भगवद्गीता · अध्याय 86
मधुसूदनः : प्राग्-बहुधोक्तम् एव किम् अर्थं पुनर् वक्ष्यसीत्य् अत आह न मे विदुर् इति । प्रभवं प्रभावं प्रभु-शक्त्य्-अतिशयं प्रभवनम् उत्पत्तिम् अनेक-विभूतिभिर् आविर्भावं वा सुर-गणा इन्द्रादयो महर्षयश् च भृग्व्-आदयः सर्वज्ञा अपि न मे विदुः । तेषां तद्-अज्ञाने हेतुम् आह अहं हि यस्मात् सर्वेषां देवानां महर्षीणां च सर्वशः सर्वैः प्रकारैर् उत्पादकत्वेन बुद्ध्यादि-प्रवर्तकत्वेन च निमित्तत्वेनोपादानत्वेन चेति वादिः कारणात् । अतो मद्-विकारास् ते मत्-प्रभावं न जानन्तीत्य् अर्थः
मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0