भाषा

ENहिગુ
ग्रंथ पाठ

भगवद्गीता · अध्याय 36

36.2

मधुसूदनः : एवम् आदित्यम् आरभ्य गुरु-शिष्य-परम्परया प्राप्तम् इमं योगं राजानश् च त ऋषयश् चेति राजर्षयः प्रभुत्वे सति सूक्ष्मार्थ-निरीक्षण-क्षमा निमि-प्रमुखाः स्व-पित्रादि-प्रोक्तं विदुः । तस्माद् अनादि-वेद-मूलत्वेनानन्त-फलत्वेनानादि-गुरु-शिष्य-परम्परा-प्राप्तत्वेन च कृत्रिमत्व-शङ्कानास्पदत्वान् महा-प्रभावो ऽयं योग इति श्रद्धातिशयाय स्तूयते ।
स एवं महा-प्रयोजनो ऽपि योगः कालेन महता दीर्घेण धर्म-ह्रास-करेणेहेदानीम् आवयोर् व्यवहार-काले द्वापरान्ते दुर्बलान् अजितेन्द्रियान् अनधिकारिणः प्राप्य काम-क्रोधादिभिर् अभिभूयमानो नष्टो विच्छिन्न-सम्प्रदायो जातः । तं विना पुरुषार्थाप्राप्तेर् अहो दौर्भाग्यं लोकस्येति शोचति भगवान् । हे परन्तप ! परं काम-क्रोधादि-रूपं शत्रु-गणं शौर्येण बलवता विवेकेन तपसा च भानुर् इव तापयतीति परन्तपः शत्रु-तापनो जितेन्द्रिय इत्य् अर्थः । उर्वश्य्-उपेक्षणाद्य्-अद्भुत-कर्म-दर्शनात् । तस्मात् त्वं जितेन्द्रियत्वाद् अत्राधिकारीति सूचयति

मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc