भागवत पुराण · अध्याय 06.10
भ्प्_06.10.001।0 श्रीबादरायणिरुवाच
इन्द्रमेवं समादिश्य भगवान् विश्वभावनः ।
पश्यतामनिमेषाणां अत्रैवान्तर्दधे हरिः
तथाभियाचितो देवैरृषिराथर्वणो महान् ।
मोदमान उवाचेदं प्रहसन्निव भारत
अपि वृन्दारका यूयं न जानीथ शरीरिणाम् ।
संस्थायां यस्त्वभिद्रोहो दुःसहश्चेतनापहः
जिजीविषूणां जीवानामात्मा प्रेष्ठ इहेप्सितः ।
क उत्सहेत तं दातुं भिक्षमाणाय विष्णवे
भ्प्_06.10.005।0 श्रीदेवा ऊचुः
किं नु तद्दुस्त्यजं ब्रह्मन् पुंसां भूतानुकम्पिनाम् ।
भवद्विधानां महतां पुण्यश्लोकेड्यकर्मणाम्
नूनं स्वार्थपरो लोको न वेद परसङ्कटम् ।
यदि वेद न याचेत नेति नाह यदीश्वरः
भ्प्_06.10.007।0 श्रीऋषिरुवाच
धर्मं वः श्रोतुकामेन यूयं मे प्रत्युदाहृताः ।
एष वः प्रियमात्मानं त्यजन्तं सन्त्यजाम्य् अहम्
यो ऽध्रुवेणात्मना नाथा न धर्मं न यशः पुमान् ।
ईहेत भूतदयया स शोच्यः स्थावरैरपि
एतावान् अव्ययो धर्मः पुण्यश्लोकैरुपासितः ।
यो भूतशोकहर्षाभ्यामात्मा शोचति हृष्यति
अहो दैन्यमहो कष्टं पारक्यैः क्षणभङ्गुरैः ।
यन् नोपकुर्यादस्वार्थैर्मर्त्यः स्वज्ञातिविग्रहैः
भ्प्_06.10.011।0 श्रीबादरायणिरुवाच
एवं कृतव्यवसितो दध्यङ्ङ् आथर्वणस्तनुम् ।
परे भगवति ब्रह्मण्य् आत्मानं सन्नयन् जहौ
यताक्षासुमनोबुद्धिस्तत्त्वदृग् ध्वस्तबन्धनः ।
आस्थितः परमं योगं न देहं बुबुधे गतम्
अथेन्द्रो वज्रमुद्यम्य निर्मितं विश्वकर्मणा ।
मुनेः शक्तिभिरुत्सिक्तो भगवत्तेजसान्वितः
वृतो देवगणैः सर्वैर्गजेन्द्रोपर्य् अशोभत ।
स्तूयमानो मुनिगणैस्त्रैलोक्यं हर्षयन्निव
वृत्रमभ्यद्रवच् छत्रुमसुरानीकयूथपैः ।
पर्यस्तमोजसा राजन् क्रुद्धो रुद्र इवान्तकम्
ततः सुराणामसुरै रणः परमदारुणः ।
त्रेतामुखे नर्मदायामभवत् प्रथमे युगे
रुद्रैर्वसुभिरादित्यैरश्विभ्यां पितृवह्निभिः ।
मरुद्भिरृभुभिः साध्यैर्विश्वेदेवैर्मरुत्पतिम्
दृष्ट्वा वज्रधरं शक्रं रोचमानं स्वया श्रिया ।
नामृष्यन्नसुरा राजन् मृधे वृत्रपुरःसराः
नमुचिः शम्बरो ऽनर्वा द्विमूर्धा ऋषभो ऽसुरः ।
हयग्रीवः शङ्कुशिरा विप्रचित्तिरयोमुखः
पुलोमा वृषपर्वा च प्रहेतिर्हेतिरुत्कलः ।
दैतेया दानवा यक्षा रक्षांसि च सहस्रशः
सुमालिमालिप्रमुखाः कार्तस्वरपरिच्छदाः ।
प्रतिषिध्येन्द्रसेनाग्रं मृत्योरपि दुरासदम्
अभ्यर्दयन्नसम्भ्रान्ताः सिंहनादेन दुर्मदाः ।
गदाभिः परिघैर्बाणैः प्रासमुद्गरतोमरैः
शूलैः परश्वधैः खड्गैः शतघ्नीभिर्भुशुण्डिभिः ।
सर्वतो ऽवाकिरन् शस्त्रैरस्त्रैश्च विबुधर्षभान्
न ते ऽदृश्यन्त सञ्छन्नाः शरजालैः समन्ततः ।
पुङ्खानुपुङ्खपतितैर्ज्योतींषीव नभोघनैः
न ते शस्त्रास्त्रवर्षौघा ह्य् आसेदुः सुरसैनिकान् ।
छिन्नाः सिद्धपथे देवैर्लघुहस्तैः सहस्रधा
अथ क्षीणास्त्रशस्त्रौघा गिरिशृङ्गद्रुमोपलैः ।
अभ्यवर्षन् सुरबलं चिच्छिदुस्तांश्च पूर्ववत्
तान् अक्षतान् स्वस्तिमतो निशाम्य शस्त्रास्त्रपूगैरथ वृत्रनाथाः ।
द्रुमैर्दृषद्भिर्विविधाद्रिशृङ्गैर् अविक्षतांस्तत्रसुरिन्द्रसैनिकान्
सर्वे प्रयासा अभवन् विमोघाः कृताः कृता देवगणेषु दैत्यैः ।
कृष्णानुकूलेषु यथा महत्सु क्षुद्रैः प्रयुक्ता ऊषती रूक्षवाचः
ते स्वप्रयासं वितथं निरीक्ष्य हरावभक्ता हतयुद्धदर्पाः ।
पलायनायाजिमुखे विसृज्य पतिं मनस्ते दधुरात्तसाराः
वृत्रो ऽसुरांस्तान् अनुगान् मनस्वी प्रधावतः प्रेक्ष्य बभाष एतत् ।
पलायितं प्रेक्ष्य बलं च भग्नं भयेन तीव्रेण विहस्य वीरः
कालोपपन्नां रुचिरां मनस्विनां जगाद वाचं पुरुषप्रवीरः ।
हे विप्रचित्ते नमुचे पुलोमन् मयानर्वन् छम्बर मे शृणुध्वम्
जातस्य मृत्युर्ध्रुव एव सर्वतः प्रतिक्रिया यस्य न चेह कॢप्ता ।
लोको यशश्चाथ ततो यदि ह्य् अमुं को नाम मृत्युं न वृणीत युक्तम्
द्वौ सम्मताविह मृत्यू दुरापौ यद्ब्रह्मसन्धारणया जितासुः ।
कलेवरं योगरतो विजह्याद् यदग्रणीर्वीरशये ऽनिवृत्तः
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0