भगवद्गीता · अध्याय 87
विश्वनाथः : एतच् च केवलं मद्-अनुग्रहातिशयेनैव वेद्यं नान्यथेत्य् आह न मे इति । मम प्रभवं प्रकृष्टं सर्वं विलक्षणं भवं देवक्यां जन्म देव-गणा न जानन्ति, ते विषयाविष्टत्वान् न जानन्तु । ऋषयस् तु जानीयुस् तत्राह न महर्षयो ऽपि । तत्र हेतुः अहम् आदिः कारणं सर्वशः सर्वैर् एव प्रकारैः । न हि पितुर् जन्म-तत्त्वं पुत्रा जानन्तीति भावः । न हि ते भगवन् व्यक्तिं विदुर् देवा न दानवा [गीता 10.14] इत्य् अग्रिमानुवादाद् अत्र प्रभव-शब्दस्यान्यार्थता न कल्प्या
मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0