भाषा

ENहिગુ
ग्रंथ पाठ

भगवद्गीता · अध्याय 104

104.2

मधुसूदनः -
विश्वनाथः --- तत्र मद्-भक्ताः श्रेष्ठा इत्य् आह मयि श्यामसुन्दराकारे मम आवेश्याविष्टं कृत्वा नित्य-युक्ता मन्-नित्य-योग-काङ्क्षिणः परया गुणातीतया श्रद्धया । यद् उक्तं -
सात्त्विक्य् आध्यात्मिकी श्रद्धा कर्म-श्रद्धा तु राजसी ।
तामस्य् अधर्मे या श्रद्धा मत्-सेवायां तु निर्गुणा ॥ [भ्प् 11.25.27] इति ।
ते मे मदीया अनन्य-भक्ता युक्ततमा योग-वित्तमा इत्य् अर्थः । तेनानन्य-भक्तेभ्यो न्यूना अन्ये ज्ञान-कर्मादि-मिश्र-भक्तिमन्तो योग-वित्तरा इत्य् अर्थो ऽभिव्यञ्जितो भवति । ततश् च ज्ञानाद् भक्तिः श्रेष्ठा भक्ताव् अप्य् अनन्य-भक्तिः श्रेष्ठेत्य् उपपादितम्

मूल पाठ: Bhagavadgītā-4comm with the commentaries of Śrīdhara, Madhusūdana, Viśvanātha and Baladeva · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc