगवतः पादौ शिरसा वन्दित्वा भगवतो ऽन्तिकात् प्रक्रान्तः । ततो भयं भयम् इत्य् उच्चैः शब्दं कुर्वाणः प्रधावितुम् आरब्धः । अन्तर्मार्गे आत्मीयैः पंचभिर् गोपालकशतैर् दृष्टः । ते कथयन्ति । कस्य भयम् इति । जातिभयं जराभयं व्याधिभयं मरणभयम् इति । ते ऽपि तस्य पृष्ठतः प्रधावितुम् आरब्धाः । तान् दृष्ट्वा अन्ये ऽपि गोपालका अश्वपालकास् तृणहारकाः काष्ट्ःअहारकाः पथाजीवा उत्पथाजीवाश् च मनुष्याः प्रधावितुम् आरब्धाः । आनुपथिकैर् दृष्टास् तथा विक्रोशन्तः पृष्टाः । किम् एतद् भवन्तः । ते कथयन्ति । भयम्* । कस्य भयम्* । जातिभयं जराभयं व्याधिभयं मरणभयम्* । श्रुत्वा ते ऽपि निवृत्ताः । यावत् कर्वटकसमीपं संप्राप्ताः । ततश् चासौ कर्वटकनिवासी जनकायस् तं महान्तं जनकायं दृष्ट्वा इतश् चामुतश् च सन्त्रस्ताः । केचिन् निष्पलायिताः । केचिद् भाण्डं गोपायन्ति । केचित् सन्नह्यावस्थिताः । अपरे वीरपुरुषास् तैः प्रत्युद्गम्य पृष्टाः । भवन्तः किम् एतद् इति । ते कथयन्ति । भयम्* । कस्य भयम्* । जातिभयं जराभयं व्याधिभयं मरणभयम् इति । ततो ऽसौ कर्वटकनिवासी जनकायः समाश्वस्तः ।
तेन खलु समयेनायुष्मान् शारिपुत्रस् तस्याम् एव पर्षदि सन्निषण्णो ऽभूत् सन्निपतितः । अथायुष्मान् शारिपुत्रश् चिरप्रक्रान्तं नन्दं गोपालकं विदित्वा भगवन्तम् इदम् अवोचत्* । कस्माद् भदन्त भगवता नन्दो गोपालकः स्वाख्याते धर्मविनये प्रव्रजितुकामः पुनर् अप्य् अगारायोद्योजितः । अस्थानम् एतच् छारिपुत्रानवकाशो यन् नन्दो गोपालकः पुनर् अपि गृही अगारम् अध्यावत्स्यति सन्निधिकारपरिभोगे ( म्स्व् इ 53 ) कामान् परिभोक्ष्यते । नेदं स्थानं विद्यते । इदानीं नन्दो गोपालकः स्वामिनां गा अर्पयित्वा आगमिष्यति । स यद् अर्थं कुलपुत्राः केशश्मश्र्व् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजन्ति तद् अनुत्तरं ब्रह्मचर्यपर्यवसानं दृष्ट एव धर्मे स्वयम् अभिज्ञाय साक्षात्कृत्वोपसंपद्य प्रवेदयिष्यते क्षीणा मे जातिर् उषितं ब्रह्मचर्यं कृतं करणीयं नापरम् अस्माद् भवं प्रजानामीति ।
अथापरेण समयेन नन्दो गोपालकः स्वामिनां गा अर्पयित्वा पंचशतपरिवारो येन भगवांस् तेनोपसंक्रान्तः । उप्संक्रम्य भगवन्तम् इदम् अवोचत्* । अर्पिता मे भदन्त स्वामिनां गावः । लभेयाहं भदन्त स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुभावं चरेयम् ( fओल्. 155व्1 = ग्ब्म् 6.979 ) अहं भगवतो ऽन्तिके ब्रह्मचर्यम् इति । लब्धवान् नन्दो गोपालकः पंचशतपरिवारः स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुभावम्* । एवं प्रव्रजितः स आयुष्मान् पूर्ववद् यावत् सुविमुक्तचित्तः ।

धर्मता अचिरोपपन्नस्य देवपुत्रस्य देवकन्याया वा त्रीणि चित्तान्य् उत्पद्यन्ते । कुतश् च्युतः । कुत्रोपपन्नः । केन कर्मणेति । मण्डूकपूर्वी देवपुत्रः पश्यति । तिर्यग्भ्यश् च्युतश् चातुर्महाराजिकेषु देवेषूपपन्नो भगवतो ऽन्तिके चित्तम् अभिप्रसाद्येति । तस्यैतद् अभवत्* । न मम प्रतिरूपं स्याद् यद् अहं पर्युषितपरिवासो भगवन्तं दर्शनायोपसंक्रमेयम्* । यन्व् अहम् अपर्युषितपरिवास एव भगवन्तं दर्शनायोपसंक्रमेयम् इति । अथ मण्डूकपूर्वी देवपुत्रश् चलविमलकुण्डलधरः पूर्ववद् यावत् सर्वं गंगातीरम् उदारेणावभासेनावभास्य भगवन्तं पुष्पैर् ( म्स्व् इ 54 ) अवकीर्य भगवतः पुरस्तान् निषण्णो धर्मश्रवणाय । अथ भगवान् मण्डूकपूर्विणो देवपुत्रस्याशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशीं चतुरार्यसत्यसंप्रतिवेधिकीं धर्मदेशनां कृतवान्* । यां श्रुत्वा पूर्ववद् यावद् अनादिकालोपचितं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतापत्तिफलं साक्षात्कृतम्* । अभिक्रान्तो ऽहं भदन्ताभिक्रान्तः । एषो ऽहं भगवन्तं शरणं गच्छामि धर्मं च भिक्षुसंघं च । उपासकं च मां धारयाद्याग्रेण यावज्जीवं प्राणोपेतं शरणगतम् अभिप्रसन्नम्* । अथ मण्डूकपूर्वी देवपुत्रो वणिग् इव लब्धलाभः शस्यसम्पन्न इव कार्षकः शूर इव विजितसंग्रामः सर्वरोगपरिमुक्त इवातुरो यया विभूत्या भगवत्सकाशम् आगतस् तयैव विभूत्या स्वभवनं गतः ।
भिक्षवः पूर्वापररात्रं जागरिकायोगम् अनुयुक्ता विहरन्ति । तैर् दृष्टो भगवतो ऽन्तिके उदारो ऽवभासः । यं दृष्ट्वा संदिग्धा भगवन्तं पप्रच्छुः । किं भगवन्न् इमां रात्रिं भगवन्तं दर्शनाय ब्रह्मा सहांपतिः शक्रो देवेन्द्रश् चत्वारो लोकपाला उपसंक्रान्ताः । न भिक्षवो ब्रह्मा सहांपतिर् न शक्रो देवेन्द्रो न चत्वारो लोकपाला मां दर्शनायोपसंक्रान्ताः । अपि तु नन्देन गोपालेन दण्डेन वावष्टब्धो मण्डूकः स च्छिद्यमानेषु चर्मसु मुच्यमानेषु सन्धिषु मा नन्दस्य गोपालकस्य धर्मविक्षेपो भविष्यतीति निश्चलस् तूष्णीम् अवस्थितो ममान्तिके चित्तम् अभिप्रसाद्य कालगतश् चातुर्महाराजिकेषु देवेषूपपन्नः । स इमां रात्रिं मत्सकाशम् उपसंक्रान्तः । तस्य मया धर्मो देशितः । दृष्टसत्यश् च स्वभवनं गत इति ।
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः । किं भदन्त नन्देन गोपालेन पंचशतपरिवारेण कर्म कृतं येन गोपालकेषूपपन्नो भगवतश् च शासने प्रव्रज्य सर्वक्लेशप्रहाणाद् अर्हत्वं ( fओल्. 156र्1 = ग्ब्म् 6.980 ) साक्षात्कृतम्* । मण्डूकपूर्विणा देवपुत्रेण किं कर्म कृतं येन मण्डूकेषूपपन्नः सत्यदर्शनं च कृतम् इति । भगवान् आह । तेनैव भिक्षवः कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि पूर्ववद् यावत् फलन्ति खलु देहिनाम्* ।
भूतपूर्वं भिक्षवः अस्मिन्न् एव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोके उदपादि । पूर्ववद् यावत् स वाराणसीं नगरीम् उपनिसृत्य विहरति ऋषिवदने मृगदावे । तस्य प्रवचने नन्दो गोपालकः प्रव्रजितः । त्रिपिटो धार्मकथिको युक्तमुक्तप्रतिभानः पंचशतपरिवारः अधिकरणकुशलः । स उत्पन्नोत्पन्नानि संघस्याधिकरणानि व्युपशमयति । तत्र द्वौ भिक्षू स्तब्धौ मानिनौ । न कदाचित् तस्य सकाशम् उपसंक्रामतः । तयोर् अपरेण समयेन परस्परम् अधिकरणम् उत्पन्नम्* । ताव् अर्थार्थिनौ तस्य सकाशम् उपसंक्रान्तौ पादाभिवन्दनं कृत्वा कथयतः । इदं चेदं चावयोर् अधिकरणम् उत्पन्नं व्युपशमयेति । स संलक्षयति । यद्य् अहम् अनयोर् अद्यैवाधिकरणं व्युपशमयिष्यामि अर्थार्थिनाव् एतौ न भूय उपसंक्रमिष्यतः । तेन सर्वसंघं संनिपात्य तद् अधिकरणं संघमध्ये उपनिक्षिप्य न एकान्तीकृतम्* । अतः परस्मिन्न् अपि दिवसे तस्य कर्वटके करणीयम् उत्पन्नम्* । स ( म्स्व् इ 56 ) तत्र गतः । ततस् ताभ्यां चिरयतीति संघं संनिपात्य तद् अधिकरणम् उपनिक्षिप्तम्* । ततः संघेन व्युपशमितम्* । यावद् असौ त्रिपिटो भिक्षुस् तस्मात् कर्वटकाद् आगतः । मार्गश्रमे प्रतिविनोदिते सार्धंविहार्यन्तेवासिकान् पृच्छति । न ताव् अर्थप्रत्यर्थिकाव् आगच्छत इति । ते कथयन्ति । उपाध्याय व्युपशान्तं तयोस् तद् अधिकरणम्* । केन व्युपशमितम्* । संघेन । यथाकथं तैर् विस्तरेण समाख्यातम्* । तेन खरं वाक्कर्म निश्चारितम्* । ज्ञायते आयुष्मन्तो गोपालकैर् यथा तद् अधिकरणं व्युपशमितम् इति । तैर् अप्य् अनुसंवर्णितम् एव मे तद् उपाध्याय गोपालकैर् यथा तद् अधिकरणं व्युपशमितम् इति ।
किं मन्यध्वे भिक्षवो यो ऽसौ त्रिपिटो भिक्षुर् एष एवासौ नन्दो गोपालकस् तेन कालेन तेन समयेन । यान्य् अस्य तानि पंच सार्धंविहार्यन्तेवासिकानां शतानि एतान्य् एव पंच गोपालकशतानि । यद् अनेन काश्यपस्य सम्यक्संबुद्धस्य श्रावकसंघो गोपालकवादेन समुदाचरितः सार्धंविहार्यन्तेवासिकैश् चानुसंवर्णितं तस्य कर्मणो विपाकेन पंच जन्मशतानि पंचशतपरिवारो गोपालकेषूपपन्नः । यावद् एतर्ह्य् अपि पंचशतपरिवारो गोपालकेष्व् एवोपपन्नः । यद् अनेन पठितं स्वाध्यायितं स्कन्धकौशलं धातुकौशलम् आयतनकौशलं स्थानास्थानकौशलं च कृतं तेनैतर्हि पंचशतपरिवारेण मम शासने प्रव्रज्य ( fओल्. 156व्1 = ग्ब्म् 6.981 ) सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* ।
मण्डूकपूर्व्य् अपि देवपुत्रः काश्यपस्य सम्यक्संबुद्धस्य प्रवचने भिक्षुर् आसीत्* । प्राहाणिकः स जनपदचारिकां चरन् अन्यतमस्मिन् कर्वटके विहारम् अनुप्राप्तः । स रात्र्याः प्रथमे यामे पर्यङ्कं बद्ध्वा ( म्स्व् इ 57 ) मनसिकारं वाहयितुम् आरब्धः । यावत् स्वाध्यायकारका भिक्षवः स्वाध्यायन्ति । शब्दकण्टकानि ध्यानानि । स शब्देन चित्तैकाग्रतां नासादयति । स संलक्षयति स्वाध्यायन्ति एते । मध्यमे यामे निषत्स्यामीति । स मध्यमे यामे उत्थाय निषण्णो यावद् अन्ये भिक्षवः स्वाध्यायं कुर्वन्ति । स संलक्षयति पश्चिमे यामे निषत्स्यामीति । स पश्चिमे यामे उत्थाय निषण्णो यावद् अपरे स्वाध्यायं कुर्वन्ति । तस्यावीतरागत्वात् तीव्रं पर्यवस्थानम् उत्पन्नम्* । स कथयति । इमे श्रमणाः काश्यपीया मण्डूका इव कृत्स्नां रात्रिं रटिता इति ।

किं मन्यध्वे भिक्षवो यो ऽसौ प्राहाणिको भिक्षुर् एष एवासौ मण्डूकपूर्वी देवपुत्रः । यद् अनेन काश्यपस्य सम्यक्संबुद्धस्य श्रावका मण्डूकवादेन समुदाचरिताः । तस्य कर्मणो विपाकेन पंच जन्मशतानि मण्डूकेषूपपन्नो यावद् एतर्ह्य् अपि मण्डूकेष्व् एवोपपन्नः । यन् ममान्तिके चित्तं प्रसादितं तेन चातुर्महाराजिकेषु देवेषूपपन्नः । यत् काश्यपे सम्यक्संबुद्धे ब्रह्मचर्यं चरितं तेनेदानीं सत्यदर्शनं कृतम्* । इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः पूर्ववद् यावद् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम् इदम् अवोचत्* ।
अथ भगवान् नदीं गंगाम् अवतीर्णस् तत्र पंचभिर् हंसमत्स्यकूर्मशतैः परिवृतः प्रदक्षिणीकृतश् च । तेषां भगवता त्रिभिः पदैर् धर्मः ( म्स्व् इ 58 ) देशितः । इति हि भद्रमुखाः सर्वसंस्कारा अनित्याः । सर्वधर्मा अनात्मानः । शान्तं निर्वाणम्* । ममान्तिके चित्तम् अभिप्रसादयत । अप्य् एवं तिर्यग्योनिं विरागयिष्यथेति । तेषाम् एतद् अभवत्* । नास्माकं प्रतिरूपं स्याद् यद् वयं भगवतो ऽन्तिकात् त्रिभिः पदैर् धर्मं श्रुत्वा आहारम् आहरेम इति । ते नाहरणां प्रतिपन्नाः । तीक्ष्णस् तिर्ययोनिगतानाम् अग्निश् च्युतः । कालगताश् चातुर्महाराजिकेषु देवेषूपपन्नाः । धर्मता खल्व् अचिरोपपन्नस्य देवपुत्रस्य वा देवकन्याया वा त्रीणि चित्तान्य् उत्पद्यन्ते । कुतश् च्युतः । कुत्रोपपन्नः । केन कर्मणा इति । ते पश्यन्ति । तिर्यग्भ्यश् च्युताः । चातुर्महाराजिकेषु देवेषूपपन्नाः । पूर्ववद् यावन् मन्दारकाणां पुष्पाणाम् उत्संगं पूरयित्वा भगवत्सामन्तकेन नदीं गंगाम् अवभास्य भगवन्तं पुष्पैर् आकीर्य भगवत्सामन्तकेनानुपरिवार्यावस्थिताः । भगवता तेषाम् आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता पूर्ववद् ( fओल्. 157र्1 = ग्ब्म् 6.982 ) यावद् अनादिकालोपचितं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतापत्तिफलं साक्षात्कृतम्* । ते दृष्टसत्याः कथयन्ति । अभिक्रान्ता वयं भदन्ताभिक्रान्ताः । एते वयं बुद्धं शरणम् गच्छामो धर्मं च भिक्षुसंघं च । उपासकांश् चास्मान् धारय । अद्याग्रेण यावज्जीवं प्राणोपेतं शरणगतान् अभिप्रसन्नान्* । अथ ते ( म्स्व् इ 59 ) मत्स्यकच्छपहंसपूर्विणो देवपुत्रा वणिज इव लब्धलाभाः पूर्ववद् यावत् स्वभवनं गताः ।
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः । किं भदन्त एभिर् हंसकच्छपमत्स्यैः कर्म कृतं येन हंसकच्छपमत्स्येषूपपन्नाः सत्यदर्शनं च कृतम् इति । भगवान् आह । एभिर् एव भिक्षवो हंसमत्स्यकच्छपैः कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि पूर्ववद् यावत् फलन्ति खलु देहिनाम्* ।
भूतपूर्वं भिक्षवः अस्मिन्न् एव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां कश्यपो नाम शास्ता लोके उदपादि पूर्ववद् यावत् स वाराणसीं नगरीम् उपनिशृत्य विहरति ऋषिवदने मृगदावे । तस्यैते शासने प्रव्रजिता अभूवन्* । तत्रैतेभिर् भिक्षुभिः क्षुद्रानुक्षुद्राणि शिक्षापदानि खण्डितानि । तस्य कर्मणो विपाकेन हंसमत्स्यकूर्मेषूपपन्नाः । यन् ममान्तिके चित्तम् अभिप्रसादितं तेन देवेषूपपन्नाः । यत् काश्यपे सम्यक्संबुद्धे ब्रह्मचर्यं चरितं तेन सत्यदर्शनं कृतम्* । इति हि भिक्षवः एकाण्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः पूर्ववद् यावद् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम् इदम् अवोचत्* ।
अथ भगवान् नदीं गंगाम् उत्तीर्णः पंचमात्रैः प्रेतशतैः परिवृतो दग्धस्थूणाकृतिभिर् अस्थियन्त्रवदुच्छ्रितैः स्वकेशसंछन्नैः पर्वतोपमकुक्षिभिः सूचीच्छिद्रोपममुखैर् आदीप्तैः प्रदीप्तैः संप्रज्वलितैः ( म्स्व् इ 60 ) एकज्वालीभूतैः । ते कृतकरपुटा भगवन्तम् ऊचुः । वयं भदन्त प्रेता विनिपतितशरीराः पूर्वकर्मापबाधेन पानीयं नासादयामः । कुतो भक्तस्य दर्शनम्* । त्वं महाकारुणिको ऽस्मभ्यं पानीयम् अनुप्रयच्छेति । भगवता तेषां गंगोपदर्शिता ।
एषा हि शीतलजला सुसमृद्धतोया भागीरथी वहति सर्वजनोपभोग्या ।
ग्रामांश् च राष्ट्रनगराणि च तर्पयन्ती केदारशालिकुमुदोत्पलपंकजानि ॥
प्रेता कथयन्ति ।
एषास्माकं वहति हि शुष्कतोया भागीरथी वहति सर्वजनोपभोग्या ।
पश्याम एतां रुधिरमलेन पूर्नां रक्षन्ति चैनां सपरशुदण्डहस्ताः ॥ इति ।
भगवान् गंगादेवताम् आह ।
त्वं ग्रामराष्ट्रनगराण्य् अनुतर्पयन्ती केदारशालिकुमुदोत्पलपंकजानि ।
कस्मान् न तर्पयसि तीव्रतृषाभिभूतान् कृपा न तव बालजनस्य दुःखैः ॥ इति ।
गंगादेवता प्राह ।
नाहं भयान् न पुरुषाद् अपि वा जनस्य
शाठ्येन वापि विषयं जलम् ( fओल्. 157व्1 = ग्ब्म् 6.983 ) उत्सृजामि ।
एषा तु दुष्कृतमहावरणावृतानां
शोषं जलं व्रजति को ऽत्र ममापराधः ॥ इति ।
तत्र भगवान् आयुष्मन्तं महामौद्गल्यायनम् आमंत्रयते । संतर्पय मौद्गल्यायन प्रेतान् इति । एवं भदन्त इति आयुष्मान् महामौद्गल्यायनो भगवतः प्रतिश्रुत्य प्रेतान् सन्तर्पयितुम् आरब्धः । तत्र प्रेताः सूचीमुखत्वान् न शक्नुवन्ति मुखं विवर्तयितुम्* । ततो भगवता तेषाम् ऋद्ध्या मुखं विवृतम्* । आयुष्मता महामौद्गल्यायनेन पानीयं दत्तम्* । तैस् तृषातुरैः प्रभूतं पीतम्* । उदराणि स्फुटितानि । ततो भगवतो ऽन्तिके चित्तम् अभिप्रसाद्य कालगताः । पूर्ववद् दृष्टसत्याः स्वभवनं गताः ।
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः । किं भदन्त एभिः प्रेतैः कर्म कृतं येन प्रेतेषूपपन्नाः । किं कर्म कृतं येन देवेषूपपन्नाः । सत्यदर्शनं च कृतम् इति । भगवान् आह । एभिर् एव भिक्षवः कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि पूर्ववद् यावत् फलन्ति देहिनां* ।
भूतपूर्वं भिक्षवः अस्मिन्न् एव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां कश्यपो नाम शास्ता लोके उदपादि पूर्ववद् यावत् स वाराणसीं नगरीम् उपनिशृत्य विहरति ऋषिवदने मृगदावे । तस्य श्रावकाच् छन्दकभिक्षणं कृत्वा बुद्धधर्मसंघेषु कारान् कुर्वन्ति । यदा भगवतः काश्यपस्य सम्यक्संबुद्धस्य शासनं न वैस्तारिकं ( म्स्व् इ 62 ) तदाल्पाश् छन्दयाचका भिक्षवः । यदा तु वैस्तारिकं तदा बहवश् छन्दयाचका भिक्षवः संवृत्ताः । यावद् अन्यतमस्मिन् संस्थागारे पंचोपासकशतानि संनिषण्णानि संनिपतितानि केनचिद् एव करणीयेन । संबहुलाश् च भिक्षवश् छन्दयाचकास् तेषां सकाशम् उपसंक्रान्ताः समादापयितुकामाः । ते तीव्रेण पर्यवस्थानेन खरं वाक्कर्म निष्चारितम्* । इमे श्रमणाः काश्यपीयाः प्रेतोपपन्ना इव नित्यं प्रसारितकरा इति ।

किं मन्यध्वे भिक्षवो यानि तानि पंचोपासकशतानि एतान्य् एव तानि पंच प्रेतशतानि । यद् एभिः काश्यपस्य सम्यक्संबुद्धस्य श्रावकाः प्रेतवादेन समुदाचरितास् तस्य कर्मणो विपाकेन पंच जन्मशतानि प्रेतेषूपपन्नाः । यावद् एतर्ह्य् अपि प्रेतेष्व् एवोपपन्नाः । यन् ममान्तिके चित्तं प्रसादितं तेन देवेषूपपन्नाः । यत् काश्यपे सम्यक्संबुद्धे शरणागमनशिक्षापदानि गृहीतानि तेन सत्यदर्शनं कृतम्* । इति हि भिक्षवः एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः पूर्ववद् यावद् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम् इदम् अवोचत्* ।
अथ भगवान् नदीं गंगाम् उत्तीर्य दक्षिणेन नागावलोकितेन नदीं गंगां निरीक्षते । भिक्षवो बुद्धं भगवन्तं पप्रच्छुः । किमर्थं भदन्त ( fओल्. 158र्1 = ग्ब्म् 6.984 ) भगवान् परावृत्य नदीं गंगां निरीक्षत इति । भगवान् आह । ( म्स्व् इ 63 ) इच्छथ भिक्षवो नद्या गंगाया उत्पत्तिं श्रोतुम्* । एतस्य भगवन् काल एतस्य सुगत समयो यद् भगवान् नद्या गंगाया उत्पत्तिं देशयेद् भिक्षवः श्रोष्यन्ति ।
भूतपूर्वं भिक्षवः पिण्डवंशो नाम राजा बभूव । धार्मिको धर्मराजो धर्मेण राज्यं कारयति । तस्य जनपदा ऋद्धाश् च स्फीताश् च क्षेमाश् च सुभिक्षाश् चाकीर्णबहुजनमनुष्याश् च सदा पुष्पफलवृक्षाः देवः कालवर्षी । शस्यवती वसुमती प्रशान्तकलिकलहडिम्बडमरतस्कररोगापगता । मनुष्या नित्यं धर्मपरायणाः । यावद् असौ राजा संप्राप्ते वसन्तकालसमये संपुष्पितेषु पादपेषु हंसक्रौंचमयूरशुकशारिकाकोकिलजीवंजीवकनिर्घोषिते वनषण्डे अन्तःपुरपरिवृत उद्यानभूमिं संप्रस्थितः । यावद् अन्यतमः पुरुषो वलीपलितोत्तमांगः {म्स् वलीपलितचितांगः } परिजीर्णशरीरावयवः परिणतेन्द्रियः कृशो ऽल्पस्थामो मन्दमन्दचारतया दण्डम् अवष्टभ्य गच्छति । ततस् तेन राज्ञा अमात्याः पृष्टाः । क एष भवन्तः पुरुषो वलीपलितोत्तमाङ्गः {म्स् वलीपलितचितांगः } पूर्ववद् यावद् दण्डम् अवष्टभ्य गच्छतीति । तैः समाख्यातम्* । देव संस्कारपरिक्षयाद् एष जीर्णो वृद्ध इत्य् उच्यत इति । राजा कथयति । अहम् अपि भवन्त एवंधर्मो भविष्यामीति । ते कथयन्ति । देव साधारण एष धर्म इति । ततो राजा दुर्मनाः संप्रस्थितः । पुनर् अपि पुरुषं पश्यत्य् उत्पाण्डोत्पाण्डुकं स्फुटितपरुषगात्रं पर्वतोपमकुक्षिं व्रणपूयोत्कीर्णैर् अङ्गप्रत्यङ्गावधारिभिः पट्टकोपनिबद्धैः दीर्घदीर्घैः प्रश्वसन्तन् दण्डम् अवष्टभ्य खंजमानगतिं संप्रस्थितं दृष्ट्वा ( म्स्व् इ 64 ) च पुनर् अमात्यान् आमंत्रयते । क एष भवन्तः पुरुष उत्पाण्डोत्पाण्डुकः पूर्ववद् यावत् खंजमानो ऽभिसंप्रस्थित इति । ते कथयन्ति । देव एष व्याधितो नाम । राजा कथयति । अहम् अपि भवन्तः एवंधर्मो भविष्यामीति । अमात्याः कथयन्ति । देव साधारण एष एव धर्मो दुष्कृतकर्मकारिणां पूर्वकर्मापराधाद् भवतीति । राजा संलक्षयति । सर्वथा पापं न कर्तव्यम् इति विदित्वा संप्रस्थितः । पुनर् अपि पश्यति । नीलपीतलोहितावदातैर् वस्त्रैः शिविकाम् अलंकृतां छत्रध्वजपताकाशंखपटहस्त्रीपुरुषदारकदारिकाभिर्
आकीर्णां चतुर्भिः पुरुषैर् उत्क्षिप्ताम् उल्कां च पुरस्तान् नीयमानां काष्ठव्यग्रहस्तैः पुरुषैः पृष्ठतो ऽनुबद्धां हा तात हा भ्रातः हा पितः हा स्वामिन्न् इति च समन्ताद् आरोदनशब्दं श्रुत्वा च पुनर् अमात्यान् आमंत्रयते । किम् एषा भवन्तः शिविका नीलपीतलोहितावदातैर् वस्त्रैः पूर्ववद् यावद् आरोदनशब्द इति । अमात्याः कथयन्ति । एष देव मृतो नाम इति । राजा कथयति । अहम् अपि भवन्तः एवंधर्मो भविष्यामीति ( fओल्. 158व्1 = ग्ब्म् 6.985 ) । ते कथयन्ति देव एषो ऽपि साधारणो धर्म इति । ततो जीर्णातुरमृतसंदर्शनात् संविग्नमना एवंरूपाभोगाः परित्यक्तव्या इति प्रतिनिवृत्य शोकागारं प्रविश्यावस्थित इति ।
तस्य विजिते वेलामो नाम ब्राह्मण आढ्यो महाधनो महाभोगो वेदवेदांगपारगः । तेन श्रुतं यथा राजा जीर्णातुरमृतसंदर्शनाद् उद्विग्नः शोकागारं प्रविश्यावस्थित इति । श्रुत्वा च पुनर् अनेकैर् ब्राह्मणशतसहस्रैः परिवृतः सर्वश्वेतं वडवारथम् ( म्स्व् इ 65 ) अभिरुह्य सौवर्णेन दण्डकमण्डलुना धार्यमाणेन येन राजा पिण्डवंशस् तेनोपसंक्रान्तः । अमात्यैः राज्ञे निवेदितम्* । देव वेलामो ब्राह्मणो द्वारे तिष्ठति । ततो राजा निर्गत्य अथाधिकरणे निषण्णः । ब्राह्मणो वेलामो जयेनायुषा च वर्धयित्वा निषण्णः कथयति । किमर्थं देवः शोकागारे प्रविश्यावस्थित इति । राज्ञा यथावृत्तं सर्वं वेलामाय ब्राह्मणाय विस्तरेणारोचितम्* । स कथयति । देवः स्वकर्मफलभोगी । नात्र शोकः करणीयः । सन्ति सत्वाः सुकृतकर्मकारिणः सन्ति दुष्कृतकर्मकारिणः सन्ति चोभयकर्मकारिणः । चक्रवर्तिनस् तु नित्यं सुकृतकर्मकारिणः सन्तो देवेषूपपद्यन्ते । देवो ऽपि चक्रवर्ती । मनुष्यप्रतिविषिष्टं सुखम् अनुभूय दिव्यं सुखम् अनुभविष्यतीति । अपि तु देव यज्ञ इष्टव्यः स्वर्गसोपानभूत इति । ततो राज्ञा अमात्यानाम् आज्ञा दत्ता । भवन्तः सर्वविजिते घण्टावघोषणं कारयत । राजा निरर्ग ल ं यज्ञं यजति । भवद्भिर् आगत्य परिभोक्तव्यम् इति । ततो दानशाला प्रज्ञप्ता । अन्नम् अन्नार्थिभ्यो दीयतां पानं पानार्थिभ्यः । तत्राचामेन परिस्रवमाणेन गर्तः कृतः । यत्रासौ तप्तः शीतीभवति । अनवतप्तः अनवतप्त इति सज्ञा संवृत्ता । तस्याचामेन तण्डुलाम्बुना च द्वादशवार्षिकेण संपूर्यमाणस्य वृद्धिः संवृत्ता । तत इयं मुखेन नदी प्रसृता । आचामनदीति संज्ञा संवृत्ता इति ।

उद्दानम्* ।
कुमारवर्धनं क्रौंचानम् अङ्गदिका मणिवती ।
सालबला सालिबला सुवर्णप्रस्थश् च साकेता ॥
पेया तोयिका च श्रावस्ती अनवतप्तः ।
नगरबिन्दुश् च वैशाली भवति पश्चिमा ॥
अथ भगवान् कुमारवर्धनम् अनुप्राप्तः । कुमारवर्धने आयुष्मन्तम् आनन्दम् आमन्त्रयते । अस्मिन्न् एवानन्द प्रदेशे उपोषधो नाम राजा जातः । अत्रैव चाभिवृद्धः । तेनास्य नगरस्य कुमारवर्धनं कुमारवर्धनम् इति संज्ञा संवृत्ता ।
क्रौंचानम् अनुप्राप्तः । तत्र भगवान् आयुष्मन्तम् आनन्दम् आमंत्रयते । अस्मिन्न् आनन्द क्रौंचाने उपोषधस्य राज्ञो हस्तिनागेन क्रौंचयता शब्धः कृतः क्रौंचानं क्रौंचानम् इति ( fओल्. 159र्1 = ग्ब्म् 6.986 ) संज्ञा संवृत्ता ।
अङ्गदिकाम् अनुप्राप्तः । अङ्गदिकायाम् अन्यतमस्मिन् प्रदेशे स्मितम् अकार्षीत्* । विस्तरेण चतुर्बुद्धासनं पूर्ववत्* ।
मणिवतीम् अनुप्राप्तः । मणिवत्याम् आयुष्मन्तम् आनन्दम् आमंत्रयते । अस्याम् आनन्द मणिवत्यां बोधिसत्वेन बहुभिर् मणिभिर् यज्ञो यष्टः । मणिवती मणिवतीति संज्ञा संवृत्ता ।
सालबलाम् अनुप्राप्तः । सालबलायाम् अन्यतमस्मिन् प्रदेशे स्मितम् अकार्षीत्* । विस्तरेण चतुर्बुद्धासनं पूर्ववत्* ।
सालिबलाम् अनुप्राप्तः । सालिबलायाम् अन्यतमस्मिन् प्रदेशे स्मितम् अकार्षीत्* । विस्तरेण चतुर्बुद्धासनं पूर्ववत्* ।
सुवर्णप्रस्थम् अनुप्राप्तः । अस्मिन्न् आनन्द सुवर्णप्रस्थे बोधिसत्वेन बहुसुवर्णको यज्ञो यष्टः । अपीदानीं ब्राह्मनैः प्रस्थेन सुवर्णो भाजितः । सुवर्णप्रस्थः सुवर्नप्रस्थ इति संज्ञा संवृत्ता ।
साकेताम् अनुप्राप्तः । साकेतायाम् आयुष्मन्तम् आनन्दम् आमंत्रयते । अस्याम् आनन्द साकेतायाम् उपोषधो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च । तस्यापरेण समयेन मूर्ध्नि पिटको जातो मृदुः सुमृदुः तद्यथा तूलपिचुर् वा कर्पासपिचुर् वा न च किंचिद् आबाधं जनयति । स परिपाकत्वात् स्फुटितः । कुमारो जातः । अभिरूपो दर्शनीयः प्रासादिको गौरः कनकवर्णः पूर्ववत् यावत् सर्वाङ्गप्रत्यङ्गोपेतः । मूर्ध्नि जातो मूर्ध्नि जात इति मूर्धातो मूर्धात इति संज्ञा संवृत्ता । उपोषधस्य राज्ञः षाष्टिः स्त्रीसहस्राणि । जातः कुमारो ऽन्तःपुरं प्रवेशितः । सहदर्शनाद् एव सर्वासां स्त्रीणां स्तनाः प्रस्रुताः । एकैका कथयति मां धायतु मां धायत्व् इति मान्धाता मान्धातेति च संज्ञा संवृत्ता । तत्र केचिन् मूर्धात इति संजानते केचिन् मान्धातेति ।
मान्धातुः कुमारस्य जनपदगतस्य उपोषधो राजा ग्लानः संवृत्तः । स मूलगण्डपत्रपुष्पफलभैषज्यैर् उपस्थीयते । तथाप्य् असौ हीयत एव । तेनामात्यानाम् आज्ञा दत्ता । भवन्तः शीघ्रं कुमारं राज्याभिषेकेणाभिषिंचत । एवं देव इति अमात्यैर् दूतसंप्रेषणं कृतम्* । उपोषधो राजा ग्लानः । तेनाज्ञा दत्ता कुमारं शब्दयत राज्याभिषेकं ( म्स्व् इ 68 ) प्रत्यनुभवत्व् इति । तद् अर्हति कुमारः शीघ्रम् आगन्तुम् इति । स संप्रस्थित उपोषधश् च राजा कालगतः । ततो ऽमात्यैः पुनर् अपि तस्य दूतसंप्रेषणं कृतम्* । कुमार पिता ते कालगतः । आगच्छ राज्यं प्रतीच्छेति । मान्धाता कुमारः संलक्षयति । यदि मम पिता कालगतः किं तत्र गच्छामीति विदित्वा तत्रैवावस्थितः । अमात्यैः पुनर् अपि संभूय अग्रामात्यः प्रेषितः । तेन गत्वाभिहितः । कुमार आगच्छ राज्यं प्रतीच्छ इति । स कथयति । मम ( fओल्. 159व्1 = ग्ब्म् 6.987 ) धर्मेण राज्यं प्राप्तम्* । इहैव राज्याभिषेक आगच्छत्व् इति । अमात्यैः संदिष्टम्* । देव राज्याभिषेके प्रभूतेन प्रयोजनम्* । रत्नशिलया सिंहासनेन च्छत्रेण पट्टेन मुकुटेन । अधिष्ठानमध्ये च राज्याभिषेकः क्रियते । तद् अर्हति कुमारः इहैवागन्तुम् इति । स कथयति । यदि मम धर्मेण राज्यं प्राप्तम्* । इहैव सर्वम् आगच्छत्व् इति । मान्धातुः कुमारस्य दिवौकसो नाम यक्ष पुरोजवः । तेन रत्नशिला सिंहासनं तत्रैवानीतम्* । आधिष्ठानिकाश् च च्छत्रं पट्टं मुकुटं चादाय स्वयम् एवागताः । अधिष्ठानं स्वयम् आगतं स्वयम् आगतम् इति साकेता साकेता इति संज्ञा संवृत्ता ।
तत्र भगवान् आयुष्मन्तम् आनन्दम् आमंत्रयते । आगमयानन्द येन श्रावस्ती इति । एवं भदन्त इति आयुष्मान् आनन्दो भगवतः प्रत्यश्रौषीत्* । अथ भगवान् येन श्रावस्ती तेन चारिकां चरन् प्रक्रान्तो यावद् अन्यतमस्मिन् प्रदेशे ब्राह्मणश् छिन्नभक्तको हलं वाहयति । तस्यार्थाय दारिका पेयाम् आदायागता । भगवांश् च तं प्रदेशम् ( म्स्व् इ 69 ) अनुप्राप्तः । ददर्श स ब्राह्मणो बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जंगमम् इव रत्नपर्वतं समन्ततो भद्रकम्* । सहदर्शनात् तस्य भगवति प्रसाद उत्पन्नः । न तथा द्वादशवर्षाभ्यस् तः शमथश् चित्तस्य कल्पतां जनयति । अपुत्रस्य वा पुत्रप्रतिलाभो दरिद्रस्य वा निधिदर्शनं राज्याभिनन्दिनो वा राज्याभिषेको यथोपचितकुशलमूलस्य सत्वस्य तत्प्रथमतो बुद्धदर्शनम्* । स तां पेयाम् आदाय लघु लघ्व् एव येन भगवांस् तेनोपसंक्रान्तः । उपसंक्रम्य भगवन्तम् इदम् अवोचत्* ।
इयं भो गौतम पेया इयम् अस्ति ममान्तिके । {म्स् पेयायम् अस्ति }
अनुकम्पं पिब एतद् भगवन् गौतमः पेयाम्* ॥ इति {म्स् ऽनुकंपान् पिबेद् भगवाङ् = दिव्य् 461}

ततो भगवता तस्य ब्राह्मणस्य कूपो दर्शितः । सचेत् ते ब्राह्मण परित्याज्याः अस्मिन् जीर्णकूपो प्रक्षिप इति । तेन तस्मिन् जीर्णकूपे प्रक्षिप्ताः । स जीर्णकूपो वाष्पायमानः पेयापूर्णो यथापि तद् बुद्धानां बुद्धानुभावेन देवतानां च देवतानुभावेन । ततो भगवता स ब्राह्मणो ऽभिहितः । चारय ब्राह्मण पेयाम् इति । स चारयितुम् आरब्धः । भगवता तथाधिष्ठिता यथा सर्वसंघेन पेया । जीर्णकूपो वाष्पायमानस् तथैव पेयापूर्णो ऽवस्थितः । ततो ऽसौ ब्राह्मणो भूयस्या मात्रयाभिप्रसन्नो भगवतः पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णो धर्मश्रवणाय । तस्य भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा ( म्स्व् इ 70 ) तादृशी चातुरार्यासत्यसंप्रतिवेधिकी धर्मदेशना कृता पूर्ववद् यावद् अनाद्यकालोपचितं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतापत्तिफलं ( fओल्. 160र्1 = ग्ब्म् 6.988 ) साक्षात्कृतम्* । अभिक्रान्तो ऽहं भदन्ताभिक्रान्तः । एषो ऽहं भगवन्तं शरणं गच्छामि धर्मं च भिक्षुसंघं च । उपासकं च मां धारय अद्याग्रेण यावज्जीवं प्राणोपेतं शरणगतम् अभिप्रसन्नम्* । अथासौ ब्राह्मणो वणिग् इव लब्धलाभः शस्यसंपन्न इव कार्षिकः शूर इव विजितसंग्रामः सर्वरोगपरिमुक्त इवातुरो भगवतो भाषितम् अभिनन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वा भगवतो ऽन्तिकात् प्रक्रान्तो यावत् क्षेत्रं गतः । पश्यति तस्मिन् क्षेत्रे सौवर्णान् यवान् संपन्नान्* । दृष्ट्वा च पुनर् विस्मयोत्फुल्ललोचनो गाथां भाषते ।
अहो गुणमयं क्षेत्रं सर्वदोषविवर्जितम्* ।
अद्यैवोप्तं मया बीजम् अद्यैव फलदायिकम्* ॥ इति ।
ततो ऽसौ ब्राह्मणस् त्वरितं राज्ञः सकाशम् उपसंक्रान्तः । उपसंक्रम्य जयेनायुषा च वर्धयित्वा राजानम् उवाच । देव मया यवाः प्रकीर्णास् ते सौवर्णाः संवृत्ताः । तत्राधिष्ठायिकेन प्रसादः क्रियताम् इति । राज्ञा अधिष्ठायिको ऽनुप्रेषितः । ब्राह्मणेन राशीकृत्वा भाजिताः । राजभागः स्वाभाविका यवाः संवृत्ताः । अधिष्ठायिकेन राज्ञे निवेदितम्* । राज्ञा समादिष्टम्* । पुनर् भाजयत इति । पुनर् भाजितम्* । तथैव राजभागः स्वाभाविका यवाः संवृत्ताः । एवं यावत् सप्तकृत्वो भाजितम्* । तथैव राजा कुतूहलजातः स्वयम् एव गतः पश्यति । तथैव तेनासौ ब्राह्मणो ऽभिहितः । ब्राह्मण तवैतत् पुण्यनिर्जातम्* । अलं राजभागे न । यत् तवाभिप्रेतं तन् ममानुप्रयच्छेति ( म्स्व् इ 71 ) । ततस् तेन ब्राह्मणेन परितुष्टेन यद् दत्तं ते सौवर्णयवाः संवृत्ताः ।
ततो भगवान् संप्रस्थितो यावद् अन्यतमस्मिन् प्रदेशे पंच कार्षिकशतान्य् उत्पाण्डोत्पाण्डुकानि स्फुटितपाणिपादानि शणशाटीनिवासितानि लाङ्गलानि वाहयन्ति । ते ऽपि बलीवर्दा व्रणपूयोत्कीर्णैः प्रतोदयष्टिभिः क्षतविक्षतगात्रा मुहुर्मुर्हुर् विश्वसन्तो वहन्ति । ददृशुस् ते कार्षिका बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः पूर्ववद् यावद् उपचितकुशलमूलय सत्वस्य तत्प्रथमतो बुद्धदर्शनम्* । ततो येन भगवांस् तेनोपसंक्रान्ताः । अद्राक्षीद् भगवांस् तान् कार्षिकान्* । दूराद् एव दृष्ट्वा च पुनर् विनयापेक्षया मार्गाद् अपक्रम्य पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः । अथ ते कार्षिका भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णाः । ततो भगवता तेषां कार्षिकाणाम् आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चातुरार्यासत्यसंप्रतिवेधिकी धर्मदेशना कृता पूर्ववद् यावद् अनाद्यकालोपचितं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतापत्तिफलं साक्षात्कृतम्* । ते दृष्टिसत्या येन भगवांस् तेनाञ्जलिं ( fओल्. 160व्1 = ग्ब्म् 6.989 ) प्रणम्य भगवन्तम् इदम् अवोचत्* । लभेम वयं भदन्त स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुभावं चरेम वयं भगवतो ऽन्तिके ब्रह्मचर्यम् इति । ते भगवता एहिभिक्षुकया प्रव्राजिताः पूर्ववद् यावन् नैव स्थिता {म्स्: यावन् नेपछिता ; च्f. नेपच्छिता -> प्रव्र्-व् इइइ, fओल्. 47र्6} बुद्धमनोरथेन । तेषां भगवता अववादो दत्तः । ते व्यायच्छमानैः पूर्ववद् यावद् अभिवाद्याश् च संवृत्ताः ।
ते बलीवर्दा योक्त्राणि वरत्राणि च्छित्वा येन भगवांस् तेनोपसंक्रान्ताः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा समन्तकेन परिवार्यावस्थिताः । तेषां भगवता त्रिभिः पदैर् धर्मो देशितः । पूर्ववद् यावद् यथा गंगावतारे हंसमत्स्यकूर्माणां यावद् दृष्टसत्याः स्वभवनं गताः ।
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः । किं भदन्त एभिः कार्षिकपूर्वकैः भिक्षुभिः कर्म कृतं येन कार्षिकाः संवृत्ता भगवतश् च शासने प्रव्रज्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । तैर् बलीवर्दपूर्वकैर् देवपुत्रैः किं कर्म कृतं येन बलीवर्देषूपपन्नाः सत्यदर्शनं च कृतम् इति । भगवान् आह । एभिर् एव भिक्षवः कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि पूर्ववद् यावत् फलन्ति देहिनां* ।
भूतपूर्वं भिक्षवो ऽस्मिन्न् एव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां कश्यपो नाम शास्ता लोके उदपादि । पूर्ववद् यावत् स वाराणसीं नगरीम् उपनिशृत्य विहरति ऋषिवदने मृगदावे । तस्य शासने एतानि पंच कार्षिकशतानि प्रव्रजितान्य् अभूवन्* । तत्र एभिर् न पठितं न स्वाध्यायितं न मनसिकारो वाहितः किन् तु श्रद्धादेयं भुक्त्वा भुक्त्वा संगणिकाभिरतैः कौसीद्येनातिनामितम्* ।
किं मन्यध्वे भिक्षवो यानि तानि पंच भिक्षुशतानि एतानि पंच कार्षिकशतानि । यो ऽसौ विहारस्वामी स एवासौ ( म्स्व् इ 73 ) गृहपतिः । यद् एते कार्षिका यद् एभिर् विहारस्वामिसन्तकं श्रद्धादेयं परिभुज्य न पठितं न स्वाध्यायितं नापि मनसिकारो वाहितः किन् तु संगणिकाभिरतैः कौसीद्येनातिनामितं तेन कर्मणा पंच जन्मशतानि तस्य विहारस्वामिनः कार्षिकाः संवृत्ताः । यावद् एतर्ह्य् अपि तस्यैव कार्षिका जाताः । यद् एभिः काश्यपस्य सम्यक्संबुद्धस्य शासने प्रव्रज्य ब्रह्मचर्यं चरितं तेनैतर्हि मम शासने प्रव्रज्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* ।
ते ऽपि बलीवर्दपूर्विणो देवपुत्राः काश्यपस्यैव सम्यक्संबुद्धस्य शासने प्रव्रजिता आसंस् तत्रैव क्षुद्रानुक्षुद्राणि शिक्षापदानि खण्डितानि । तेन कर्मणो विपाकेन बलीवर्देषूपपन्नाः । यन् ममान्तिके चित्तम् अभिप्रसादितं तेन देवेषूपपन्नाः । यत् कास्यपे सम्यक्संबुद्दे ब्रह्मचर्यं चीर्णं प्रतिपालितं तेनेदानीं देवपुत्रभूतैः ( fओल्. 161र्1 = ग्ब्म् 6.990 ) सत्यदर्शनं कृतम्* । इति हि भिक्षवः एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः पूर्ववद् यावद् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम् इदम् अवोचत्* ।

तत्र भगवान् आयुष्मन्तम् आनन्दम् आमंत्रयते । आगमयानन्द येन तोयिका । एवं भदन्तेत्य् आयुष्मान् आनन्दो भगवतः प्रत्यश्रौषीत्* । अथ भगवांस् तोयिकाम् अनुप्राप्तः । तस्मिंश् च प्रदेशे ब्राह्मणो लाङ्गलं वाहयति । अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता पुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यंजनैर् विराजितगात्रं व्यामप्रभालंकृतं ( म्स्व् इ 74 ) सूर्यसहस्रातिरेकप्रभं जंगमम् इव रत्नपर्वतं समन्ततो भद्रकम्* । स संलक्षयति । यदि भगवन्तं गौतमम् उपेत्याभिवादयिष्यामि कर्मपरिहानिर् मे भविष्यति । अथ नोपेत्याभिवादयिष्यामि पुण्यपरिहानिर् मे भविष्यति । को ऽसाव् उपायः स्याद् येन मे न कर्मपरिहानिः स्यान् नापि पुण्यपरिहानिर् इति । तस्य बुद्धिर् उत्पन्ना । अत्रस्थ एवाभिवादनं करोमि । एवं न कर्मपरिहानिर् भविष्यति नापि पुण्यपरिहानिर् इति । तेन यथागृहीतयैव प्रतोदयष्ट्या तत्रस्थेनैवाभिवादनं कृतम्* । अभिवादये बुद्धं भगवन्तम् इति ।
तत्र भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते । क्षूण आनन्द एष ब्राह्मणः । अनेनोपक्रम्यास्मिन् प्रदेशे अभिवादने कृते सति प्रत्यात्मं ज्ञानदर्शनं प्रवर्तते । एतस्मिण् प्रदेशे काश्यपस्य सम्यक्संबुद्धस्याविकोपितो ऽस्थिसंघातस् तिष्ठतीति । अहम् अनेनोपक्रम्य वन्दितो भवेयम्* । एवम् अनेन द्वाभ्यां सम्यक्संबुद्धाभ्यां वन्दना कृता भवेत्* । तत् कस्य हेतोः । अस्मिन्न् आनन्द प्रदेशे काश्यपस्य सम्यक्संबुद्धस्याविकोपितो ऽस्थिसंघातस् तिष्ठति । अथायुष्मान् आनन्दो लघु लघ्व् एव चतुर्गुणम् उत्तरासंगं प्रज्ञप्य भगवन्तम् इदम् अवोचत्* । निषीदतु भगवान् प्रज्ञप्त एवासने । एवम् अयं पृथिवीप्रदेशो द्वाभ्यां सम्यक्संबुद्धाभ्यां परिभुक्तो भविष्यति यच् च काश्यपेन सम्यक्संबुद्धेन यच् चैतर्हि भगवतेति । निषण्णो भगवान् प्रज्ञप्त एवासने ( म्स्व् इ 75 ) । निषद्य भगवान् भिक्षून् आमन्त्रयते स्म । इच्छथ यूयं भिक्षवः काश्यपस्य सम्यक्संबुद्धस्य शरीरसंघातम् अविकोपितं द्रष्टुम्* । एतस्य भगवन् काल एतस्य सुगत समयो यद् भगवान् भिक्षूणां काश्यपस्य सम्यक्संबुद्धस्याविकोपितं शरीरसंघातम् उपदर्शयेत्* । दृष्ट्वा भिक्षवश् चित्तम् अभिप्रसादयिष्यन्ति । भगवता लौकिकं चित्तम् उत्पादितम् इति । पश्यन्ति भगवतः काश्यपस्य सम्यक्संबुद्धस्य शरीरसंघातम् अविकोपितं द्रष्टुकामाः {तिब्. अद्द्स् धर्मता खलु एत्च्., च्f. दिव्य् 63.11.} । ततस् तेन काश्यपस्य सम्यक्संबुद्धस्याविकोपितः शरीरसंघात उच्छ्रापितः । तत्र भगवान् भिक्षून् आमन्त्रयते स्म । उद्गृह्णीत भिक्षवो निमित्तम्* । अन्तर्धास्यतीत्य् अन्तर्हितम्* ।
राज्ञा प्रसेनजिता श्रुतम्* । भगवता श्रावकाणां दर्शनायाविकोपितः काश्यपस्य सम्य क्संबुद्धस्य ( fओल्. 161व्1 = ग्ब्म् 6.991 ) शरीरसंघात उच्छ्रापित इति । श्रुत्वा च पुनः कुतूहलजातः सार्धम् अन्तःपुरकुमारैर् अमात्यैर् भटबलाग्रेण नैगमजानपदैश् च संप्रस्थितः । एवं विरूढको ऽनाथपिण्डदो गृहपतिः उषिदत्तः पुराणस्थपतिर् विशाखा मृगारमाता अनेकानि प्राणिशतसहस्राणि कुतूहलजातानि संप्रस्थितानि कैश्चित् पूर्वकैः कुशलमूलैः संचोद्यमानानि । यावद् असाव् अन्तर्हितः । तैः श्रुतम् अन्तर्हितो ऽसौ भगवतः काश्यपस्य सम्यक्संबुद्धस्य शरीरसंघात इति । श्रुत्वा च पुनस् तेषां दुःखदौर्मनस्यम् उत्पन्नं वृथास्माकम् आगमनम् इति ।
अन्यतमेन चोपासकेन स प्रदेशः प्रदक्षिणीकृतः । एवं च चेतसा चित्तम् अभिसंस्कृतम्* । अस्मान् मे पदाविहारात् कियत् पुण्यं ( म्स्व् इ 76 ) भविष्यतीति । अथ भगवांस् तस्य महाजनकायस्याविप्रतिसारसंजननार्थं तस्य चोपासकस्य चेतसा चित्तम् आज्ञाय गाथां भाषते ।
शतं सहस्राणि सुवर्णनिष्का जाम्बूनदा नास्य समा भवन्ति ।
यो बुद्धचैत्येषु प्रसन्नचित्तः पदाविहारं प्रकरोति विद्वान् ॥ इति ।
अन्यतमेनाप्य् उपासकेन तस्मिन् प्रदेशे मृत्तिकापिण्डो दत्तः । एवं चित्तम् अभिसंस्कृतम्* । पदाविहारस्य तावद् इयत् पुण्यम् आख्यातं भगवता । अस्य तु मृत्तिकापिण्डस्य कियत् पुण्यं भविष्यतीति । अथ भगवांस् तस्य चेतसा चित्तम् आज्ञाय गाथां भाषते ।
शतं सहस्राणि सुवर्णपिण्डा जाम्बूनदा नास्य समा भवन्ति ।
यो बुद्धचैत्येषु प्रसन्नचित्तः आरोपयेन् मृत्तिकापिण्डम् एकम्* ॥ इति ।
तच् छ्रुत्वानेकैः प्राणिशतसहस्रैर् मृत्तिकापिण्डसमारोपणं कृतम्* । अपरैस् तत्र मुक्तपुष्पाण्य् अभिक्षिप्तानि । एवं च चित्तम् अभिसंस्कृतम्* । पदाविहारस्य च मृत्तिकापिण्डस्य च इयत् पुण्यम् उक्तं भगवता । अस्माकं तु मुक्तपुष्पाणां कियत् पुण्यं भविष्यतीति । अथ भगवांस् तेषाम् अपि चेतसा चित्तम् आज्ञाय गाथां भाषते ।
शतं सहस्राणि सुवर्णपेटा जाम्बूनदा नास्य समा भवन्ति ।
यो बुद्धचैत्येषु प्रसन्नचित्त आरोपयेन् मुक्तपुष्पस्य राशिम्* ॥ इति ।
अपरैस् तत्र मालाविहारः कृतः । चित्तं चाभिसंस्कृतम्* । मुक्तपुष्पाणां भगवता इयत् पुण्य म् उक्तम्* । अस्माकं मालाविहारस्य ( म्स्व् इ 77 ) कियत् पुण्यं भविष्यतीति । अथ भगवांस् तेषाम् अपि चेतसा चित्तम् आज्ञाय गाथां भाषते ।

शतं सहस्राणि सुवर्णवाहा जाम्बूनदा नास्य समा भवन्ति ।
यो बुद्धचैत्येषु प्रसन्नचित्तो मालाविहारं प्रकरोति विद्वान्* ॥ इति ।
अपरैस् तत्र दीपमाला दत्ता । चित्तं चाभिसंस्कृतम्* । मालाविहारस्य भगवता इयत् पुण्यम् उक्तम्* । अस्माकं दीपदानस्य कियत् पुण्यं भविष्यतीति । अथ भगवांस् तेषाम् अपि चेतसा चित्तम् आज्ञाय गाथां भाषते ।
शतं सहस्राणि सुवर्णवाहा जाम्बूनदा नास्य समा भवन्ति ।
यो बुद्धचैत्येषु प्रसन्नचित्तः प्रदीपदानं प्रकरोति विद्वान्* ॥ इति ।
अपरैस् तत्र गन्धाभिषेको दत्तः । चित्तं चाभिसंस्कृतम्* ( fओल्. 162र्1 = ग्ब्म् 6.992 ) । प्रदीपदानस्य भगवता इयत् पुण्यम् उक्तम्* । अस्माकं गन्धाभिषेकस्य कियत् पुण्यं भविष्यतीति । अथ भगवांस् तेषाम् अपि चेतसा चित्तम् आज्ञाय गाथां भाषते ।
शतं सहस्राणि सुवर्णराशयो जाम्बूनदा नास्य समा भवन्ति ।
यो बुद्धचैत्येषु प्रसन्नचित्तो गन्धाभिषेकं प्रकरोति विद्वान्* ॥ इति ।
अपरैस् तत्र च्छत्रध्वजपताकारोपणं दत्तः । चित्तं चाभिसंस्कृतम्* । पदाविहारस्य मृत्पिण्डदानस्य मुक्तपुष्पाणां मालाविहारस्य प्रदीपदानस्य गन्धाभिषेकस्य चेयत् पुण्यम् उक्तं भगवता । अस्माकं छत्रध्वजपताकारोपणे कियत् पुण्यं भविष्यतीति । अथ भगवांस् तेषा म् अपि चेतसा चित्तम् आज्ञाय गाथां भाषते ।
शतं सहस्राणि सुवर्णपर्वता मेरोः समा नास्य समा भवन्ति ।
यो बुद्धचैत्येषु प्रसन्नचित्त आरोपयेच् छत्रध्वजापताकाः ॥
एषा हि दक्षिणा प्रोक्ता अप्रमेये तथागते ।
समुद्रकल्पे संबोधौ सार्थवाहे अनुत्तरे ॥ इति ।
तेषाम् एतद् अभवत्* परिनिर्वृतस्य तावद् भगवतः कारणम् इयत् पुण्य म् उक्तं भगवता । तिष्ठतः कियत् पुण्यं भविष्यतीति । अथ भगवांस् तेषाम् अपि चेतसा चित्तम् आज्ञाय गाथां भाषते ।
तिष्ठन्तं पूजयेद् यश् च यश् चापि परिनिर्वृतम्* ।
समं चित्तं प्रसाद्येह नास्ति पुण्यविशेषता ॥
एवं ह्य् अचिन्तिया बुद्धा बुद्धधर्मो ऽप्य् अचिन्तियः ।
अचिन्तिये प्रसन्नानां विपाको ऽपि अचिन्तियः ॥
तेषाम् अचिन्तियानाम् अप्रतिहतधर्मचक्रवर्तिनाम्* ।
सम्यक्संबुद्धानां नालं गुणपारम् अधिगन्तुम्* ॥ इति ।
ततो भगवता तस्य महाजनकायस्य तथाविधा धर्मदेशना कृता यां श्रुत्वा अनेकैः प्राणिशतसहस्रैर् महान् विशेषो ऽधिगतः । कैश्चिच् छ्रावकबोधौ चित्तान्य् उत्पादितानि कैश्चित् प्रत्येकायां बोधौ कैश्चिद् अनुत्तरायां सम्यक्संबोधौ । कैश्चिद् उष्मगतानि प्रतिलब्धानि कैश्चिन् मूर्धानः कैश्चित् सत्यानुलोम कैश्चित् क्षान्तयः । कैश्चित् स्रोतापत्तिफलं साक्षात्कृतं कैश्चित् सकृदागामिफलं कैश्चिद् अनागामिफलम्* । कैश्चित् प्रव्रज्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । यद्भूयसा सा पर्षद् बुद्धनिम्ना धर्मप्रवणा संघप्राग्भारा व्यवस्थापिता ( म्स्व् इ 79 ) । तत्र श्राद्धैर् ब्राह्मणगृहपतिभिस् तस्मिन् प्रदेशे महः स्थापितः । तोयिकामहस् तोयिकामह इति संज्ञा संवृत्ता ।
अथ भगवान् कोसलेषु जनपदे षु चारिकां चरन् श्रावस्तीम् अनुप्राप्तः । श्रावस्त्यां विहरति जेतवने अनाथपिण्डदस्यारामे । अश्रौषीद् अनाथपिण्डदो गृहपतिः भगवान् कोसलेषु जनपदेषु चारिकां चरन् श्रावस्तीम् अनुप्राप्तः श्रावस्त्यां विहरति जेतवने अस्माकम् एवारामे इति । श्रुत्वा च पुनर् येन भगवांस् तेनोपसंक्रान्तः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णः । एकान्तनिषण्णम् अनाथपिण्डदं गृहपतिं भगवान् धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति ( fओल्. 162व्1 = ग्ब्म् 6.993 ) पूर्ववद् यावत् संप्रहर्ष्य तूष्णीम्* । अथानाथपिण्डदो गृहपतिर् उत्थायासनात् पूर्ववद् येन भगवांस् तेनांजलिं प्रणम्य भगवन्तम् इदम् अवोचत्* । अधिवासयतु मे भगवान् श्वो ऽन्तर्गृहे भक्तेन सार्धं भिक्षुसंघेन इति । पूर्ववत् शुचि प्रणीतं खादनीयभोजनीयं समुदानीय काल्यम् एवोत्थायासनकानि प्रज्ञप्योदकमणीन् प्रतिष्ठाप्य भगवतो दूतेन कालम् आरोचयति । समयो भदन्त सज्जं भक्तं यस्येदानीं भगवान् कालं मन्यते इति । दौवारिकपुरुषम् आमंत्रयते । न तावद् भोः पुरुषान्यतीर्थ्यकानां प्रवेशो देयो यावद् बुद्धप्रमुखेन भिक्षुसंघेन न भुक्तम्* । ततः पश्चात् तीर्थ्यकेभ्यो दास्यामीति । एवम् आर्य इति दौवारिकः पुरुष अनाथपिण्ड दस्य गृहपतेः प्रत्यश्रौषीत्* । अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरम् आदाय भिक्षुगणपरिवृतो ( म्स्व् इ 80 ) भिक्षुसंघपुरस्कृतः पूर्ववद् यावद् धौतहस्तम् अपनीतपात्रं नीचतरम् आसनं गृहीत्वा भगवतः पुरस्तान् निषण्णो धर्मश्रवणाय ।
अथायुष्मान् महाकाश्यपो ऽन्यतमस्माद् आरण्यकाच् छयनासनाद् दीर्घकेशश्मश्रुलूहचीवरो जेतवनं गतः । स पश्यति जेतवनं शून्यम्* । तेनोपधिवारिकः पृष्टः । कुत्र बुद्धप्रमुखो भिक्षुसंघ इति । तेन समाख्यातम्* । अनाथपिण्डदेन गृहपतिनोपनिमंत्रित इति । स संलक्षयति । तत्रैव पिण्डपातं परिभोक्ष्यामि बुद्धप्रमुखं भिक्षुसंघं च पर्युपासिष्ये इति । सः अनाथपिण्डदस्य गृहपतेर् निवेशनं गतः । दौवारिकेणोक्तः । आर्य मा प्रवेक्ष्यसि । कस्यार्थाय । अनाथपिण्डदेन गृहपतिना आज्ञा दत्ता । मा तावत् तीर्थ्यानां प्रवेशं दास्यसि यावद् बुद्धप्रमुखेन भिक्षुसंघेन परिभुक्तम्* । ततः पश्चात् तीर्थ्यानां दास्यामीति । आयुष्मान् महाकाश्यपः संलक्षयति तस्य मे लाभाः सुलब्धा ये मां ब्राह्मणगृहपतयः श्रमणशाक्यपुत्रीय इति न जानते । गच्छामि कृपणजनस्यानुकम्पां करोमीति विदित्वा उद्यानं गतः । स संलक्षयति । अद्य मया कस्यानुग्रहः कर्तव्यः । यावद् अन्यतरा नगरावलम्बिका कुष्ठाभिभूता सरुजार्ता पक्वगात्रा भिक्षाम् अटति । स तस्याः सकाशम् उपसंक्रान्तः । तस्याश् च भिक्षायाम् आचामः संपन्नः । तया आयुष्मान् महाकाश्यपो दृष्टः कायप्रासादिकश् चित्तप्रासादिकश् च शान्तेनेर्यापथेन । सा संलक्षयति । नूनं मयैवंविधे दक्षिणीये कारा न कृता येन मे इयं समवस्था । यद्य् आर्यो महाकाश्यपो ममान्तिकाद् अनुकम्पा म् ( म्स्व् इ 81 ) उपा दायाचामं प्रतिगृह्णीयाद् अहम् अस्मै दद्याम् इति । तत आयुष्मता महाकाश्यपेन तस्याश् चेतसा चित्तम् आज्ञाय पात्रम् उपनामितम्* । यदि ते भगिनि परित्यक्तं तद् दीयताम् अस्मिन् पात्रे इति । ततस् तया चित्तम् अभिप्रसाद्य तस्मिन् पात्रे दत्तं मक्षिका च पतिता । सा ताम् अपनेतुम् आरब्धा । तस्यास् तस्मिन्न् आचामे अंगुलिः पतिता । सा संलक्षयति । किं चाप्य् आर्येण मम चित्तानुरक्षणया ( fओल्. 163र्1 = ग्ब्म् 6.994 ) न च्छोरितम्* । अपि तु न परिभोक्ष्यतीति । आयुष्मता महाकाश्यपेन तस्याश् चेतसा चित्तम् आज्ञाय तस्या एव समक्षम् अन्यतमं कुड्यमूलं निश्रित्य परिभुक्तम्*

। सा संलक्षयति । किं चाप्य् आर्येण मम चित्तानुरक्षणया परिभुक्तं नानेनाहारेणाहारकृत्यं करिष्यतीति । अथायुष्मान् महाकाश्यपस् तस्याश् चेतसा चित्तम् आज्ञाय तां नगरावलम्बिकाम् इदम् अवोचत्* । भगिनि प्रामोद्यम् उत्पादयाम्य् अहं त्वदीयेनाहारेण रात्रिंदिवसम् अतिनामयिष्यामीति । तस्या अतीवौद्विल्यम् उत्पन्नम्* । ममार्येण महाकाश्यपेन पिण्डपातः प्रतिपादितः प्रगृहीत इति आयुष्मति महाकाश्यपे चित्तम् अभिप्रसाद्य कालगता । तुषिते देवनिकाये उपपन्ना । सा शक्रेण देवेन्द्रेण दृष्टा आचामं प्रतिपादयन्ती कालं च कुर्वाणा नो तु दृष्टा कुत्रोपपन्ना इति । स नगरान् व्यवलोकयितुम् आरब्धो न पश्यति तिरश्चः प्रेतान् मनुष्यांश् च चातुर्महाराजिकान् देवान् त्रयस्त्रिंशान् न पश्यति । तथा ह्य् अधस्ताद् देवानां ज्ञानदर्शनं प्रवर्तते नोपरिष्टात्* । अथ शक्रो देवानाम् इन्द्रो येन भगवांस् तेनोपसंक्रान्तः । उपसंक्रम्य भगवन्तं गाथाभिगीतेन प्रश्नं पप्रच्छ ।
चरतः पिण्डपातं हि काश्यपस्य महात्मनः ।
कुत्रासौ मोदते नारी काश्यपस्याचामदायिका ॥
भगवान् आह ।
तुषिता नाम ते देवाः सर्वकामसमृद्धयः ।
तत्रासौ मोदते नारी काश्यपस्याचामदायिका ॥ इति ।
अथ शक्रस्य देवेन्द्रस्यैतद् अभवत्* । इमे तावन् मनुष्याः पुण्यानाम् अप्रत्यक्षदर्शिनो दानानि ददति पुण्यानि कुर्वन्ति अहं प्रत्यक्षदर्श्येव पुण्यानां स्वे पुण्यफले व्यवस्थितः । तस्माद् दानानि वा ददामि पुण्यानि वा करोमि । अयम् आर्यो महाकाश्यपो दीनानाथकृपणवनीपकानुकम्पी । यन्व् अहम् एनं पिण्डकेन प्रतिपादयेयम् इति विदित्वा कृपणवीथ्यां गृहं निर्मितवान्* । चीरचीरचीवरकं काकाभिनिलीनकं नातिपरमरूपं कुविन्दं चात्मानम् अभिनिर्माय उद्धूतशिरस्कः शणशाटीनिवासितः स्फुटितपाणिपादो वस्त्रं वयितुम् आरब्धः । शच्य् अपि देवकन्या कुविन्दभाववेषधारिणी तसरिकां कर्तुम् आरब्धा । पार्श्वे चास्य दिव्या सुधा सज्जीकृता तिष्ठति । अथायुष्मान् महाकाश्यपः कृपणानाथवनीपकजनानुकंपको ऽनुपूर्वेण तद् गृहम् अनुप्राप्तः । दुःखितको ऽयम् इति कृत्वा द्वारे स्थितेन पात्रं प्रसारितम्* । शक्रेण देवेन्द्रेण ( म्स्व् इ 83 ) दिव्यायाः सुधायाः पात्रं पूरितम्* । अथायुष्मतो महाकाश्यपस्यैतद् अभवत्* ।
दिव्यं चास्य सुधाभक्तम् अयं च गृहविस्तरः ।
सुविरुद्धम् इति ज्ञात्वा जातो मे ह्रदि संशयः ॥ इति ।
धर्मता ह्य् एषा । असमन्वाहृत्यार्हतां ज्ञानदर्शनं न प्रवर्तते । स समन्वाहर्तुं प्रवृत्तो यावत् पश्यति शक्रं देवेन्द्रम्* । स कथयति । कौशिक किं दुःखितजनस्यान्तरायं ( fओल्. 163व्1 = ग्ब्म् 6.995 ) करोषि । यस्य भगवता दीर्घरात्रानुगतो विचिकित्साकथंकथाशल्यः स मू ल आवृढो यथापि तत् तथागतेनार्हता सम्यक्संबुद्धेन । आर्य महाकाश्यप किं दुःखितजनस्या न्तरायं करोमि । इमे तावन् मनुष्या अप्रत्यक्षदर्शिनः पुण्यानां दानानि ददति पुण्यानि कुर्वन्ति । अहं प्रत्यक्षदर्श्येव पुण्यानि कथं दानानि न ददामि पुण्यानि वा न करोमि । ननु चोक्तं भगवता ।
करणीयानि पुण्यानि दुःखं ह्य् अकृतपुण्यतः ।
कृतपुण्या हि मोदन्ते अस्मिंल् लोके परत्र च ॥ इति ।
ततः प्रभृति आयुष्मान् महाकाश्यपः समन्वाहृत्य कुलानि पिण्डपातं प्रवेष्टुम् आरब्धः । अथ शक्रो देवेन्द्रो आकाशस्थ एवायुष्मतो महाकाश्यपस्य दिव्यायाः सुधायाः पात्रं पूरयति । आयुष्मान् अपि महाकाश्यपः पात्रम् अवाङ्मुखं करोत्य् अन्नं पानं ( म्स्व् इ 84 ) छोर्यते । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् आह । तस्माद् अनुजानामि पिण्डोपधानं धारयितव्यम् इति ।
सामन्तकेन शब्दो विसृतः । अमुकया नगरावलम्बिकया आर्यो महाकाश्यपः आचामेन प्रतिपादितः । सा च तुषिते देवनिकाये उपपन्ना । इति राज्ञा प्रसेनजिता कोसलेन श्रुतम्* । श्रुत्वा च पुनर् येन भगवांस् तेनोपसंक्रान्तः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णः । स एकान्तनिषण्णं राजानं प्रसेनजितं कोसलं भगवान् धर्म्यया कथया संदर्शयति । पूर्ववद् यावत् संप्रहर्ष्य तूष्णीम्* ।
अथ राजा प्रसेनजित् कोसलः उत्थायासनाद् एकांसम् उत्तरासंगं कृत्वा येन भगवांस् तेनाञ्जलिं प्रणम्य भगवन्तम् इदम् अवोचत्* । अधिवासयतु मे भगवान् आर्यमहाकाश्यपम् उद्दिश्य भक्तं सप्ताहेनेति । अधिवासयति भगवान् राज्ञः प्रसेनजितः कोसलस्य तूष्णींभावेन । अथ राजा प्रसेनजित् कोसलो भगवतस् तूष्णींभावेनाधिवासनां विदित्वा भगवतः पादौ शिरसा वन्दित्वा भगवतो ऽन्तिकात् प्रक्रान्तः । अथ राजा प्रसेनजित् कोसलस् ताम् एव रात्रिं शुचि प्रणीतं खादनीयभोजनीयं समुदानीय काल्यम् एवोत्थायासनकानि प्रज्ञप्योदकमणीन् प्रतिष्ठाप्य भगवतो दूतेन कालम् आरोचयति । पूर्ववद् यावत् स्वहस्तं सन्तर्पयति संप्रवारयति । अन्यतमश् च कोट्टमल्लको वृद्धान्ते चित्तम् अभिप्रसादयंस् तिष्ठति । अयं राजा प्रत्यक्षदर्श्येव पुण्यानां स्वे पुण्यफले प्रतितिष्ठो ऽतृप्त एव पुण्यैर् दानानि ददान्ति पुण्यानि करोति ।

अथ राजा प्रसेनजित् कोसलो ऽनेकपर्यायेण बुद्धप्रमुखं भिक्षुसंघं शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं सन्तर्प्य संप्रवार्य भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तम् अपनीतपात्रं नीचतरम् आसनं गृहीत्वा भगवतः पुरस्तान् निषण्णो धर्मश्रवणाय । ततो भगवताभिहितः । राजन् कस्य नाम्ना दक्षिणाम् आदिशामि ( fओल्. 164र्1 = ग्ब्म् 6.996 ) । किं तवाहोस्विद् येन तवान्तिकात् प्रभूततरं पुण्यं प्रसूतम् इति । राजा संलक्षयति । मम भगवान् पिण्डपातं परिभुंक्ते । को ऽन्यो ममान्तिकात् प्रभूततरं पुण्यं प्रसविष्यतीति विदित्वा कथयति । भगवन् येन ममान्तिकात् प्रभूततरं पुण्यं प्रसूतं तस्य भगवान् नाम्ना दक्षिणां आदिशत्व् इति । ततो भगवता कोट्टमल्लकस्य नाम्ना दक्शिणा आदिष्टा । एवं यावत् षड्दिवसान्* । षष्ठे दिवसे राजा करे कपोलं दत्वा चिन्तापरो व्यवस्थितः । मम भगवान् पिण्डपातं परिभुंक्ते । कोट्टमल्लस्य नाम्ना दक्षिणाम् आदिशतीति । सो ऽमात्यैर् दृष्टः । ते कथयन्ति । किमर्थं देव करे कपोलं दत्वा चिन्तापरो व्य्वस्थित इति । राजा कथयति । भवन्तः कथं न चिन्तापरस् तिष्ठामि । यत्रेदानीं भगवान् मम पिण्डपातं परिभुंक्ते कोट्टमल्लस्य नाम्ना दक्षिणाम् आदिशतीति । तत्रैको वृद्धामात्यः कथयति । अल्पोत्सुखो देव भवतु । वयं तथा करिष्यामो यथा श्वो भगवान् देवस्यैव नाम्ना दक्षिणाम् आदिशतीति । तेन पौरुषेयाणाम् आज्ञा दत्ता । श्वो भवद्भिः प्रणीततर आहारः कर्तव्यः प्रभूतश् च । एवं चारयितव्यः । उपार्धो भिक्षूणां पात्रे पतत्य् अर्धो भूमाव् इति । अमात्यैर् अपरस्मिन् दिवसे प्रभूतः आहारः सज्जितः प्रणीतश् च । ततः सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं परिवेषितुम् आरब्धाः । ( म्स्व् इ 86 ) उपार्धं भिक्षूणां पात्रे पातयन्त्य् उपार्धं भूमौ । ततः कोट्टमल्लकाः प्रधाविता भूमौ निपतितं गृह्णीम इति । ते परिवेषकैर् निवारिताः । ततः स कोट्टमल्लकः कथयति । यद्य् अस्य राज्ञः प्रभूतं संपत्स्वापतेयम् अस्ति । सन्त्य् अन्ये ऽप्य् अस्मद्विधा दुःखितका ये आकांक्षन्ते
। तेषां किमर्थं न दीयते । किम् अनेनापरिभोगं छोरितेनेति । तस्य कोट्टमल्लकस्य चित्तविक्षेपो जातः । न शक्तं तेन तथा चित्तं प्रसादयितुं यथा पूर्वम्* । ततो राजा बुद्धप्रमुखं भिक्षुसंघं भोजयित्वा न मम भगवान् नाम्ना दक्षिणाम् आदिसतीति विदित्वा दक्षिणाम् अश्रुत्वैव प्रदिष्टः । ततो भगवता राज्ञः प्रसेनजितः कोसलस्य नाम्ना एवं दक्षिणादिष्टा ।

हस्त्यश्वरथपत्तियायिनो भुंजानस्य पुरं सनैगमं पश्यसि ।
बलं हि रूक्षिकाया अलवणिकायाः कुल्मासपिण्डिकायाः ॥ इति ।
अथायुष्मान् आनन्दो भगवन्तम् अवोचत्* । बहुशो भदन्त भगवता राज्ञः प्रसेनजितः कोसलस्य निवेशने भुक्त्वा नाम्ना दक्षिणा आदिष्टा । नाभिजानामि कदाचिद् एवंविधां दक्षिणाम् आदिष्टपूर्वाम्* । भगवान् आह । इच्छसि त्वम् आनन्द राज्ञः प्रसेनजित्कोसलस्यालवणिकां कुल्मासपिण्डिकाम् आरभ्य कर्मप्लोतिं श्रोतुम्* । एतस्य भगवन् कालः एतस्य सुगत समयो यद् भगवान् राज्ञः प्रसेनजितः कोसलस्यालवणिकां कुल्मासपिण्डिकाम् आरभ्य कर्मप्लोतिं वर्णयेत्* । भगवतः श्रुत्वा भिक्षवो धारयिष्यन्तीति । तत्र भगवान् ( fओल्. 164व्1 = ग्ब्म् 6.997 ) भिक्षून् आमन्त्रयते स्म ।
भूतपूर्वं भिक्षवो ऽन्यतस्मिन् कर्वटके गृहपतिः प्रतिवसति । तेन सदृशात् कुलात् कलत्रम् आनीतम्* । स तया सार्धं क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातः । पूर्ववद् यावद् उन्नीतो वर्धितो महान् संवृत्तः । यावद् असौ गृहपतिः पत्नीम् आमन्त्रयते । भद्रे जातो ऽस्माकम् ऋणहरो धनहरश् चेति । गच्छामि पण्यम् आदाय देशान्तरम् इति । सा कथयत्य् आर्य एवं कुरुष्वेति । स पण्यम् आदाय देशान्तरं गतः । तत्रैव चानयेन व्यसनम् आपन्नो ऽल्पपरिच्छेदः सः । तस्य गृहे धनजातं परिक्षीणम्* । सो ऽस्य पुत्रो दुःखितो जातः । तस्य गृहपतेर् वयस्यकः । स तेनोक्तः । ममापि त्वं पुत्रः । मम क्षेत्रं प्रतिपालय । अहं तव भक्तेन योगोद्वहनं करोमीति । स तस्य क्षेत्रव्यापारं कर्तुम् आरब्धः । सो ऽप्य अस्य भक्तेन योगोद्वहनं करोति । यावद् अपरेण समयेन पर्व प्रत्युपस्थितम्* । तस्य दारकस्य माता संलक्षयति । अद्य गृहपतिपत्नी सुहृत्संबन्धिबान्धवश्रमणभोजने व्यग्रा भविष्यति । गच्छामि सानुकालं तस्य दारकस्य भक्तं नयामीति । सा सानुकालं गत्वा गृहपतिपत्न्या एतम् अर्थं निवेदयति । सा रुषिता कथयति । न तावच् छ्रमणब्राह्मणेभ्यो ददामि । ज्ञातीनां वा तावत् प्रेष्यस्य ददामि । अद्य तावत् तिष्ठतु । श्वो द्विगुणं दास्यामीति । ततस् तस्य दारकस्य माता संलक्षयति । मा दारको बुभुक्षितो भविष्यति । एताम् आत्मीयाम् अलवणिकां कुल्मासपिण्डिकां नयामीति । सा ताम् आदाय क्षेत्रं गता । पुत्रस्य विस्तरेण यद् गृहपत्न्याभिहितं तत् सर्वम् आख्याय कथयति । इयं मया आत्मीया अलवणिका कुल्मासपिण्डिका आनीता । ( म्स्व् इ 88 ) एतां परिभुंक्ष्वेति । स कथयति । स्थापयित्वा गच्छेति । सा स्थापित्वा प्रक्रान्ता । असति बुद्धानाम् उत्पादे प्रत्येकबुद्धा लोके उत्पद्यन्ते हीनदीनानुकंपकाः प्रान्तशयनासनभक्ता एकदक्षिणीया लोकस्य । यावद् अन्यतमः प्रत्येकबुद्धस् तं प्रदेशम् अनुप्राप्तः । स तेन दृष्टः । कायप्रासादिकश् चित्तप्रासादिकश् च शान्तेर्यापथवर्ती । स संलक्षयति । नूनं मयैवंविधे सद्भूतदक्षिणीये कारा न कृता । येन मे ईदृशी समवस्था
। यद्य् अयं ममान्तिकाद् अलवणिकां कुल्मासपिण्डिकां गृह्णीयाद् अहम् अस्मै दद्याम् इति । ततः प्रत्येकबुद्धस् तस्य दरिद्रपुरुषस्य चेतसा चित्तम् आज्ञाय पात्रं प्रसारितवान्* । सचेत् तव परित्यक्तं दीयताम् अस्मिन् पात्रे इति । ततस् तीव्रेण प्रसादेन सा अलवणिका कुल्मासपिण्डिका प्रत्येकबुद्धाय प्रतिपादिता ।
किं मन्यध्वे भिक्षवो यो ऽसौ दरिद्रपुरुषः एष एवासौ राजा प्रसेनजित् कोसलस् तेन कालेन तेन समयेन । यद् अनेन प्रत्येकबुद्धायालवणिका कुल्मासपिण्डिका प्रतिपादिता । तेन कर्मणा षट्कृत्वो देवेषु त्रयस्त्रिंशेषु राजैश्वर्याधिपत्यं ( fओल्. 165र्1 = ग्ब्म् 6.998 ) कारितवान्* । षट्कृत्वो ऽस्याम् एव श्रावस्त्यां राजा क्षत्रियो मूर्धाभिषिक्तस् तेनैव कर्मावशेषेण । एतर्ह्य् अपि राजा क्षत्रियो मूर्धाभिषिक्तः संवृत्तः । सो ऽस्य पिण्डको विपक्वः । विपाकं तम् अहं सन्धाय कथयामि ।
हस्त्यश्वरथपत्तियायिनो भुञ्जानस्य पुरं सनैगमं पश्यसि ।
बलं हि रूक्षिकाया अलवणिकायाः कुल्मासपिण्डिकायाः ॥ इति ।
सामन्तकेन शब्दो विसृतः । भगवता राज्ञः प्रसेनजितः कोसलस्यालवणिका कुल्मासपिण्डिकाम् आरभ्य कर्मप्लोतिर् व्याकृतेति ( म्स्व् इ 89 ) राज्ञा प्रसेनजित्कोसलेन श्रुतम्* । स येन भगवांस् तेनोपसंक्रान्तः । उप्संक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णः । एकान्तनिषण्णं राजानं प्रसेनजितं कोसलं भगवान् धर्म्यया कथया पूर्ववद् यावत् संप्रहर्ष्य तूष्णीम्* । अथ राजा प्रसेनजित् कोसल उत्थायासनाद् एकांसम् उत्तरासंगं कृत्वा भगवन्तम् इदम् अवोचत्* । अधिवासयतु मे भगवांस् त्रैमासीं चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सार्धं भिक्षुसंघेनेति । अधिवासयति भगवान् राज्ञः प्रसेनजित्कोसलस्य तूष्णींभावेन । ततो राज्ञा प्रसेनजिता कोसलेन बुद्धप्रमुखाय भिक्षुसंघाय त्रैमासीं शतरसं भोजनं दत्तम्* । एकैकश् च भिक्षुः शतसाहस्रकेण वस्त्रेणाच्छादितः । तैलस्य च कुम्भकोटिं समुदानीय दीपमालाम् अभ्युद्यतो दातुम्* । तत्र भक्ते पूजायां च महाकोलाहलो जातः । यावद् अन्यतमा नगरावलम्बिका अतीव दुःखिता । तया खण्डमल्लकेन भिक्षाम् अटन्त्या स उच्चशब्दो महाशब्दः श्रुतः । श्रुत्वा च पुनः पृच्छति । भवन्तः किम् एष उच्चशब्दो महाशब्द इति । अपरैः समाख्यातम्* । राज्ञा प्रसेनजिता कोसलेन बुद्धप्रमुखो भिक्षुसंघस् त्रैमासीं भोजितः । एकैकश् च भिक्षुः शतसहस्रमूल्येन वस्त्रेणाच्छादितः । तैलकुम्भकोटिं च समुदानीय दीपमालाम् अभ्युद्यतो दातुम् इति ।
ततस् तस्या नगरावलम्बिकाया एतद् अभवत्* । अयं राजा प्रसेनजित् कोसलः पुण्यैर् अतृप्तः अद्यत्वेन दानानि ददाति पुण्यानि ( म्स्व् इ 90 ) करोति । यन्व् अहम् अपि कुतश्चित् समुदानीय भगवतः प्रदीपं दद्याम् इति तया खण्डमल्लकेन तैलस्य स्तोकं याचित्वा प्रदीपः प्रज्वाल्य भगवतश् चंक्रमे दत्तः । पादयोश् च निपत्य प्रणिधानं कृतम्* । अनेनाहं कुशलमूलेन यथायं भगवान् शाक्यमुनिर् वर्षशतायुषि प्रजायां शास्ता लोके उत्पन्नः एवम् अहम् अपि वर्षशतायुषि शाक्यमुनिर् एव शास्ता भवेयम्* । यथा चास्य शारिपुत्रमौद्गल्यायनाव् अग्रयुगं भद्रयुगम् आनन्दो भिक्षुर् उपस्थायिकः शुद्धोदनः पिता महामाया माता कपिलवस्तु नगरं राहुलभद्रः कुमारः एवं ममापि शारिपुत्रमौद्गल्यायनाव् अग्रयुगं भद्रयुगं स्याद् आनन्दो भिक्षुर् उपस्थायिकः ( fओल्. 165व्1 = ग्ब्म् 6.999 ) शुद्धोदनः पिता माता महामाया कपिलवस्तु नगरं राहुलभद्रः कुमारः पुत्रः । यथा चायं भगवान् धातुविभागं कृत्वा परिनिर्वास्यति एवम् अहम् अपि धातुविभागं कृत्वा परिनिर्वापयेयम् इति ।

यावत् सर्वे ते दीपाः परिनिर्वाणाः स तया प्रज्वालितो दीपो ज्वलत्य् एव । धर्मता खलु बुद्धानां भगवतां न तावद् उपस्था पकः प्रतिसंलीयति यावन् न बुद्धा भगवन्तः प्रतिसंलीना इति । आयुष्मान् आनन्दः संलक्षयति । अस्थानम् अनवकाशो यद् बुद्धा भगवन्तः आलोकशय्यां कल्पयिष्यन्ति यन्व् अहं प्रदीपं निर्वापयेयम् ति । स हस्तेन निर्वापयितुम् आरब्धो न शक्नोति तत श् चीवरकर्णिकेन ततो व्यजनेन तथापि न शक्नोतीति । भगवान् आह । मा खेदम् आनन्दापत्स्यसे । यदि वैरंभा अपि वायवो वायेयुस् ते ऽपि न शक्नुयुर् निर्वापयितुं प्राग् एव हस्तचीवरकर्णिको व्यजनं वा । तथा ( म्स्व् इ 91 ) ह्य् अयं प्रदीपस् तया दारिकया महता चित्ताभिसंस्कारेण प्रज्वालितः । अपि त्व् आनन्द भविष्यत्य् असौ दारिका वर्षशतायुषि प्रजायां शाक्यमुनिर् नाम तथागतो ऽर्हत्सम्यक्संबुद्धः । शारिपुत्रमौद्गल्यायनौ तस्याग्रयुगं भद्रयुगम् आनन्दो भिक्षुर् उपस्थायिकः शुद्धोदनः पिता माता महामाया कपिलवस्तु नगरं राहुलभद्रः कुमारः पुत्रः । सापि धातुविभागं कृत्वा परिनिर्वास्यतीति ।
सामन्तकेन शब्दो विसृतः । अमुकया नगरावलम्बिकया भगवतश् चंक्रमे शिरसा प्रदीपो दत्तः । सा भगवतानुत्तरायां सम्यक्संबोधौ व्याकृता । इति श्रुत्वा श्राद्धैर् ब्राह्मणगृहपतिभिर् असाव् अनागतगुणापेक्षया सर्वोपकरणैः प्रवारिता ।
तथा रज्ञा प्रसेनजिता कोसलेन श्रुतम्* । ततो विस्मयजातस् तैलकुम्भसहस्रम् आदाय चित्रां प्रदीपमालां कृतवान्* । चतूरत्नमयं च प्रदीपं चंक्रमशिरसि प्रतिष्ठितवान्* । ततो भगवतः सकाशं गत्वा भगवन्तम् इदम् अवोचत्* । मया च भदन्त भगवान् आर्यमहाकाश्यपस्य पूजाधिकारेण भक्तसप्ताहेनोपनिमंत्रितः । तस्य मम भगवता अलवणिकां कुल्मासपिण्डिकाम् आरभ्य पूर्विका कर्मप्लोतिर् व्याकृता । पुनश् च मया भगवांस् त्रैमासीं सश्रावकसंघो भोजितः । एकैकश् च भिक्षुः शतसहस्रेण मूल्येन वस्त्रयुगेनाच्छादितस् तैलकुम्भकोटिं च समुदानीय प्रदीपमाला दत्ता । न चाहं भगवतानुत्तरायां सम्यक्संबोधौ व्याकृतः । साधु भगवान् ममाप्य् अनुत्तरायां सम्यक्संबोधौ व्याकुर्यात्* । कदास्विद् अहं लोकज्येष्ठः स्यां विनायक इति । भगवान् ( म्स्व् इ 92 ) आह । गम्भीरा महाराज अनुत्तरा सम्यक्संबोधिः । गम्भीरावभासा दुर्दृशा दुरवबोधा अतर्क्या अतर्क्यावचरा सूक्ष्मा निपुणा पण्डितविज्ञवेदनीया । सा न सुकरा त्वयैकेन दानेन समुपदानेतुं ( fओल्. 166र्1 = ग्ब्म् 6.1000 ) न दानशतेन न दानसहस्रेण न दानशतसहस्रेणापि तु महाराज त्वया अनुत्तरां सम्यक्संबोधिम् अभिप्रार्थयिता दातव्यान्य् एव दानानि कर्तव्यान्य् एव पुण्यानि सेवितव्यानि कल्याणमित्राणि भजितव्यानि पर्युपासितव्यानि । एवं त्वं भविष्यसि कदाचिल् लोकज्येष्ठो विनायक इति । एवम् उक्तो राजा प्रसेनजित् कोसलः प्रारोदीद् अश्रूणि वर्षयन्* । अथ राजा प्रसेनजित् कोशलश् चीवरकर्णकेनाश्रूण्य् उन्मृज्य भगवन्तम् इदम् अवोचत्* । अनुत्तरां भदन्त भगवता सम्यक्संबोधिं प्रार्हयिता कियन्ति दानानि दत्तानि पुण्यानि वा कृतानीति । भगवान् आह । तिष्ठन्तु तावन् महाराज ये ऽतीताः कल्पाः । यन् मयास्मिन्न् एव भद्रके कल्पे अनुत्तरां सम्यक्संबोधिं प्रार्थयिता दानानि दत्तानि पुण्यानि चानेकप्रकाराणि कृतानि तच् छृणुत साधु च सुष्ठु च मनसिकुरुत भाषिष्ये ।
भूतपुर्वं महाराजामितायुषि प्रजायाम् उपोषधो नाम राज बभूव । तस्य मूर्ध्नि पिटको जातः । मृदुः सुमृदुस् तद्यथा तूलपिचुर् वा कर्पासपिचुर् ( म्स्व् इ 93 ) वा परिपाकत्वात् स्फुटितः । कुमारो जातः । अभिरूपो दर्शनीयः प्रासादिको गौरः कनकवर्णश् छत्राकारशिराः प्रलम्बबाहुर् विस्तीर्णललाटः उच्चघोषः संगतभ्रुस् तुङ्गनासो द्वात्रिंशता महापुरुषलक्षणैः समलंकृतगात्रः । जातमात्रः कुमारो ऽन्तःपुरं प्रवेशितः । उपोषधस्य राज्ञो ऽशीतिः स्त्रीसहस्राणि कुमारं दृष्ट्वा प्रस्रुतानि । एकैका स्त्री कथयति मान्धाय मान्धाय इति । तस्य मान्धाता मान्धातेति संज्ञा संवृत्ता । अन्ये कथयन्ति । मूर्ध्ना जातस् तस्माद् भवतु कुमारस्य मूर्धात इति नाम । तत्र केचिन् मान्धातेति जानते केचिन् मूर्धात इति ।
विस्तरेण मान्धातृसूत्रं मध्यमागमे राजसंयुक्तकनिपाते ।
मान्धातुः कुमारस्य कुमारक्रीडायां क्रीडतः षट् शक्राश् च्युताः । एवं यौवराज्यं कारयतः षड् महाराज्यं कारयतः षड् जाम्बूद्वीपकान् जनपदान् समनुशासतः षट्* । सहचित्तोत्पादाच् चास्य रत्नवर्षं पतितं वस्त्रवर्षम्* । अन्तःपुरे हिरण्यवर्षम्* ।
तेन खलु समयेन वैशाल्यां दुर्मुखो नाम ऋषिः पंचाभिज्ञः । तस्याश्रमपदे नित्यं पक्षिणो ऽभिनिकूजन्ति । शब्दकण्टकानि ध्यानानि । स चित्तैकाग्रतां नासादयति । इति तेन पक्षिणां शापो दत्तः । शीर्यन्ताम् एषां पक्षा इति । ततो राज्ञा मान्धात्रा ( म्स्व् इ 94 ) श्रुतम्* । श्रुत्वा निष्कारुणिको ऽयम् ऋषिर् इति कृत्वा उक्तः । न तेन मद्विषये वस्तव्यम् इति । स संलक्षयति । अयं राजा चतुर्द्वीपेश्वरः क्व मया गन्तव्यम् इति । स सुमेरु परिषण्डं गत्वावस्थितः ।
एवम् अवरगोदानीयं समनुशासतः षट् शक्राश् च्युताः । पूर्वविदेहे षट्* । उत्तरकुरौ षट्* । निमिन्धरगिरौ स्थितस्य षट्* । एवं विनतके ऽश्वकर्णे सुदर्शने खदिरके ईषाधारे युगन्धरे च ।
अन्तरोद्दानम्* ।
निमिंधर ( fओल्. 166व्1 = ग्ब्म् 6.1001 ) इति विनतकः अश्वकर्णगिरिस् तथा ।
सुदर्शनः खदिरकः ईषाधारो युगन्धरः ॥
ततः सुमेरुमूर्धन्य् अभिरोहता तेन ऋशीणा भटबलाग्रं स्तम्भितम्* । दिवौकसो यक्षः पुरोजवो दृष्ट्वा गाथां भाषते ।
नियच्छ ब्राह्मण क्रोधं नैतत् सर्वत्र सिध्यति ।
मान्धाता नृपतिर् ह्य् एवं नैते वैशालका वकाः ॥ इति ।
राजा मान्धाता पृच्छति । केनैतद् भटबलाग्रं स्तम्भितम्* । देवर्षिणा । राजा पृच्छति । किं तेषाम् ऋषीणां प्रियम्* । देव जटाः । शीर्यन्ताम् एषां जटाः । मम च पुरोजवाः सन्तु । त त स् तेषां जटाः शीर्णाः । धनुर्बाणपाणयश् चाग्रतो धावितुम् आरब्धाः । स्त्रीरत्नेनाभिहितम्* ( म्स्व् इ 95 ) । देव ऋषयः एते तपस्विनः । किम् एभिः । मुच्यन्ताम् इति ।
राज्ञा मुक्ताः । तैः पुनर् अपि वीर्यम् आस्थाय पंचाभिज्ञाः साक्षात्कृताः ।

तथा नन्दोपनन्दो नागराजो मान्धातृबलं दृष्ट्वा असुरा ह्य् एते इति चतुरङ्गेन बलकायेन प्रत्युद्गतः । सैन्यदर्शनाद् एव भग्नः । देव करोटपाणयो यक्षा मायाधराः सदामत्ताश् च । सर्वे च नन्दोपनन्दादयो भग्ना येन चातुर्महाराजिका देवास् तेनोपसंक्रान्ताः । उपसंक्रम्य चातुर्महाराजिकान् देवान् इदम् अवोचत्* । यत् खलु मार्षा जानीध्वं महासैन्यं प्रत्युपस्थितम्* । सन्नह्यतां चतुरंगो बलकायः । वयं सर्वे भग्ना इति । तैः परिज्ञातम्* । ते कथयन्ति । भवन्तः अयं मान्धाता राजा चक्रवर्ती शक्रं देवेन्द्रं दर्शनाय गच्छति । पुण्यमहेशाख्यश् चायम्* । का शक्तिर् अस्माकम् अनेन सार्धं संग्रामयितुम्* । किन् तु अर्धं पाद्यं च गृहीत्वा प्रत्युद्गन्तव्यम् इति । ततश् चातुर्महाराजिका देवा अर्धं पाद्यं च गृहीत्वा च्छत्रध्वजपताकाभिर् विविधैश् च वाद्यैः प्रत्युद्गताः । ततो राजा मान्धाता चातुर्महाराजिकान् देवान् प्रतिसंमोद्य देवैः परिवृतो देवांस् त्रयस्त्रिंशान् गतः । शक्रेण च देवेन्द्रेणार्धासनेनोपनिमन्त्रितः । ततो ऽसुराश् चतुरङ्गं बलकायं सन्नह्य शक्रं देवेन्द्रम् अभिगताः । यक्षैः शक्रस्य देवेन्द्रस्यारोचितम्* । यत् खलु कौशिक जानीया असुराः पंच गुल्मकान् भङ्क्त्वा प्रत्युपस्थिताः । यत् ते कृत्यं करणीयं वा तत् कुरुष्वेति । ततः शक्रो देवेन्द्रः संप्रस्थितः । ( म्स्व् इ 96 ) राज्ञा मान्धात्राभिहितः । तिष्ठ अहम् एव गच्छामीति । शक्रः कथयति । एवं कुरुष्वेति । ततो राजा मान्धाता अष्टादशभिर् भटबलाग्रकोटीभिर् उपरि विहायसम् अभ्युद्गम्य गुणास्फालनं कृतवान्* । असुरा अष्टादश भटबलाग्रकोटीभिर् दृष्ट्वा अतिविभीषणं च शब्दं श्रुत्वा कर्णौ पिधाय निष्पलायिताः ।
ततो राज्ञो मान्धातुर् एतद् अभवत्* । अस्ति मे जम्बुद्वीपे द्वीपः ऋद्धश् च स्फीतश् च क्षेमश् च सुभिक्षश् चाकीर्णबहुजनमनुष्यश् च पूर्वविदेहः अवरगोदानीयः उत्तरकुरुश् च । यन्व् अहं देवानां च मनुष्याणां च राज्यैश्वर्याधिपत्यं कारयेयम् इति । सहचित्तोपादाद् राजा मान्धाता तस्य ऋद्धे परिहीने जम्बुद्वीपम् ( fओल्. 167र्1 = ग्ब्म् 6.1002 ) आगत्य खरम् आबाधितं प्रवेदितवान् गाथां च भाषते ।
न कार्षापणवर्षेण तृप्तिः कामेषु विद्यते ।
अल्पास्वादान् बहुदुःखान् कामान् विज्ञाय पण्डितः ।
अपि दिव्येषु कामेषु रतिं नैवाधिगच्छति ॥
तृष्णाक्षये रतो भवति सम्यक्संबुद्धश्रावकः ।
पर्वतो ऽपि सुवर्णस्य समो हिमवता भवेत्* ।
नालम् एकस्य तद् वित्तम् इति विद्वान् समाचरेत्* ॥
यः प्रेक्षते दुःखम् इतो निदानं कामेषु जातु स कथं रमेत ।
लोके हि शल्यम् उपधिं विदित्वा तस्यैव धीरो विनयाय शिक्षते ॥
ततः स राजा मान्धाता निरर्गलं यज्ञम् इष्ट्वा गाथां भाषते ।
अल्पकं जीवितं ज्ञात्वा सुकृच्छ्रं सांपरायिकम्* ।
करणीयानि पुण्यानि दुःखं ह्य् अकृतपुण्यतः ॥
तस्माद् धि पुण्यकामेन देयं दानं यथाविधि ।

कृतपुण्या हि मोदन्ते लोके ऽस्मिंश् च परत्र च ॥ इति ।
बगवान् आह । किं मन्यसे महाराज यो ऽसौ राजा मान्धाता अहम् एव स तेन कालेन तेन समयेन । यन् मया इत्थं सत्वहितं कृतं तेन नानुत्तरं ज्ञानम् अधिगतम्* । किं त्व् एतद् दानम् अनुत्तरायाः सम्यक्संबोधेर् हेतुमात्रकं संभारमात्रकम्* ।
पुनर् अपि महाराज यन् मया अनुत्तरां सम्यक्संबोधिं प्रार्थयिता सर्वहितं कृतं तच् छ्रूयताम्* ।
भूतपूर्वं महाराज महासुदर्शनो नाम राजाभूच् चक्रवर्ती सप्ततिरत्नैः समन्वागतश् चतसृभिश् च मानुषिकाभि रिद्धिभिः ।
विस्तरेण महासुदर्शनसूत्रे दीर्घागमे षट्सूत्रिकनिपाते ।
अथ महासुदर्शनो राजा धर्मप्रासादे पञ्च प्रत्येकबुद्धशतानि भोजयित्वा प्रत्येकं च दूष्ययुगेनाच्छादयित्वा गाथां भाषते ।
लब्ध्वा हि विपुलं भोगं न प्रमाद्येद् विचक्षणः ।
दद्यात् संपन्नशीलेभ्यो यत्र रिध्यन्ति दक्षिणाः ॥
एवं दत्वेह मेधावी श्राद्धो मुक्तेन चेतसा ।
अव्यावादसुखे लोके उपपद्येत पण्डितः ॥ इति ।
स्यात् खलु ते महाराज अन्यः स तेन कालेन तेन समयेन महासुदर्शनो नाम राजा चक्रवर्ती चतुर्द्वीपेश्वरः सप्ततिरत्नैः समन्वागतश् चतसृभिश् च मानुषिकाभि रिद्धिभिर् इति न खल्व् एवं द्रष्टव्यम्* । अपि त्व् अहम् एव स तेन कालेन तेन समयेन महासुदर्शनो नाम राजा चक्रवर्ती चतुर्द्वीपेश्वरः सप्ततिरत्नैः समन्वागतश् चतसृभिश् च मानुषिकाभि रिद्धिभिः । स्यात् खलु ते महाराज तेन मया दानेन वा दानसंविभागेनानुत्तरा सम्यक्संबोधिर् अधिगता इति न खल्व् एवं द्रष्टव्यम्* । अपि तु तद् दानम् अनुत्तरायाः सम्यक्संबोधेर् हेतुमात्रकं प्रत्ययमात्रकं संभारमात्रकम्* ।
पुनर् अपि महाराज यन् मया अनुत्तरां सम्यक्संबोधिं प्रार्थयता दानानि दत्तानि पुण्यानि च कृतानि तच् छ्रूयताम्* ।
भूतपूर्वं महाराज वेलामो नाम ब्राह्मणमहासालो ऽभूत्* । स इदम् एवंरूपं ब्राह्मणेभ्यो दानम् अदाच् ( fओल्. 167व्1 = ग्ब्म् 6.1003 ) चतुरशीतिनागसहस्राणां सुवर्णालंकाराणां सुवर्णध्वजानां हेमजालप्रतिच्छन्नानाम्* ।
विस्तरेण वेलामसूत्रे मध्यमागमे ब्राह्मणनिपाते ।
स एवं दानानि दत्वा गाथां भाषते ।
दानं दत्वा सुखी हि स्याद् दानं दत्वा विशारदः ।
दानेन पूज्यते साधु देवेषु मनुजेषु च ॥
तस्मात् संपत्तिकामेन दानं देयं विशारदैः ।
मोक्षम् आकांक्षता नित्यम् ऐश्वर्यं च सुरालयम्* ॥
स्यात् खलु ते महाराज अन्यः स तेन कालेन तेन समयेन वेलामो नाम ब्राह्मणमहासालो ऽभूत्* । न खल्व् एवं द्रष्टव्यम्* । अहम् एव स तेन कालेन तेन समयेन वेलामो नाम ब्राह्मणमहासालो ऽभूवम्* । मया तद् एवंविधं ब्राह्मणेभ्यो दानं दत्तम्* । स्यात् खलु ते महाराज तेन मया दानेन वा दानसंविभागेनानुत्तरा सम्यक्संबोधि र् अधि गतेति न खल्व् एवं द्रष्टव्यम्* । अपि तु तद् दानम् अनुत्तरायाः सम्यक्संबोधेर् हेतुमात्रकं प्रत्ययमात्रकं संभारमात्रकम्* ।
पुनर् अपि महाराज यन् मया अनुत्तरां सम्यक्संबोधिं प्रार्थयता दानानि दत्तानि पुण्यानि च कृतानि तच् छ्रूयताम्* ।
भूतपूर्वं महाराज शकुनो नाम राजाभूच् चक्रवर्ती चतुर्द्वीपेश्वरः सप्ततिरत्नैः समन्वागतश् चतसृभिश् च मानुषिकाभि रिद्धिभिः । शक्रस्य देवेन्द्रस्य सुहृद् वयस्यकः । तस्य राज्ञी न पुत्रो न दुहिता । स करे कपोलं दत्वा चिन्तापरो व्यवस्थितः । ईदृशे मम भोगैश्वर्ये न पुत्रो न दुहिता । ममात्ययाद् उद्दायादं कुलं भविष्यति । स शक्रेण देवेन्द्रेण दृष्टः । स कथयति । मार्ष कस्मात् त्वं करे कपोलं दत्वा चिन्तापरस् तिष्ठति । स कथयति । कौशिक ईदृशे मम महाभोगैश्वर्ये न पुत्रो न दुहिता । ममात्ययाद् उद्दायादं कुलं भविष्यति । स कथयति । मार्ष अहं ते ओषधिं प्रेषयिष्यामि । देव्यः पास्यन्ति । ततस् ते पुत्रा भविष्यन्ति दुहितरश् च । शक्रेण गन्धमादनात् पर्वताद् ओषधिर् आदाय तस्य राज्ञः प्रेषिता । राज्ञा अन्तःपुरस्यार्पिता । इमाम् ओषधीं पास्यथ । तस्य राज्ञः अग्रमहिषी शयितिका । ताभिस् ( म्स्व् इ 100 ) ताम् अनुत्थाप्यौषधिः पीता । सर्वास् ता आपन्नसत्वाः संवृत्ताः । ततः पश्चात् सा अग्रमहिषी व्युत्थिता । तया ता दृष्टा आपन्नसत्वाः । सा कथयति । किं युष्माभिः कृतं येनापन्नसत्वाः संवृत्ताः । ताः कथयन्ति । देवेनास्मभ्यम् ओषध्यः पानाय दत्ताः । किमर्थं यु ष्माभिर् अहं नोत्थापिता । अपि तु कतरेण भाजनेन ओषध्यः पीताः । कुशमोटकं बद्ध्वा । कुत्र ते कुशाः । इमे तिष्ठन्ति । तया कुशाः प्रक्ष्याल्य पीताः । साप्य् आपन्नसत्वा संवृत्ता । ता अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूताः । सर्वासां पुत्रा जाताः । तस्या अप्य् अग्रमहिष्याः पुत्रो जातो ऽष्टादशभिर् अवलक्षणैः समन्वागतः । सिंहवक्त्राकृतिमुखो महानग्नबलः । ( fओल्. 168र्1 = ग्ब्म् 6.1004 ) तस्य विस्तरेण जातस्य जातिमहं कृत्वा कुश इति नामधेयं व्यवस्थापितम्* । स राजा तं दृष्ट्वा विकोपं जनयते तान् अन्यांश् च पुत्रान् दृष्ट्वा प्रसादं प्रवेदयते । प्रातिसीमकोट्टराजानः कथयन्ति । भवन्तो वयम् अनेन महाशकुनिराज्ञा सर्वे अभि भूता गच्छामः । तं राज्यात् च्यवयामः । ते आगत्य चतुरंगबलकायेन

तस्य नगरं वेष्टयित्वावस्थिताः । राजा महाशकुनिर् न शक्नोति तैः सार्धं संग्रामयितुम्* । स द्वाराणि बद्ध्वा प्राकाराणि मापयित्वावस्थितः । कुशो मातुः सकाशं गत्वा कथयति । अम्ब कस्यार्थे द्वाराणि बद्धानि । एष तव पिता कोट्टराजभिः सार्धं न शक्नोति संग्रामयितुम्* । स एष द्वाराणि बद्ध्वावस्थितः । अम्ब अहम् एभिः सार्धं संग्रामं संग्रामयामि । मम राजा रथम् अनुप्रयच्छ तु । पुत्र त्वम् अस्यानिष्टो ( म्स्व् इ 101 ) द्वेष्यश् च । स एष तव किं रथं दास्यति । अम्ब गच्छ । गत्वा कथय । कुशः कुमार एभिः सार्धं संग्रामयिष्यति । रथम् अनुप्रयच्छ । तया गत्वा राजाभिहितः । देव कुमारः कथयति । अहम् एभिः सार्धं संग्रामयामि । रथम् अनुप्रयच्छ । तेन तस्य रथो ऽनुप्रदत्तः । स द्वौ तूणौ बद्ध्वा रथम् अधिरुह्य निर्गन्तुम् आरब्धः । शक्रो देवेन्द्रः संलक्षयति । इमे कोट्टराजानो बलवन्तः । को ऽयं कुशः कुमारो भद्रकल्पीयो बोधिसत्वः खेदम् आपत्स्यते । साहाय्यम् अस्य कल्पयितव्यम्* । तेन तस्य शंखचक्रगदानुप्रदत्ता । बोधिसत्व एभिस् त्वं जीविकां कल्पय । स द्वाराण्य् उद्धाट्य निर्गतः । स शंखम् आपूरयति । तदा शंखशब्देन सेना विद्रावयति । केचित् तेन शब्देन बधिरीभूताः । निष्पलायन्ति केचित् कर्णौ पिधाय । यदि चक्रं गदां क्षिपन्ति तद् रसातलं प्रविशति । ते न रणमध्यं गत्वा शंखम् आपूरितम्* । सर्वेषां कर्णानि स्फुटितानि । ते पुरुषराक्षसो ऽयम् इति कृत्वा निष्पलायिताः । स सर्वसामन्तविजयं कृत्वा पितुः सकाशम् आगतः । देव मया देशः प्रसाधितः । सर्वराजानो निर्जिताः । इति श्रुत्वा राजा महाशकुनिस् तुष्टः । स संलक्षयति । कुशः कुमारो बलवान् वीर्यसंपन्नः । कथम् अहम् अस्यान्तिके अप्रसादं प्रवेदयामि । स तस्यान्तिके प्रसादं प्रवेदयितुम् आरब्धः । तेन ते पुत्रा निवेशिताः । कुशस्यापि दारिकां याचितुम् आरब्धः । सर्वे ते कथयन्ति । दास्यामो दारिकां कुशवर्जम्* । अन्यतमेन राज्ञान्यतमस्य राज्ञो दुहिता याचिता । न तावद् उद्वाहः क्रियते । यावन् महाशकुनिराज्ञान्यस्य पुत्रस्यार्थे व्याजान्तरेण ( म्स्व् इ 102 ) सा
दारिका कुशस्यानुप्रदत्ता । नक्षत्रदिवसमुहूर्तदिवसं दृष्ट्वा च कुशः कुमारो निवेशितः । राजा कथयति । भवन्तो न के न चित् कुशस्यादर्शः समर्पयितव्यो नाप्य् अभिषेकपात्रेण स्नापयितव्यः । न च दिवान्तःपुरे प्रवेशे दातव्यः । कुशः कुमारो मातृभिः सार्धं क्रीडति । तया पत्न्या दृष्टः । सा कथयति । क एष पिशाचः कुमाराणां मध्ये ( fओल्. 168व्1 = ग्ब्म् 6.1005 ) क्रीडति । एष तव स्वामी भविष्यति । भूयो ऽपि तया कुमारैः सार्धं जलक्रीडनया क्रीडन् दृष्टः । यावत् तवैव स्वामी । कीदृशो मम स्वामी भविष्यति । सा संलक्षयति । प्रत्यक्षीकरिष्यामि । तया प्रदीपं प्रज्वाल्य कुण्डीरकेण प्रच्छाद्य स्थापितः । स चान्तःपुरं प्रविष्टः । तया च प्रदीपः प्रदर्शितः । यावत् पश्यति अष्टादशभिर् अवलक्षणैः समन्वागतो सिंहवक्त्राकृतिमुखश् च । सा कथयति पिशाचः पिशाच इति कृत्वा निष्पलायिता । राज्ञो महाशकुनिनो ऽन्यतमं कार्वटिकं व्युत्थितम्* । तेन कुशः कुमारः प्रेषितः । गच्छ का र्व टिकं सन्नामय । स तत्र गतः । कुशपत्न्या मातापित्रोः संदिष्टम्* । किं युष्माकं पृथिव्यां पुरुषा न सन्ति याहं युष्माभिः पिशाचस्यानुप्रदत्ता । यदि मम नयथेति एवं कुशलम्* । नोचेद् अहम् आत्मानं प्रघातयिष्ये । सा तैर् नीता । कुशो ऽपि कुमारस् तं कार्वटिकं निर्जित्यागतः । स मातरं पृच्छति । अम्ब कुत्र सा मम पत्नी । सा कथयति । मातापितृभ्यां नीता । कस्यार्थम्* । त्वं पिशाच इति कृत्वा । अम्ब गच्छामि ताम् आनयामि । पुत्रैवं कुरुष्व । स शंखचक्रगदाम् आदाय संप्रस्थितः । यावद् अन्यतमस्मिन् कर्वटके सिंहभयेन महाजनकाया द्वाराणि बद्ध्वा दिशो ऽनुव्यवलोकयन्तस् तिष्ठन्ति । ( म्स्व् इ 103 ) कुशः कुमारः कथयति । किम् एव तिष्ठथ । सिंहभयात्* । किं ना प्रघातय थ । न शक्नुमः । यद्य् अहं प्रघातयामि किं ममानुप्रयच्छथ । चतुरंगस्य बलकायस्यार्धम्* । कुशेन कुमारेण सिंहसमीपं गत्वा शंखः आपूरितः । तस्य कर्णौ स्फुटितौ । कालं गतः । स तं गृहीत्वा कर्वटकं
गतः । भवन्तः अयं स सिंहः । गृह्णन्तु चतुरंगस्य बलकायस्यार्धम्* । स कथयति । युष्माकम् एव हस्ते तिष्ठतु । प्रतिनिवृत्ततो दास्यथ । तस्य यस्मिन् कर्वटके सा पत्नी तं च कर्वटकं गतः । मालाकारसकाशम् उपसंक्रान्तः । कस् त्वम् ईदृशः । स कथयति । मालिकपुत्रः । किं तव नाम । वृजिक इति । कुशला भवन्ति बोधिसत्वास् तेषु तेषु शिल्पस्थानकर्मस्थानेषु । स शोभनां मालां ग्रथ्नाति । स मालिकस् तस्या दारिकायास् तां माला म्

अ नुप्रयच्छति । सा कथयति । न त्वं कदाचिद् ईदृशीं मालां ग्रथितपूर्वः । किम् अत्र कारणम्* । ममान्तेवासिना ग्रथितम्* । पश्यामि तवान्तेवासिनम्* । तेन स तत्र नीतस् तया दृष्टः । सा संलक्षयति । को ऽयं पिशाच आगतः । तया शाब्दः कृतः । पिशाचः पिशाच इति निष्कासितः । सूपकारसकाशं गतः । स कथयति । कस् त्वम् इति । अहं सूपकारपुत्रः । किंनामा त्वम्* । स्थालीसुगन्धो नाम । स शोभनं साधनपचनं करोति । स सूपकारस् तस्या दारिकायास् तं साधनपचनं समर्पयति । सा दारिका कथयति । भोः पुरुष शोभनसाधनपचनस्य को योगः । ममान्तेवासिना साधितम्* । ( म्स्व् इ 104 ) पश्यामि ( fओल्. 169र्1 = ग्ब्म् 6.1006 ) तवान्तेवासिनम्* । यावत् तत्रापि स निष्कासितः । वद्यसकाशं गतः । स कथयति । कस् त्वम्* । वैद्यपुत्रः । किंनामा त्वम्* । आत्रेयो नाम । तस्या दारिकायाः शिरोर्तिः प्रादुर्भूता । तां वैद्या न शक्नुवन्ति स्वस्थीकर्तुम्* । स वैद्यश् चिन्तापरो व्यवस्थितः । स कथयति । उपाध्याय किं चिन्तापरो भवसि । राजदुहित्र्या शिरोर्तिः । न शक्नुमः स्वस्थीकर्तुम्* । गच्छाम्य् अहं स्वस्थीकरोमि । स गतस् तया दृष्टः । सा संलक्षयति । को ऽयं पिशाच आगतः । भूयः संलक्षयति । यदि किंचिद् वक्ष्यामि न मे स्वस्थीकरिष्यति । यदाहं स्वस्थीभवेयं तदा निष्कासयिष्ये । सा तेन स्वस्थीकृता । तदा शब्दः कृतः पिशाचः पिशाच इति । स तया निष्कासितः । अमात्यसकाशं गतः । कस् त्वम्* । अहं सहस्रयोधी । तैस् तस्य संग्रहः कृतः । सा राजदुहिता येन लब्धपूर्वा तेन श्रुतम्* । या सा मम राजदुहिता लब्धपूर्वा सा कुशं कुमारं परित्यज्य स्वगृहं गता । तेन तस्य राज्ञः संदिष्टम्* । यदि तावन् मे दारिकाम् अनुप्रयच्छसीति एवं कुशलम्* । नो चेद् राज्याच् च्यावयिष्ये । स कथयति । एषा मम दुहिता राज्ञो महाशकुनेः पुत्रस्य कुशस्य कुमारस्य प्रदत्तिका । किम् इदानीम् अन्यस्मै दास्ये । स चतुरंगेण बलकायेनागत्य तस्य राजधानीं वेष्टयित्वावस्थितः । स राजा तेन सार्धं न शक्नोति संग्रामं संग्रामयितुम्* । स द्वाराणि बद्ध्वावस्थितः । कुशः कुमारो ऽमात्यान् आमंत्रयते
। कस्माद् भवन्तो द्वाराणि बद्धानि । तैस् तस्य विस्तरेणारोचितम्* । कुशः कुमारः कथयति । यदि मम राजा दुहितरम् अनुप्रयच्छति अहं तेन सार्धं संग्रामं संग्रामयिष्ये । तैः राज्ञ आरोचितम्* । स कथयति । एषा मया ( म्स्व् इ 105 ) दुहिता महाशकुनेः पुत्रस्य दत्तिका । कथम् अहम् अस्य दास्ये । अपि च दारिकार्थे ऽयं संरम्भः । अमात्याः कथयन्ति । देव ए ष ताव द् अ नेन सार्धं संग्रामं संग्रामयतु । न ज्ञायते कस्य जयो भविष्यति । तत्र वयं कालज्ञा भविष्यामः । कुशः कुमारः पंचशतिके द्वौ तूणौ बद्ध्वा शंखचक्रगदां च गृहीत्वा निर्गतः । तेन शंखम् आपूरितम्* । तेषां कर्णानि स्फुटितानि । निष्पलायिताः । सा राजदुहिता संलक्षयति । अयं कुशः कुमारो महावीर्यपराक्रमः । कथम् अहम् अस्यान्तिके अप्रसादं प्रवेदयिष्ये । सा तस्य प्रसादं प्रवेदितवती । राजानम् इदम् अवोचत्* । यथा प्रतिज्ञातं तत् कुरु । पुत्रि त्वं मया कुशस्यानुप्रदत्तिका । तात स एवायं कुशः कुमारः । पुत्रि यद्य् एवं गच्छ । तेन तस्य चतुरंगो बलकायो ऽनुप्रदत्तो महता सत्कारेण सानुप्रेषिता ।
स तं कर्वटकं गतः । स तेषां कथयति । भवन्तः अनुप्रयच्छत अस्माकं चतुरंगस्य बलकायस्यार्धम्* । ते कथयन्ति । कुमार चतुरंगो बलकायः उदकस्यौघसदृशं गतः । येन चतुरंगो बलकाय ऊढस् तत्र नातिदूरे एढकाश् चरन्ति । कुशः ( fओल्. 169व्1 = ग्ब्म् 6.1007 ) कुमारो गाथां भाषते ।
हस्तिनो यत्र उह्यन्ते कुंजराः षष्टिहायनाः ।
उपमानेन विज्ञेया ऊढास् तत्र गवेडकाः ॥
यदि तावद् अनुप्रयच्छथ इत्य् एवं कुशलम्* । नो चेद् अनुप्रयच्छथ महामर्यादाबन्धं करिष्यामि । तैस् तस्यानुप्रदत्तम्* ।
स नद्यास् तीरे वासम् उपगतः । स श्रान्तकायो नदीम् अवतीर्णः स्नानाय । तत्र स्वमुखबिम्बो दृष्टः । स संलक्षयति । अष्टादशाभिर् अवलक्षणैः समन्वागतः सिंहवक्त्राकृतिमुखश् च । अत एव इयं राजदुहिता ममान्तिके अप्रसादं प्रवेदयति । किम् ईदृशेन मम जीवितेन प्रयोजनम्* । गच्छाम्य् आत्मानं प्रघातयामि । सो ऽन्यतमं गहनं प्रविश्यात्मानम् उद्बन्धितुम् आरब्धः । शक्रो देवेन्द्रः संलक्षयति । अयं भद्रकल्पीयो बोधिसत्वो रूपशोभाविरहाद् आत्मानं प्रघातयति । पूरयितव्यो ऽस्य मनोरथः । शक्र कथय्ति । कुमार मा खेदम् आपत्स्यसे मा आत्मानं प्रघातय । इमं चूडामणिं शिरसि धारय पूर्णमनोरथो भविष्यसि । इत्य् उक्त्वा प्रक्रान्तः । कुशः कुमारो ऽन्तःपुरं प्रविशितुम् आरब्धः । दौवारिकेण पुरुषेण निवार्यते । कुशकुमारस्यायम् अन्तःपुरं मा प्रविश । स कथयति । स एवाहं कुशः । ते न श्रद्धधति । तेन चूडामणिर् अपनीतः । यथा पौराणः संवृत्तः । ते श्रद्धिताः । कुशः कुमारः संलक्षयति । इहैव तिष्ठामि । तेन पितुः संदिष्टम्* । तात अनुजानिष्व माम्* । इहैव तिष्ठामि । शक्रेण देवेन्द्रेणास्य चत्वारो धातुगोत्राः प्रदर्शिताः । तेन सा पुरी चतूरत्नमयीं कृत्वा प्रतिष्ठापिता । कुशेन कुमारेण वासितम् इति कुशावती कुशावतीति संज्ञा संवृत्ता । स राजा संवृत्तः । कुशो नाम बलचक्रवर्ती तेषु षष्टिषु नगरसहस्रेषु यज्ञवाटानि मापयित्वा बहूनि वर्षाणि बहूनि वर्षशतानि बहूनि वर्षसहस्राणि ( म्स्व् इ 107 ) बहूनि वर्षशतसहस्राणि ब्राह्मणेभ्यो दानम् अदात्* । स आत्मनो यज्ञसंपदं दृष्ट्वा गाथां भाषते ।
समृद्धिम् आत्मनो दृष्ट्वा देवेषु मनुजेषु च ।
को दानं न प्रयच्छेत संपत्तिर् येन लभ्यते ॥
प्रत्यूह्य यो ऽयं शतानि पुंसां मात्सर्यम् आक्रम्य सपत्नभूतम्* ।
ददाति दानं परलोकभीरुः शूरेष्व् असौ शूरतरो मतो मे ॥
न तं हि शूरं मुनयो वदन्ति यः शस्त्रपाणिर् विचरत्य् अनीके ।
दानं प्रयच्छन्ति विशारदा ये शूरांस् तु तान् सर्वविदो वदन्ति ॥
स्यात् खलु ते महाराजान्यः स तेन कालेन तेन समयेन कुशो नाम राजा बभूव बलचक्रवर्ती येन तत्षष्टिषु नगरसहस्रेषु दानानि दत्तानि पुण्यानि कृतानि । न खल्व् एवं द्रष्टव्यम्* । अपि त्व् अहम् एव तेन कालेन तेन समयेन कुशो नाम राजाभूवं बलचक्रवर्ती । मयैव तत्षष्टिषु नगरसहस्रेषु यज्ञवाटानि मापयित्वा दानानि दत्तानि पुण्यानि कृतानि । स्यात् खलु ते महाराज तेन मया दानेन वा ( fओल्. 170र्1 = ग्ब्म् 6.1008 ) दानसंविभागेन वानुत्तरा सम्यक्संबोधिर् अभिसंबुद्धेति । न खल्व् एवं द्रष्टव्यम्* । अपि त्व् अभून् मे तद्दानम् अनुत्तरायां सम्यक्संबोधौ हेतुमात्रकं प्रत्ययमात्रकं वा संभारमात्रकं वा ।

भिक्षवो बुद्धं भगवन्तं पृच्छन्ति । किं भदन्त कुशेन राज्ञा कर्म कृतं यस्य कर्मणो विपाकेनाष्टादशभिर् अवलक्षणैः समन्वागतः ( म्स्व् इ 108 ) आढ्ये महाधने महाभोगे कुले जातः । भगवान् आह । कुशेनैव भिक्षवः कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययान्य् ओघवत् प्रत्युपस्थितानि अवश्यंभावीनि । कुशेनैव भिक्षवः कर्माणि कृतान्य् उपचितानि को ऽन्यः प्रत्यनुभविष्यति । न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते नाब्धातौ न तेजोधातौ न वायुधातौ । अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च ।

न प्रणश्यन्ति कर्माणि अपि कल्पशतैर् अपि ।
सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥
भूतपूर्वं भिक्षवो ऽन्यतमस्मिन् कर्वटके गृहपतिः प्रतिवसति । स प्रभूतं खादनीयभोजनीयं गृहीत्वोद्यानं गतः । असति बुद्धानां भगवताम् उत्पादे प्रत्येकबुद्धा लोके उत्पद्यन्ते हीनदीनानुकंपकाः प्रान्तशयनासनभक्ता एकदक्षिणीया लोकस्य ।
अथान्यतमः प्रत्येकबुद्धो जनपदचारिकां चरंस् तद् उद्यानम् अनुप्राप्तः । तेन गृहपतिना दृष्टः । तेन पौरुषेयाणाम् आज्ञा दत्ता । भवन्तो निष्कासयतैनं प्रव्रजितम्* । ते नोत्सहन्ते निष्कासयितुम्* । तेन गृहपतिना स्वयम् एवोत्थाय गृहीत्वा निष्कासितः उक्तश् च । सिंहमुखाष्टादशभिर् अवलक्षणैः समन्वागतः कुत्र त्वं प्रविशसि । प्रत्येकबुद्धः संलक्षयति । मा हैवायं तप्येत अत्यन्तक्षतश् चोपहतश् चेति विदित्वोपरि विहायसम् इति विस्तरः ।
यावत् तेन सत्कृतो यावत् पादयोर् निपत्य प्रणिधानं कर्तुम् आरब्धः । यन् मया एवंविधे सद्भूतदक्षिणीये खरं वाक्कर्म निश्चारितं नाहम् अस्य ( म्स्व् इ 109 ) कर्मणो भागी स्याम्* । यत् तु काराः कृता अनेनाहं कुशलमूलेनाढ्ये महाधने महाभोगे कुले जायेय । किं मन्यध्वे भिक्षवो यो ऽसौ गृहपतिर् एष एवासौ कुशः । यद् अनेन प्रत्येकबुद्धस्यान्तिके खरं वाक्कर्म निश्चारितं तस्य कर्मणो विपाकेनाष्टादशभिर् अवलक्षणैः समन्वागतः सिंहवक्त्राकृतिमुखश् च संवृत्तः । यत् तु काराः कृतास् तस्य कर्मणो विपाकेन राजा संवृत्तो बलचक्रवर्ती । इति हि भिक्षवः एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः । व्यतिमिश्राणां व्यतिमिश्रः । एकान्तशुक्लानाम् एकान्तशुक्लः । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्* । एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च एकान्तशुक्लेष्व् एव कर्मस्व् आभोगाः करणीयः ।
पुनर् अपि महाराज यन् मयानुत्तरां सम्यक्संबोधिं प्रार्थयता दानानि दत्तानि पुण्यानि ( fओल्. 170व्1 = ग्ब्म् 6.1009 ) च कृतानि तच् छ्रूयताम्* । भूतपूर्वं महाराज कलिंगेषु त्रिशंकुर् नाम मतंगराजो ऽभूत्* । अनेकमतंगशतपरिवारो ऽनेकमतंगसहस्रपरिवारो ऽनेकमतंगशतसहस्रपरिवारो मैत्र्यात्मकः कारुणिकः सर्वसत्वहितानुकंपी । तस्य विषये यदा दुर्भिक्षं भवति तदा सत्योपयाचनेन देवो वऋषति । न कदाचिद् दुर्भिक्षं भवति । स ऋषिमध्ये प्रव्रजितः । तेन पंचाभिज्ञाः साक्षात्कृताः । तेन खलु समयेन वाराणस्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च । यावद् अपरेण समयेन नैमित्तिकैर् द्वादशवार्षिकी अनावृष्टिर् व्याकृता । ततो राज्ञा ब्रह्मदत्तेन वाराणस्यां नगर्यां घण्टावघोषणं ( म्स्व् इ 110 ) कारितम्* । शृण्वन्तु भवन्तो वाराणसीनिवासिनः पौराः । नैमित्तिकैर् द्वादशवार्षिकी अनावृष्टिर् व्याकृता । यस्य युष्माकम् इयन्तं कालम् अन्नम् अस्ति स तिष्ठतु । यस्य नास्ति स गच्छत्व् इति । ततः स जनकायो दुर्भिक्षकालमृत्युभयभीतः संजल्पं कर्तुम् आरब्धः । भवन्तो राज्ञा एवं विजिते ऽयं घण्टावघोषणं कारितम्* । कथं प्रतिपत्तव्यं कुत्र गच्छाम इति । तैः श्रुतं मतंगविषये मतंगजातीयः ऋषिः । अस्य सत्योपयाचनेन देवो वर्षतीति । ततो येषां द्वादशवार्षिकं भक्तं नास्ति ते मतंगविषयं गताः । मतंगजातीयः ऋषेः पुत्रो मतंगराजः । तेन तस्य जनकायस्य द्वादशवर्षाण्य् अन्नपानेन योगोद्वहनं कृतम्* । समनुबद्ध एव दुर्भिक्षः प्रादुर्भूतः । राज्ञा ब्रह्मदत्तेन अमात्याः पृष्टाः । कुत्रासौ जनकायो गत इति । अमात्याः कथयन्ति । देव कलिंगविषये त्रिशंकुर् नाम मतंगराजो मैत्र्यात्मकः कारुणिको महात्मा सर्वसत्वहितवत्सलः । तस्य सत्योपयाचनेन देवो वर्षति । तत्र महाजनकायो गतः । राजा कथयति । भवन्तो महादुर्भिक्षो ऽयं दुर्भिक्षान्तरकल्पसदृशः । कथम् अत्र प्रतिपत्तव्यम् इति । ते कथयन्ति । देव श्रूयते
यो ऽसौ मतंगविषये राजा ऋषिषु प्रव्रजितः सो ऽध्येषितव्य इति । ततो राजा ब्रह्मदत्तो मतंगविषयं गत्वा तम् ऋषिम् अध्येषितुम् आरब्धः । महर्षे मम विजिते महादुर्भिक्षं दुर्भिक्षान्तरकल्पसदृशम्* । तद् अर्हसि सत्योपयाचनं कर्तुम् इति । स सत्योपयाचनं कर्तुम् आरब्धः ।
श्वपाकानां कुले जातो मतंगो दुष्टहिंसकः ।
त्रिशंकुर् इति विख्यातो देवेषु मनुजेषु च ॥
येन मे सत्यवाक्येन मैत्रं चित् तं ( fओल्. 171र्1 = ग्ब्म् 6.1010 ) सुभावितम्* ।
अखिलं सर्वसत्वेषु नागेमास् तर्पय प्रजाः ।
जन्मप्रभृति यस्मान् मे मैत्रं चित्तं सुभावितम्* ।
अनेन सत्यवाक्येन नागेमास् तर्पय प्रजाः ॥
ततः सत्योपयाचनेन वाराणस्यां देवो वृष्टः । दुर्भिक्षं निवृत्तं सुभिक्षं प्रादुर्भूतम्* । ततो वाराणसीनिवासी जनकायो मतंगविषयाद् वाराणसीम् आगतः । स्यात् खलु ते महाराजान्यः स तेन कालेन तेन समयेन त्रिशंकुर् नाम मतंगराजो ऽभूत् मैत्र्यात्मकः कारुणिकः सर्वसत्वहितानुकंपी यस्य सत्योपयाचनेन देवो वृष्टः दुर्भिक्षं निवृत्तं सुभिक्षं प्रादुर्भूतम् इति । न खल्व् एवं द्रष्टव्यम्* । अपि त्व् अहम् एव स तेन कालेन तेन समयेन त्रिशंकुर् नाम मतंगराजो बभूव मैत्र्यात्मकः कारुणिकः सर्वसत्वहितानुकंपी यस्य सत्योपयाचनेन देवो वृष्टः । स्यात् खलु ते महाराज मया दानेन वा दानसंविभागेन वा अनुत्तरा सम्यक्संबोधिर् अधिगता । न खल्व् एवं द्रष्टव्यम्* । अपि त्व् अभूत् तद् दानम् अनुत्तरायां सम्यक्संबोधौ हेतुमात्रकं वा संभारमात्रकं वा ।
पुनर् अपि महाराज यन् मया अनुत्तरां सम्यकसंबोधिं प्रार्थयिता दानानि दत्तानि पुण्यानि कृतानि तच् छ्रूयताम्* । भूतपूर्वं महाराज मिथिलायां महादेवो नाम राजाभूच् चक्रवर्ती ।
विस्तरेण महादेवसूत्रे मध्यमागमे राजसंयुक्तकनिपाते ।
स आत्मनो यज्ञसंपदं द्र्ष्ट्वा गाथां भाषते च ।
ऐश्वर्यं प्रार्थमानेन देवेषु मनुजेषु वा ।
दानं देयं यथाशक्त्या दारिद्र्यभयभीरुणा ॥
लोके संपूज्यते दाता दाता देवेषु पूज्यते ।
शरण्यः सर्वभूतानां पक्षिणां वा फलद्रुमः ॥ इति ।

स्यात् खलु ते महाराजान्यः स तेन कालेन तेन समयेन महादेवो नाम राजा चक्रवर्ती येन तं नियतं कल्याणं धर्मं प्रवर्तितम्* । यन् नियतं कल्याणं वर्त्म प्रवृत्तम् आगम्य चतुरशीतिर् महादेवसहस्राणि राजर्षयो ब्रह्मचर्यम् अचार्षुर् इति । न खल्व् एवं द्रष्टव्यम्* । अहम् एव तेन कालेन तेन समयेन महादेवो नाम राजाभूवं चक्रवर्ती । मयैव तन् नियतं कल्याणं धर्मं प्रवर्तितम्* । यन् नियतं कल्याणं वर्त्म प्रवृत्तम् आगम्य चतुरशीतिर् महादेवसहस्राणि राजर्षयो ब्रह्मचर्यम् अचार्षुः । स्यात् खलु ते महाराज तेन मया दानेन वा दानसंविभागेन वा अनुत्तरा सम्यक्संबोधिर् अधिगतेति । न खल्व् एवं द्रष्टव्यम्* । अपि तु तद् दानम् अनुत्तरायाः सम्यक्संबोधेर् हेतुमात्रकं प्रत्ययमात्रकं संभारमात्रकम्* ।
पुनर् अपरं महाराज यन् मयानुत्तरां सम्यक्संबोधिम् अभिप्रार्थयिता दानानि दत्तानि पुण्यानि कृतानि तच् छ्रूयताम्* । भूतपूर्वं महाराज अस्याम् एव मिथिलायां तेषाम् अपश्चिमको निमिर् नाम राजाभूच् चक्रवर्ती ।
विस्तरेण निमिसूत्रे मध्यमागमे राजसंयुक्तकनिपाते ।
सो ऽप्य् आत्मनो यज्ञसंपदं दृष्ट्वा भाषते च ।
शुभकर्मकृतो दृष्ट्वा तथाप्य् अशुभकर्मणः ।
ये प्रमाद्यन्ति मनुजाः शोच्यास् ते पुरुषाधमाः ॥ इति ।
अथ शक्रो देवानाम् इन्द्रो निमिं राजानम् इदम् अवोचत्* । वस निमे रमस्व निमे इहैव पंचभिः कामगुणैः समन्वितः समन्वङ्गीभूतः क्रीड रम परिचारयेति । स गाथां भाषते ।
यथा याचितकं भाण्डं तावत् कालं रथी यथा ।
तथोपमम् इदं स्थानं परेषां वशवर्ति यत्* ॥
यतो ऽहं मिथिलां गत्वा करिष्ये कुशलं बहु ।
आगमिष्ये ततः स्वर्गं कृतपुण्यः कृतोदयः ॥ इति ।
स मिथिलाम् आगत्य दानानि दत्वा पुण्यानि कृत्वा गाथां भाषते ।
सन्तो दानं प्रशंसन्ति यदापत्सु प्रदीयते ।
क्षत्रिये ब्राह्मणे वैश्ये शूद्रे चण्डालपुक्कसे ॥
दानं दत्वा च दुर्भिक्षे तर्पयित्वा च सज्जनान्* ।
अपायान् वर्जयित्वेह स्वर्गलोके महीयते ॥
आनुशंसम् इमं ज्ञात्वा दानं देयं मनीषिभिः ।
दानात् संपद्यते मोक्षश् चैश्वर्यं च शुरालयः ॥ इति ।
स्यात् कलु ते महाराजान्यः स तेन कालेन तेन समयेन निमिर् नाम राजाभूच् चक्रवर्ती यो देवांस् त्रयस्त्रिंशान् गतः शक्रेण देवेन्द्रेणार्धासनेनोपनिमन्त्रितो दिव्यैश् च पंचभिः कामगुणैः समन्वितः ( म्स्व् इ 114 ) समन्वङ्गीभूतः क्रीडितवान्* । न खल्व् एवं द्रष्टव्यम्* । अहम् एव स तेन कालेन तेन समयेन । मयैव तानि मिथिलाम् आगत्य चतुर्षु नगरद्वारेषु यज्ञवाटानि मापयित्वा दानानि दत्तानि पुण्यानि कृतानि । स्यात् खलु ते महाराज तेन दानेन वा दानसंविभागेन वानुत्तरा सम्यक्संबोधिर् अधिगतेति । न खल्व् एवं द्रष्टव्यम्* । अपि तु तद् दानम् अनुत्तरायाः सम्यक्संबोधिर् हेतुमात्रकं प्रत्ययमात्रकं संभारमात्रकम्* ।

ततो ऽर्वाग् आनन्दो नाम राजाभूत् प्राभाव्यः । विस्तरेण यावत् तस्यैको द्वौ यावत् पंच पुत्रा जाताः । यो ऽसौ तस्य पश्चिमकः पुत्रस् तस्यादर्शप्रख्यं मुखम्* । तस्यादर्शमुख इति संज्ञा संवृत्ता । स उन्नीतो वर्धितो महान् संवृत्तः । आदर्शमुखः कुमारः सुरतः सुदान्तः । तद् अन्ये ते चण्डा रभसाः कर्कशाः । सर्वे ते पितुर् अर्थकरणे निषण्णा न किंचित् प्रज्ञया प्रतिविध्यन्ति । आदर्शमुखः कुमारो गम्भीरगम्भीरान् प्रश्नान् स्वप्रज्ञया नितीरयति । आनन्दो राजा ग्लानः संवृत्तः । स संलक्षयति । कं राजत्वे प्रतिष्ठापयामि । सचेद् अहं पूर्वकाणां चतुर्णां भ्रातॄणाम् अन्यतमान्यतमं राजत्वे प्रतिष्ठापयिष्यामि एते चण्डा रभसाः ककर्शा जनपदान् अनयेन व्यसनम् आपादयिष्यन्ति । सचेद् आदर्शमुखं कुमारं राज्ये प्रतिष्ठापयिष्यामि ज्ञातीनां गर्ह्यो भविष्यामि । कथम् इदानीम् अयं राजा ज्येष्ठपुत्रान् अपास्य कनीयांसं राज्ये प्रतिष्ठापयतीति । अपि तूपायसंविधानं कर्तव्यम्* । सो ऽमात्यान् आमन्त्रयते । हंत ग्रामण्यो ममात्ययाद् युष्माभिर् एकैकः कुमारः परीक्षितव्यः । यस्य मणिपादुकायुगं प्रावृतं ( fओल्. 172र्1 = ग्ब्म् 6.1012 ) तुल्यं भवति । ( म्स्व् इ 115 ) सिंहासनं निषण्णस्य निष्कम्पं तिष्ठते । मुकुटं च मूर्ध्नि उपनिबद्धं निश्चलं भवति । अन्तःपुरश् चाभ्युत्थानं कुरुते । षट् प्रज्ञाप्रतिवेदनीयानि ज्ञातव्यानि अन्तर् निधिर् बहि र् निधि र् अन्तर्बहिर् निधिः वृक्षाग्रे निधिः पर्वताग्रे निधि र् उदकान्ते निधिः । यस्य सर्वाण्य् एतानि समाभवन्ति स युष्माभिर् ममात्ययाद् राज्ये प्रतिष्ठापयितव्य इत्य् उक्त्वा सर्वक्षयान्ता निचयाः पतनान्ताः समुच्छ्रया इति यावत् कालगतः । तैर् अमात्यैर् ज्येष्ठस्य कुमारस्य मणिपादुकायुगं समर्पितम्* । समत्वं न कारयति । निषण्णस्य सिंहासनं प्रकम्पितम्* । मुकुटम् आबद्धं चलति । अन्तःपुरेणाप्य् अस्याभ्युत्थानं न कृतम्* । षट् प्रज्ञाप्रतिसंवेदनीयान्य् आरोचितानि । न जानाति न विजानाति । एवं त्रयाणां भ्रातॄणाम्* । आदर्शमुखस्य कुमारस्य मणिपादुकायुगं
समर्पितम्* । समं स्थितम्* । निषण्णस्य च सिंहासनं निष्कम्पं व्यवस्थितम्* । मुकुटम् आबद्धं मूर्ध्नि पूरयित्वा स्थितम्* । अन्तःपुरेण चास्याभ्युत्थानं कृतम्* । अमात्याः कथयन्ति । अस्यापि षट् प्रज्ञाप्रतिवेदनीयानि ज्ञातव्यानि अन्तर् निधिर् बहिर् निधिर् अन्तर्बहिर् निधिर् वृक्षाग्रे निधिः पर्वताग्रे निधिर् उदकान्ते निधिः । आदर्शमुखः संलक्षयति । अन्तर् निधिर् इति किम्* । अन्तर् निधिर् देहल्या अभ्यन्तरनिधिः । बहिर् निधिर् इति किम्* । बहिर् निधिर् देहल्या बहिर् निधिः । अन्तर्बहिर् निधिर् इति किम्* । अन्तर्बहिर् निधिर् देहल्या मध्ये निधिः । वृक्षाग्रे निधिर् इति किम्* । वृक्षस्याग्रे निधिः । तस्य राज्ञः संस्थानवृक्षस् तस्य मध्याह्ने यत्र छाया स्फुरित्वा तिष्ठति तत्र निधिः । पर्वताग्रे निधिः । तस्य राज्ञः क्रीडापुष्करिणी तत्र स्नानशिला तस्याधस्तान् निधिः । उदकस्यान्ते ( म्स्व् इ 116 ) निधिर् इति । यत्र गृहस्योदकं निर्गच्छति ग्रामान्ते निधिः । तैर् अमात्यैः सर्वाणि प्रत्यवेक्ष्याहृतानि । स तै राज्ये ऽभिषिक्तः । राजा संवृत्तः । आदर्शमुखो नाम राजा प्राभाव्यः ।
अन्यतमस्मिन् कर्वटके दण्डी नाम ब्राह्मणः प्रतिवसति । तेन गृहपतिसकाशाद् बलीवर्दान् याचित्वा दिवा वाहयित्वा तान् बलीवर्दान् आदाय तस्य गृहपतेर् निवेशनं गतः । यावत् स गृहपतिर् भुंक्ते । दण्डिना ते बलीवर्दाः प्रवेशिताः । अन्येन द्वारेण प्रक्रान्ताः । स गृहपतिर् भुक्त्वा व्युत्थितः । यावद् बलीवर्दान् न पश्यति । तेन दण्डी गृहीतः । कुत्र बलीवर्दाः । स कथयति । गृहं प्रवेशिताः । त्वया मम बलीवर्दा हारिताः । अनुप्रयच्छ मे बलीवर्दान्* । स कथयति नाहं हारयिष्ये । स कथयति । अयम् आदर्शमुखो राजा प्राज्ञस् तस्य सकाशं गच्छावः । स एतम् अर्थं नितीरयित्वा अस्माकं युक्तम् अयुक्तं वक्ष्यति । तौ संप्रस्थितौ ।
अन्यतमस्य पुरुषस्य निष्पलायते बडवा । तेन दण्डी उच्यते धारय मे एतां बडवाम्* । कथं धारयामि । यथा शक्नोषि । तेन पाषाणं गृहीत्वा शिरसि प्रहारो दत्तः । सा कालगता । स पुरुषः कथयति । त्वया मे बडवा प्रघातिता । प्रयच्छ मां बडवाम्* । ( fओल्. 172व्1 = ग्ब्म् 6.1013 ) कस्यार्थं बडवां ददामि । स कथयति । आगच्छादर्शमुखस्य राज्ञः सकाशं गच्छावः । सो ऽस्माकं व्यवहारं गोपयिष्यति । ते तत्र संप्रस्थिताः ।
स दण्डी निष्पलायितुम् आरब्धः । तेन प्राकारस्योपरिष्टाद् आत्मा मुक्तः । तस्याधस्तात् कुविन्दो वस्त्रं सूयमानस् तस्योपरि ( म्स्व् इ 117 ) पतितः । कुविन्दः प्रघातितः । दण्डी कुविन्दपत्न्या गृहीतः । त्वया मम स्वामी प्रघातितः । अनुप्रयच्छ मे स्वामिनम्* । कुतो ऽहं तव स्वामिनं ददामि । आगच्छादर्शमुखस्य राज्ञः सकाशं गच्छामः । सो ऽस्माकं संशयं छेत्स्यते । ते संप्रस्थिताः ।
अन्तर्मार्गे नदी गम्भीरा । तत्र तक्षाणो मुखेन वासीम् आदाय पारात् पारम् आगच्छति । स दण्डिना उच्यते । कियत् प्रभूतं पानीयम्* । स वासीं मुक्त्वा कथयति । गम्भीरम् उदकम्* । वासी उदके निपतिता । तेन स दण्डी गृहीतः । त्वया मम वासी उदके परिहारिता । नाहं हारयिष्ये । आगच्छादर्शमुखस्य सकाशं गच्छामः । सो ऽस्माकं संशयं छेत्स्यति ।
ते श्रान्तकायाः कल्लपाल्यापणं {दुत्त् कलपाल्यापणं ; च्f. कल्यपाल्या प्. 120.4} दण्डिनम् आदाय प्रविष्टाः । तस्याः कल्लपाल्याः {दुत्त् कलपाल्याः } पुत्रो जातः । स तया दारको वस्त्रेण प्रच्छाद्य शायापितको ऽभूत्* । दण्डी तत्र निषण्णः । स कथयति । दारको दारक इति । यावत् पश्यति प्रघातितः । स तया दण्डी गृहीतः । त्वया मम पुत्रः प्रघातितः । अनुप्रयच्छ मे पुत्रम्* । स कथयति । कुतो ऽहं तव पुत्रं दास्ये । नाहं प्रघातयिष्ये । सा कथयति । आगच्छादर्शमुखस्य राज्ञः सकाशं गच्छामः । ते संप्रस्थिताः ।
यावद् अन्यतस्मिन् प्रदेशे शाखोटकवृक्षे वायसस् तिष्ठति । तेन दण्डी दृष्ट उक्तश् च । क्व यास्यसि । नाहं यास्ये । एते मां नयन्ति । कुत्र । आदर्शमुखस्य सकाशम्* । मदीयम् अपि सन्देशं नय । वक्तव्यस् ते आदर्शमुखो राजा । अमुष्मिन् प्रदेशे शाखोटकवृक्षः । ( म्स्व् इ 118 ) तत्र वायसस् तिष्ठति । स कथयति । सन्त्य् अन्ये वृक्षा हरितस्निग्धपलाशाः । तत्राहं धृतिं न लभे । अत्र स्थितस्य मे स्वास्थ्यम्* । को योगः । ते संप्रस्थिताः ।
अद्राक्षीन् मृगो दण्डिनम्* । स कथयति । दण्डिन् क्व गच्छसि । नाहं गच्छामि । एते मां नयन्ति आदर्शमुखसकाशम्* । मदीयम् अपि सन्देशं नय । सन्त्य् अन्येषु स्थानेषु हरितशाद्वलानि तृणानि । ते मम न रोचन्ते । किं कारणम्* । ते संप्रस्थिताः ।

यावत् तित्तिरेण दृष्ट उक्तश् च । क्व यास्यसि । पूर्ववत्* । मदीयम् अपि सन्देशं नय । अहम् एकस्मिन् प्रदेशे तित्तिरेति वाशितं करोमि । अपरस्मिन् उतित्तिरेति । किम् अत्र कारणम्* ।
अपरस्मिन् प्रदेशे सर्पेण दृष्टः । पूर्ववन् ममापि सन्देशं नय । अहम् आशयात् सुखेन निर्गच्छामि दुःखेन प्रविशामि । किम् अत्र कारणम्* ।
अन्यस्मिन् प्रदेशे अहिनकुलौ परस्परविरुद्धौ कलिं कुर्वतः । पूर्ववद् यावद् अस्माकम् अपि सन्देशं नय । आवां दिवान्योन्यं कलिं कुर्वाणौ धृतिं न लभावः । किम् अत्र कारणम्* ।
अन्यतमा वधूकुमारी पूर्ववद् यावत् सा कथयति । ममापि सन्देशं नय । ( fओल्. 173र्1 = ग्ब्म् 6.1014 ) यदाहं पैतृके गृहे तिष्ठामि तदाहं श्वशुरगृहस्यार्थे उत्कण्ठामि । यदा श्वशुरगृहे तिष्ठामि तदा पैतृगृहे उत्कण्ठामि । किम् अत्र कारणम्* । ते संप्रस्थिताः ।
जयेन येनादर्शमुखो राजा तेनोपसंक्रान्ताः । उपसंक्रम्य दण्डी राजानं जयेनायुषा च वर्धयित्वा एकान्ते निषण्णः । ते ऽप्य् अमी पादौ शिरसा वन्दित्वैकान्ते निषण्णाः । राजा दण्डिनं पृच्छति । किम् आगतो ऽसि । देवानीतो ऽस्मीति । केन कारणेन । दण्डिना गृहपतिना सह विवादस् तत् सर्वम् आरोचितम्* ।
राजा गृहपतिं पृच्छति । दृष्टस् त्वया बलीवदः । दृष्टः । दण्डिन् त्वया बलीवर्दा प्रवेशिताः । देव प्रवेशिताः । राजा कथयति । अस्य दण्डिनो जिह्वां छिन्दत येन नारोचितम्* । अस्यापि नेत्रोद्धरणं कुरुत येन बलीवर्दा नोपनिबद्धाः । गृहपतिः कथयति । एकदा मे बलीवर्दा हृता अपरं नेत्रोद्धरणं क्रियते । दण्डिना जितं भवतु ।
स पुरुषः कथयति । देव अनेन दण्डिना मम बडवा प्रघातिता । यथाकथं तेन विस्तरेणारोचितम्* । राजा कथयति । अस्य पुरुषस्य जिह्वां छिन्दत येनोक्तं यथा शक्नोषि तथा वारयेति । अस्यापि दण्डिनो हस्तौ अर्धापयत येनान्येन शक्यं तां धारयितुं नान्यत्र शिलाप्रहारया । स पुरुषः कथयति । एकदा मे बडवा प्रघातिता द्वितीयं ये जिह्वाच्छेदः । दण्डिना जितं भवतु ।
कुविन्दपत्न्या विस्तरेणारोचितम्* । राजा कथयति । गच्छ एष एव ते भर्ता भवतु । सा कथयति । एकदा अनेन मम भर्ता प्रघातितो ऽपर एष मे स्वामी भविष्यति । दण्डिना जितं भवतु ।
वर्धकिना विस्तरेणारोचितम्* । राजा कथयति । अस्य तक्षाणस्य जिह्वां छिन्दत यो वासीं मुक्त्वोदकमध्ये वाचं निश्चारयति । ( म्स्व् इ 120 ) अस्यापि दण्डिनो नेत्रोद्धरणं कुरुत पश्यन्न् अपि गम्भीरम् उदकं तक्षाणं पृच्छति । तक्षाणः कथयति । एकदा मे वास्य् अपहृता द्वितीयो मे जिह्वाच्छेदः । दण्डिना जितं भवतु ।
कल्यपाल्या विस्तरेणारोचितम्* । राजा कथयति । अस्याः कल्यपाल्या हस्ताव् अर्धापयत यद् अन्या दारकः सर्वेण सर्वं प्रच्छाद्य शायितः । दण्डिनो ऽपि नेत्रोद्धरणं कुरुत यो ऽप्रत्यवेक्ष्य परकीये आसने निषेत्स्यति । सा कथयति । एकदा मे पुत्रः प्रघातितो द्वितीयो मे हस्तच्छेदः । दण्डिना जितं भवतु ।
दण्डिना काक सन्देशम् आरोचितम्* । राजा कथयति । दण्डिन् स काको वक्तव्यः । त्वम् आसीर् ग्रामराट्* । अत्र प्रदेशे शाखोटक आसीत्* । अस्मिंश् च शाखोटकवृक्षे निधानस् तिष्ठति । तं कस्यचिद् दत्वा गच्छा । स्वस्थो भविष्यसि ।
मृगसन्देशम् आरोचितम्* । स कथयति । मृगस् त्वया वक्तव्यः । अत्र वृक्षस्योपरिष्टान् मधुबिन्द्या निपतंत्या तृणशाद्वलानि मधुरीकृतानि तानि त्वया भक्षितानि । स च मधु प्रक्रान्तः । रसगृध्यां त्यज । मानयेन व्यसनम् आपत्स्यसे इति ।
तित्तिरिसन्देशम् ( fओल्. 173व्1 = ग्ब्म् 6.1015 ) आरोचितम्* । राजा कथयति । यत्र स तित्तिरि तित्तिरि वाशितं करोति स प्रदेशो निष्कांचनः । यत्रोतित्तिरेति तत्र निधानस् तिष्ठति । स तं निधानं कस्यचिद् आरोचयित्वान्यत्र गच्छ । मानयेन व्यसनम् आपत्स्यसि ।
अहिनकुलसन्देशम् आरोचितम्* । राजा कथयति । तौ वक्तव्यौ । युवां मनुष्यभूतौ द्वौ भ्रातरौ । तत्रैकः कथयति स्वापतेयं भाजयावः । द्वितीयेन मात्सर्याभिभूतेन न भाजितम्* । तत्रैको ऽध्यवसानं कृत्वा आशीविषेषूपपन्नः । द्वितीयो ऽपि स्वापतेयम् अवष्टभ्याध्यवसानं कृत्वा नकुलः संवृत्तः । तेन यूयम् एतत् स्वापतेयं श्रमणब्राह्मणेभ्यो दत्वा तस्मात् स्थानाद् अपक्रमत । स्वस्था भविष्यथ ।
सर्पस्य सन्देशम् आरोचितम्* । राजा कथयति । वक्तव्यस् ते स सर्पः । त्वं जिघत्सादौर्बल्यपरीत आशयान् निर्गच्छसि । मुखेन प्रभूतम् आहारं भुक्त्वा दुःखेनाशयं प्रविशसि । स त्वम् आहारे मात्रां जानीयाः । यथेष्टचारी सुखं विहरिष्यसि ।
वधूकुमार्याः सन्देशम् आरोचितम्* । राजा कथयति । वक्तव्या वधूकुमारी त्वया । तव पैतृके गृहे सप्रेमकस् तिष्ठति । सा त्वं यदा श्वशुरगृहे तिष्ठसि तदा सप्रेमकस्यार्थे उत्कण्ठयसि । यदा पैतृकगृहे तिष्ठसि तदा स्वामिनो ऽर्थे उत्कण्ठयसि । सा त्वम् एकं स्थानं परित्यज्य एकं सुगृहीतं कुरु । मानयेन व्यसनम् आपत्स्यसे ।
वधूकुमारी आशीविषश् च यथानुशिष्टः प्रतिपन्नः । अहिनकुलौ दण्डिनः स्वापतेयम् अनुप्रदत्तः । काकेनापि अवशिष्टा यथानुशिष्टाः प्रतिपन्नाः ।
अमात्याः कथयन्ति । अहो देवस्य ईदृशो ऽपि प्रतिभानः । राजा आत्तमनसा चतुर्षु नगरद्वारेषु दानशाला मापिता । दानाधिष्ठायिकाः पुरुषाः स्थापिताः ।
तेन खलु समयेन दुर्भिक्षम् अत्र द्वादशवार्षिकम्* । तेन द्वादशवार्षिके दुर्भिक्षे वर्तमाने अनेकेषां प्राणिशतसहस्राणां पिण्डकेन योगोद्वहनं कृतम्* । स आत्मनो यज्ञसम्पदं दृष्ट्वा गाथां भाषते ।
धनं हि लब्ध्वा धर्मेण न कुर्यात् संचयं बुधः ।
दद्यात् संपन्नशीलेषु दक्षिणीये षु दक्षिणाम्* ॥
श्रमणान् ब्राह्मणान् साधून् तर्पयित्वा वनीपकान्* ।
कायस्य भेदात् स तदा प्राज्ञो देवेषूपपद्यते ॥
एवं ज्ञात्वा तु मेधावी श्राद्धो मुक्तेन चेतसा ।
दानशूरान् प्रशंसन्ति दक्षिणीयेष्व् अमत्सराः ॥
स्यात् खलु ते महाराजान्यः स तेन कालेन तेन समयेनादर्शमुखो नाम राजा प्राभाव्यः । येन तद्द्वादशवार्षिके दुर्भिक्षे वर्तमाने अनेकेषां प्राणिशतसहस्राणां पिण्डकेन योगोद्वहनं कृतम्* । न खल्व् एवं द्रष्टव्यम्* । अपि त्व् अहम् एव तेन कालेन तेन समयेनादर्शमुखो नाम राजाभूवं प्राभाव्यः । मयैव द्वादशवार्षिके दुर्भिक्षे वर्तमाने अनेकेषां प्राणिशतसहस्राणां पिण्डकेन योगोद्वहनं कृतम्* । स्यात् खलु ते महाराज तेन मया दानेन वा दानसंविभागेन वानुत्तरा सम्यक्संबोधिर् अभिसंबुद्धेति । न खल्व् एवं द्रष्टव्यम्* । अपि तु मे तद् दानं हेतुमात्रकं प्रत्ययमात्रकं ( fओल्. 174र्1 = ग्ब्म् 6.1016 ) संभारमात्रकम्* ।

पुनर् अपि महाराज यन् मयानुत्तरां सम्यक्संबोधिं प्रार्थयिता दानानि दत्तानि पुण्यानि कृतानि तच् छ्रूयताम्* । भूतपूर्वं महाराज सुधनो नाम राजाभुच् चक्रवर्ती । तेन चतुरशीतिषु नगरसहस्रेषु यज्ञवाटानि मापयित्वा बहूनि वर्षाणि बहूनि वर्षशतानि बहूनि ( म्स्व् इ 123 ) वर्षसहस्राणि बहूनि वर्षशतसहस्राणि दानानि दत्तानि पुण्यानि कृतानि । स आत्मनो यज्ञसम्पदं दृष्ट्वा गाथां भाषते ।
समृद्धिम् आत्मनो दृष्ट्वा देवेषु मनुजेषु च ।
न प्रयच्छेद् धि को दानं संपत्तिर् येन लभ्यते ॥
प्रत्यूह्य यो ऽयं शतानि पुंसां मात्सर्यम् आक्रम्य सपत्नभूतम्* ।
ददाति दानं परलोकभीरुः शूरेष्व् असौ शूरतरो मतो मे ॥

न तं हि शूरं मुनयो वदन्ति यः शस्त्रपाणिर् विचरत्य् अनीके ।
दानं प्रयच्छन्ति विशारदा ये शूरांस् तु तान् सर्वविदो वदन्ति ॥
स्यात् खलु ते महाराजान्यः स तेन कालेन तेन समयेन राजाभूच् चक्रवर्ती येन तच् चतुरशीतिषु नगरसहस्रेषु यज्ञवाटं मापयित्वा बहूनि वर्षाणि बहूनि वर्षशतानि बहूनि वर्षशतसहस्राणि दानानि दत्तानि पुण्यानि कृतानि । न खल्व् एवं द्रष्टव्यम्* । अपि तु तद् दानं संबोधेर् हेतुमात्रकं प्रत्ययमात्रकं संभारमात्रकम्* ।
पुनर् अपि महाराज यन् मयानुत्तरां सम्यक्संबोधिं प्रार्थयिता दानानि दत्तानि पुण्यानि कृतानि वीर्यपारमिता च परिपूरिता न चानुत्तरा सम्यक्संबोधिर् अधिगतेति तच् छ्रूयताम्* । भूतपूर्वं महाराज पंचालविषये द्वौ राजानौ बभूवतुः । उत्तरपंचालो दक्षिणपंचालश् च ।
तत्रोत्तरपंचालो धनो नाम्ना हस्तिनापुरे नगरे राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं ( म्स्व् इ 124 ) च । प्रशान्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नम्* । धार्मिको धर्मराजा धर्मेण राज्यं कारयति । तस्मिंश् च नगरे महान् ह्रद उत्पलपद्मकुमुदपुण्डरीकसंच्छन्नो हंसकारण्डवचक्रवाकोपशोभितो रमणीयः । तत्र ह्रदे जन्मचित्रो नाम नागपोतः प्रतिवसति । स कालेन कालं सम्यग्वारिधाराम् अनुप्रयच्छतीति अतीव शस्यसंपत्तिर् भवति । शस्यवती वसुमती सुभिक्षान्नपानो देशः । दानमानसत्कारवांश् च लोकः श्रमणब्राह्मणकृपणवनीपकोपभोज्यः ।
दक्षिणपंचालस् तु राजा अधर्मभूयिष्ठश् चण्डो रभसः कर्कशः अधर्मेण राज्यं कारयति । नित्यं दण्डनताडनघातनधारणबन्धनहडिनिगडोपरोधैः राष्ट्रनिवासिनं त्रासयति । अधर्मभूयिष्ठतया चास्य देवो न कालेन कालं सम्यग्वारिधाराम् अनुप्रयच्छति । ततो ऽसौ जनकायः संत्रस्तः संवेगम् आपन्नः स्वजीवितापेक्षया राष्ट्रपरित्यागं कृत्वोत्तरपंचालस्य राज्ञो विषयं गत्वा प्रतिवसति । यावद् ( fओल्. 174व्1 = ग्ब्म् 6.1017 ) अपरेण समयेन दक्षिणपंचालो राजा मृगयाव्यपदेशेन जनपदान् व्यवलोकनाय निर्गतो यावत् पश्यति ग्रामनगराणि शून्यानि उद्यानदेवकुलानि भिन्नप्रभग्नानि । दृष्ट्वा च पुनर् अमात्यान् आमन्त्रयते । कस्माद् भवन्त इमानि ग्रामनगराणि शून्यानि उद्यानदेवकुलानि च भिन्नप्रभग्नानि । स जनकायः क्व गत इति । अमात्याः कथयन्ति । देव उत्तरपंचालस्य ( म्स्व् इ 125 ) राज्ञो धनस्य विषयं गताः । किमर्थम्* । देवाभयं प्रयच्छ कथयामः । दत्तं भवतु । ततस् ते कथयन्ति । देव उत्तरपंचालो राजा धर्मेण राज्यं कारयति । तस्य जनपदा ऋद्धाश् च स्फीताश् च क्षेमाश् च सुभिक्षाश् चाकीर्णबहुजनमनुष्याश् च प्रशान्तकलिकलहडिम्बडमरास् तस्कररोगापगताः । शालीक्षुगोमहिषीसंपन्नो दानमानसत्कारवांश् च लोकः । श्रमणब्राह्मणकृपणवनीपकोपभोज्यः । देवस् तु चण्डो रभसः कर्कशो नित्यं दण्डनताडनघातनधारणबन्धनहडिनिगडोपरोधैः राष्ट्रं त्रासयति यतो ऽसौ जनकायः संत्रस्तः संवेगम् आपन्नः उत्तरपंचालस्य राज्ञो विषयं गतः । दक्षिणपंचालो राज कथयति । भवन्तः को ऽसाव् उपायः स्याद् येनासौ जनकायः पुनर् आगत्यैषु ग्रामनगरेषु प्रतिवसेत्* । अमात्याः कथयन्ति । यदि देवः उत्तरपंचालराजवद् धर्मेण राज्यं कारयति मैत्रचित्तो हितचित्तो ऽनुकंपाचित्तः स्वराष्ट्रं पालयति नचिराद् असौ जनकायः पुनर् आगत्यैषु ग्रामनगरेषु प्रतिवसेत्* । दक्षिणपंचालो राजा कथयति । भवन्तो यद्य् एवम् अहम् अप्य् उत्तरपंचालवद् धर्मेण राज्यं कारयामि मैत्रचित्तो हितचित्तो ऽनुकम्पाचित्तः राष्ट्रं
परिपालयामि । यूयं तथा कुरुत यथासौ जनकायः पुनर् आगत्यैषु ग्रामनगरेषु प्रतिवसतीति । देवापरो ऽपि तत्रानुशंसो ऽस्ति । तस्मिन् नगरे महान् ह्रदः उत्पलकुमुदपुण्डरीकसंच्छन्नो हंसकारण्डवचक्रवाकोपशोभितः । तत्र जन्मचित्रो नागपोतः प्रतिवसति । स कलेन कालं सम्यग्वारिधाराम् अनुप्रयच्छति । अतीव शस्यसंपत्तिर् भवति । तेन तत्र शस्यवती वसुमती सुभिक्षान्नपानश् च देशः । को ऽसाव् उपायः स्याद् येनासौ ( म्स्व् इ 126 ) नागपोत इहानीयेत । देव विद्यामन्त्रधारिणस् तम् आनयन्ति । ते समन्विष्यन्ताम्* । ततो राज्ञा सुवर्णपिटकं ध्वजाग्रे बद्ध्वा सर्वविजिते घण्टावघोषणं कारितम्* । य उत्तरपंचालविषयाज् जन्मचित्रं नागपोतम् आनयेत् तस्येमं सुवर्णपिटकं दास्यामि महता च सत्कारेण सत्करिष्यामीति । यावद् अन्यतम आहितुण्डिकः अमात्यानां सकाशं गत्वा कथयति । ममैतत् सुवर्णपिटकम् अनुप्रयच्छत अहं जन्मचित्रं नागपोतम् अपहृत्यानयामीति । ( fओल्. 175र्1 = ग्ब्म् 6.1018 ) अमात्याः कथयन्ति । एष गृहाण । स कथयति । यो युष्माकं श्रद्धितः प्रत्ययितश् च तस्य हस्ते तिष्ठतु । आनीते जन्मचित्रे नागपोते ग्रहीष्यामीति । एवं कुरुष्वेति । ततो ऽसाव् आहितुण्डिकः प्रत्ययितस्य पुरुषस्य हस्ते सुवर्णपिटकं स्थापयित्वा हस्तिनापुरं नगरं गतः । ततस् तेनासौ ह्रदः समन्ततो व्यवलोकितः । निमित्तीकृतं चासौ जन्मचित्रो नागपोत एतस्मिन् देशे प्रतिष्ठतीति । ततो बल्युपहारनिमित्तं ततः पुनः प्रत्यागतः । अमात्यानां कथयति बल्युपहारं मे प्रयच्छत सप्तमे दिवसे तं नागपोतम् अपहृत्यानयामीति । स चाहितुण्डिकस् तेन संलक्षितो ममासाव् अपहरणायागतः । सप्तमे दिवसे माम् अपहरिष्यति । मातापितृवियोगजं महद् दुःखं भविष्यति । किं करोमि कं शरणं प्रपद्ये इति । तस्य च ह्रदस्य नातिदूरे द्वौ लुब्धकौ प्रतिवसतः सारकः फलकश् च । तौ तं ह्रदम् आश्रित्य जीविकां कल्पयतः । यः स्थलगतः प्राणिनो मृगशशशरभसूकरादयस् तद् ह्रदम् उपसर्पन्ति तान् प्रघातयति ये ऽपि जलगता मत्स्यकच्छपमण्डूकादयः । तत्र च सारकः कालगतः । ( म्स्व् इ 127 ) फलको जीवति

। जन्मचित्रो नागपोतः संलक्षयति । नान्यो ऽस्ति मम शरणमृते फलकाल् लुब्धकात्* । ततो मनुष्यवेशम् आस्थाय फलकस्य सकाशं गतः । गत्वा कथयति । भोः पुरुष किं त्वं जानीषे कस्यानुभावाद् धनस्य राज्ञो जनपदा ऋद्धाश् च स्फीताश् च क्षेमाश् च सुभिक्षाश् चाकीर्णबहुजनमनुष्याश् च पूर्ववद् यावच् छालीक्षुगोमहिषीसंपन्ना इति । स कथयति । जाने । स राजा धार्मिको धर्मेण राज्यं कारयति मैत्रचित्तो हितचित्तो ऽनुकम्पाचित्तश् च राष्ट्रं पालयतीति । स कथयति । किम् एतद् एवास्ति । अन्यद् अपीति । लुब्धकः कथयति । अस्त्य् अन्यो ऽप्य् अनुशंसः । यः अस्मिन् ह्रदे जन्मचित्रो नाम नागपोतः प्रतिवसति स कालेन कालं सम्यग्वारिधाराम् अनुप्रयच्छति । अतीव शस्यसंपत्तिर् भवति शस्यवती वसुमती सुभिक्षान्नपानश् च देशः इति । जन्मचित्रः कथयति । यदि कश्चित् तं नागपोतम् इतो विषयाद् अपहरेत् तस्य नागपोतस्य किं स्यान् मातापितृवियोगजम् अस्य दुःखं स्याद् राज्ञो राष्ट्रस्य च । यो ऽपहरति तस्य त्वं किं कुर्याः । जीविताद् व्यवरोपयेयम्* । जानीषे त्वं कतरो ऽसौ नागपोत इति । न जाने । अहम् असौ दक्षिणपंचालविषयिकेनापह्रिये । स बल्युपहारविधानार्थं गतः सप्तमे दिवसे आगमिष्यति । आगत्यास्य ह्रदस्य चतसृषु दिक्षु खदिरकीलकान् निखन्य नानारंगैः सूत्रैर् वेष्टयित्वा मन्त्रान् आवर्तयिष्यति । तत्र त्वया प्रच्छन्नं संनिकृष्टे स्थाने स्थातव्यम्* । यदा तेनायम् एवंरूपः ( म्स्व् इ 128 ) प्रयोगः कृतो भवति तदा ह्रदमध्यात् क्वथमानं पानीयम् उत्थास्यति । अहं चोत्थास्यामि । ( fओल्. 175व्1 = ग्ब्म् 6.1019 ) तदा त्वयासाव् आहितुण्डिकः शरेण मर्मणि ताडयितव्यः । आशु चोपसंक्रम्य वक्तव्यो मन्त्रान् उपसंहर । मा ते उत्कृत्तमूलं शिरः कृत्वा पृथिव्यां निपातयिष्यामीति । यद्य् असौ मन्त्रान् अनुपसंहृत्य प्राणैर् वियोक्ष्यते मृते ऽहं यावज्जीवम् एव मन्त्रपाशबद्धः स्याम् इति । लुब्धकः प्राह । यदि तवैकस्यैवं गुणः स्यात् तथाप्य् अहम् एवं कुर्यां प्राग्
एव सकलस्य राष्ट्रस्य । गच्छाम्य् अहं तत्र स्थान इति । ततस् तेन नागपोतेन तस्यैकपार्श्वे गुप्तं स्थानम् उपदर्शितम्* । यावद् असौ लुब्धकः सप्तमे दिवसे प्रतिगुप्ते प्रदेशे आत्मानं गोपयित्वावस्थितः । स चाहितुण्डिक आगत्य बल्युपहारं कर्तुम् आरब्धः । तेन चतसृषु दिक्षु चत्वारः खदिरकीलकाः निखाताः । नानारंगैः सूत्रकैर् वेष्टयित्वा मन्त्रैर् आवर्तितः । ततस् तत् पानीयम् उत्क्वथितुम् आरब्धम्* । लुब्धकेन शरेण मर्मणि ताडितो निष्कोशं चासिं कृत्वाभिहितः । त्वम् अस्मिन् विषयनिवासिनं नागपोतकं मन्त्रेणापहरसि । मन्त्रान् उपसंहर । मा ते उत्कृत्तमूलं शिरः कृत्वा पृथिव्यां निपातयिष्यामीति । तत अहितुण्डिकेन दुःखवेदनाभिभूतेन मन्त्रा व्यावर्तिताः । तेन च समनन्तरं लुब्धकेन जीविताद् व्यवरोपितः । ततो नागपोतो मन्त्रपाशबन्धनाद् विनिर्मुक्तो ह्रदाद् अभ्युद्गत्य तं लुब्धकं परिष्वक्तवान् एवं चाह । त्वं मे माता त्वं पिता यन् मम त्वम् आगम्य मातापितृवियोगजं दुःखं नोत्पन्नम्* । आगच्छ भुवनं गच्छावः । तेनासौ स्वभुवनं नीतो नानाविधेन चान्नपानेन संतर्पितो रत्नानि चोपदर्शितानि । मातापित्रोश् च निवेदितम्* । अम्ब तात एष मे सुहृच्छरण्यं ( म्स्व् इ 129 ) बान्धवो ऽस्यानुभावान् मम युष्माभिः सह वियोगो न जात इति । ताभ्याम् अप्य् असौ वरेण प्रवारितो विविधानि रत्नानि दत्तानि । स तान्य् आदाय तस्माद् ह्रदाद् व्युत्थितः ।
तस्य ह्रदस्य नातिदूरे पुष्पफलसम्पन्नं नानाशकुनिभिर् निकूजितम् आश्रमपदम्* । तत्र ऋषिः प्रतिवसति मैत्र्यात्मकः कारुणिकः सत्ववत्सलः । ततो ऽसौ लुब्धकस् तस्य ऋषेस् त्रिष्कालम् उपसंक्रमितुम् आरब्धः । यच् चास्य जन्मचित्रेण नागपोतेन सार्धं वृत्तं तत् सर्वं विस्तरेण समाख्यातम्* । ततो ऽसाव् ऋषिः कथयति । किं रत्नैः किं वा ते सुवर्णेन तस्य भुवने अमोघो नाम पाशस् तिष्ठति तं याचस्वेति । ततो लुब्धको ऽमोघपाशे जाततृष्णः ऋषिवचनम् उपश्रुत्य पुनर् अपि नागभुवनं गतो यावत् पश्यति नागभुवनद्वारे तम् अमोघं पाशम्* । तस्यैतद् अभवत्* । एष स पाशो यो मया प्रार्थनीय इति विदित्वा नागभुवनं प्रविष्टः । ततो जन्मचित्रेण नागपोतेनान्यैश् च नागपोतैः ससंभ्रमं प्रतिसंमोदितो रत्नैश् च प्रवारितः कथयति । अलं मे रत्नैः किं त्व् एतद् अमोघं पाशं ममानुप्रयच्छेति । जन्मचित्रः कथयति । तवानेन किं प्रयोजनम्* । अस्माकं ( fओल्. 176र्1 = ग्ब्म् 6.1020 ) तु महत् प्रयोजनम्* । यदा गरुडभयोपद्रुता भवामस् तदानेनात्मानं रक्षामः । लुब्धकः कथयति । युष्माकम् एष गरुडभयोपद्रुतानाम् उपयोगं गच्छति मम त्व् अनेन सततम् एव प्रयोजनम्* । यद्य् अस्ति कृतम् उपकृतं वा प्रयच्छेति । जन्मचित्रस्य नागपोतस्यैतद् अभवत्* । ममानेन बहूपकृतं मातापितराव् अवलोक्य ददामीति । तेन मातापितराव् ( म्स्व् इ 130 ) अवलोक्य स पाशो दत्तः । ततो ऽसौ लुब्धकः पृथिवीलब्धप्रख्येन सुखसौमनस्येनाप्यायितमना अमोघं पाशम् आदाय नागभुवनाद् अभ्युद्गम्य स्वगृहं गतः ।

यावद् अपरेण समयेन धनो राजा देव्या सार्धं क्रीडति रमते परिचार्यति । तस्य क्रीडतो रममाणस्य परिचारयतो न पुत्रो न दुहिता । स करे कपोलं दत्वा चिन्तापरो व्यवस्थितः । अनेकधनसमुदितं मे गृहं न मे पुत्रो न दुहिता । ममात्ययात् स्वकुलवंशच्छेदे राष्ट्रापहारः । सर्वं च स्वापतेयम् अपुत्रकम् इति कृत्वा राजविधेयं भविष्यतीति । स श्रमणब्राह्मणसुहृत्संबन्धिबान्धवैर् उच्यते । देव किम् असि चिन्तापर इति । स एतत् प्रकरणं तेषां विस्तरेणारोचयति । ते कथयन्ति । देवताराधनं कुरु पुत्रस् ते भविष्यतीति । सो ऽपुत्रः पुत्राभिनन्दी शिववरुणकुबेरशक्रब्रह्मादीन् अन्यांश् च देवताविशेषान् आयाचते तद्यथा आरामदेवता वनदेवताश् चत्वरदेवताः शृङ्गाटकदेवता बलिप्रतिग्राहिका देवताः सहजाः सहधर्मिका नित्यानुबद्धा अपि देवता आयाचते । अस्ति चैष लोके प्रवादो यदायाचनहेतोः पुत्रा जायन्ते दुहितरश् च । तच् च नैवम्* । यद्य् एवम् अभविष्यद् एकैकस्य पुत्रसहस्रम् अभविष्यत् तद्यथा राज्ञश् चक्रवर्तिनः । अपि तु त्रयाणां स्थानानां संमुखीभावात् पुत्रा जायन्ते दुहितरश् च । कतमेषां त्रयाणाम्* । मातापितरौ रक्तौ भवतः । संनिपतितौ । माता च कल्या भवति रितुमती । गन्धर्वश् च प्रत्युपस्थितो भवति । एषां त्रयाणां स्थानानां संमुखीभावात् पुत्रा जायन्ते दुहितरश् च । स चैवम् आयाचनपरस् तिष्ठति । अन्यतमश् च भद्रकल्पिको ( म्स्व् इ 131 ) बोधिसत्वस् तस्या अग्रमहिष्याः कुक्षिम् अवक्रान्तः । पंचावेणिका धर्माः एकतः पण्डितजातीये मातृग्रामे । कतमे पंच । रक्तं पुरुषं जानाति । कालं जानाति । ऋतुं जानाति । गर्भम् अवक्रान्तं जानाति । यस्य सकाशाद् गर्भो ऽवक्रामति तं जानाति । दारकं जानाति । दारिकां जानाति । सचेद् दारको भवति दक्षिणं कुक्षिं निश्रित्य तिष्ठति । सचेद् दारिका भवति वामं कुक्षिं निश्रित्य तिष्ठति । सा आत्तमनात्तमनाः स्वामिनारोचयति । दिष्ट्या आर्यपुत्र वर्धसे । आपन्नसत्वास्मि संवृत्ता । यथा च मे दक्षिणकुक्षिं निश्रित्य तिष्ठति नियतं दारको भविष्यतीति ( fओल्. 176व्1 = ग्ब्म् 6.1021 ) । सो ऽप्य् आत्तमनात्तमनाः पूर्वं कायम् अभ्युन्नमय्य
दक्षिणबाहुम् अभिप्रसार्योदानम् उदानयति ।
अप्य् एवाहं चिरकालाभिलषितं पुत्रमुखं पश्येयम्* । सम जातो मे स्यान् नावजातः । कृत्यानि मे कुर्वीत । भृतः प्रतिबिभृयात्* । दायाद्यं प्रतिपद्येत । कुलवंशो मे चिरस्थितिकः स्यात्* । अस्माकं चाप्य् अतीतकालगतानाम् अल्पं वा प्रभूतं वा दानानि दत्वा पुण्यानि कृत्वा अस्माकं नाम्ना दक्षिणाम् आदेक्ष्यते । इदं तयोर् यत्र तत्रोपपन्नयोर् गच्छतोर् अनुगच्छत्व् इति ।
आपन्नसत्वां चैनां विदित्वा उपरि प्रासादतलगताम् अयन्त्रितां धारयति शीते शीतोपकरणैर् उष्णे उष्णोपकरणैर् वैद्यप्रज्ञप्तैर् ( म्स्व् इ 132 ) आहारैर् नातितिक्तैर् नात्यम्लैर् नातिलवणैर् नातिमधुरकैर् नातिकटुकैर् नातिकषायैस् तिक्ताम्ललवणमधुरकटुककषायविवर्जितैर् आहारैर् हारार्धहारविभूषितगात्रीम् अप्सरसम् इव नन्दनवनविहारिणीं मञ्चान् मञ्चं पीठात् पीठम् अवतरन्तीम् अधरिमां भूमिम्* । न चास्याः किंचिद् अमनोज्ञशब्दश्रवणं यावद् एव गर्भस्य परिपाकाय । सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । दारको जातः । अभिरूपो दर्शनीयः प्रासादिको गौरः कनकवर्णश् छत्राकारशिराः प्रलम्बबाहुर् विस्तीर्णललाटः उच्चघोषः संगतब्रूस् तुङ्गनासः सर्वाङ्गप्रत्यङ्गोपेतः । तस्य जाताव् आनन्दभेर्यस् ताडिताः । श्रुत्वा राजा कथयति । किम् एतद् इति । अन्तःपुरिकाभिः राज्ञे निवेदितम्* । देव दिष्ट्या वर्धसे पुत्रस् ते जात इति । ततो राज्ञा सर्वं तन् नगरम् अपगतपाषाणशर्करकठल्लं व्यवस्थापितम्* । चन्दनवारिपरिषिक्तम् उच्छ्रितध्वजपताकं सुरभिधूपघटिकोपनिबद्धं नानापुष्पावकीर्णं रमणीयम्* । आज्ञा च दत्ता । श्रमणब्राह्मणकृपणवनीपकेभ्यो दानं प्रयच्छत । सर्वबन्धनमोक्षं कुरुतेति । तस्यैवं त्रीणि सप्तकान्य् एकविंशतिदिवसान् विस्तरेण जातस्य जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते । किं भवतु दारकस्य नामेति । अमात्याः कथयन्ति । अयं दारको धनस्य राज्ञः पुत्रः । भवतु दारकस्य सुधन इति नामेति । तस्य सुधन इति नामधेयं व्यवस्थापितम्* । सुधनो दारकः अष्टाभ्यो धात्रीभ्यो ऽनुप्रदत्तः । द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्* । सो ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा ( म्स्व् इ 133 ) सर्पिर्मण्डेनान्यैश् चोत्तप्तैर् उपकरणविशेषैर् आशु वर्धते ह्रदस्थम् इव पङ्कजम्* । स यदा महान् संवृत्तस् तदा लिप्याम् उपन्यस्तः । पूर्ववद् यावद् अष्टासु परीक्षासूद्धाटको
वाचकः पण्डितः पटुप्रचारः संवृत्तः । स यानि तानि भवन्ति मूर्धाभिषिक्तानां जनपदैश्वर्यस्थामवीर्यम् अनुप्राप्तानां महान्तं ( fओल्. 177र्1 = ग्ब्म् 6.1022 ) पृथिवीमण्डलम् अभिनिर्जित्याध्यावसतां पूर्ववद् यावत् पंचसु स्थानेषु कृतावी संवृत्तः । तस्य पित्रा त्रीण्य् अन्तःपुराणि व्यवस्थापितानि ज्येष्ठं मध्यं कनीयः । त्रीणि वासगृहाणि मापितानि हैमन्तिकं ग्रैष्मिकं वार्षिकम्* । त्रीण्य् उद्यानानि मापितानि हैमन्तिकं ग्रैष्मिकं वार्षिकम्* । ततः सुधनः कुमारः उपरि प्रासादतलगतो निष्पुरुषेण तूर्येण क्रीडति रमते परिचारयति ।

यावद् अपरेण समयेन फलको लुब्धको मृगान् अन्वेषमाणस् तेन तेनानुविचरन्न् अन्यतमं पर्वतम् अनुप्राप्तः । तस्य च पर्वतस्याधस्ताद् रिषेर् आश्रमपदं पश्यति पुष्पफलसंपन्नं नानापक्षिगणविचरितम्* । महान्तं च ह्रदम् उत्पलकुमुदपुण्डरीकसंछन्नं हंसकारण्डवचक्रवाकोपशोभितम्* ( म्स्व् इ 134 ) । तदाश्रमपदं परिभ्रमितुम् आरब्धः । यावत् तम् ऋषिं पश्यति दीर्घकेशश्मश्रुनखरोमाणं वातातपकर्षितशरीरं चीवरवल्कलधारिणम् अन्यतमद् वृक्षमूलाश्रयं तृणकुटिकाकृतनिलयम्* । दृष्ट्वा च पुनः पादाभिवन्दनं कृत्वा कृतांजलिपुटः पप्रच्छ । भगवन् कियच् चिरम् अस्मिन् प्रदेशे तव प्रतिवसतः । चत्वारिंशद्वर्षाणि । अस्ति त्वया इयता कालेनास्मिन् प्रदेशे कश्चिद् आश्चर्याद्भुतो धर्मो दृष्टः श्रुतो वा कस्यचित् सकाशात्* । स ऋषिर् मन्दमन्दम् उवाच । भद्रमुख दृष्टस् ते अयं ह्रदः । दृष्टो भगवन्* । एषा ब्रह्मसभा नाम पुष्करि णी उत्पलपद्मकुमुदपुण् डरीकसंछन्ना नानापक्षिगणनिषेविता हिमरजततुषारगौराम्बुपूर्णा सुरभिकुसुमपरिवासिततोया । अस्यां पुष्करिण्यां पंचदश्यां पंचदश्यां मनोहरा नाम द्रुमकिन्नरराजस्य दुहि ता पंचकिन्नरीशतपरिवृता नाना विधशिरःस्नानोद्वर्तनैर् आगत्य स्नाति । स्नानकाले चास्य मधुरनृत्यगीतवादितशब्देन मृगपक्षिणो ऽपह्रियन्ते । अहम् अपि तं शब्दं श्रुत्वा महता प्रीतिसौमनस्येन सप्ताहम् अधिनामयामि । एतद् आश्चर्यं भद्रमुख मया दृष्टम् इति ।
अथ फलकस्य लुब्धकस्यैतद् अभवत्* । शोभनो मया अमोघः पाशो नागाल् लब्धः । तं मनोहराया किन्नर्याः क्षेप्स्यामीति । सो ऽपरेण समयेन पूर्णपंचदश्यां पाशम् आदाय ह्रदतीर्थसमीपे पुष्पफलविटपवृक्षगहनम् आश्रित्यावधानतत्परो ऽवस्थितः । यावन् मनोहरा किन्नरी पंचकिन्नरीशतपरिवृता महत्या विभूत्या ब्रह्मसभां पुष्करिणीम् अवतीर्णा स्नातुं तत्समनन्तरं च फलकेन ( म्स्व् इ 135 ) लुब्धकेनामोघः पाशः क्षिप्तो येन मनोहरा किन्नरी बद्धा । तया अमोघपाशपाशितया ह्रदे महानुपमर्दः कृतो विभीषणश् च शब्दो निश्चारितः । यं श्रुत्वा परिशिष्टः किन्नरीगणः इतश् चामुतश् च संभ्रान्तो म नो हरां ( fओल्. 177व्1 = ग्ब्म् 6.1023 ) किन्नरीं निरीक्षितुम् आरब्धः । पश्यति बद्धाम्* । दृष्ट्वा च पुनर् भीतो निष्पलायितः । अद्राक्षीत् स लुधकस् तां परमरूपदर्शनीयाम्* । दृष्ट्वा च पुनर् उपश्लिष्टो ग्रहीष्यामीति । सा कथयति ।
मा नैषीस् त्वं हि मा स्प्राक्षीर् नैतत् तव सुचेष्टितम्* ।
राजभोग्या सुरूपाहं न साधु ग्रहणं तव ॥ इति ।
लुब्धकः प्राह । यदि त्वां ना गृह्णामि निष्पलायसे । सा कथयति । नाहं निष्पलाये । यदि न श्रद्दधासि अयं चूडामणिं गृह्ण । अस्यानुभावेनाहम् उपरि विहायसा गच्छामीति । लुब्धकः कथयति । कथं जाने । तया शिरस् तश् चूडामणिर् दत्तः उक्तश् च । एतच् चूडामणिर् यस्य हस्तस्थस् तस्याहं वशा भवामि । ततो लुब्धकेनासौ मणिर् गृहीतः । पाशबद्धां चैनां गृहीत्वा संप्रस्थितः ।
तेन खलु समयेन सुधनः कुमारो मृगयानिर्गतः । अद्राक्षीत् स लुब्धकः सुधनं कुमारम् अभिरूपं दर्शनीयं प्रासादिकम्* । दृष्ट्वा च पुनर् अस्यैतद् अभवत्* । अयं च राजकुमार इयं च परमरूपदर्शनीया । यद्य् एतां द्रक्ष्यति बलाद् ग्रहीष्यतीति । यन्व् अहम् एतां प्राभृतन्यायेन स्वयम् एवोपनयेयम्* । ततस् तं पाशम् आदाय येन सुधनो राजकुमारस् तेनोपसंक्रान्तः । उपसंक्रम्य पादयोर् निपत्य कथयति । इदं मया ( म्स्व् इ 136 ) देवस्य स्त्रीरत्नं प्राभृतम् आनीतं प्रतिगृह्यताम् इति । अद्राक्षीत् सुधनो राजकुमारीं मनोहरां किन्नरीम् अभिरूपां दर्शनीयां प्रासादिकां परमया वर्णपुष्कलतया समन्वागतां सर्वगुणसमुदिताम् अष्टादशभिः स्त्रीलक्षणैः समलंकृतां जनपदकल्याणीं कांचनकलशकूर्मपीनोन्नतकठिनसंहतसुजातवृत्तप्रगलमानस्तनीम् अभिनीलरक्तांशुकविसृतायतनवकमलसदृशनयनां सुभ्रुवमायततुंगनासां विद्रुममणिरत्नबिम्बफलसंस्थानसदृशाधरोष्ठीम् आदृढपरिपूर्णगण्डपार्श्वाम् अत्यर्थरतिकरविशोषकरकपोलतिलकाम् अनुपूर्वरचितसंहतभ्रुवमरविन्दविकचसदृशपरिपूर्णविमलशशिवपुषीं प्रलम्बबाहुं गम्भीरत्रिवलीकसन्नतमध्यांस् तनभारावनाम्यमानपूर्वार्धं रथांगसंस्थितसुजातजघनां कदलीगर्भसदृशकरां पूर्वानुवर्तितसंहतसुजातकरभोरुं सुनिगूढसुरचितसर्वांगसुन्दरसिरां संहितमणिचूडाम् आरक्तकरतलां प्रहर्षनूपुरवलयहारार्धहारनिर्घोषविलसितगतिमायतनीलसूक्ष्मकेशीं शचीम् इव भ्रष्टकांचीं नूपुरावच्छादितपादां छातोदरीं तां प्रकीर्णहाराम् उत्तप्तजाम्बूनदचारुवर्णां दृष्ट्वा कुमारः सहसा पपात बद्धो दृढं ( म्स्व् इ 137 ) रागपाशेन । तत्र स रागवह्णौ दहनपतंगसदृशेन जलचंचलचन्द्रविमलोज्ज्वलस्वभावेन दुर्ग्राह्यतरेण नदीतरंगझषमकरदुरधिगमेन गरुडपवनजवसमगतिना तुलपरिवर्तनलघुवानरावस्थितचपलोद्भ्रान्ततरेण ( fओल्. 178र्1 = ग्ब्म् 6.1024 ) सतताभ्यासक्लेशशनिषेवणरागसुखास्वादलोलेन
सर्वक्लेशविषमदुर्गप्रपातनिःसंगेन परमलीनेन चित्तेन सद्भूतानुरागतया अयोनिशोमनस्कारधनुर्विसृतेन संयोगाभिलषितपरमरहस्यशब्देन कामशरेण हृदये विद्धः आह च ।
दृष्ट्वाथ तां स सुधन इन्दुसमानवक्त्रां
प्रावृङ्घनान्तरविनिश्चरतीव विद्युत्* ।
तत्स्नेहमन्मथविलाससमुद्भवेन
सद्यः स चेतसि तु रागशरेण विद्धः ॥
स ताम् अतिमनोहरां मनोहरां गृहीत्वा हस्तिनापुरं गतः । स च लुब्धको ग्रामवरेणाच्छादितः । ततः सुधनः कुमारो मनोहरया सार्धम् उपरि प्रासादतलगतः क्रीडति रमते परिचारयति । मनोहरया रूपयौवनगुणेन सुधनः कुमारो ऽनेकैश् चोपचारशतैस् तथापहृतो यथा सुधनः कुमारो मुहूर्तम् अपि तां न जहाति ।
यावद् अपरेण समयेन जनपदाद् द्वौ ब्राह्मणाव् अभ्यागतौ । तत्रैको राजानं संश्रितो द्वितीयः सुधनं कुमारम्* । यो राजानं संश्रितः स राज्ञा पुरोहितः स्थापितो भोगैश् च संविभक्तः । यस् तु सुधनं कुमारं स भोगमात्रेण संविभक्तः । ( म्स्व् इ 138 ) स कथयति । कुमार यदा त्वं पितुर् अत्ययाद् राज्ये प्रतिष्ठास्यसि तदा मे किं करिष्यसीति । सुधनः कुमारः कथयति । यथा तव सहायो ब्राह्मणो मम पित्रा पौरोहित्ये स्थापितः एवम् अहं त्वाम् अपि पौरोहित्ये स्थापयामीति । एष च वृत्तान्तस् तेन ब्राह्मणेन कर्णपरंपरया श्रुतः । तस्यैतद् अभवत्* । अहं तथा करिष्यामि यथा कुमारो राज्यम् एव नासादयिष्यति । कुतस् तं पुरोहितं स्थापयिष्यतीति ।

यावद् अपरेण समयेन तस्य राज्ञो विजिते अन्यतमः कार्वटिको विरुद्धः । तस्य समुच्छित्तये राज्ञा एको दण्डः प्रेषितः । स हतविहतविध्वस्तः {एद्. 1984: -विद्धस्तः } प्रत्यागतः । एवं यावत् सप्त दण्डाः प्रेषिताः । ते ऽपि हतविह तविध्वस्ताः {एद्. 1984: -विद्धस्तः } प्रत्यागताः । अमात्यैः राजा विज्ञप्तः । देव किमर्थं स्वबलं हाप्यते परबलं वर्ध्यते । यावत् कश्चिद् देवविजिते शस्त्रबलोपजीवी सर्वो ऽसाव् आहूयताम् इति । ब्राह्मणः पुरोहितः संलक्षयति । अयं कुमारस्य वधोपायकाल इति । तेन राजा विज्ञप्तः । देव नैवम् असौ शक्यः सन्नामयितुम्* । राजा कथयति । किं मया स्वयं गन्तव्यम्* । पुरोहितः कथयति । किमर्थं देवः स्वयं गच्छति । अयं सुधनः कुमारो बलदर्पयुक्तः । एष दण्डसहीयः प्रेष्यताम् इति । राजा कथयति । एवम् अस्त्व् इति । ततो राजा कुमारम् आहूय कथयति । गच्छ कुमार दण्डसहीयः कार्वटिकं सन्नामय । एवं देवेति सुधनः कुमारो राज्ञः प्रतिश्रुत्यान्तःपुरं प्रविष्टः । मनोहरादर्शनाच् चास्य सर्वं विस्मृतम्* । पुनर् अपि राज्ञाभिहितः । ( fओल्. 178व्1 = ग्ब्म् 6.1025 ) पुनर् अपि तद्दर्शनात् सर्वं विस्मृतम्* । ततः पुरोहितेन ( म्स्व् इ 139 ) राजाभिहितः । देव सुधनः कुमारो मनोहरया अतीव सक्तो न शक्यते प्रेषयितुम्* । साधनं सज्जीक्रियताम्* । निर्गतः कुमारो ऽन्तःपुरात् प्रेषयितव्यो यया मनोहरायाः सकाशं न प्रविशतीति । राज्ञा अमात्यानाम् आज्ञा दत्ता । भवन्तः एवं कुरुध्वम् इति । अमात्यैः राज्ञः प्रतिश्रुत्य बलौघो हस्त्यश्वरथपदातिसंपन्नो ऽनेकप्रहरणोपकरणयुक्तः सज्जीकृतः । ततः कुमारो निर्गतः उक्तो गच्छ कुमार सज्जो बलौघ इति । स कथयति । देव गमिष्यामीति मनोहरां दृष्ट्वा । राजा कथयति । कुमार न द्रष्टव्या कालो ऽतिवर्तते । तात यद्य् एवं मातारं दृष्ट्वा गच्छामि । गच्छ कुमारावलोकय जननीम्* । स मनोहरासन्तकं चूडामणिम् आदाय मातुः सकाशम् उपसंक्रान्तः पादयोर् निपत्य कथयति । अम्ब अहं कार्वटिकं सन्नामनाय गच्छामि । अयं चूडामणिः सुगुप्तः स्थापयितव्यो न कथंचिन् मनोहराया
देयो ऽन्यत्र प्राणवियोगाद् इति । स एवं मातरं सन्दिश्याभिवाद्य च नानायोधबलौधतूर्यनिनादैः संप्रस्थितः । अनुपूर्वेण जनपदान् अतिक्रम्य तस्य कर्वटकस्य नातिदूरे ऽन्यतमद् वृक्षमूकं निश्रित्य वासम् उपगतः ।
तेन खलु समयेन वैश्रवणो महाराजो ऽनेकयक्षपरिवारो ऽनेकयक्षशतपरिवारो ऽनेकयक्षसहस्रपरिवारो ऽनेकयक्षशतसहस्रपरिवारस् तेन पथा यक्षाणां यक्षसमितं संप्रस्थितः । तेन तस्य पथा ( म्स्व् इ 140 ) गच्छथ खगपथे यानम् अवस्थितम्* । तस्यैतद् अभवत्* । बहुशो ऽहम् अनेन पथा समतिक्रान्तो न च मे कदाचिद् यानं प्रतिहतम्* । को ऽत्र हेतुर् येन यानं प्रतिहतम् इति । स पश्यति सुधनं कुमारम्* । तस्यैतद् अभवत्* । अयं भद्रकल्पिको बोधिसत्वः खेदम् आपद्यते युद्धायाभिसंप्रस्थितः । साहाय्यम् अस्य करणीयम्* । अयं कर्वटकः सन्नामयितव्यः । न च कस्यचित् प्राणिनः पीडा कर्तव्येति विदित्वा पांचिकं महायक्षसेनापतिम् आमन्त्रयते । एहि त्वं पांचिक सुधनस्य कुमारस्य कर्वटकम् अयुद्धेन सन्नामय । न च ते कस्यचित् प्राणिनः पीडा कर्तव्येति । तथेति पांचिकेन महायक्षसेनापतिना वैश्रवणस्य महाराजस्य प्रतिश्रुत्य दिव्यश् चतुरंगो बलकायो निर्मितः । तालमात्रप्रमाणाः पुरुषाः पर्वतप्रमाणा हस्तिनो {एद्. 1984: हस्तिनः } हस्तिप्रमाणा अश्वाः । ततो नानाखड्गमुसलतोमरप्रासचक्रशक्तिशरपरश्वधः शस्त्रविशेषेण नानावादित्रसंक्षोभेण च महाभयम् उपदर्शयन् महता बलौघेन पांचिकः कर्वटकम् अनुप्राप्तः ।
हस्त्यश्वरथनिर्घोष नाना वादित्र नि स्वनात्* ।
यक्षाणां स्वप्रभावाच् च प्राकारः प्रपपात वै ॥
ततस् तेन कर्वटकनिवासिनं ( fओल्. 179र्1 = ग्ब्म् 6.1026 ) बलौघं दृष्ट्वा तच् च प्राकारपतनं परं विषादम् आपन्नाः पप्रच्छुः । कुत एष बलौघ आगच्छतीति । ते कथयन्ति । शीघ्रं द्वाराणि मुंचत । एष पृष्ठतः सुधनः कुमार आगच्छति । तस्यैष बलौघः । यदि चिरं धारयिष्यथ । सर्वथा स्वस्था न भविष्यथेति । ते कथयन्ति ।
व्युत्पन्ना न वयं राज्ञो न कुमारस्य धीमतः ।
नृपपौरुषकेभ्यो ऽस्मि भीताः सन्त्रासम् आगताः ॥
तैर् द्वाराणि मुक्तानि । ततः उच्छ्रितध्वजपताकाः पूर्णकलशैर् नानाविधतूर्यनिनादैः सुधनं कुमारं प्रत्युद्गताः । तेन च समाश्वासितास् तद् अभिप्रायाश् च राजभटाः स्थापिता निपकाश् च गृहीताः करप्रत्ययाश् च निबद्धाः । ततस् तं कर्वटकं स्फीतीकृत्य सुधनः कुमारो निवृत्तः ।
धनेन च राज्ञा ताम् एव रात्रिं स्वप्नो दृष्टः । गृध्रेणागत्य राज्ञ उदरं स्फोटयित्वा अन्त्राण्य् आकृष्य सर्वं तन् नगरम् अन्त्रैर् वेष्टितं सप्त च रत्नानि गृहं प्रवेश्यमानानि दृष्टानि । ततो राजा भीतस् त्रस्तः आहृष्टरोमकूपो लघु लघ्व् एवोत्थाय महा र्ह शयने निषद्य करे कपोलं दत्वा चिन्तापरो व्यवस्थितः । मा हैव मे अतोनिदानं राज्याच् च्युतिर् भविष्यति जीवितस्य वा अन्तराय इति । स प्रभातायां रजन्यां तं स्वप्नं ब्राह्मणाय पुरोहिताय निवेदयामास । स संलक्षयति । यादृशो देवेन स्वप्नो दृष्टो नियतं कुमारेण कर्वटको निर्जितः । वितथनिर्देशः करणीय इति विदित्वा कथयति । देव न शोभनः स्वप्नः । नियतम् अतोनिदानं देवस्य राज्याच् च्युतिर् भविष्यति जीवितस्य वान्तरायः । केवलं त्व् अत्रास्ति प्रतीकारः । स च ब्राह्मणकेषु मन्त्रेषु दृष्टः । को ऽसौ प्रतीकारः । देव उद्याने पुष्करिणी ( म्स्व् इ 142 ) सुरूपा प्रामाणिका कर्तव्या । ततः सुधया प्रलेप्तव्या । सुसंमृष्टां कृत्वा क्षुद्रमृगाणां रुधिरेण पूरयितव्या । ततो देवेन स्नानप्रयतेन तां पुष्करिणीम् एकेन सोपानेनावतरितव्यम्* । एकेनावतीर्य द्वितीयेनोत्तरितव्यम्* । द्वितीयेनोत्तीर्य तृतीयेनावतरितव्यम्* । तृतीयेनावतीर्य चतुर्थेनोत्तरितव्यम्* । ततश् चतुर्भिर् ब्राह्मणैर् वेदवेदाङ्गपारगैर् देवस्य पादौ जिह्वया निर्लेढव्यौ । किन्नरमेदसा स धूपो देयः । एवं देवो विधूतपापश् चिरं राज्यं पालयिष्यतीति । राजा कथयति । सर्वम् एतच् छक्यम्* । यद् इदं किन्नरमेदम् अतीव दुर्लभम्* । पुरोहितः कथयति । देव यद् एव सुलभं तद् एव दुर्लभम्* । राजा कथयति । यथा कथम्* । पुरोहितः कथयति । देव नन्व् इयं मनोहरा किन्नरी । राजा कथयति । पुरोहित मैव वद । कुमारस्यात्र प्राणाः प्रतिष्ठिताः । स कथयति । ननु देवेन श्रुतम्* ।
त्यजेद् एकं कुलस्यार्थे ग्रामस्याथ {एद्. 1984: ग्रामस्यार्थे } कुलं त्यजेत्* ।
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत्* ॥

दृढेन ह्य् आत्मना राजन् कुमारस्यास्य धीमतः ।
शक्यसि ह्य् अपरां कर्तुं धातयैनां मनोहराम्* ॥ इति ।
आत्माभिनन्दिनो न किंचिन् न प्रतिपद्यन्ते । इति तेनाधिवासितम्* । ततो यथादिष्टं पुरोहितेन कारयितुम् आरब्धम्* । पुष्करिणी स्नाता सुधया लिप्ता संमृष्टा क्षुद्रमृगाणां च रुधिरम् उपावर्तितम्* । सुधनस्यान्तःपुरजनेनोपलब्धम्* {एद्. 1984: -लब्धः } । ताः प्रीतमनसः संवृत्ताः । वयं रूपयौवनसंपन्ना इदानीम् अस्माकं सुधनः कुमारः परिचारयिष्यतीति । ताः प्रमुदिता दृष्ट्वा मनोहरा पृच्छति । किं यूयम् अतीव प्रहर्षिता इति । यावद् अपरया स वृत्तान्तो मनोहरायै निवेदितः । ततो मनोहरा सञ्जातदुःखदौर्मनस्या येन सुधनस्य कुमारस्य जननी तेनोपसंक्रान्ता । पादयोर् निपत्य करुणदीनविलम्बितैर् अक्षरैर् {एद्. 1984: -विलम्बितरक्षरैर् } एतम् अर्थं निवेदयामास । सा कथयति । यद्य् एवं स्वागमितं कुरु । विचारयिष्यामीति । मनोहरया आगमय्य पुनर् अपि समाख्यातम्* । तयापि विचारितम्* । पश्यति भूतम्* । ततस् तया स चूडामणिर् वस्त्राणि च मनोहरायै दत्तानि उक्ता च । पुत्रिके प्राप्ते ते काले आगन्तव्यम् एव ममोपालम्भो न भविष्यतीति । ततो राजा यथानिर्दिष्टेन क्रमेण स्नानप्रयतो रुधिरपूर्णां पुष्करिणीम् अवतीर्णोत्तीर्णः । ततो ऽस्य ब्राह्मणैर् जिह्वया पादौ लीढौ । अचिरम् आनीयतां किन्नरीति च समादिष्टः । तत्समनन्तरम् एव मनोहरा गगनतलम् उत्प्लुत्य गाथां भाषते ।
स्पर्शसंगमने मह्यं हसितं रमितं च मे ।
नागीव बन्धनान् मुक्ता एषा गच्छामि सांप्रतम्* ॥ इति ।
राज्ञा च दृष्टा वायुपथेन गच्छन्ती । स भीतः पुरोहितम् आमन्त्रयते । यद् अर्थं कृतो यत्नः स न संपन्नो मनोहरा किन्नरी पलायत ( म्स्व् इ 144 ) इति । पुरोहितः कथयति । देव सिद्धो ऽर्थः अपगतपापो देवः सांप्रतम् इति । {एद्. 1984: देवः संवृत्तः सांप्रतम् }
ततो मनोहरायाः खगपथेन गच्छन्त्या एतद् अभवत्* । यद् अहम् एताम् अवस्थां प्राप्ता तत् तस्य ऋषेर् व्यपदेशात्* । यदि तेन नाख्यातम् अभविष्यन् नाहं ग्रहणं गताभविष्यम्* । तेन हि यास्यामि तावत् तस्य ऋषेः सकाशम् इति । सा तस्याश्रमपदं गता । पादाभिवन्दनं कृत्वा तम् ऋषिम् उवाच । महर्षे त्वद्व्यपदेशाद् अहं ग्रहणं गता मनु ष्य संस्पर्शञ् च संप्राप्ता । जीवितान्तरायश् च मे संवृत्तः । {एद्. 1984: मे नास्ति संवृत्तः । } तद् विज्ञापयामि । यदि कदाचित् सुधनः कुमार आगच्छेन् मां समन्वेषमाणस् तस्येमाम् अङ्गुलिमुद्रां दातुम् अर्हसि । एवं च वक्तुम्* । कुमार विषमाः पन्थानो दुर्गमाः । खेदम् आपत्स्यसे निवर्तस्वेति । यदि च निवार्यमाणो नो तिष्ठेत् तस्य मार्गं व्यपदेष्टुम् अर्हसि । कुमार मनोहरया समाख्यातम्* । उत्तरे दिग्भागे त्रयः कालपर्वतास् तान् अतिक्रम्य अपरे त्रयस् तान् अतिक्रम्य अपरे त्रयस् तान् अतिक्रम्य अपरे त्रयस् तान् अतिक्रम्य हिमवान् पर्वतराजः । तस्योत्तरेणोत्कीलकपर्वतः । ततः कूजको जलपथः खदिरक ( fओल्. 180र्1 = ग्ब्म् 6.1028 ) एकधारको वज्रकः कामरूपी उत्कीलकः ऐरावतकः अधुनानः प्रमोक्षणः । एते ते पर्वताः समतिक्रमणीयाः । तत्र खदिरके पर्वते गुहाप्रवेशः एकधारके च ( म्स्व् इ 145 ) उत्कीलके । वज्रके तु पक्षिराजेन प्रवेशः । एभिर् उपायैस् ते पर्वता अतिक्रमणीयाः । यन्त्राणि च भंक्तव्यानि । अजवक्त्रो मेण्ढकः पुरुषो राक्षसरूपी पिङ्गलो हन्तव्यः । गुहायां लालास्रोतसा महता अजगरो वेगेन प्रधावति । स ते विक्रमेण हन्तव्यः ।
अर्धान्तरगतं नागं यत्र पश्येत् किरीटकम्* ।{म्स्: अरान्तरगतां नाभी यत्र पश्येत तत्र किरीटः }
चापमुक्तेन बाणेन हन्तव्यो मम कारणात्* ॥
यत्र पश्येत द्वौ मेषौ संघट्टन्तु परस्परम्* ।
तयोः शृङ्गम् एकं भंक्त्वा मार्गं प्रतिलप्स्यसे ॥
आयसौ पुरुषौ दृष्ट्वा शस्त्रपाणी महाभयौ ।
तयोर् एकं ताडयित्वा मार्गं प्रतिलप्स्यसे ॥
संकोचयन्तीं प्रसारयन्तीं राक्षसीम् आयसं मुखम्* ।
यदा पश्येत् तदा कीलं ललाटे तस्या निखानयेत्* ॥
शिलावर्तस् तथा कूपो विलंघ्यस् ते षष्टिहस्तकः ।
हरिपिङ्गलकेशाक्षो दारुणो यक्षराकसः ॥
कार्मुकं मण्डलं कृत्वा हन्तव्यश् च दुरासदः ।
नद्यश् च बलतस्तार्या नक्रग्राहसमाकुलाः ॥
नङ्गा पतङ्गा तपनी चित्रा रुदनी हसनी आशीविषा वेत्रवती च ।
नङ्गायां राक्षसीकोपा पतङ्गायाम् अमनुष्यकाः ।
तपन्यां ग्राहबहुलत्वं चित्रायां कामरूपिणः ॥
रुदन्यां किन्नरीचेट्यो हसन्यां किन्नरीस्नुषा ।
आशीविषायां नानाविधाः सर्पा वेत्रनद्यां तु शाल्मलिः ॥
नङ्गायां धैर्यकरणं पतङ्गायां पराक्रमः ।
तपन्यां ग्राहमुखबन्धश् चित्रायां विविधं गीतम् ॥
रुदन्यां सौमनस्येन समुत्तारः । हसन्यां तूष्णींभावयोगेन । आशीविषायां सर्पविषमंत्रप्रयोगेन । वेत्रवत्यां तीक्ष्णशस्त्रसंपातयोगेन समुत्तारः । नदीः समतिक्रम्य पंचयक्षशतानां गुल्मकस्थानम्* । तद् धैर्यम् आस्थाय विद्राव्यम्* । ततः किन्नरराजस्य भवनम् इति । ततो मनोहरा तम् ऋषिम् एवम् उक्त्वा पादाभिवन्दनं कृत्वा प्रक्रान्ता ।
यावत् सुधनः कुमारस् तं कर्वटकं सन्नाम्य गृहीतप्राभृतो हस्तिनापुरम् अनुप्राप्तः । श्रुत्वा राजा परां प्रीतिम् उपगतः । ततः कुमारो मार्गश्रमं प्रतिविनोद्य पितुः सकाशं गतः । प्रणामं कृत्वा पुरस्तान् निषण्णः । राज्ञा परया संभाषणया संभाषितः । उक्तश् च । कुमार शिवेन ( म्स्व् इ 147 ) त्वम् आगतः । देव तव प्रसादात् कर्वटकः संनामितः । नीपका गृहीताः । चित्रकः स्थापितः । इमे तु करप्रत्ययाः । पण्यागारश् च स्थापित इति । राजा कथयति । पुत्र शोभनं प्रतिगृहीतम्* । ततः पितुः प्रणामं कृत्वा संप्रस्थितः । राजा कथयति । कुमार तिष्ठ प्राभृतं सहिताव् एव भोक्ष्यामः । देव गच्छामि चिरदृष्टा मे मनोहरा । अलं कुमार अद्य गमनेन । तिष्ठ श्वो गमिष्यसीति । सो ऽनुरुध्यमान एवम् आह । तात अद्यैव मयावश्यं गन्तव्यम्* । राजा तूष्णीम् अवस्थितः । ततः ( fओल्. 180व्1 = ग्ब्म् 6.1029 ) कुमारः स्वगृहं गतः । पश्यति श्रीविवर्जितम् अन्तःपुरद्वारम्* । स चिन्तापरः प्रविष्टो मनोहरां न पश्यति । इतश् चामुतश् च संभ्रान्तः शून्यहृदयः शब्दं कर्तुम् आरब्धः मनोहरा मनोहरेति । यावद् अन्तःपुरं सन्निपतितम्* । भोः स्त्रियः क्षेपं कर्तुम् आरब्धः । विद्धो ऽसौ हृदयशल्येन सुतरां प्रष्टुम् आरब्धः । ताभिर् यथाभूतं समाख्यातम्* । स शोकेन संमुह्यते । ता स्त्रियः कथयन्ति । देव अन्तःपुरे तत्प्रतिविशिष्टतराः स्त्रियः सन्ति । किमर्थं शोकः क्रियते । स पितुर् नैर्गुण्यम् उपश्रुत्य कृतघ्नतां च मातुः सकाशम् उपसंक्रान्तः । पादयोर् निपत्य कथयति । अम्ब
मनोहरां न पश्यामि मनोरथगुणैर् युताम्* ।
साधुरूपसमायुक्ता क्व गता मे मनोहरा ॥
मनसा संप्रधावामि मनो मे संप्रमुह्यति ।

हृदयं दह्यते चैव रहितस्य तया भृशम्* ॥
मनो ऽभिरामा च मनोहरा च सा मनो ऽनुकूला च मनोरतिश् च मे ।
सन्तप्तदेहो ऽस्मि मनोहरां विना कुतो ममेदं व्यसनं समागतम् ॥ इति ।
सा कथयति । पुत्र कृच्छ्रसंकटसंबाधप्राप्ता मनोहरा इति मया प्रमुक्ता । अम्ब यथाकथम्* । तया यथावृत्तं सर्वं विस्तरेण समाख्यातम्* । स पितुर् नैर्गुण्यम् अकृतज्ञतां चोक्ता कथयति । अम्ब कुत्र गता कतरेण पथेनेति । सा कथयति । पुत्र
एषः असौ पथा शैल ऋषिसंघनिषेवितः ।
उषितो धर्मराजेन यत्र याता मनोहरा ॥ इति ।
स मनोहरावियोगदुःखार्तः कृच्छ्रं विललाप करुणं परिदेवमानः ।
मनोहरां न पश्यामि मनोरथगुणैर् युताम्* । पूर्ववद् यावत्* ।
कुतो ममेदं व्यसनं समागतम् ॥ इति ।

ततो मात्राभिहितः । पुत्र सन्त्य् अस्मिन्न् अन्तःपुरे तत्प्रतिविशिष्टतराः स्त्रियः । किमर्थं शोकः क्रियते इति । कुमारः कथयति । अम्ब कुतो मे रतिः प्राप्यताम् इति । स तया समाश्वास्यमानो ऽपि शोकसन्तप्तस् तस्याः प्रवृत्तिं समन्वेषमाण इतश् चामुतश् च परिभ्रमितुम् आरब्धः । तस्य बुद्धिर् उत्पन्ना । यत एव लब्धा तम् एव तावत् पृच्छामीति । स फलकस्य लुब्धकस्य सकाशं गतः । पृच्छति । मनोहरा कुतस् त्वया लब्धा इति । अमुष्मिन् पर्वतपार्श्वे ऋषिः प्रतिवसति । तस्याश्रमपदे ब्रह्मसभा नाम पुष्करिणी । तस्यां स्नातुम् अवतीर्णा । ऋषिव्यपदेशेन ( म्स्व् इ 149 ) लब्धा इति । स संलक्ष्यति । ऋषिर् इदानीम् अभिगन्तव्यः । तस्मात् प्रवृत्तिर् भविष्यतीति । एष च वृत्तान्तो राज्ञा श्रुतः । मनोहरावियोगात् कुमारो ऽतीव विक्लव इति । ततो राज्ञाभिहितः । कुमार किम् असि विक्लवः । इदानीं तत्प्रतिविशिष्टम् अन्तःपुरं व्यवस्थापयामीति । स कथयति । तात न शक्यं मया ताम् अनानीयान्तःपुरस्थेन भवितुम्* । स राज्ञा बह्व् अप्य् उच्यमानो
[fओलिओस् 181-198 अरे मिस्सिन्ग्; थे रेमैनिन्ग् पोर्तिओन् हस् बेएन् तकेन् fरोम् दिव्य् 453-461]
न निवर्तते । ततो राज्ञा नगरप्राकारशृङ्गाटकेष्व् आरक्षकाः पुरुषाः स्थापिता यथा कुमारो न निष्कासतीति । कुमारः कृत्स्नां रात्रिं जागर्तुकामः । उक्तं च । पंचेमे रात्र्याम् अल्पं स्वपन्ति बहु जाग्रति । कतमे पंच । पुरुषाः स्त्रियम् अपेक्षमाणाः । प्रतिबद्धचित्तः स्त्रीपुरुषः । उत्क्रुशप्राणी । चौरसेनापतिः । भिक्षुश् चालब्धवीर्य इति । अथ कुमारस्यैतद् अभवत्* । यदि द्वारेण यास्यामि राजा द्वारपालकान् रक्षकांश् च दण्डेनोत्सादयिष्यति यन्व् अहम् अरक्षितेन पथा गच्छेयम् इति । स रात्र्यां व्युत्थाय नीलोत्पलमालाबद्धशिरा येन रक्षिणः पुरुषा न सन्ति तेन तां मालां ध्वजे बद्ध्वावतीर्णः । चन्द्रश् च चोदितः ।
ततो ऽसौ चन्द्रम् अवेक्ष्य मनोहराविरहित एवं विललाप ।
भोः पूर्णचन्द्र रजनीकर तारराज त्वं रोहिणीनयनकान्त सुसार्थवाह ।
( दिव्य् 454 )
कच्चित् प्रिया मम मनोहरणैकदक्षा दृष्टा त्वया भुवि मनोहरनामधेया ॥ इति ।
( म्स्व् इ 150 )
अनुभूतपूर्वरतिम् अनुस्मरन् जगाम । ददर्श मृगीम्* । ताम् अप्य् उवाचा ।
हे त्वं कुरङ्गि तृणवारिपलाशभक्षे स्वस्त्य् अस्तु ते चर सुखं न मृगारिर् अस्मि ।
दीर्घेक्षणा मृगवधूकमनीयरूपा दृष्टा त्वया मम मनोहरनामधेया ॥
स ताम् अतिक्रम्यान्यतमं प्रदेशं गतो ददर्श वनं नानापुष्पफलोपशोभितं भ्रमरैर् उपभुज्यमानसारम्* । ततो ऽन्यतमं भ्रमरम् उवाच ।
नीलाञ्जनाचलसुवर्ण मधुद्विरेफ वंशान्तराम्बुरुहमध्यकृताधिवास ।
वर्णाधिमात्रसदृशायतकेशहस्ता दृष्टा त्वया मम मनोहरनामधेया ॥
तस्माद् अपि प्रदेशाद् अतिक्रान्तः पश्यत्य् आशीविषम्* । दृष्ट्वा चाह ॥
भोः कृष्णसर्प तनुपल्लवलोलजिह्वा वक्त्रान्तरोत्पतितधूमकलापवक्त्र ।
रागाग्निना तव समो न विषाग्निर् उग्रो द्र्ष्टा त्वया मम मनोहरनामधेया ॥
तम् अपि प्रदेशं समतिक्रान्तो ददर्शापरं कोकिलाभिनादितम्* । द्र्ष्ट्वा च पुनस् तं कोकिलम् उवाच ।
भोः कोकिलोत्तम वनान्तरवृक्षवासिन् नारीमनोहर पतत् त्रिगणस्य राजन् ।
( म्स्व् इ 151 )
नीलोत्पलामलसमायतचारूनेत्रा दृष्टा त्वया मम मनोहरनामधेया ॥
तम् अपि प्रदेशं समतिक्रान्तो ददर्शाशोकवृक्षं सर्वपरिफुल्लम्* ।
मङ्गल्यनामान्तरनामयुक्तः सर्वद्रुमाणाम् अधिराजतुल्यः ।
मनोहराशोकविमूर्च्छितं माम्* एषो ऽञ्जलिस् ते कुरु वीतशोकम्* ॥
( दिव्य् 455 )
स एवं विक्लवो ऽनुपूर्वेण तस्य ऋषेर् आश्रमपदम् अनुप्राप्तः । स तम् ऋषिं सविनयं प्रणिपत्योवाच ।
चीराजिनाम्बरधर क्षमया विशिष्ट मूलाङ्कुरामलकविल्वकपित्थभक्तः ।
वन्दे ऋषे नतशिरा वद मे लघु त्वं दृष्टा त्वया मम मनोहरनामधेया ॥
ततः स ऋषिः सुधनं कुमारं स्वागतवचनासनदानक्रियादिपुरःसरः प्रतिसंमोद्योवाच ।
दृष्टा सा परिपूर्णचन्द्रवदना नीलोत्पलाभास्वरा
रूपेण प्रियदर्शना सुवदना नीलाञ्चितभ्रूलता ।
त्वं स्वस्थो भुवि भुज्यतां हि विविधं मूलं फलं च प्रभो
पश्चात् स्वस्ति गमिष्यसीति मनसा नात्रास्ति मे संशयः ॥
इदं ह्य् अवोचद् वचनं च सुभ्रूः कुमार तृष्णा त्वयि बाधते मे ।
( म्स्व् इ 152 )
महच् च दुःखं वसतां वनेषु यातां च मां { दिव्य्: रमां} द्रक्ष्यसि निश्चयेन ॥ इति ।
इयं च तयांगुलिमुद्रिका दत्ता । कथयति च । कुमार विषमाः पन्थानो दुर्गमाः खेदम् आपत्स्यसे निवर्तस्वेति । यदि च निवार्यमाणो न तिष्ठेत् तस्य मार्गम् उपदेष्टुम् अर्हसि । कुमार इदं च तया समाख्यातम्* । उत्तरे दिग्भागे त्रयः कालपर्वतास् तान् अतिक्रम्यापरे त्रयस् तान् अप्य् अतिक्रम्य हिमवान् पर्वतराजः । तत्प्रवेशेन त्वया इमानि भैषज्यानि समुदानेतव्यानि । तद्यथा सुधा { दिव्य्: सूदया} नामौषधिस् तया घृतं पक्त्वा पातव्यं तेन च ते न तृषा न बुभुक्षा स्मृतिबलं च वर्धयति । वानरः समुदानेतव्यो मन्त्रम् अध्येतव्यं सशरं धनुर् ग्रहीतव्यं मणयो ऽवभासात्मकाः अगदो विषघातको ऽयस्कीलास् त्रयो वीणा च । हिमवतः पर्वतराजस्योत्तरेणोत्कीलकः पर्वतः । ततः कूजको { दिव्य्: कूलको} जलपथः खदिरकः एकधारको वज्रकः कामरूपी उत्कीलक ऐरावतको ऽधुनानः { दिव्य्: ऽधोवाणः} प्रमोक्षण { दिव्य्: -क} एते पर्वताः । सर्वे ते समतिक्रमणीयाः । ( दिव्य् 456 ) तत्र खदिरके पर्वते गुहाप्रवेश एकधारके च उत्कीलके । वज्रके तु पक्षिराजेन प्रवेशः । एभिर् उपायैस् ते सर्वे पर्वताः समतिक्रमणीयाः । यन्त्राणि च भंक्तव्यानि । अजवक्त्रो मेण्ढकः पुरुषो राक्षसरूपी पिङ्गलो हन्तव्यः । गुहायां लालास्रोतसा महताजगरो वेगेन प्रधावति । स ते विक्रमेण हन्तव्यः ।
( म्स्व् इ 153 )
अर्धान्तरगतं नागं यत्र पश्येत् किरीटकम्* ।{ दिव्य्: किटिभकश् च}
चापमुक्तेन बाणेन हन्तव्यो मम कारणात्* ॥

यत्र पश्येत द्वौ मेषौ संघट्टन्तौ परस्परम्* ।
तयोः शृङ्गम् एकं भंक्त्वा मार्गं प्रतिलप्स्यसे ॥
आयसौ पुरुषौ दृष्ट्वा शस्त्रपाणी महाभयौ ।
तयोर् एकं ताडयित्वा मार्गं प्रतिलप्स्यसे ॥
सङ्कोचयन्तीं प्रसारयन्तीं राक्षसीम् आयसं मुखम्* ।
यदा पश्येत् तदा कीलं ललाटे तस्या निखानयेत्* ॥
शिलावर्तस् तथा कूपो विलंघ्यस् ते षष्टिहस्तकः ।
हरिपिङ्गलकेशाक्षो दारुणो यक्षराक्षसः ॥
कार्मुकं मण्डलं कृत्वा हन्तव्यश् च दुरासदः ।
नद्यश् च बलतस् तार्या नक्रग्राहसमाकुलाः ॥
नङ्गा पतङ्गा तपनी चित्रा रुदनी हसनी आशीविषा वेत्रवती च ।
नान्गायां राक्षसीकोपः पतङ्गायाम् अमनुष्यकाः ।
तपन्यां ग्राहबहुलत्वं चित्रायां कामरूपिणः ॥
रुदन्यां किन्नरीचेट्यो हसन्यां किन्नरीस्नुषा ।
आशीविषायां नानाविधाः सर्पा वेत्रनद्यां तु शाल्मलिः ।
नङ्गायां धैर्यकरणं पतङ्गायां पराक्रमः ।
तपन्यां ग्राहमुखबन्धश् चित्रायां विविधं गीतम्* ॥
( म्स्व् इ 154 )
रुदन्यां सौमनस्येन समुत्तारः । हसन्यां तूष्णींभावेन । आशीविषायां सर्पविषमन्त्रप्रयोगेन समुत्तारो वेत्रनद्यां ( दिव्य् 457 ) तीक्ष्णशस्त्रसंपातयोगेन समुत्तारः । नदीम् अतिक्रम्य पञ्चयक्षशतानां गुल्मकस्थानम्* । तद् धैर्यम् आस्थाय विद्राव्यम्* । ततो द्रुमस्य किन्नरराजस्य भवनम् इति ।
ततः सुधनः कुमारो यथोपदिष्टान् ओषधमन्त्रागदप्रयोगान् समुदानीय तस्य ऋषेः पादाभिवन्दनं कृत्वा प्रक्रान्तः । ततस् तेन यथोपदिष्टाः सर्वे समुदानीताः स्थापयित्वा वानरम्* । ततस् तान् आदाय पुनर् अपि तस्य ऋषेः सकाशम् उपसंक्रान्तः । उक्तश् च । अलं कुमार किम् अनेन व्यवसायेन किं मनोहरया । त्वम् एकाकी असहायः शारीरसंशयम् अवाप्स्यसीति । कुमारः प्राह । महर्षे ऽवश्यम् एवाहं प्रयास्यामीति । कुतः
चन्द्रस्य खे विचरतः क्व सहायभावः दंष्ट्राबलेन बलिनश् च मृगाधिपस्य ।
अग्नेश् च दावदहेन क्व सहायभावः अस्मद्विधस्य च सहायबलेन किं स्यात्* ॥
किं भो महार्णवजलं न विगाहितव्यं किं सर्पदुष्ट इति नैव चिकित्सनीयः ।
वीर्यं भजेत सुमहदूर्जितसत्वदृष्टं यत्ने कृतो यदि न सिध्यति को ऽत्र दोषः ॥ इति ।
ततः सुधनः कुमारो मनोहरोपदिष्टेन विधिना संप्रस्थितो ऽनुपूर्वेण पर्वतनदीगुहाप्रपातादीनि भैषज्यमन्त्रागदप्रयोगेन विनिर्जित्य ( म्स्व् इ 155 ) द्रुमस्य किन्नरराजस्य भवनसमीपं गतः । कुमारो ऽपस्यत्
तन् नगरम् अदूरं श्रीमदुद्यानोपशोभितम्* ।
नानापुष्पफलोपेतं नानाविहगसेवितम्* ॥
तडागदीर्घिकावापीकिन्नरैः समुपावृतम्* ।
किन्नरीस् तत्र चापश्यत् पानीयार्थम् उपागताः ॥
ततस् ताः सुधनकुमारेणाभिहिताः । किम् अनेन बहुना पानीयेन क्रियत इति । ताः कथयति । अस्ति द्रुमस्य किन्नरराजस्य दुहिता मनोहरा नाम । सा मनुष्यहस्तगता बभूव । तस्याः स मनुष्यगन्धो नश्यति । सुधनः कुमारः पृच्छति । किम् एते घटाः समस्ताः सर्वे तस्या उपरि निपात्यन्ते आहोस्विद् आनुपूर्वेणेति । ताः कथयन्ति । आनुपूर्व्या । स संलक्षयति । शोभनो ऽयम् ( दिव्य् 458 ) उपाय इमाम् अंगुलिमुद्राम् एकस्मिन् घटे प्रक्षिपामीति । तेनैकस्याः किन्नर्या घटे ऽनालक्षितं प्रक्षिप्ता । सा च किन्नरी अभिहिता । अनेन त्वया घटेन मनोहरा तत्प्रथमतरं स्नापयितव्या । सा संलक्षयति । नूनम् अत्र कार्येण भवितव्यम्* । ततस् तयासौ घटः प्रथमतरं मनोहराया मूर्ध्नि निपातितो यावद् अंगुलिमुद्रा उत्सङ्गे निपतिता । सा मनोहरया प्रत्यभिज्ञाता । ततः किन्नरीं पृच्छति । मा तत्र कश्चिन् मनुष्यो ऽभ्यागतः । साह । अभ्यागतः । गच्छैनं प्रच्छन्नं प्रवेशय । तया प्रवेशितः सुगुप्ते प्रदेशे स्थापितः ।
ततो मनोहरा पितुः पादयोर् निपत्य कथयति । तात यद्य् असौ सुधनः कुमार आगच्छेद् येनाहं हृता तस्य त्वं किं कुर्याः । स कथयति । तम् अहं खण्डशतं कृत्वा चतसृषु दिक्षु क्षिपेयं मनुष्यः ( म्स्व् इ 156 ) असौ किं तेनेति । मनोहरा कथयति । तात मनुष्यभूतस्य कुत इहागमनम्* । अहम् एव ब्रवीमीति । ततो द्रुमस्य किन्नरराजस्य पर्यवस्थानो विगतः । ततो विगतपर्यवस्थानः कथयति । यद्य् असौ कुमार आगच्छेत् तस्य हि त्वां सर्वालङ्कारविभूषितां प्रभूतचित्तोपकरणैः किन्नरीसहस्रपरिवृतां भार्यारत्नं दद्याम् इति । ततो मनोहरया हृष्टतुष्टप्रमुदितया सुधनः कुमारो दिव्यालङ्कारविभूषितो द्रुमस्य किन्नरराजस्योपदर्शितः । ततो द्रुमः किन्नरराजः सुधनं कुमारं ददर्शाभिरूपं दर्शनीयं प्रासादिकं परमया शुभवर्णपुष्कलतया समन्वागतम्* । दृष्ट्वा च पुनः परं विस्मयम् उपगतः । ततस् तस्य विज्ञासां कर्तुकामेन सौवर्णास्तम्भा उच्छ्रिताः सप्त तालाः सप्त भेर्यः सप्त शूकराः । आह च ।
च्f. कव्क् 64.313-316
त्वया कान्त्या जितास् तावद् एते किन्नरदारकाः ।
संदर्शितप्रभावस् तु दिव्यसंबन्धम् अर्हसि ॥
अत्यायतं शरवणं कृत्वोद्धृत्य शरं क्षणात्* ।
व्युप्तम् अन्यूनम् उच्चित्य पुनर् देहि तिलाढकम्* ।
संदर्शय धनुर्वेदे दृढलक्ष्यादिकौशलम्* ।
ततः कीर्तिपताकेयं तवायत्ता मनोहरा ॥
( दिव्य् 459 )
सुधनः कुमारो बोधिसत्वः । कुशलाश् च भवन्ति बोधिसत्वास् तेषु तेषु शिल्पस्थानकर्मस्थानेषु देवताश् चैषाम् औत्सुक्यम् आपत्स्यन्ते अविघ्नभावाय । ततो बोधिसत्वो नृत्यगीतवीणापणवसुघोषकवल्लरीमृदङ्गादिनानाविधेन ( म्स्व् इ 157 ) दैवत्योपसंहतेन वादित्रविशेषेण समन्ताद् आपूर्यमाणो ऽनेकैः किन्नरसहस्रैः परिवृताः ।

च्f. कव्क् 64.320-321
शतक्रतुसमादिष्टैर् यक्षैः शूकररूपिभिः ।
उत्पाटिते शरवणे समे व्युप्तं तिलाढकम्* ॥
एकीकृतं समुच्चित्य शक्रसृष्टैः पिपीलकैः ।
कुमारः किन्नरेन्द्राय विस्मिताय न्यवेदयत्* ॥
नीलोत्पलदलाभेनासिना गृहीतेन पश्यतो द्रुमस्य किन्नरराजस्य सौवर्णस्तम्भसमीपं गत्वा तान् स्तम्भान् कदलीच्छेदेन खण्डखण्डं छेत्तुम् आरब्धः । ततस् तान् तिलशो ऽवकीर्य सप्त तालान् सप्त भेरीः सप्त च शूकरान् बाणेन विध्य सुमेरुवद् अकम्प्यो ऽवस्थितः । ततो गगनतलस्थाभिर् देवताभिश् च किन्नरशतसहस्रैर् हाहाकारकिलिकिलाप्रक्ष्वेडोच्चैर् नादो मुक्तो यं दृष्ट्वा च किन्नरराजः परं विस्मयम् उपगतः । ततः किन्नरीसहस्रस्य मनोहरासमानरूपस्य मध्ये मनोहरां स्थापयित्वा सुधनः कुमारो ऽभिहितः । एहि कुमार प्रत्यभिजानासि मनोहराम् इति । ततः सुधनः कुमारस् तां प्रत्यभिज्ञाय गाथाभिगीतेनोक्तवान्* ।
यथा द्रुमस्य दुहिता ममेह त्वं मनोहरा ।
शीघ्रम् एतेन सत्येन पदं व्रज मनोहरे ॥
ततः सा द्रुतपदम् अभिक्रान्ता । किन्नराः कथयन्ति । देवायं सुधनः कुमारो बलवीर्यपराक्रमसमन्वितो मनोहरायाः प्रतिरूपः । किमर्थं विप्रलभ्य । दीयताम् अस्य मनोहरेति । ततो द्रुमः किन्नरराजः किन्नरगणेन संवर्णितः सुधनं किन्नराभिमतेन महता ( म्स्व् इ 158 ) सत्कारेण पुरस्कृत्य मनोहरां दिव्यालङ्कारविभूषितां वामेन पाणिना गृहीत्वा दक्षिणेन सौवर्णभृङ्गारं ( दिव्य् 460 ) सुधनः कुमारो ऽभिहितः । कुमार एषा ते मनोहरा किन्नरीपरिवृता भार्यार्थाय दत्ता । अपरिचिता मानुषाः । यथैनां न परित्यक्ष्यसीति । परं तातेति सुधनः कुमारो द्रुमस्य किन्नरराजस्य प्रतिश्रुत्य किन्नरभवनस्थो मनोहरया सार्धं निष्पुरुषेण तूर्येण कृईडते रमते परिचारयति ।
सो ऽपरेण समयेन स्वदेशम् अनुस्मृत्य मातापितृवियोगजेन दुःखेनात्याहतो मनोहराया निवेदयति । मातापितृवियोगजं मे दुःखं बाधत इति । ततो मनोहरया एष वृत्तान्तो विस्तरेण पितुर् निवेदितः । स कथयति । गच्छ कुमारेण सार्धम् अपक्रान्तया ते भवितव्यं विप्रलम्भका मनुष्याः । ततो द्रुमेण किन्नरराजेन प्रभूतं मणिमुक्तासुवर्णादीन् दत्वानुप्रेषितः । स मनोहरया सार्धम् उपरिविहायसा किन्नरखगपथेन संप्रस्थितो ऽनुपूर्वेण हस्तिनापुरनगरम् अनुप्राप्तः । ततो हस्तिनापुरं नगरं नानामनोहरेण सुरभिणा गन्धविशेषेण सर्वदिग् आमोदितम्* । श्रुत्वा धनेन राज्ञानन्दभेर्यश् च ताडिताः । सर्वं च तन् नगरम् अपगतपाषाणशर्करकठल्लं कारितं चन्दनवारिसिक्तम् आमुक्तपट्टदामकलापसमुच्छ्रितध्वजपताकं सुरभिधूपघटिकोपनिबद्धं नानापुष्पावकीर्णरमणीयम्* । ततः कुमारो ऽनेकनरवरसहस्रपरिवृतो मनोहरया सार्धं हस्तिनापुरं ( म्स्व् इ 159 ) नगरं प्रविष्टः । ततो मार्गश्रमं प्रतिविनोद्य विविधानि रत्नान्य् आदाय पितुः सकाशम् उपसंक्रान्तः । पित्रा कण्ठे परिष्वक्तः पार्श्वे राजासने निषण्णः । किन्नरनगरगमनागमनं च विस्तरेण समाख्यातम्* ।
ततो धनेन राज्ञातिबलवीर्यपराक्रम इति विदित्वा राज्याभिषेकेणाभिषिक्तः । सुधनः कुमारः संलक्षयति । यन् मम मनोहरया सार्धं समागमः संवृत्तो राज्याभिषेकश् चानुप्राप्तस् तत् पूर्वकृतहेतुविशेषाद् यन्व् अहम् इदानीं दानानि दद्यां पुण्यानि कुर्याम् इति । तेन हस्तिनापुरे नगरे द्वादशवर्षाणि निरर्गलो यज्ञ इष्टः ।
स्यात् कलु ते महाराजान्यः स तेन कालेन तेन समयेन सुधनः कुमारो वेति । न खल्व् एवं द्रष्टव्यम्* । अपि त्व् अहम् एव तेन ( दिव्य् 461 ) कालेन तेन समयेन बोधिसत्वचर्यायां वर्तमानः सुधनो नाम राजा बभूव । यन् मया मनोहरानिमित्तं बलवीर्यपराक्रमो दर्शितो द्वादशवर्षाणि निरर्गलो यज्ञ इष्टो न तेन मयानुत्तरा सम्यक्संबोधिर् अधिगता किन् तु तद् दानं तच् च वीर्यम् अनुत्तरायाः सम्यक्संबोधेर् हेतुमात्रकं प्रत्ययमात्रकं संभारमात्रकम्* ।
[fओलिओस् 181-198 अरे मिस्सिन्ग्]
( fओल्. 199र्1 ; म्स्व्,wइ 69; म्स्व् इ 161 ) दर्शनीया प्रासादिका । चंचा माणविका । तां प्रोत्साहयामः सा तैर् दूतैर् आहूयोक्ता । यत् खलु भगि न् इ पूर्वं नो लाभसत्कार एवम् एवासीत्* इदानीं लोकाः श्रमणस्य गौतमस्य सकाशं गच्छन्ति । तस्य सत्कारं कुर्वन्ति । अ स्माकं लाभसत्कारः सर्वेण सर्वं समुच्छिन्नः सा त्वम् अध्युपेक्षसे । चंचा माणविका कथयति । आर्यका मया किं करणीयम्* भगिनि तव ज्ञातीनां कृते श्रमणेन गौतमेन सह अब्रह्मचर्यं चरितव्यम्* । अपवादश् च तस्य दातव्यः । एतेन नः पूर्ववत्* लाभसत्कारो भवेद् इत्य् एवम् उक्ते चंचा माणविका परिव्राजिका संबहुलानाम् अन्यतीर्थिकपरिव्राजकानाम् एवम् आह । आर्यकाः श्रमणस्य गौतमस्यापवादम् अहं न उत्सहे । भगिनि यावत् त्वं श्रमणस्य गौतमस्यापवादं नोत्सहसे तावद् वयं त्वया सह नाल पिष्यामो न संलपिष्यामो नालोकयिष्यामो न व्यवलोकयिष्यामो न च ते सर्वावासेषु प्रज्ञ पयिष्यसि आसनानि । अथानुशोचन्ती त्वं नरकगतिम् अवाप्स्यसि । अल्पप्रज्ञाः स्त्रियः । सा भीता कथयत्य् एषाहम् आर्यका यन् मया करणीयम् एहि त्वं भगिनि जेतवनम् अभीक्ष्णं गच्छ कंचित् कालं गत्वा श्रमणस्य गौ तमस्य अपवादं दापय । सा प्रत्यहम् उत्थाय जेतवनं गता । यावत् सा भाजनम् एकं बद्ध्वा येन भग वांस् तेनोपसंक्रान्ता । तेन खलु समयेन भगवान् अनेकशतानां पुरस्तान् निषण्णो धर्मं देशयति । अद्रक्षीड् भगव् आन् दूरतश् चंचा माणविकाम्* । दृष्ट्वा तस्यैतद् अभवत्* । अद्य मम कर्माणि कृतान्य् उपचिता नि ( म्स्व् इ 162 ) लब्धसंभाराणी परिणतप्रत्ययान्य् ओघवत् प्रत्युपस्थितान्य् अवश्यभावीनि को ऽन्यः प्रत्यनुभविष्यतीति । ततश् चंचा माणविका परिव्रा जिका भगवतः पुरतः स्थित्वाह ।
अहम् आपन्नसत्वास्मि त्वया कामोपसेवनात्* ।
रतिर् लब्धा यशो घुष्टं धर्मं वदसि साम्प्रतम् इति ।
भगवान् आह ॥ अभूतवादी न र कान् उपैति । चंचा माणविका प्राह । यश् चापि कृत्वा न करोमीति चाह ॥ भगवा न् आह ।
हीनो हि धर्मैर् उभयत्र लोके
तुल्याम् अवस्थां समुपैति मर्त्यः ॥

अथ शक्रो देवेन्द्रः अहो वतेयं चंचा माणविका भगवन्तं विहेठयिष्यति । भिक्षुसंघं चेति विदित्वा तद् भाजनम् ऋद्ध्या पृथिव्यां निपातितवान्* ॥ ततश् चंचा मा णविका लज्जिता दूरम् अपसृता । अथ स्थविरस्थविरा भिक्षवो भगवन्तम् एवम् आहुः । कृता ( म्स्व्,wइ 70 ) भदन्त राज्ञः प्रसेनजितस्य धर्माधिकारिकी कथा व्याकृतं तं च यत्रानुत्तरायां सम्यक्संबोधौ तत्प्रथमतरं चित्तम् उत्पादितं याव् अत् सम्यक्संबुद्धानां लाभसत्कारकथा । वयम् अनवतप्ते महासरसि भगवतः पुरस्तात् स्वक स्वकानां ( fओल्. 199व्1 ) कर्मणां ( म्स्व् इ 163 ) प्लोत् इ ं व्याकुर्याम इत्य् अधिवासयति भगवां स्थविरस्थविराणां भिक्षूणां तूष्णींभावेन ।
धर्मता खलु बुद्धानां भगवतां जी वता ं तिष्ठतां ध्रियमाणानां यापयतां यदुत दशावश्यकरणीयानि भवन्ति । न तावद् बुद्धा भग वन्तः परिनिर्वान्ति यावद् बुद्धो न व्याकृतो भवति । सत्वेनावैवर्त्यम् अनुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादितं भवति सर्वबुद्धविनेया विनी ता भवन्ति । त्रिभाग आयुषः उत्सृष्टो भवति । सीमाबन्धः कृतो भवति । श्रावकयुगम् अग्रतायाम् उत्सृ ष्टो भवति । श्रावस्त्यां महाप्रातिहार्यं विदर्शितं भवति । सांकाश्ये नगरे देवावतारणं विदर्शितं भवति । मातापितरौ सत्येषु प्रति ष्ठापितौ भवतः । अनवतप्ते महासरसि श्रावकसंघेन सार्धं पूर्विका कर्मप्लोतिदेशना व्याकृता भवति ।
अथ बुद्धो भगवां श्रावकसंघेन सार्धं अनवतप्ते महासरसि पूर्विकां कर्मप्लोतिं व्याकर्तुकामो भिक्षून् आमन्त्रयते स्म । आगम् अयत भिक्षवो येनानवतप्तं महासरस् तेन स्वकस्वकानां पूर्विकां कर्मप्लोतिं व्याकुर्याम । भिक्षवः एवं भदन्त इति भगवतः प्रत्यश्रौषुः अथ भगवान् एकोनैः पञ्चभिर् अर्हच्छतैः सार्धं श्रावस्त्याम् अन्तर्हितः अनवतप्ते महासरसि चण्डयक्षराक्षसनिषेविते नानापुष्पवृक्षोपशोभिते प्रादुर्भूतः ।
यं व्याडयक्षाचरितं मनोरमं विचित्रपुष्पैस् तरुभिः सुशोभितम् ।
इतो यतो जलवहसागरंग मा नद्यश् चतस्रः प्रसृताश् चतुर्दिशं ॥
गङ्गा च सिन्धुश् च तथैव वक्षुः सीता च यन् न प्रतरन्ति मानुषाः
नान्यत्र ये रि द्धिबलस्य लाभी हन्तेह गच्छामि सरो महोदधिम्* ॥
धर्मता खलु य स्मिन् समये बुद्धा भगवन्तो लौकिकं चित्तम् उत्पादयन्ति तस्मिन् समये कुन्तपिपीलकादयो ऽपि प्राणिनो भगवतश् चेतसा चित्तम् आजानन्ति । अथ नन्दोपनन्दयोर् नागराजयोर् एतद् अभवत्* । किमर्थं भगवता लौकिकं चित्तम् उत्पादितम्* । प श्यतो ऽनवतप्ते महासरसि कर्मप्लोतिं व्याकर्तुकामः ततस् तस्यानवतप्तस्य महासरसो मध्ये सर्वसुवर्णखचितरत्नमयकाण्डकिञ्जल्ककर्मकृतरथचक्रोपमसहस्रदलकमलपरिवृतो भगवान् भिक्षुसंघेन सह पद्म कर्णिकायां निषण्णः स्थविरस्थविरा अपि भिक्षवो ऽन्यासु पद्मकर्णिकासु निषण्णाः तेन खलु समयेन शारिपुत्रो गृध्रकूटपर्वते संघाटिकां सीव्यति स्म । अथ भगवान् आयुष्मन्तं महामौद्गल्यायनम् आह । गच्छ मौद्गल्यायन प्रव्रज्यास हायकम् आनयेत्य् एवं भदन्तेत्य् आयुष्मां महामौद्गल्यायन ः अनवतप्ते महासरस्य् अन्तर्हितो गृध्र कूटे पर्वते आयुष्मतः शारिपुत्रस्य पुरतः स्थित्वा एवम् आह । आयुष्मन् शारिपुत्र पञ्चशतार्हद्भिः सह शास्ता एकैकशः ( fओल्. 200र्1 ) पूर्विकां कर्मप्लोतिं व्याकर्तुकाम स् त्वत्प्रतीक्षणपरः आगच्छ गच्छामः स कथयत्य् आयुष्मन् महा मौद्गल्या यन संघाटी ता वत् सीव्यामि । पश्चाद् आगमिष्यामीति । स कथयति । तथास्तु सहाय । अथ ( म्स्व् इ 165 ) महामौद्गल्यायन ऋद्ध्या पञ्चभिर् अ ङ्गुलीभिः सीवितुम् आरब्धः आयुष्माञ् च्छारिपुत्रः कथयति आयुष्मं महामौद्गल्यायन स्यूता भ् अ व् अ तु । स कथयत्य् आयुष्मञ् च्छारि पुत्र सचेत् त्वं न गच्छेर् बलात् त्वां ग्रहीष्यामि । अथायुष्मान् शारिपुत्रस् तस्य काञ्चीम् आकृष्य कथयति । महामौद्गल्यायन ननु त्वं भगवता ऋद्धिमतां अग्रो निर्दिष्टः स त्वम् एतत् ताव न् नय पश्चान् मां नेष्यसीति । तत आयुष्मता महामौ द्गल्यायनेन ते तत्र नीताः । अथ आयुष्मान् शारिपुत्रः संलक्षयति । अयं महर्द्धिकः । सचेत् स्थानम् इदं सर्वं नेष्यतीति । स तेन गृध्रकूटे पर्वते उपनिबद्ध आयुष्मता महामौद्गल्यायनेनाकृष्टो गृध्रकूतः पर्वत ः कम्प् इ तुम् आरब्धः
। अथायुष्मान् शारिपुत्रः संलक्षयति । अनेन गृध्रकूटपर्वतश् चालित इति ... यन्व् अहं सुमेरौ उपनिबध्नीया म् ( म्स्व्,wइ 72 ) इति स तेन सुमेरौ पर्वतराजे उपनिबद्धः पुनर् आयुष्मता महामौद्गल्यायनेनाकृष्टः सुमेरुः पर्वतो नन्दोपनन्दौ नागराजौ च चालितौ । अनवतप्तं महासरश् च । सर्वं क्षुब्धम्* । अथ स्थविरस्थ विरा भिक्षवश् चलितुम् आरब्धाः पद्मकर्णिकेषु निषण्णास् ते भगवन्तं पप्रच्छुः किमर्थं भगवं नन्दोप नन्दौ नागराजौ चालितौ । भगवान् आह । भिक्षवः नन्दोपनन्दयोर् नागराजयोर् नास्ति कम्पनम् इति श्रुत्वा तौ ऋद्धिविकु र्वितं कुरुत इति आयुष्माञ् च्छारिपुत्रः संलक्षयति यन्व् अहं भगवतः पद्मनाडे उपनिबद्ध्नीयाम् इति । तेन भगवतः प द्मनाडे उपनिबद्धो निष्कम्पं स्थितः । यदा तस्य ऋद्धि ऋद्ध्या पराभूता तदा ( म्स्व् इ 166 ) आयुष्मन्तं शारिपुत्रम् एवम् आह । गच्छ आयु ष्मञ् च्छारिपुत्र रिद्धिविकुर्वितम् आगच्छ गच्छावः गच्छायुष्मन् महामौद्गल्यायन एषो ऽहम् आगत एव यावद् आयुष्मान् महाम् औद्गल्यायनो न प्रत्यागतस् तावद् आर्यायुष्मान् शारिपुत्रो गतः । भगवतः पादौ शिरसा वन्दित्वा एकान्ते पद्मकर्णिकायां निषण्णः ततः पश्चाद् आयुष्मान् महमौद्गल्यायनो गतः पश्यत्य् आयुष्मन्तं शारिपुत्रं स कथयत्य् आगतो ऽसि आयुष्मं शारिपुत्र् अ आवाम् आगतौ ।
संशयजाता भिक्षवः सर्वसंशयच्छेत्तारं भगवन्तं पप्रच्छुः । भदन्त भगवता आयुष्मां महामौद्गल्यायन ः रि द्धिमताम् अ ग्रो निर्दिष्टो ऽथ च पुनर् आयुष्मता शारिपुत्रेण रिद्ध्या पराजित इति । भगवान् आह ॥ न भ् इ क्षव एतर्हि अतीते ऽध्वन्य् अपि शिल्पकुशलेन पराजितः ।

भूतपूर्वं ( fओल्. 200व्1 ) मध्य देशे ऽन्यतरश् चित्रकराचार्यो ऽभूत् स क् एन च् इ द् अर् थ् अ करणीयेन मध्यदेशाद् यवनविषयं गतः स तत्र यन्त्राचार्यस्य निवेशने ऽवतीर्णः तेन तस्य यन्त्र् अपुट्टलिकां कृत्वा प्रवेशिता । सा तस्य पादौ धावित्वा स्थिता । अथ स तस्या गमनसमये कथयति । सा तूष्णीम् अवस्थिता । स संलक्षयति नूनं ममैषा परिचारिका प्रेषिता स तां हस्ते गृहीत्वा आक्रष्टुम् आरब्धः यावच् छङ्कलिकापुंजो व्यवस्थितः । स लज्जितः संलक्षयति । अहम् अनेन लज्जापितः । अहम् अप्य् एनं सराजपरिजनं ( म्स्व् इ 167 ) लज्ज यिष्यामीति तेन द्वाराभिमुखम् आत्मप्रतिबिम्बकम् उद्बन्धकं लिखितं कवाटसन्धौ च निलीयावस्थितः तस्य यो व्युत्थानकाल ः सो ऽ त् इ क्रान्तः । अथ यन्त्राचार्यः संलक्षयति । दूरागत एषः । कस्माद् द्वारम् इदम् अनवरुद्धम्* । स प्रविश्य पश्यति यावद् उ द्बध्य मृतं स संलक्षयति किंकारणं अनेनात्मा जीविताद् व्यवरोपितः पश्यति तां दारुपुत्रिकां शं कलिकां पुञ्जीभूताम्* । स संलक्षयति । एष लज्जापितः । समयोचितम् आचारम् अनुष्ठाय ( म्स्व्,wइ 73 ) अतिथि ः कालं करोति स तं तावन् न सत्करोति यावद् रज्ञे निवेदितम् इति । ततस् तेन राज्ञ् अः सकाशं गत्वा निवेदितम्* दे व आसीद् यवनविषये चित्राचार्यः । स मत्सकाशम् आगतः । तस्य परिचर्यार्थाय मया दारुपुत्रिका प्रवेशिता । तेन तस्या हस्तौ गृहीत्वा आकृष्टा शंकलिकापुञ्जो ऽवस्थितः तेन प्रभिन्नेनात्मा उद्बद्धः तद् अर्हति देवस् तं प्रत्यवेक्षितुं ततो ऽहं सत्करोमि । अथ राज्ञा राजपुरुषाः प्रेषिताः । भवन्तो यूयम् अद्य प्राक् प्रत्यवेक्षध्वम्* । अथ ते तत्र गत्वा प्रत्यवेक्षन्ते । तेषाम् एतद् अभवत्* । अस्माभिः क थम् अस्मान् नागदन्तकाद् अवतारयितव्यम् इति । अपरे कथयन्ति पाशश् छेत्तव्य इति ते कुठारं ग् ऋ हीत्वा छेत्तुम् आरब्धाः । यावत् पश्यन्ति चित्राचार्यम्* । अथ चित्रकलाचार्यः कवाटान्तरिकाया निर्गत्य कथयति । भोः पुरुष त्वयाहम् एकाकी प्रभिन्नस् त्वं पुनः सरा जिकायां पर्षदो मध्ये ( म्स्व्
इ 168 ) मया प्रभे द् इ त । किं मन्यध्वे भिक्षवस् तेन कालेन तेन समयेन यो ऽसौ यन्त्र कलाचार्य एष एव् आसौ मौद्गल्यायनो भिक्षुस् तेन कालेन तेन समयेन यो ऽसौ चित्रकराचार्य एष एवासौ शारिपुत्रो भिक्षुस् तेन कालेन तेन समयेन तदाप्य् अनेनैष शि ल्पेन प राजितः एतर्ह्य् अप्य् अनेनैष ऋद्ध्या पराजितः ।
भूयो ऽपि यो ऽनेन शिल्पकुशलेन पराजितस् तच् छ्रूयताम्* । भूतपूर्वं भिक्षवो द्वयोश् चित्रकलाचा र्ययोर् विवादो ऽभूत्* एकः कथयत्य् अहं शोभनं शिल्पं जानामीति द्वितीयो ऽपि कथयत्य् अहं शोभनतरं जान् आमीत् इ परस्परं स्पर्धया राजसकाशं गतौ । तस्य पादयोर् निपतितौ । एकः कथयति । अहं शोभनं शिल्पं दर्शयिष्यामि । द्वितीयो ऽपि कथयति । अहं शोभनतरं शिल्पं दर्शयिष्यामि । अथ ( fओल्. 201र्1 ) राज्ञा तयोर् द्वारकोष्ठको दर्शितः भवन्तो नाहं जाने को युवयोः शोभनतरं शिल्पं जानीत इत्य् अ पि त्व् एक ए कां भित्तिं चित्रयतु द्वि तीयो अपरां* । + + + + + + + + + + + + + + + + + + + + + + + ( ग्ब्म् 6.1066अ ) च् इ त्रयितुम् आरब्धौ । तत्रैकेन षड्भिर् मासै श् चित्र कर्म कृतं द्वितीयेन षड्भिर् मासैर् भित्तिः परिकर्मिता । यस्य चित्रकर्म परिसमाप्तं स राज्ञः सका शम् उप् असं क्रान्तः उपसंक्रम्य कथ यति देव मम चित्र कर्म परिसम् आप्तं द्रष्टुम् अर्हसि । अथ ( म्स्व् इ 169 ) राजा सहा येन निर्गत्य दृष्टं परितुष्टः शोभनं चि त्रक र्मेति । द्वितीयः पादयोर् निपत्य कथयति इदानीं मदीयं चित्रकर्म द्रष्टुम् अर्हसि । तेन यवनिकापनीता च्छाया तत्र निपतिता ( म्स्व्,wइ 74 ) रा ज्ञा तद् दृष्ट्वा विस्म य् अ म् आपन्न इदं शोभ् अनतरं चित्रकर्मेति यवनिका म् आकृष्य पादयोर् निपत्य कथयति देव नै तच् चित्रकर्मापि तु भित्तीपरिकर्मैवम् इति । ततो राज्ञा भूयस्या मात्रया परं विस्मयम् आपन्नः कथयति अयं शोभनतरः शिल्पिक इति । कि ं मन्यध्वे भिक्षवो येना + + षड्भिर् मासैर् भित्तिपरिकर्म कृतं एष एवासौ शारिपुत्रो भिक्षुः येन तु ष् अड्भिर् मासै श् चित्रकर्म कृतं एष एवासौ मौद्गल्यायनो भिक्षुस् तेन कालेन तेन समयेन तदाप्य् एषो ऽनेन शिल्पेन पराजितः एतर्ह्य् अप्य् अनेनैष रि द् ध्या पराजितः ॥
भूयो ऽप्य्. + + + ऋद्ध् य् आ परा ज् इ तः तच् छ्रूयतां । भूतपूर्वं भिक्षवो वाराणसीं नगरं उपनि शृत्य द्वौ ऋषी प्रतिवसतः शंखाश् च लिखितश् च । यावद् अपरेण समयेन देवो वृष्टः कर्दमो जातः शंखः स्खलितः कर्दमे पतितः कुण्डिका भग्ना तत स् तेन शापो दत्तः तस्मात् त्वया दुराचार न वर्षितव्यम् इति । राज्ञा ब्रह्मद् अत्तेन वारा णसीनिवासिना च जनकायेन श्रुतं ततस् तैर् असौ गत्वा विज्ञप्तः महर्षे मैवं क्रियताम् इति । स कथयति न शक्यं मया दुराचारस्य क्षमितुं द्वादश वर्षाण्य् अनेन प राभू तेन न वर्षितव्यम् इति । ततो राज्ञा ब्रह्मदत्तेन तेन च जनक् आयेन लि खितो विज्ञप्तस् तेनायाचनं ( म्स्व् इ 170 ) कृतं देवो वृष्टः किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन ऋषिः शंखः एष एवासौ मौद्गल्याय नो यस् त्व् असौ लिखित एष एवासौ शारि पु त्रो भिक्षुस् तेन कालेन तेन समय् ए न तदाप्य् अनेन रिद्ध्या पराजितः ॥
पुनर् अपि यथैषो ऽनेन रिद्ध्या पराजितस् तच् छ्रूयतां । लिखितः शंखस्य कस्मिंश्चित् प्रयोजने पादयोर् निपतितः शंखेन पद्भ्यां ज टा + .. लिखितेनाभिहितः सूर्यस्याभ्युद्गमनकालसमये तव मूर्धा स्फलिष्यतीति । शंखः कथयति । तस्मात् सूर् यो नाभ्युदेष्य तीति । अन्धकारं लोके प्रादुर्भूतं । ततो राज्ञा ब्राह्मणगृहपतिभिश् च शंखो विज्ञप्तः महर्षे मैवं क्रियतां इति । स कथय् अति ( म्स्व्,wइ 75 ) सूर्यो ऽभ्युदेष्यति नियतं मम शिरः स्फलिष्यति । स लिखितेनाभिहितः ( fओल्. 201व्1 ) यद्य् एवं मृन्मयं शिरः क्रियतां । या + + + + मृ न्मयं शिरः कृतं सूर्यस्याभ्युदयेन स्फुटितम्* किं मन्यध्वे भिक्षवो यो ऽसौ शंखः ( ग्ब्म् 6.1066ब् ) एष एवासौ मौद्गल्यायनो भिक्षुः यो ऽसौ लि खित ए ष एवासौ शारिपुत्रो भिक्षुः ॥

यथा पुनर् अप्य् अनेन शिल्पेन पराजितस् तच् छ्रूयतां । मध्यदेशाद् दन्तकलाचार्यो दन्ततण्डुलानां प्रस्थम् आदाय यवनविषयं गतः स चित्रकराचार्यगृहे ऽवतीर्णः स च शून्यः स तस्य भार्याम् उवाच । वयस्यभार्ये त ण् डु लप्र स्था .. ( म्स्व् इ 171 ) साधयित्वानुप्रयच्छेति । स स्थापयित्वा प्रक्रान्तः सा साधयितुम् आरब्धा । काष्ठक्षयः संवृत्तो न च सिद्धास् ततो ऽस्या ः स्वामी आगतः कथयति भद्रे किम् एतत्* तया विस्तरेण समाख्यातं स व्यवलोकयितुम् आरब्धः । पश्यति दन्ततण्डुलां स तां विप्र लंभयं कथयति भद्रे क्षारम् एतत् पानीयं अन्यद् घटम् आनय तेनैते तण्डुल् आः साधयि ष्यन्तीति । तयासौ दन्तकलाचार्यो ऽभिहितः मृष्टं पानीयम् आनयेति । तेन ताम् उक्त्वा अन्यतमस्मिन् प्रदेशे वापी लिखिता तस्यां च कुक्कुरो व्याध्मात को लिखितः । त तो द न्तकराचार्यो घटं गृहीत्वा तं प्रदेशम् अनुप्राप्तः । पश्यति कुक्कुरं मृ तं व्याध्मा तकं । स घ्राणं पिधाय निरीक्षितुम् आरब्धो यावत् तस्य तद् उदकभाजनं भग्नं + दन्तकराचार्यः प्रतिभिन्नः । किं मन्यध्वे भिक्षवो यो ऽसौ दन्तकराचार्य एष एवासौ मौद्गल्यायनो भिक्षुः यो ऽसौ चित्रकराच् आर्य ए ष एवासौ शारिपुत्रो भिक्षुः । अपि तु यासां ध्यानविमोक्षसमाधिस माप त्तीनां लाभी तथागतस् तासां प्रत्येकबुद्धा नामापि न जानन्ति । यासां प्रत्येकब् उद्धा लाभिनस् तासां शारि प् उ त्रो भिक्षुर् नामापि न जानीते । यासां लाभी श् आरिपु त्रो भिक्षुस् तासां मौद्गल्यायनो भिक्षुर् नामापि न जानीते । यासां मौद्गल्या यनो भ् इ क्षुर् लाभी तासां तदन्ये श्रावका नामापि न जानते । महर् द् धिकः शारि पुत्रो महामौद्गल्याय नात्* किन् तु तद्बहुलविहारितां सन्धाय म या ऋद्धिमताम् अग्रो निर्दिष्टः ॥ ॥ शारिपुत्रमौद्गल्यायनवर्गः ॥ ॥
अथायुष्मान् म् अहाका श्यपः स्वां कर्मप्लोतिं व्या करोति । कथयति
स तत्र ग त्वा गिरम् अभ्युदीरय्. पूर्वंनिवासाचरितानुलोमिकाम्* ।
त द् द्रुतम् एकं स्मरति परीत्तं यत् कृत्वानुभ व ति फलं महत्* 1
सिंहो यथा पर्वतशैलधारी विशारदो गच्छति गोचराय ।
स काश्यपो .. + + + + + कः पूर्वेनिवा + + + + + + + 2

श्यामाकप् र स् थ + + + + + + + + + + + + + + + + दक् ष् इ णम्*
विमुक्तचित्ते अखिले अना स् र् अवे ऽरणे विहारिण्य् अनवद्यमानसे । 3
तस्मिंश् च संभावयेद् धर्मम् उत्तमं तस्मिन् धर्मे प्रणिधाय मा नसम्*
+ + + + + .. श् च समाग .. + + + + + + + + + + + + 4
+ + + + + + + + + + + + सहस्र कृत्वः कुरुषूपपन्नवां
दीर्घायुष्केष्व् अममे षु + + + ( fओल्. 202र्1 ) विशेषगामिष्व् अनिहीनवृत्तिषु 5
तस्यैव चैकस्य फलेन कर्मणः सहस्रकृत्वस् त्रिदशान् उपा गमम्*
विचित्र माल्याभरणानुलेप् अ नः प्रणीतकायो .. .. + + + + + 6
+ + + + + + + + + + + ( ग्ब्म् 6.1061अ ) .* पुनश् च देवेषु शुभेषु नन्दने
पु नर् मनु ष्येषु शुभेष्व् अहं पुनः उपसंपन्नश् चेतसः प्रणिधानकारणात्* 7
तस्यैव चैकस्य फलेन कर्मण् ओ जातो महाशालकुले द्विजो ह्य् अहम्*
प्रभूतवित्तो नरनारिसंम् अतः + + + + + + + + + + + + 8
+ + + + + + म या कदाचिन् नैवापश्यं ह्य् अप्रतिमन्य् अश्रावकान्*
कृत्वा पटप्लोतिककन्थिकाम् अहं लोके ऽर्हद्भ्यः प्रणिपत्य प्राव्रजम्* 9
सो ऽहं तथा प्रव्रजितो ह्य् अपश्यं जिनं निषण्णं बहुपुत्रचैत्ये ।
प्रणम्य पादौ च मुनेर् अवोचं शास्ता मे भगवां श्र् आवकस् ते ऽहं 10
+ + + + + + + + + + .. शास्ता ते ऽहं त्वं पुनः श्रावको मे ।
शृणु त्वं ध र्मं मधुरं प्रणीतं यदीच्छसे सर्वदुःखाद् विमोक्तुं । 11
ये चापि मे पुरुषवरेण तायिना धर्मा महाकारुणिकेन देशिता ः
ध्यानानि चत्वारि बलेन्द्रियाण्य् अ + + + + + + + + + + 12
+ + + .आ धर्मनिकामलाभी क्षीणास्रवो ह्य् अन्तिमदे हधारी
एभिश् च मे पश्चिमदेहधारिभिः समागमो ऽयं रिजुभिर् नीरजस्कैः 13
संपन्नवादी हि जिनस् तथागतः संपद्यते शीलवतो यदीच्छसि ।
यथा यथा मे मनसा + + + + + + + + + + + . अन्तिमो भवः 14
क्षीणा च मे जातिर् अथापि तृष्णा + + + ता बन्धनम् एव च्छिन्नं ।
पुत्रो ऽहम् अस्म्य् ओरसो धर्मराज्ञो निर्वास्यामि क्लेशगणक्षयाच् च । 15
धूतवासानाम् अहम् अग्रो निर्दिष्टः सर्वदर्शिना ।
क्षीणास्रवो वान्तदोषः प्र् आप्तो + + + + प द् अ म्* 16
एवं हि काश्यपः स्थविरो भिक्षुसंघाग्रतस्थितः
व् याकरोति स्वकं कर्म अनवतप्ते महाह्रदे ॥ ॥
काश्यपवर्गः प्रथमः ॥ ॥
अथ स्थविरस्थविरा भिक्षवः आयुष्मन्तं शारिपुत्रम् इदम् अवोचन्* किम् आयुष्मता शारिपुत्रेण कर्म कृतं यस्य् अ क् अर् म् अ णो विपाकेन महाप्रज्ञो महाप्रतिभानश् च संवृत्तः । स कथ् अयत्य्
अरण्ये ऽहम् ऋषिं शान्तम् अपश्यं श्रमणं तदा ।
प्रत्येकबुद्धं भगवन्तं लूहचीवरधारिणम्* 18
तस्मिंश् चित्तं प्रसाद्याहं धावयित्वा च चीवरम्*
स्यूत्वा रंक्त्वा च तथा वन्द्य चैनं पुनः पुनः 19
ततो मम् आ नुकंपार्थं सो ऽन्तरिक्षं समुद्गतः
प्रज्वलंस् तेजसा स्वेन ततो वैह् आयसं + + 20
अञ्जलिं संप्रगृह्याहम् अकार्षं प्रणि ध् इं तत ः
तीक्ष्णेन्द्रियो महाप्रज्ञ ईदृशः स्याम् अहं यथा । 21

नाढ्ये कुले ऽभिजायेयं मा चाहं नीचवृत्तिषु ।
मध्ये कुले ऽभिजायेयं प्रव्रज्याबहुलः सदा । 22
तेनाहं कुशलमूलेन पंच जातिशतान्य् अहं ।
मनुष्यलाभं लब्ध्व् आ च् अ प्र् आ व्र् अ जं चानगारिकाम्* 23
इयं मे पश्चि मा जातिर् लब्धो मे मानुषो भवः
आराधितः सार्थ वा हः संबुद्धो ऽयम् अनुत्तरः 24
प्रव्रज्या च मया लब्धा शाक्यसिंहस्य शासने ।
अर्हत्वं च मया प्राप्तं शीतीभूतो ऽस्मि निर्वृतः
अर्धमासाद् भदन्ताहं गतिपारमितां गतः 25
संमुखं चैव शास्ता मां भिक्षुसंघ्. + + + +
व्याकरोति प्रज्ञया श्रेष्ठं धर्मचक्रानुवर्तकम्* 26
शारिपुत्रो महाप्रज्ञो भिक्षुसंघाग्रतः स्थितः
व्याकरोति स्वकं कर्म अनवतप्ते ( ग्ब्म् 6.1061ब् ) महाह्रदे ॥ ॥ 27
शारिपुत्रवर्गो द्वितीयः ॥ ॥
अथ स्थविरस्थविरा भिक्षवः आयुष्मन्तं महामौद्ग ल्या य् अनम् इद म् अ वोचन्* व्याकृता आयुष्मं महामौद्गल्यायन आयुष्मता शारिपुत्रेण स्वककर्मप्लोतिर् इदानीं त्वम् अपि स्वकां कर्मप्लोतिं व्याकुरु । एवम् उक्त आयुष्मान् महामौद्गल्यायनः स्थविरस्थविरान् भिक्षून् इदम् अवोचत्*
.. .. .. हम् ऋषिः पूर्वं वनप्रस्थम् उपाशृतः
पुरुषस् तत्र चागम्य प्रव्रज्या ं माम् अयाचत । 28
केशांस् तस्यावरोप्याहं धावयित्वा च चीवरम्*
रञ्जयित्वा ततः प्रादात् सो ऽभूद् आत्तमना ः तदा । 29
एकान्तम् उपसंक्रम्य पर्यङ्केन निषण्णवान्*
प्रत्येकबोधिं स्पृष्ट्वा स स्त .. + + + संगतः 30
प्रामोद्यम् उपगम्याहं संप्रगृह्याञ्जलिं ततः
अकार्षं प्रणिधिं तत्र प्रार्थयं रिद्धिम् उत्तमा ं ।
ईदृशा मम रिद्धिः स्याद् यथैवास्य महाऋषेः 31
तेनाहं कुशलमूलेन यत्र यत्रोपपन्नवान्*
देवभूतो मनुष्यश् च कृतपुण्यो व्य रोचयम्* 32
इयं मे पश्चिमा जातिर् लब्धो मे मानुषो भवः
आराधितः सार्थवाहः संबुद्धो ऽयम् अनुत्तरः 33
प्रव्रज्या च मया लब्धा शाक्यसिंहस्य शासने ।
अर्हत्वं च मया प्राप् त् अं शी तीभूतो ऽस्मि निर् वृतः 34
अहम् ऋद्धिमताम् अग्र्यो निर्दिष्टः सर्वदर्शिना
.. + परी त्तं कुशलम् अनुभूतं सुखं बहु । 35
यच् चाप्य् अकुशलं कर्म शृणुत व्याकरोम्य् अहम्*
पुरोत्तमे राजगृहे चाभूवं श्रेष्ठिदारकः 36
बहिर् गृहस्य क्रीडित्वा प्रविशं भ क्तकराणात्*
+ + + मात् आपितराव् उभौ तत्र रहोगतौ । 37
दृष्ट्वा त्. .. .. .. + + ऽवध्यायन्ते च लज्जिताः
मनःप्रदोषं चाकार्षं पितुर् मातुर् अथान्तिके ।
यदा पुमां भविष्यामि हंम्य् एव् अ ं नडघात्यया । 38
मनःप्रदोषं कृत्वाहं कायेन न परा कृतं

+ + + + + + + + + + + दु ःखम् उत्तमम्* 39
ततः कर्मावशेषेण .. .. + प श्चिमे भवे ।
नडघात्यया हनिष्यन्ति श्रमणा अन्यतीर्थिकाः 40
स एव हि ममाबाधो भविता मरणान्तिकः
कर्मावशेषं चरमं ततः क्षीणं भविष्यति । 41
तस्मात् प्रसाद्य + + + + + + + + + + +
+ + + + + हेतो र् हि सत्वा गच्छन्ति सद्गतिम्* 42
इत्य् एवं क् ओलितः स्थविरो भिक्षुसंघाग्रतस्थितः
व्याकरोति स्व कं क र्म अनवतप्ते महाह्रदे ॥ ॥ 43
कोलितवर् ग् अस् तृ तीयः ॥ ॥
अथ स्थविरस्थविरा भिक्षवः आयुष्मन्तं शो भितम् + + + + + + + + + + + + .. कोलितेन स्वका कर्मप्लोतिर् इदानी म् आयु ष्मान् अपि शोभितः स्वकां कर्मप्लोतिं व्याकरोतु । अथायुष्माञ् च् छ् ओभित ः भिक्षुसंघस्य पुरस्तात् स्वकां कर्म प्लोतिं व्या करोतु ।
संघारामम् अहं गत् व् आ दृष्ट्वाचोक्षं तद् अङ्ग णं
+ + + + + + + + + + + + + + + + 44
तत श् चि त्तं प्रसाद्याहं चोक्षं दृष्ट्वा तद् अङ्ग णम्*
निष्क्लेश ः स्याम् इत्य् अवोचं यथेदं चोक्षम् अङ्गणं । 45
तेन कुशलमूलेन यत्र यत्रोपपन्नवान्*
प्रा सादि को दर्शनीयश् चाभिरूपो भवाम्य् अहम्* 46
ततः कर्मावशे षेण + + + + + + + +
+ + + + + + + + + + ( ग्ब्म् 6.1062अ ) शोभितम् एव मे । 47
शोभमानो ह्य् अहं जातो ज्ञाति संघाग्रतस् तदा ।
प्रियो मनापः सर्वेषां ज्ञातीनां सत्कृतः सदा । 48
आराधितः सार्थवाहः संबुद्धो ऽय म् अन् उ त् त् अरः ।
अर्हत्वं च मया प्राप्तं शीतीभूतो ऽस्मि निर्वृतः 49
यो मे च प्र णिधिः + + + + + + + + +
+ + + + + + + + कृतकृत्यो निरास्रवः 50
सर्वं जम् बुद्वीपम् अ पि काशिवस्त्रेण शोधयेत्*
वीतरागस्य यश् चैकं चंक्रमं शोधयेद् ऋषेः 51
जम्बुद्वीपे च सर्वस्मिं शोधयेद् ऋषिचंक्रमां ।
यश् च चातुर्दिशे संघे कटामात्रं विशोधयेत्* 52
जम्बुद्व् ईपे + + + + + + + + + + +
य श् चाप्य् एकं पाणिमात्रं जिन .. .. .. + + + 53
एतां विशेषितं ज्ञात्वा या मया वेदिता स्वयं ।
संमार्ज्य सुगतस्तूपं प्रसादयत मानसं । 54
तस्मात् प्रजानता ं सम्यक् संबुद्धस्य गुणान् बहून्*
कार्यः स्तूपेषु सत्क् आरो + + + + + + + + 55
एतद् भदन्ता ः स्मरामि यन् मया कुशलं कृतम्*
.. .. + + फ लं तस्य कान्तम् इष्टं मनोरमम्* 56
तस्माज् जिनस्य स्तूपेषु पूजां कुर्वीत शोभनाम्*
एतद् भदन्ता ः परमं पुण्यक्षेत्रम् अनुत्तमम्* 57
न हि चित्तप्रसादस्य भवत्य् अल्पा + + + +

मूल पाठ: Bhaiṣajyavastu · Edition: N. Dutt. Gilgit Manuscript, vol. 1-4, Calcutta, Srinagar 1939-1959. Vol. III: Mūlasarvāstivādavinayavastu, part 1-4. Part 1: Bhaiṣajyavastu; dto.: second edition, Delhi 1984. · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc