भाषा

ENहिગુ
ग्रंथ पाठ

भगवद्गीताभाष्य · अध्याय 18

18.1

संन्यासस्य महाबाहो तत्त्वम् इच्छामि वेदितुम् ।
त्यागस्य च हृषीकेश पृथक् केशिनिषूदन ॥

18.2

काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः ।
सर्वकर्मफलत्यागं प्राहुस् त्यागं विचक्षणाः ॥

18.3

त्याज्यं दोषवद् इत्य् एके कर्म प्राहुर् मनीषिणः ।
यज्ञदानतपःकर्म न त्याज्यम् इति चापरे ॥

18.4

निश्चयं शृणु मे तत्र त्यागे भरतसत्तम ।
त्यागो हि पुरुषव्याघ्र त्रिविधस् संप्रकीर्तितः ॥

18.5ab

यज्ञदानतपःकर्म न त्याज्यं कार्यम् एव तत् ।

18.5cd

यज्ञो दानं तपश् चैव पावनानि मनीषिणाम् ॥

18.6

एतान्य् अपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च ।
कर्तव्यानीति मे पार्थ निश्चितं मतम् उत्तमम् ॥

18.7

नियतस्य तु संन्यासः कर्मणो नोपपद्यते ।
मोहात् तस्य परित्यागस् तामसः परिकीर्तितः ॥

18.8

दुःखम् इत्य् एव यः कर्म कायक्लेशभयात् त्यजेत् ।
स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥

18.9

कार्यम् इत्य् एव यत् कर्म नियतं क्रियते ऽर्जुन ।
सङ्गं त्यक्त्वा फलं चैव, स त्यागः सात्त्विको मतः ॥

18.10

न द्वेष्ट्य् अकुशलं कर्म कुशले नानुषज्जते ।
त्यागी सत्त्वसमाविष्टो मेधावी च्छिन्नसंशयः ॥

18.11

न हि देहभृता शक्यं त्यक्तुं कर्माण्य् अशेषतः ।
यस् तु कर्मफलत्यागी स त्यागीत्य् अभिधीयते ॥

18.12

अनिष्टम् इष्टं मिश्रं च त्रिविधं कर्मणः फलम् ।
भवत्य् अत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् ॥

18.13

पञ्चैतानि महाबाहो कारणानि निबोधे मे ।
सांख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ॥

18.14

अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् ।
विविधा च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् ॥

18.15

शरीरवाङ्मनोभिर् यत् कर्म प्रारभते नरः ।
न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ॥

18.16

तत्रैवं सति कर्तारम् आत्मानं केवलं तु यः ।
पश्यत्य् अकृतबुद्धित्वान् न स पश्यति दुर्मतिः ॥

18.17

यस्य नाहंकृतो भावो बुद्धिर् यस्य न लिप्यते ।
हत्वापि स इमांल् लोकान् न हन्ति न निबध्यते ॥

18.18

ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना ।
कारणं कर्म कर्तेति त्रिविधः कर्मसंग्रहः ॥

18.19

ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः ।
प्रोच्यते गुणसंख्याने यथावच् छृणु तान्य् अपि ॥

18.20

सर्वभूतेषु येनैकं भावम् अव्ययम् ईक्षते ।
अविभक्तं विभक्तेषु तज् ज्ञानं विद्धि सात्त्विकम् ॥

18.21

पृथक्त्वेन तु यज् ज्ञानं नानाभावान् पृथग्विधान् ।
वेत्ति सर्वेषु भूतेषु तज् ज्ञानं विद्धि राजसम् ॥

18.22

यत् तु कृत्स्नवद् एकस्मिन् कार्ये सक्तम् अहेतुकम् ।
अतत्त्वार्थवद् अल्पं च तत् तामसम् उदाहृतम् ॥

18.23

नियतं सङ्गरहितम् अरागद्वेषतः कृतम् ।
अफलप्रेप्सुना कर्म यत् तत् सात्त्विकम् उच्यते ॥

18.24

यत् तु कामेप्सुना कर्म साहङ्कारेण वा पुनः ।
क्रियते बहुलायासं तद् राजसम् उदाहृतम् ॥

18.25

अनुबन्धं क्षयं हिंसाम् अनवेक्ष्य च पौरुषम् ।
मोहाद् आरभ्यते कर्म यत् तत् तामसम् उच्यते ॥

18.26

मुक्तसङ्गो ऽनहंवादी धृत्युत्साहसमन्वितः ।
सिद्ध्यसिद्ध्योर् निर्विकारः कर्ता सात्त्विक उच्यते ॥

18.27

रगी कर्मफलप्रेप्सुर् लुब्धो हिंसात्मको ऽशुचिः ।
हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ॥

18.28

अयुक्तः प्राकृतः स्तब्धः शठो नैकृतिको ऽलसः ।
विषादी दीर्घसूत्री च कर्ता तामस उच्यते ॥

18.29

बुद्धेर् भेदं धृतेश् चैव गुणतस् त्रिविधं शृणु ।
प्रोच्यमानम् अशेषेण पृथक्त्वेन धनंजय ॥

18.30

प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये ।
बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥

18.31

यथा धर्मम् अधर्मं च कार्यं चाकार्यम् एव च ।
अयथावत् प्रजानाति बुद्धिः सा पार्थ राजसी ॥

18.32

अधर्मं धर्मम् इति या मन्यते तमसावृता ।
सर्वार्थान् विपरीतांश् च बुद्धिः सा पार्थ तामसी ॥

18.33

धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः ।
योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ॥

18.34

यया तु धर्मकामार्थान् धृत्या धारयते ऽर्जुन ।
प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ॥

18.35

यया स्वप्नं भयं शोकं विषादं मदम् एव च ।
न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी ॥

18.37

यत् तद् अग्रे विषम् इव परिणामे ऽमृतोपमम् ।
तत् सुखं सात्त्विकं प्रोक्तम् आत्मबुद्धिप्रसादजम् ॥

18.38

विषयेन्द्रियसंयोगाद् यत् तद् अग्रे ऽमृतोपमम् ।
परिणामे विषम् इव तत् सुखं राजसं स्मृतम् ॥

18.39

यद् अग्रे चानुबन्धे च सुखं मोहनम् आत्मनः ।
निद्रालस्यप्रमादोत्थं तत् तामसम् उदाहृतम् ॥

18.40

न तद् अस्ति पृथिव्यां वा दिवि देवेषु वा पुनः ।
सत्त्वं प्रकृतिजैर् मुक्तं यद् एभिः स्यात् त्रिभिर् गुणैः ॥

18.41

ब्राह्मणक्षत्रियविशां शूद्राणां च परंतप ।
कर्माणि प्रविभक्तानि स्वभावप्रभवैर् गुणैः ॥

18.42

शमो दमस् तपश् शौचं क्षान्तिर् आर्जवम् एव च ।
ज्ञानं विज्ञानम् आस्तिक्यं ब्राह्मं कर्म स्वभावजम् ॥

18.43

शैर्यं तेजो धृतिर् दाक्ष्यं युद्धे चाप्य् अपलायनम् ।
दानम् ईश्वरभावश् च क्षात्रं कर्म स्वभावजम् ॥

18.45

स्वे स्वे कर्मण्य् अभिरतस् संसिद्धिं लभते नरः ।
स्वकर्मनिरतस् सिद्धिं यथा विन्दति तच् छृणु ॥

18.46

यतः प्रवृत्तिर् भूतानां येन सर्वम् इदं ततम् ।
स्वकर्मणा तम् अभ्यर्च्य सिद्धिं विन्दति मानवः ॥

18.48

सहजं कर्म कौन्तेय सदोषम् अपि न त्यजेत् ।
सर्वारम्भा हि दोषेण धूमेनाग्निर् इवावृताः ॥

18.49

असक्तबुद्धिस् सर्वत्र जितात्मा विगतस्पृहः ।
नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति ॥

18.50

सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे ।
समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ॥

18.51

बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च ।
शब्दादीन् विषयांस् त्यक्त्वा रागद्वेषौ व्युदस्य च ॥

18.52

विविक्तसेवी लघ्वाशी यतवाक्कायमानसः ।
ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः ॥

18.53

अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम् ।
विमुच्य निर्ममश् शान्तो ब्रह्मभूयाय कल्पते ॥

18.54

ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति ।
समस् सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ॥

18.55

भक्त्या माम् अभिजानाति यावान् यश् चास्मि तत्त्वतः ।
ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥

18.56

सर्वकर्माण्य् अपि सदा कुर्वाणो मद्व्यपाश्रयः ।
मत्प्रसादाद् अवाप्नोति शाश्वतं पदम् अव्ययम् ॥

18.57

चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः ।
बुद्धियोगम् उपाश्रित्य मच्चित्तस् सततं भव ॥

18.58

मच्चित्तः सर्वदुर्गाणि मत्प्रसादात् तरिष्यसि ।
अथ चेत् त्वम् अहंकारान् न श्रोष्यसि विनङ्क्ष्यसि ॥

18.59

यद्य् अहङ्कारम् आश्रित्य न योत्स्य इति मन्यसे ।
मिथ्यैष व्यवसायस् ते प्रकृतिस् त्वां नियोक्ष्यति ॥

18.60

स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा ।
कर्तुं नेच्छसि यन् मोहात् करिष्यस्य् अवशो ऽपि तत् ॥

18.61

ईश्वरः सर्वभूतानां हृद्देशे ऽर्जुन तिष्ठति ।
भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया ॥

18.62

तम् एव शरणं गच्छ सर्वभावेन भारत ।
तत्प्रसादात् परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥

18.63

इति ते ज्ञानम् आख्यातं गुह्याद् गुह्यतरं मया ।
विमृश्यैतद् अशेषेण यथेच्छसि तथा कुरु ॥

18.64

सर्वगुह्यतमं भूयः शृणु मे परमं वचः ।
इष्टो ऽसि मे दृढम् इति ततो वक्ष्यामि ते हितम् ॥

18.65

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
माम् एवैष्यसि सत्यं ते प्रतिजाने प्रियो ऽसि मे ॥

18.66

सर्वधर्मान् परित्यज्य माम् एकं शरणं व्रज ।
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥

18.67

इदं ते नातपस्काय नाभक्ताय कदाचन ।
न चाशुश्रूषवे वाच्यं न च मां यो ऽभ्यसूयति ॥

18.68

य इदं परमं गुह्यं मद्भक्तेष्व् अभिधास्यति ।
भक्तिं मयि परां कृत्वा माम् एवैष्यत्य् असंशयः ॥

18.69

न च तस्मान् मनुष्येषु कश्चिन् मे प्रियकृत्तमः ।
भविता न च मे तस्माद् अन्यः प्रियतरो भुवि ॥

18.70

अध्येष्यते च य इमं धर्म्यं संवादम् आवयोः ।
ज्ञानयज्ञेन तेनाहम् इष्टः स्याम् इति मे मतिः ॥

18.71

श्रद्धावान् अनसूयुश् च शृणुयाद् अपि यो नरः ।
सो ऽपि मुक्तः शुभांल् लोकान् प्राप्नुयात् पुण्यकर्मणाम् ॥

18.72

कश्चिद् एतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा ।
कच्चिद् अज्ञानसंमोहः प्रनष्टस् ते धनञ्जय ॥

18.73

नष्टो मोहः स्मृतिर् लब्धा त्वत्प्रसादान् मयाच्युत ।
स्थितो ऽस्मि गतसंदेहः करिष्ये वचनं तव ॥

18.74

इत्य् अहं वासुदेवस्य पार्थस्य च महात्मनः ।
संवादम् इमम् अश्रौषम् अद्भुतं रोमहर्षणम् ॥

18.75

व्यासप्रसादाच् छ्रुतवान् एतद् गुह्यम् अहं परम् ।
योगं योगेश्वरात् कृष्णात् साक्षात् कथयतः स्वयम् ॥

18.76

राजन् संस्मृत्य संस्मृत्य संवादम् इमम् अद्भुतम् ।
केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर् मुहुः ॥

18.77

तच् च संस्मृत्य संस्मृत्य रूपम् अत्यद्भुतं हरेः ।
विस्मयो मे महान् राजन् हृष्यामि च पुनः पुनः ॥

18.78

यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।
तत्र श्रीर् विजयो भूतिर् ध्रुवा नीतिर् मतिर् मम ॥

मूल पाठ: Bhagavadgītābhāṣya · Data entry Sadanori Ishitobi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc