भागवत पुराण · अध्याय 07.10
भ्प्_07.10.001।0 श्रीनारद उवाच
भक्तियोगस्य तत् सर्वमन्तरायतयार्भकः ।
मन्यमानो हृषीकेशं स्मयमान उवाच ह
भ्प्_07.10.002।0 श्रीप्रह्राद उवाच
मा मां प्रलोभयोत्पत्त्या सक्तंकामेषु तैर्वरैः ।
तत्सङ्गभीतो निर्विण्णो मुमुक्षुस्त्वामुपाश्रितः
भृत्यलक्षणजिज्ञासुर्भक्तं कामेष्वचोदयत् ।
भवान् संसारबीजेषु हृदयग्रन्थिषु प्रभो
नान्यथा ते ऽखिलगुरो घटेत करुणात्मनः ।
यस्त आशिष आशास्ते न स भृत्यः स वै वणिक्
आशासानो न वै भृत्यः स्वामिन्याशिष आत्मनः ।
न स्वामी भृत्यतः स्वाम्यमिच्छन् यो राति चाशिषः
अहं त्वकामस्त्वद्भक्तस्त्वं च स्वाम्यनपाश्रयः ।
नान्यथेहावयोरर्थो राजसेवकयोरिव
यदि दास्यसि मे कामान् वरांस्त्वं वरदर्षभ ।
कामानां हृद्यसंरोहं भवतस्तु वृणे वरम्
इन्द्रियाणि मनः प्राण आत्मा धर्मो धृतिर्मतिः ।
ह्रीः श्रीस्तेजः स्मृतिः सत्यं यस्य नश्यन्ति जन्मना
विमुञ्चति यदा कामान् मानवो मनसि स्थितान् ।
तर्ह्येव पुण्डरीकाक्ष भगवत्त्वाय कल्पते
ओं नमो भगवते तुभ्यं पुरुषाय महात्मने ।
हरये ऽद्भुतसिंहाय ब्रह्मणे परमात्मने
भ्प्_07.10.011।0 श्रीभगवान् उवाच
नैकान्तिनो मे मयि जात्विहाशिष आशासते ऽमुत्र च ये भवद्विधाः ।
तथापि मन्वन्तरमेतदत्र दैत्येश्वराणामनुभुङ्क्ष्व भोगान्
कथा मदीया जुषमाणः प्रियास्त्वम् आवेश्य मामात्मनि सन्तमेकम् ।
सर्वेषु भूतेष्वधियज्ञमीशं यजस्व योगेन च कर्म हिन्वन्
भोगेन पुण्यं कुशलेन पापं कलेवरं कालजवेन हित्वा ।
कीर्तिं विशुद्धां सुरलोकगीतां विताय मामेष्यसि मुक्तबन्धः
य एतत् कीर्तयेन् मह्यं त्वया गीतमिदं नरः ।
त्वां च मां च स्मरन् काले कर्मबन्धात् प्रमुच्यते
भ्प्_07.10.015।0 श्रीप्रह्राद उवाच
वरं वरय एतत् ते वरदेशान् महेश्वर ।
यदनिन्दत् पिता मे त्वामविद्वांस्तेज ऐश्वरम्
विद्धामर्षाशयः साक्षात् सर्वलोकगुरुं प्रभुम् ।
भ्रातृहेति मृषादृष्टिस्त्वद्भक्ते मयि चाघवान्
तस्मात् पिता मे पूयेत दुरन्ताद्दुस्तरादघात् ।
पूतस्ते ऽपाङ्गसंदृष्टस्तदा कृपणवत्सल
भ्प्_07.10.018।0 श्रीभगवान् उवाच
त्रिःसप्तभिः पिता पूतः पितृभिः सह ते ऽनघ ।
यत् साधो ऽस्य कुले जातो भवान् वै कुलपावनः
यत्र यत्र च मद्भक्ताः प्रशान्ताः समदर्शिनः ।
साधवः समुदाचारास्ते पूयन्ते ऽपि कीकटाः
सर्वात्मना न हिंसन्ति भूतग्रामेषु किञ्चन ।
उच्चावचेषु दैत्येन्द्र मद्भावविगतस्पृहाः
भवन्ति पुरुषा लोके मद्भक्तास्त्वामनुव्रताः ।
भवान् मे खलु भक्तानां सर्वेषां प्रतिरूपधृक्
कुरु त्वं प्रेतकृत्यानि पितुः पूतस्य सर्वशः ।
मदङ्गस्पर्शनेनाङ्ग लोकान् यास्यति सुप्रजाः
पित्र्यं च स्थानमातिष्ठ यथोक्तं ब्रह्मवादिभिः ।
मय्यावेश्य मनस्तात कुरु कर्माणि मत्परः
भ्प्_07.10.024।0 श्रीनारद उवाच
प्रह्रादो ऽपि तथा चक्रे पितुर्यत् साम्परायिकम् ।
यथाह भगवान् राजन्नभिषिक्तो द्विजातिभिः
प्रसादसुमुखं दृष्ट्वा ब्रह्मा नरहरिं हरिम् ।
स्तुत्वा वाग्भिः पवित्राभिः प्राह देवादिभिर्वृतः
भ्प्_07.10.026।0 श्रीब्रह्मोवाच
देवदेवाखिलाध्यक्ष भूतभावन पूर्वज ।
दिष्ट्या ते निहतः पापो लोकसन्तापनो ऽसुरः
यो ऽसौ लब्धवरो मत्तो न वध्यो मम सृष्टिभिः ।
तपोयोगबलोन्नद्धः समस्तनिगमान् अहन्
दिष्ट्या तत्तनयः साधुर्महाभागवतो ऽर्भकः ।
त्वया विमोचितो मृत्योर्दिष्ट्या त्वां समितो ऽधुना
एतद्वपुस्ते भगवन् ध्यायतः परमात्मनः ।
सर्वतो गोप्तृ सन्त्रासान् मृत्योरपि जिघांसतः
भ्प्_07.10.030।0 श्रीभगवान् उवाच
मैवं विभो ऽसुराणां ते प्रदेयः पद्मसम्भव ।
वरः क्रूरनिसर्गाणामहीनाममृतं यथा
भ्प्_07.10.031।0 श्रीनारद उवाच
इत्युक्त्वा भगवान् राजंस्ततश्चान्तर्दधे हरिः ।
अदृश्यः सर्वभूतानां पूजितः परमेष्ठिना
ततः सम्पूज्य शिरसा ववन्दे परमेष्ठिनम् ।
भवं प्रजापतीन् देवान् प्रह्रादो भगवत्कलाः
ततः काव्यादिभिः सार्धं मुनिभिः कमलासनः ।
दैत्यानां दानवानां च प्रह्रादमकरोत् पतिम्
प्रतिनन्द्य ततो देवाः प्रयुज्य परमाशिषः ।
स्वधामानि ययू राजन् ब्रह्माद्याः प्रतिपूजिताः
एवं च पार्षदौ विष्णोः पुत्रत्वं प्रापितौ दितेः ।
हृदि स्थितेन हरिणा वैरभावेन तौ हतौ
पुनश्च विप्रशापेन राक्षसौ तौ बभूवतुः ।
कुम्भकर्णदशग्रीवौ हतौ तौ रामविक्रमैः
शयानौ युधि निर्भिन्न हृदयौ रामशायकैः ।
तच्चित्तौ जहतुर्देहं यथा प्राक्तनजन्मनि
ताविहाथ पुनर्जातौ शिशुपालकरूषजौ ।
हरौ वैरानुबन्धेन पश्यतस्ते समीयतुः
एनः पूर्वकृतं यत् तद्राजानः कृष्णवैरिणः ।
जहुस्ते ऽन्ते तदात्मानः कीटः पेशस्कृतो यथा
यथा यथा भगवतो भक्त्या परमयाभिदा ।
नृपाश्चैद्यादयः सात्म्यं हरेस्तच्चिन्तया ययुः
आख्यातं सर्वमेतत् ते यन् मां त्वं परिपृष्टवान् ।
दमघोषसुतादीनां हरेः सात्म्यमपि द्विषाम्
एषा ब्रह्मण्यदेवस्य कृष्णस्य च महात्मनः ।
अवतारकथा पुण्या वधो यत्रादिदैत्ययोः
प्रह्रादस्यानुचरितं महाभागवतस्य च ।
भक्तिर्ज्ञानं विरक्तिश्च याथार्थ्यं चास्य वै हरेः
सर्गस्थित्यप्ययेशस्य गुणकर्मानुवर्णनम् ।
परावरेषां स्थानानां कालेन व्यत्ययो महान्
धर्मो भागवतानां च भगवान् येन गम्यते ।
आख्याने ऽस्मिन् समाम्नातमाध्यात्मिकमशेषतः
य एतत् पुण्यमाख्यानं विष्णोर्वीर्योपबृंहितम् ।
कीर्तयेच् छ्रद्धया श्रुत्वा कर्मपाशैर्विमुच्यते
एतद्य आदिपुरुषस्य मृगेन्द्रलीलां $ दैत्येन्द्रयूथपवधं प्रयतः पठेत &अम्प्;
दैत्यात्मजस्य च सतां प्रवरस्य पुण्यं % श्रुत्वानुभावमकुतोभयमेति लोकम् ॥ भ्प्_07.09.047* ॥
यूयं नृलोके बत भूरिभागा लोकं पुनाना मुनयो ऽभियन्ति ।
येषां गृहान् आवसतीति साक्षाद् गूढं परं ब्रह्म मनुष्यलिङ्गम्
स वा अयं ब्रह्म महद्विमृग्य कैवल्यनिर्वाणसुखानुभूतिः ।
प्रियः सुहृद्वः खलु मातुलेय आत्मार्हणीयो विधिकृद्गुरुश्च
न यस्य साक्षाद्भवपद्मजादिभी रूपं धिया वस्तुतयोपवर्णितम् ।
मौनेन भक्त्योपशमेन पूजितः प्रसीदतामेष स सात्वतां पतिः
स एष भगवान् राजन् व्यतनोद्विहतं यशः ।
पुरा रुद्रस्य देवस्य मयेनानन्तमायिना
भ्प्_07.10.052।0 राजोवाच
कस्मिन् कर्मणि देवस्य मयो ऽहन् जगदीशितुः ।
यथा चोपचिता कीर्तिः कृष्णेनानेन कथ्यताम्
भ्प्_07.10.053।0 श्रीनारद उवाच
निर्जिता असुरा देवैर्युध्यनेनोपबृंहितैः ।
मायिनां परमाचार्यं मयं शरणमाययुः
स निर्माय पुरस्तिस्रो हैमीरौप्यायसीर्विभुः ।
दुर्लक्ष्यापायसंयोगा दुर्वितर्क्यपरिच्छदाः
ताभिस्ते ऽसुरसेनान्यो लोकांस्त्रीन् सेश्वरान् नृप ।
स्मरन्तो नाशयां चक्रुः पूर्ववैरमलक्षिताः
ततस्ते सेश्वरा लोका उपासाद्येश्वरं नताः ।
त्राहि नस्तावकान् देव विनष्टांस्त्रिपुरालयैः
अथानुगृह्य भगवान् मा भैष्टेति सुरान् विभुः ।
शरं धनुषि सन्धाय पुरेष्वस्त्रं व्यमुञ्चत
ततो ऽग्निवर्णा इषव उत्पेतुः सूर्यमण्डलात् ।
यथा मयूखसन्दोहा नादृश्यन्त पुरो यतः
तैः स्पृष्टा व्यसवः सर्वे निपेतुः स्म पुरौकसः ।
तान् आनीय महायोगी मयः कूपरसे ऽक्षिपत्
सिद्धामृतरसस्पृष्टा वज्रसारा महौजसः ।
उत्तस्थुर्मेघदलना वैद्युता इव वह्नयः
विलोक्य भग्नसङ्कल्पं विमनस्कं वृषध्वजम् ।
तदायं भगवान् विष्णुस्तत्रोपायमकल्पयत्
वत्सश्चासीत् तदा ब्रह्मा स्वयं विष्णुरयं हि गौः ।
प्रविश्य त्रिपुरं काले रसकूपामृतं पपौ
ते ऽसुरा ह्यपि पश्यन्तो न न्यषेधन् विमोहिताः ।
तद्विज्ञाय महायोगी रसपालान् इदं जगौ
स्मयन् विशोकः शोकार्तान् स्मरन् दैवगतिं च ताम् ।
देवो ऽसुरो नरो ऽन्यो वा नेश्वरो ऽस्तीह कश्चन
आत्मनो ऽन्यस्य वा दिष्टं दैवेनापोहितुं द्वयोः ।
अथासौ शक्तिभिः स्वाभिः शम्भोः प्राधानिकं व्यधात्
धर्मज्ञानविरक्त्यृद्धि तपोविद्याक्रियादिभिः ।
रथं सूतं ध्वजं वाहान् धनुर्वर्मशरादि यत्
सन्नद्धो रथमास्थाय शरं धनुरुपाददे ।
शरं धनुषि सन्धाय मुहूर्ते ऽभिजितीश्वरः
ददाह तेन दुर्भेद्या हरो ऽथ त्रिपुरो नृप ।
दिवि दुन्दुभयो नेदुर्विमानशतसङ्कुलाः
देवर्षिपितृसिद्धेशा जयेति कुसुमोत्करैः ।
अवाकिरन् जगुर्हृष्टा ननृतुश्चाप्सरोगणाः
एवं दग्ध्वा पुरस्तिस्रो भगवान् पुरहा नृप ।
ब्रह्मादिभिः स्तूयमानः स्वं धाम प्रत्यपद्यत
एवं विधान्यस्य हरेः स्वमायया विडम्बमानस्य नृलोकमात्मनः ।
वीर्याणि गीतान्यृषिभिर्जगद्गुरोर् लोकं पुनानान्यपरं वदामि किम्
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0