भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 06.11

06.11.001

भ्प्_06.11.001।0 श्रीशुक उवाच
त एवं शंसतो धर्मं वचः पत्युरचेतसः ।
नैवागृह्णन्त सम्भ्रान्ताः पलायनपरा नृप

06.11.002

विशीर्यमाणां पृतनामासुरीमसुरर्षभः ।
कालानुकूलैस्त्रिदशैः काल्यमानामनाथवत्

06.11.003

दृष्ट्वातप्यत सङ्क्रुद्ध इन्द्रशत्रुरमर्षितः ।
तान् निवार्यौजसा राजन् निर्भर्त्स्येदमुवाच ह

06.11.004

किं व उच्चरितैर्मातुर्धावद्भिः पृष्ठतो हतैः ।
न हि भीतवधः श्लाघ्यो न स्वर्ग्यः शूरमानिनाम्

06.11.005

यदि वः प्रधने श्रद्धा सारं वा क्षुल्लका हृदि ।
अग्रे तिष्ठत मात्रं मे न चेद्ग्राम्यसुखे स्पृहा

06.11.006

एवं सुरगणान् क्रुद्धो भीषयन् वपुषा रिपून् ।
व्यनदत् सुमहाप्राणो येन लोका विचेतसः

06.11.007

तेन देवगणाः सर्वे वृत्रविस्फोटनेन वै ।
निपेतुर्मूर्च्छिता भूमौ यथैवाशनिना हताः

06.11.008

ममर्द पद्भ्यां सुरसैन्यमातुरं निमीलिताक्षं रणरङ्गदुर्मदः ।
गां कम्पयन्नुद्यतशूल ओजसा नालं वनं यूथपतिर्यथोन्मदः

06.11.009

विलोक्य तं वज्रधरो ऽत्यमर्षितः स्वशत्रवे ऽभिद्रवते महागदाम् ।
चिक्षेप तामापततीं सुदुःसहां जग्राह वामेन करेण लीलया

06.11.010

स इन्द्रशत्रुः कुपितो भृशं तया महेन्द्रवाहं गदयोरुविक्रमः ।
जघान कुम्भस्थल उन्नदन् मृधे तत् कर्म सर्वे समपूजयन् नृप

06.11.011

ऐरावतो वृत्रगदाभिमृष्टो विघूर्णितो ऽद्रिः कुलिशाहतो यथा ।
अपासरद्भिन्नमुखः सहेन्द्रो मुञ्चन्नसृक् सप्तधनुर्भृशार्तः

06.11.012

न सन्नवाहाय विषण्णचेतसे प्रायुङ्क्त भूयः स गदां महात्मा ।
इन्द्रो ऽमृतस्यन्दिकराभिमर्श वीतव्यथक्षतवाहो ऽवतस्थे

06.11.013

स तं नृपेन्द्राहवकाम्यया रिपुं वज्रायुधं भ्रातृहणं विलोक्य ।
स्मरंश्च तत्कर्म नृशंसमंहः शोकेन मोहेन हसन् जगाद

06.11.014

भ्प्_06.11.014।0 श्रीवृत्र उवाच
दिष्ट्या भवान् मे समवस्थितो रिपुर् यो ब्रह्महा गुरुहा भ्रातृहा च ।
दिष्ट्यानृणो ऽद्याहमसत्तम त्वया मच्छूलनिर्भिन्नदृषद्धृदाचिरात्

06.11.015

यो नो ऽग्रजस्यात्मविदो द्विजातेर् गुरोरपापस्य च दीक्षितस्य ।
विश्रभ्य खड्गेन शिरांस्य् अवृश्चत् पशोरिवाकरुणः स्वर्गकामः

06.11.016

श्रीह्रीदयाकीर्तिभिरुज्झितं त्वां स्वकर्मणा पुरुषादैश्च गर्ह्यम् ।
कृच्छ्रेण मच्छूलविभिन्नदेहम् अस्पृष्टवह्निं समदन्ति गृध्राः

06.11.017

अन्ये ऽनु ये त्वेह नृशंसमज्ञा यदुद्यतास्त्राः प्रहरन्ति मह्यम् ।
तैर्भूतनाथान् सगणान् निशात त्रिशूलनिर्भिन्नगलैर्यजामि

06.11.018

अथो हरे मे कुलिशेन वीर हर्ता प्रमथ्यैव शिरो यदीह ।
तत्रानृणो भूतबलिं विधाय मनस्विनां पादरजः प्रपत्स्ये

06.11.019

सुरेश कस्मान् न हिनोषि वज्रं पुरः स्थिते वैरिणि मय्य् अमोघम् ।
मा संशयिष्ठा न गदेव वज्रः स्यान् निष्फलः कृपणार्थेव याच्ञा

06.11.020

नन्वेष वज्रस्तव शक्र तेजसा हरेर्दधीचेस्तपसा च तेजितः ।
तेनैव शत्रुं जहि विष्णुयन्त्रितो यतो हरिर्विजयः श्रीर्गुणास्ततः

06.11.021

अहं समाधाय मनो यथाह नः सङ्कर्षणस्तच्चरणारविन्दे ।
त्वद्वज्ररंहोलुलितग्राम्यपाशो गतिं मुनेर्याम्य् अपविद्धलोकः

06.11.022

पुंसां किलैकान्तधियां स्वकानां याः सम्पदो दिवि भूमौ रसायाम् ।
न राति यद्द्वेष उद्वेग आधिर् मदः कलिर्व्यसनं सम्प्रयासः

06.11.023

त्रैवर्गिकायासविघातमस्मत् पतिर्विधत्ते पुरुषस्य शक्र ।
ततो ऽनुमेयो भगवत्प्रसादो यो दुर्लभो ऽकिञ्चनगोचरो ऽन्यैः

06.11.024

अहं हरे तव पादैकमूल दासानुदासो भवितास्मि भूयः ।
मनः स्मरेतासुपतेर्गुणांस्ते गृणीत वाक् कर्म करोतु कायः

06.11.025

न नाकपृष्ठं न च पारमेष्ठ्यं न सार्वभौमं न रसाधिपत्यम् ।
न योगसिद्धीरपुनर्भवं वा समञ्जस त्वा विरहय्य काङ्क्षे

06.11.026

अजातपक्षा इव मातरं खगाः स्तन्यं यथा वत्सतराः क्षुधार्ताः ।
प्रियं प्रियेव व्युषितं विषण्णा मनो ऽरविन्दाक्ष दिदृक्षते त्वाम्

06.11.027

ममोत्तमश्लोकजनेषु सख्यं संसारचक्रे भ्रमतः स्वकर्मभिः ।
त्वन्माययात्मात्मजदारगेहेष्व् आसक्तचित्तस्य न नाथ भूयात्

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc