भाषा

ENहिગુ
ग्रंथ पाठ

भगवद्गीता · अध्याय 69

69.2

मधुसूदनः - अधियज्ञो यज्ञम् अधिगतो देवतात्मा वा पर-ब्रह्म वा । स च कथं केन प्रकारेण चिन्तनीयः । किं तादात्म्येन किं वात्यन्ताभेदेन । सर्वथापि स किम् अस्मिन् देहे वर्तते ततो बहिर् वा । देहे चेत् स को ऽत्र बुद्ध्यादिस् तद्-व्यतिरिक्तो वा । अधियज्ञः कथं को ऽत्रेति न प्रश्न-द्वयम् । किन्तु सप्रकार एक एव प्रश्न इति द्रष्टव्यम् । परम-कारुणिकत्वाद् आयासेनापि सर्वोपद्रव-निवारकस्य भगवतो ऽनायासेन मत्-सनेहोपद्रव-निवारणम् ईषत्करम् उचितम् एवेति सूचयन् सम्बोधयति हे मधुसूदनेति ।
प्रयाण-काले च सर्व-करण-ग्राम-वैयाग्र्याच् चित्त-समाधानानुपपत्तेः कथं केन प्रकारेण नियतात्मभिः समाहित-चित्तैर्ज्ञेयो ऽसीत्य् उक्त-शङ्का-सूचनार्थश् चकारः । एतत् सर्वं सर्वज्ञत्वात् परम-कारुणिकत्वाच् च शरणागतं मां प्रति कथयेत्य् अभिप्रायः

मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc