भगवद्गीता · अध्याय 129
वंशी-विभूषित-करान् नव-नीरदाभात्
पीताम्बराद् अरुण-बिम्ब-फलाधरोष्ठात् ।
पूर्णेन्दु-सुन्दर-मुखाद् अरविन्द-नेत्रात्
कृष्णात् परं किम् अपि तत्त्वम् अहं न जाने
सदा सदानन्द-पदे निमग्नं मनो मनोभावम् अपाकरोति ।
गतागतायासम् अपास्य सद्यः परापरातीतम् उपैति तत्त्वम्
शैवाः सौराश् च गाणेशा वैष्णवाः शक्ति-पूजकाः ।
भवन्ति यन्-मयाः सर्वे सो ऽहम् अस्मि परः शिवः
प्रमाणतो ऽपि निर्णीयं कृष्ण-माहात्म्यम् अद्भुतम् ।
न शक्नुवन्ति ये सोढुं ते मूढा निरयं गताः
इति श्रीमत्-परमहंस-परिव्राजकाचार्य-श्री-विश्वेश्वर-सरस्वती-पाद-शिष्य-श्री-मधुसूदन-सरस्वती-विरचितायां श्रीमद्-भगवद्-गीता-गूढार्थ-दीपिकायाम् पुरुषोत्तम्-योगो नाम षोडशो ऽध्यायः
विश्वनाथः : अध्यायार्थम् उपसंहरति इतीति । विंशत्या श्लोकैर् एभिर् अतिरहस्यं शास्त्रम् एव सम्पूर्णं मयोक्तम्
जड-चैतन्य-वर्गाणां विवृतं कुर्वता कृतम् ।
कृष्ण एव महोत्कर्ष इत्य् अध्यायार्थ ईरितः ॥
इति सारार्थ-वर्षिण्यां हर्षिण्यां भक्त-चेतसाम् ।
गीतास्व् अयं पञ्चदशः सङ्गतः सङ्गतः सताम् ॥
बलदेवः : अथैतद् अपात्रेष्व् अप्रकाश्यम् इति भावेनाह इतीति । इत्य् एवं संक्षेप-रूपं पुरुषोत्तमत्व-निरूपकम् इदं त्रिश्लोकी-शास्त्रं तुभ्यं परम-भक्ताय मयोक्तम् । हे अनघ, त्वआप्य् अपात्रेषु नैतत् प्रकाश्यम् इति भावः । एतद् बुद्ध्वा बुद्धिमान् परोक्ष-ज्ञानी स्यात् । कृतकृत्यो ऽपरोक्ष-ज्ञानी चेति पुरुषोत्तमत्व-ज्ञानम् अभ्यर्च्यते
बद्धान् मुक्ताच् च यः पुंसो भिन्नस् तद्-भृत् तद्-उत्तमः ।
स पुमान् हरिर् एवेति प्राप्तं पञ्चदशाद् अतः ॥
इति श्रीमद्-भगवद्-गीतोपनिषद्-भाष्ये पञ्चदशो ऽध्यायः
मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0