भगवद्गीता (टीका सहित) · अध्याय 11
इति श्रीमत्-परमहंस-परिव्राजकाचार्यस्य श्रीगोवन्दिभगवत्पूज्यपाद-
शिष्यस्य श्रीमच्-छंकर-भगवतः कृतौ श्रीमद्-भगवद्-गीता-भाष्ये
दशमो ऽध्यायः ॥
भ्ग् 11
अथैकादशो ऽध्यायः
विश्व-रूप-दर्शन-योगः
(श्री-शङ्कराचार्य-भगवत्-पाद-कृत-भाष्यम्)
भगवतो विभूतय उक्ताः । तत्र च विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत् [गीता 10.42] इति भगवताभिहितं श्रुत्वा यत् जगद्-आत्म-रूपम्, आद्यम् ऐश्वरं तत् साक्षात्-कर्तुम् इच्छन्न् अर्जुन उवाच -
मद्-अनुग्रहाय परमं गुह्यम् अध्यात्म-संज्ञितम् ।
यत् त्वयोक्तं वचस् तेन मोहो ऽयं विगतो मम
मद्-अनुग्रहाय ममानुग्रहार्थं परमं निरतिशयं गुह्यं गोप्यम् अध्यात्म-संज्ञितम् आत्मानात्म-विवेक-विषयं यत् त्वयोक्तं वचो वाक्यं तेन ते वचसा मोहो ऽयं विगतो मम । अविवेक-बुद्धिर् अपगतेत्य् अर्थः
==============================
किं च -
भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया ।
त्वत्तः कमल-पत्राक्ष माहात्म्यम् अपि चाव्ययम्
भव उत्पत्तिर् अप्ययः प्रलयस् तौ भवाप्ययौ हि भूतानां श्रुतौ विस्तरशः मया, न संक्षेपतः । त्वत्तस् त्वत्-सकाशात् । कमल-पत्राक्ष कमलस्य पत्रं कमल-पत्रं तद्वद् अक्षिणी यस्य तव स त्वं कमल-पत्राक्षो, हे कमलपत्राक्ष ! महात्मनो भावो माहात्म्यम् अपि चाव्ययम् अक्षयम् । श्रुतम् इत्य् अनुवर्तते
==============================
एवम् एतद् यथात्थ त्वम् आत्मानं परमेश्वर ।
द्रष्टुम् इच्छामि ते रूपम् ऐश्वरं पुरुषोत्तम
एवम् एतन् नान्यथा यथा येन प्रकारेण आत्थ कथयसि त्वम् आत्मानं परमेश्वर । तथापि द्रष्टुम् इच्छामि ते तव ज्ञानैश्वर्य-शक्ति-बल-वीर्य-तेजोभिः संपन्नम् ऐश्वरं वैष्णवं रूपं पुरुषोत्तम
==============================
मन्यसे यदि तच् छक्यं मया द्रष्टुम् इति प्रभो ।
योगेश्वर ततो मे त्वं दर्शयात्मानम् अव्ययम्
मन्यसे चिन्तयसि यदि मयार्जुनेन तच् छक्यं द्रष्टुम् इति प्रभो ! स्वामिन् ! योगेश्वर योगिनो योगास् तेषाम् ईश्वरो योगेश्वरः, हे योगेश्वर ! यस्माद् अहम् अतीवार्थी द्रष्टुम्, ततस् तस्मान् मे मद्-अर्थं त्वम् आत्मानम् अव्ययम्
==============================
एवं चोदितो ऽर्जुनेन भगवान् उवाच -
पश्य मे पार्थ रूपाणि शतशो ऽथ सहस्रशः ।
नाना-विधानि दिव्यानि नाना-वर्णाकृतीनि च
पश्य मे पार्थ ! रूपाणि शतशो ऽथ सहस्रशः । अनेकश इत्य् अर्थः । तानि च नाना-विधान्य् अनेक-प्रकाराणि दिवि भवानि दिव्यान्य् अप्राकृतानि नाना-वर्णाकृतीनि च नाना विलक्षणा नील-पीतादि-प्रकारा वर्णास् तथाकृतयश् चावयव-संस्थान-विशेषो येषां रूपाणां तानि नाना-वर्णाकृतीनी च
==============================
पश्यादित्यान् वसून् रुद्रान् अश्विनौ मरुतस् तथा ।
बहून्य् अदृष्ट-पूर्वाणि पश्याश्चर्याणि भारत
पश्यादित्यान् द्वादश । वसून् अष्टौ । रुद्रान् एकादश । अश्विनौ द्वौ । मरुतः सप्त-सप्त-गणा ये तान् । तथा च बहून्य् अन्यान्य् अप्य् अदृष्ट-पूर्वाणि मनुष्य-लोके त्वया त्वत्तो ऽन्येन वा केनचित् । पश्याश्चर्याण्य् अद्भुतानि भारत
==============================
न केवलम् एतावद् एव -
इहैकस्थं जगत् कृत्स्नं पश्याद्य स-चराचरम् ।
मम देहे गुडाकेश यच् चान्यद् द्रष्टुम् इच्छसि
इहैक-स्थम् एकस्मिन्न् एव स्थितं जगत् कृत्स्नं समस्तं पश्याद्य इदानीं स-चराचरं सह चरेणाचरेण च वर्तते मम देहे गुडाकेश । यच् चान्यत् जय-पराजयादि । यत् शङ्कसे, यद् वा जयेम यदि वा नो जयेयुर् [गीता 2.6] इति यत् अवोचः, तद् अपि द्रष्टुं यदीच्छसि
==============================
किं तु -
न तु मां शक्यसे द्रष्टुम् अनेनैव स्व-चक्षुषा ।
दिव्यं ददामि ते चक्षुः पश्य मे योगम् ऐश्वरम्
न तु मां विश्व-रूप-धरं शक्यसे द्रष्टुम् अनेनैव प्राकृतेन स्व-चक्षुषा स्वकीयेन चक्षुषा । येन तु शक्यसे द्रष्टुं दिव्येन, तद् दिव्यं ददामि ते तुभ्यं चक्षुः । तेन पश्य मे योगम् ऐश्वरम् ईश्वरस्य मम ऐश्वरं योगं योग-शक्त्य्-अतिशयम् इत्य् अर्थः
==============================
संजय उवाच -
एवम् उक्त्वा ततो राजन् महा-योगेश्वरो हरिः ।
दर्शयाम् आस पार्थाय परमं रूपम् ऐश्वरम्
एवं यथोक्त-प्रकारेणोक्त्वा ततो ऽनन्तरं राजन् धृतराष्ट्र ! महा-योगेश्वरो महांश् चासौ योगेश्वरश् महा-योगेश्वरो हरिर् नारायणो दर्शयामास दर्शितवान् पार्थाय पृथा-सुताय परमं रूपं विश्व-रूपम् ऐश्वरम्
==============================
अनेक-वक्त्र-नयनम् अनेकाद्भुत-दर्शनम् ।
अनेक-दिव्याभरणं दिव्यानेकोद्यतायुधम्
अनेक-वक्त्र-नयनम् अनेकानि वक्त्राणि नयनानि च यस्मिन् रूपे तद् अनेक-वक्त्र-नयनम्, अनेकाद्भुत-दर्शनम् अनेकान्य् अद्भुतानि विस्मापकानि दर्शनानि यस्मिन् रूपे तद् अनेकाद्भुत-दर्शनं रूपम् । तथानेक-दिव्याभरणम् अनेकानि दिव्यान्य् आभरणानि यस्मिन् तद् अनेक-दिव्याभरणम् । तथा दिव्यानेकोद्यतायुधं दिव्यान्य् अनेकान्य् अस्यादीनि उद्यतान्य् आयुधानि यस्मिन् तद् दिव्यानेकोद्यतायुधम् । दर्शयामासेति पूर्वेण संबन्धः
==============================
किं च -
दिव्य-माल्याम्बर-धरं दिव्य-गन्धानुलेपनम् ।
सर्वाश्चर्य-मयं देवम् अनन्तं विश्वतो-मुखम्
दिव्य-माल्याम्बर-धरं दिव्यानि माल्यानि पुष्पाण्य् अम्बराणि वस्राणि च ध्रियन्ते येनेश्वरेण तं दिव्य-माल्याम्बर-धरम्, दिव्य-गन्धानुलेपनं दिव्यं गन्धानुलेपनं यस्य तं दिव्य-गन्धानुलेपनम्, सर्वाश्चर्य-मयं सर्वाश्चर्य-प्रायं देवम् अनन्तं नास्यान्तो ऽस्तीत्य् अनन्तस् तम्, विश्वतो-मुखं सर्वतो-मुखं सर्व-भूतात्म-भूतत्वात्, तं दर्शयामास । अर्जुनो ददर्शेति वाध्याह्रियते
==============================
या पुनर् भगवतो विश्व-रूपस्य भाः, तस्या उपमोच्यते -
दिवि सूर्य-सहस्रस्य भवेद् युगपद् उत्थिता ।
यदि भाः सदृशी सा स्याद् भासस् तस्य महात्मनः
अन्तरिक्षे वा दिवि सूर्याणां सहस्रं सूर्य-सहस्रं तस्य युगपद् उत्थितस्य सूर्य-सहस्रस्य या युगपद् उत्थिता भाः, सा यदि, सदृशी स्यात् तस्य महात्मनो विश्व-रूपस्यैव भासः । यदि वा न स्यात्, ततो विश्व-रूपस्यैव भा अतिरिच्यते इत्य् अभिप्रायः
==============================
किं च -
तत्रैकस्थं जगत् कृत्स्नं प्रविभक्तम् अनेकधा ।
अपश्यद् देव-देवस्य शरीरे पाण्डवस् तदा
तत्र तस्मिन् विश्व-रूप एकस्मिन् स्थितम् एक-स्थं जगत् कृत्स्नं प्रविभक्तम् अनेकधा देव-पितृ-मनुष्यादि-भेदैर् अपश्यद् दृष्टवान् देव-देवस्य हरेः शरीरे पाण्डावो ऽर्जुनस् तदा
==============================
ततः स विस्मयाविष्टो हृष्ट-रोमा धनंजयः ।
प्रणम्य शिरसा देवं कृताञ्जलिर् अभाषत
ततस् तं दृष्ट्वा स विस्मयेनाविष्टो विस्मयाविष्टो हृष्टानि रोमाणि यस्य सो ऽयं हृष्ट-रोमा चाभवद् धनञ्जयः । प्रणम्य प्रकर्षेण नमनं कृत्वा प्रह्वी-भूतः सन् शिरसा देवं विश्व-रूप-धरं कृताञ्जलिः नमस्कारार्थं संपुटीकृत-हस्तः सन्न् अभाषत उक्तवान्
==============================
कथम् ? यत् त्वया दर्शितं विश्व-रूपम्, तद् अहं पश्यामीति स्वानुभवम् आविष्कुर्वन्न् अर्जुन उवाच -
पश्यामि देवांस् तव देव देहे
सर्वांस् तथा भूत-विशेष-संघान् ।
ब्रह्माणम् ईशं कमलासन-स्थम्
ऋषींश् च सर्वान् उरगांश् च दिव्यान्
पश्याम्य् उपलभे हे देव, तव देहे देवान् सर्वान्, तथा भूत-विशेष-संघान् भूत-विशेषाणां स्थावर-जङ्गमानां नाना-संस्थान-विशेषाणां संघा भूत-विशेष-संघास् तान्, किं च - ब्रह्माणं चतुर्-मुखम् ईशम् ईशितारं प्रजानां कमलासन-स्थं पृथिवी-पद्म-मध्ये मेरु-कर्णिकासन-स्थम् इत्य् अर्थः । ऋषींश् च वसिष्ठादीन् सर्वान्, उरगांश् च वासुकि-प्रभृतीन् दिव्यान् दिवि भवान्
==============================
अनेक-बाहूदर-वक्त्र-नेत्रं
पश्यामि त्वा सर्वतो ऽनन्त-रूपम् ।
नान्तं न मध्यं न पुनस् तवादिं
पश्यामि विश्वेश्वर विश्व-रूप
अनेक-बाहूदर-वक्त्र-नेत्रम् अनेके बाहवर् उदराणि वक्त्राणि नेत्राणि च यस्य तव स त्वम् अनेक-बाहूदर-वक्त्र-नेत्रस् तम् अनेक-बाहूदर-वक्त्र-नेत्रम् । पश्यामि त्वा त्वां सर्वतः सर्वत्रानन्त-रूपम् अनन्तानि रूपाण्य् अस्य इत्य् अनन्त-रूपस् तम् अनन्त-रूपम् । नान्तम्, अन्तो ऽवसानम्, न मध्यम्, मध्यं नाम द्वयोः कोट्योर् अन्तरम् । न पुनस् तवादिम् - न देवस्यान्तं पश्यामि, न मध्यं पश्यामि, न पुनर् आदिं पश्यामि । हे विश्वेश्वर विश्व-रूप
==============================
किं च -
किरीटिनं गदिनं चक्रिणं च
तेजो-राशिं सर्वतो दीप्तिमन्तम् ।
पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद्
दीप्तानलार्क-द्युतिम् अप्रमेयम्
किरीटिआनं किरीटां नाम शिरोभूषणविशेषस् तत् यस्यास्ति सः किरीटी तं किरीटिआनम्, तथा गदिनं गदास्य विद्यते इति गदी तं गदिनम्, तथा चक्रिणं चक्त्रम् अस्यास्तीति चक्री तं चक्रिणं च, तेजो-राशिं तेजःपुजं सर्वतोदीप्तिमन्तं सर्वतोदीप्तिर् अस्यास्तीति सर्वतोदीप्तिमान्, तं सर्वतोदीप्तिमन्तं पश्यामि त्वां दुर्निरीक्ष्यं समन्तात् समन्ततः सर्वत्र दीप्तानलार्कद्युतिम् अनलश् चार्कश् चानलार्कौ दीप्तौ अनलार्कौ दीप्तानलार्कौ तयोः दीप्तानलार्कयोः द्युतिरिव द्युतिस् तेजो यस्य तव स त्वं दीप्तानलार्कद्युतिस् तं त्वां दीप्तानलार्कद्यतिम् अप्रमेयं न प्रमेयम् अशक्यपरिच्छेदम् इत्य् एतत्
==============================
इत एव ते योग-शक्ति-दर्शनात् अनुमिनोमि -
त्वम् अक्षरं परमं वेदितव्यं
त्वम् अस्य विश्वस्य परं निधानम् ।
त्वम् अव्ययः शाश्वत-धर्म-गोप्ता
सनातनस् त्वं पुरुषो मतो मे
त्वम् अक्षरं न क्षरतीति, परमं ब्रह्म वेदितव्यं ज्ञातव्यं मुमुक्षुभिः । त्वम् अस्य विश्वस्य समस्तस्य जगतः परं प्रकृष्टं निधानं निधीयते ऽस्मिन्न् इति निधानं पर आश्रय इत्य् अर्थः । किं च, त्वम् अव्ययो न तव व्ययो विद्यत इत्य् अव्ययः । शाश्वत-धर्म-गोप्ता शश्वद्-भवः शाश्वतो नित्यो धर्मस् तस्य गोप्ता शाश्वत-धर्म-गोप्ता । सनातनश् चिरन्तनस् त्वं पुरुषः परमः मतो ऽभिप्रेतः मे मम
==============================
किं च -
अनादि-मध्यान्तम् अनन्त-वीर्यम्
अनन्त-बाहुं शशि-सूर्य-नेत्रम् ।
पश्यामि त्वां दीप्त-हुताश-वक्त्रं
स्व-तेजसा विश्वम् इदं तपन्तम्
अनादि-मध्यान्तम् आदि च मध्यं चान्तश् च न विद्यते यस्य सो ऽयम् अनादि-मध्यान्तस्, तं त्वाम् अनादि-मध्यान्तम् । अनन्त-वीर्यं न तव वीर्यस्यान्तो ऽस्तीत्य् अनन्त-वीर्यस्, तं त्वाम् अनन्त-वीर्यम् । तथानन्त-बाहुम् अनन्ता बाहवो यस्य तव स त्वम्, अनन्त-बाहुस् तं त्वाम् अनन्त-बाहुम् । शशि-सूर्य-नेत्रं शशि-सूर्यौ नेत्रे यस्य तव स त्वं शशि-सूर्य-नेत्रस्, तं त्वां शशि-सूर्य-नेत्रं चन्द्रादित्य-नयनम् । पश्यामि त्वां दीप्त-हुताश-वक्त्रं दीप्तश् चासौ हुताशश् च वक्त्रं यस्य तव स त्वं दीप्त-हुताश-वक्त्रस्, तं त्वां दीप्त-हुताश-वक्त्रम् । स्व-तेजसा विश्वम् इदं समस्तं तपन्तम् ॥
==============================
द्याव्-आपृथिव्योर् इदम् अन्तरं हि
व्याप्तं त्वयैकेन दिशश् च सर्वाः ।
दृष्ट्वाद्भुतं रूपम् इदं तवोग्रं
लोक-त्रयं प्रव्यथितं महात्मन्
द्याव्-आपृथिव्योर् इदम् अन्तरं ह्य् अन्तरिक्षं व्याप्तं त्वयैकेन विश्व-रूप-धरेण दिशश् च सर्वा व्याप्ताः । दृष्ट्वा उपलभ्याद्भुतं विस्मापकं रूपम् इदं तवोग्रं क्रूरं लोकानां त्रयं लोक-त्रयं प्रव्यथितं भीतं प्रचलितं वा । हे महात्मन् ! अक्षुद्र-स्वभाव
==============================
अथाधुना पुरा यद् वा जयेम यदि वा नो जयेयुः [गीता 2.6] इत्य् अर्जुनस्य यः संशय आसीत्, तन्-निर्णयाय पाण्डव-जयम् ऐकान्तिकं दर्शयामीति प्रवृत्तो भगवान् । तं पश्यन्न् आह । किं च -
अमी हि त्वा सुर-संघा विशन्ति
केचिद् भीताः प्राञ्जलयो गृणन्ति ।
स्वस्तीत्य् उक्त्वा महर्षि-सिद्ध-संघाः
स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः
अमी हि युध्यमाना योद्धारस् त्वा त्वां सुर-संघाः ये ऽत्र भू-भारावतारायावतीर्णा वस्व्-आदि-देव-संघा मनुष्य-संस्थानास् त्वां विशन्ति प्रविशन्तो दृश्यन्ते । तत्र केचित् भीताः प्राञ्जलयः सन्तो गृणन्ति स्तुवन्ति त्वाम् अन्ये पलायने ऽप्य् अशक्ताः सन्तः । युद्धे प्रत्युपस्थित उत्पातादि-निमित्तानि उपलक्ष्य स्वस्त्य् अस्तु जगत इति उक्त्वा महर्षि-सिद्ध-संघाः महर्षीणां सिद्धानां च संघाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः संपूर्णाभिः
==============================
किं चान्यत् -
रुद्रादित्या वसवो ये च साध्या
विश्वे ऽश्विनौ मरुतश् चोष्मपाश् च ।
गन्धर्व-यक्षासुर-सिद्ध-संघा
वीक्षन्ते त्वां विस्मिताश् चैव सर्वे
रुद्रादित्याः वसवो ये च साध्याः रुद्रादयो गणाः विश्वे-देवा अश्विनौ च देवौ मरुतश् च ऊष्मपा च पितरः, गन्धर्वयक्षासुरसिद्धसंघाः गन्धर्षः हाहाहूहूप्रभृतयो यक्षाः कुबेरप्रभृतयो ऽसुराः विरोचनप्रभृतयः सिद्धाः कपिलादयस् तेषां संघाः गन्धर्वयक्षासुरसिद्धसंघाः, ते वीक्षन्ते पश्यन्ति त्वां विस्मिताः विस्मयमापन्नाः सन्तस् ते एव सर्वे
==============================
यस्मात् -
रूपं महत् ते बहु-वक्त्र-नेत्रं
महा-बाहो बहु-बाहूरु-पादम् ।
बहूदरं बहु-दंष्ट्रा-करालं
दृष्ट्वा लोकाः प्रव्यथितास् तथाहम्
रूपं महद् अतिप्रमाणं ते तव बहु-वक्त्र-नेत्रं बहूनि वक्त्राणि मुखानि चक्षूंषि च यस्मिन् तद् रूपं बहु-वक्त्र-नेत्रम् । हे महा-बाहो ! बहु-बाहूरु-पादं बहवो बाहव ऊरवः पादाश् च यस्मिन् रूपे तद् बहु-बाहूरु-पादम् । किं च, बहूदरं बहूनि उदराणि यस्मिन्न् इति बहूदरम् । बहु-दंष्ट्रा-करालं बह्वीभिर् दंष्ट्राभिः करालं विकृतं तद् बहु-दंष्ट्रा-करालम् । दृष्ट्वा रूपम् ईदृशं लोका लौकिकाः प्राणिनः प्रव्यथिताः प्रचलिता भयेन । तथाहम् अपि
==============================
तत्रेदं कारणम् -
नभः-स्पृशं दीप्तम् अनेक-वर्णं
व्यात्ताननं दीप्त-विशाल-नेत्रम् ।
दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा
धृतिं न विन्दामि शमं च विष्णो
नभः-स्पृशं द्यु-स्पर्शम् इत्य् अर्थः । दीप्तं प्रज्वलितम् । अनेक-वर्णम् अनेके वर्णा भयङ्कराः नाना-संस्थाना यस्मिन् त्वयि तं त्वाम् अनेक-वर्णम् । व्यात्ताननं व्यात्तानि विवृतानि आननानि मुखानि यस्मिन् त्वयि तं त्वां व्यात्ताननम् । दीप्त-विशाल-नेत्रं दीप्तानि प्रज्वलितानि विशालानि विस्तीर्णानि नेत्राणि यस्मिन् त्वयि तं त्वां दीप्त-विशाल-नेत्रं दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा प्रव्यथितः प्रभीतो ऽन्तरात्मा मनो यस्य मम सो ऽहं प्रव्यथितान्तरात्मा सन् धृतिं धैर्यं न विन्दामि न लभे शमं चोपशमनं मनस्-तुष्टिम् । हे विष्णो
==============================
कस्मात् ?
दंष्ट्रा-करालानि च ते मुखानि
दृष्ट्वैव कालानल-संनिभानि ।
दिशो न जाने न लभे च शर्म
प्रसीद देवेश जगन्-निवास
दंष्ट्रा-करालानि दंष्ट्राभिः करालानि विकृतानि ते तव मुखानि दृष्ट्वैवोपलभ्य कालानल-संनिभानि प्रलय-काले लोकानां दाहको ऽग्निः कालानलस् तत्-सदृशानि कालानल-संनिभानि मुखानि दृष्ट्वेत्य् एतत् । दिशः पूर्वापर-विवेकेन न जाने दिङ्-मूढो जातो ऽस्मि । अतो न लभे च नोपलभे च शर्म सुखम् । अतः प्रसीद प्रसन्नो भव हे देवेश, जगन्-निवास
==============================
येभ्यो मम पराजयाशङ्का यासीत् सा चापगता । यतः -
अमी च त्वां धृतराष्ट्रस्य पुत्राः
सर्वे सहैवावनिपाल-संघैः ।
भीष्मो द्रोणः सूत-पुत्रस् तथासौ
सहास्मदीयैर् अपि योध-मुख्यैः
अमी च त्वां धृतराष्ट्रस्य पुत्राः दुर्योधन-प्रभृतयः - त्वरमाणाः विशन्तीति व्यवहितेन संबन्धः - सर्वे सहैव सहिताः अवनि-पाल-संघैर् अवनिं पृथ्वीं पालयन्तीत्य् अवनि-पालास् तेषां संघैः, किं च भीष्मो द्रोणः सूत-पुत्रः कर्णस् तथासौ सहास्मदीयैर् अपि धृष्टद्युम्न-प्रभृतिभिर् योध-मुख्यैर् योधानां मुख्यैः प्रधानैः सह
==============================
किं च -
वक्त्राणि ते त्वरमाणा विशन्ति
दंष्ट्रा-करालानि भयानकानि ।
केचिद् विलग्ना दशनान्तरेषु
सन्दृश्यन्ते चूर्णितैर् उत्तमाङ्गैः
वक्त्राणि मुखानि ते तव त्वरमाणास् त्वरा-युक्ताः सन्तो विशन्ति । किं-विशिष्टनि मुखानि ? दंष्ट्रा-करालानि भयानकानि भयङ्कराणि । किं च, केचित् मुखानि प्रविष्टानां मध्ये विलग्ना दशनान्तरेषु मांसम् इव भक्षितं संदृश्यन्त उपलभ्यन्ते चूर्णितैश् चूर्णीकृतैर् उत्तमाङ्गैः शिरोभिः
==============================
कथं प्रविशन्ति मुखानि ? इत्य् आह -
यथा नदीनां बहवो ऽम्बु-वेगाः
समुद्रम् एवाभिमुखा द्रवन्ति ।
तथा तवामी नर-लोक-वीरा
विशन्ति वक्त्राण्य् अभिविज्वलन्ति
यथा नदीनां स्रवन्तीनां बहवो ऽनेके ऽम्बूनां वेगा अम्बु-वेगास् त्वरा-विशेषाः समुद्रम् एवाभिमुखाः प्रतिमुखा द्रवन्ति प्रविशन्ति । तथा तद्वत् तवामी भीष्मादयो नर-लोक-वीरा मनुष्य-लोके शूराः विशन्ति वक्त्राण्य् अभिविज्वलन्ति प्रकाशमानानि
==============================
ते किम्-अर्थं प्रविशन्ति कथं च ? इत्य् आह -
यथा प्रदीप्तं ज्वलनं पतङ्गा
विशन्ति नाशाय समृद्ध-वेगाः ।
तथैव नाशाय विशन्ति लोकास्
तवापि वक्त्राणि समृद्ध-वेगाः
यथा प्रदीप्तं ज्वलनम् अग्निं पतङ्गाः पक्षिणो विशन्ति नाशाय विनाशाय समृद्ध-वेगाः समृद्ध उद्भूतो वेगो गतिर् येषां ते समृद्ध-वेगाः । तथैव नाशाय विशन्ति लोकाः प्राणिनस् तवापि वक्त्राणि समृद्ध-वेगाः
==============================
त्वं पुनः -
लेलिह्यसे ग्रसमानः समन्ताल्
लोकान् समग्रान् वदनैर् ज्वलद्भिः ।
तेजोभिर् आपूर्य जगत् समग्रं
भासस् तवोग्राः प्रतपन्ति विष्णो
लेलिह्यसे आस्वादयसि ग्रसमानो ऽन्तः प्रवेशयन् समन्तात् समन्ततः लोकान् समग्रान् समस्तान् वदनैर् वक्त्रैर् ज्वलद्भिर् दीप्यमानैस् तेजोभिर् आपूर्य संव्याप्य जगत् समग्रं सहाग्रेण समस्तम् इत्य् एतत् । किं च, भासो दीप्तयस् तवोग्राः क्रूराः प्रतपन्ति प्रतापं कुर्वन्ति हे विष्णो व्यापन-शील
==============================
यतः एवम् उग्र-स्वभावः, अतः -
आख्याहि मे को भवान् उग्र-रूपो
नमो ऽस्तु ते देव-वर प्रसीद ।
विज्ञातुम् इच्छामि भवन्तम् आद्यं
न हि प्रजानामि तव प्रवृत्तिम्
आख्याहि कथय मे मह्यं को भवान् उग्र-रूपः क्रूराकारः । नमो ऽस्तु ते तुभ्यं हे देव-वर देवानां प्रधान, प्रसीद प्रसादं कुरु । विज्ञातुं विशेषेण ज्ञातुम् इच्छामि भवन्तम् आद्यम् आदौ भवम् आद्यम्, न हि यस्मात् प्रजानामि तव त्वदीयां प्रवृत्तिं चेष्टम्
==============================
श्री-भगवान् उवाच -
कालो ऽस्मि लोक-क्षय-कृत् प्रवृद्धो
लोकान् समाहर्तुम् इह प्रवृत्तः ।
ऋते ऽपि त्वा न भविष्यन्ति सर्वे
ये ऽवस्थिताः प्रत्यनीकेषु योधाः
कालो ऽस्मि लोक-क्षय-कृत् लोकानां क्षयं करोतीति लोक-क्षय-कृत् प्रवृद्धो वृद्धिं गतः । यद्-अर्थं प्रवृद्धस् तच् छृणु - लोकान् समाहर्तुं संहर्तुम् इहास्मिन् काले प्रवृत्तः । ऋते ऽपि विनापि त्वा त्वां न भविष्यन्ति भीष्म-द्रोण-कर्ण-प्रभृतयः सर्वे, येभ्यस् तव आशङ्का, ये ऽवस्थिताः प्रत्यनीकेषु अनीकम् अनीकं प्रति प्रत्यनीकेषु प्रतिपक्ष-भूतेषु अनीकेषु योधा योद्धारः
==============================
यस्माद् एवम् -
तस्मात् त्वम् उत्तिष्ठ यशो लभस्व
जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम् ।
मयैवैते निहताः पूर्वम् एव
निमित्त-मात्रं भव सव्यसाचिन्
तस्मात् त्वम् उत्तिष्ठ भीष्म-प्रभृतयो ऽतिरथा अजेया देवैर् अप्य् अर्जुनेन जिता इति यशः लभस्व । केवलं पुण्यैर् हि तत् प्राप्यते । जित्वा शत्रून् दुर्योधन-प्रभृतीन् भुङ्क्ष्व राज्यं समृद्धम् असपत्नम् अकण्टकम् । मयैवैते निहता निश्चयेन हताः प्राणैर् वियोजिताः पूर्वम् एव । निमित्त-मात्रं भव त्वम् । हे सव्यसाचिन् ! सव्येन वामेनापि हस्तेन शराणां क्षेपात् सव्यसाचीत्य् उच्यते ऽर्जुनः
==============================
द्रोणं च भीष्मं च जयद्रथं च
कर्णं तथान्यान् अपि योध-वीरान् ।
मया हतांस् त्वं जहि मा व्यथिष्ठा
युध्यस्व जेतासि रणे सपत्नान्
द्रोणं च, येषु येषु योधेष्व् अर्जुनस्याशङ्का तांस् तान् व्यपदिशति भगवान् मया हतान् इति । तत्र द्रोण-भीष्मयोस् तावत् प्रसिद्धम् आशङ्का-कारणम् । द्रोणस् तु धनुर्-वेदाचार्यो दिव्यास्त्र-संपन्नः । आत्मनश् च विशेषतो गुरुर् गरिष्ठः । भीष्मश् च स्वच्छन्द-मृत्युर् दिव्यास्त्र-संपन्नश् च परशुरामेण द्वन्द्व-युद्धम् अगमत्, न च पराजितः । तथा जयद्रथः । यस्य पिता तपश् चरति मम पुत्रस्य शिरो भूमौ निपातयिष्यति यः, तस्यापि शिरः पतिष्यतीति । कर्णो ऽपि वासव-दत्तया शक्त्या त्व् अमोघया संपन्नः सूर्य-पुत्रः कानीनो यतः, अतस् तन्-नाम्नैव निर्देशः । मया हतान् त्वं जहि निमित्त-मात्रेण । मा व्यथिष्ठास् तेभ्यो भयं मा कार्षीः । युध्यस्व जेतासि दुर्योधन-प्रभृतीन् रणे युद्धे सपत्नान् शत्रून्
==============================
संजय उवाच -
एतच् छ्रुत्वा वचनं केशवस्य
कृताञ्जलिर् वेपमानः किरीटी ।
नमस्कृत्वा भूय एवाह कृष्णं
स-गद्गदं भीत-भीतः प्रणम्य
एतत् श्रुत्वा वचनं केशवस्य पूर्वोक्तं कृताञ्जलिः सन् वेपमानः कम्पमानः किरीटी नमस्कृत्वा । भूयः पुनर् एवाहोक्तवान् कृष्णं स-गद्गदं भयाविष्टस्य दुःखाभिघातात् स्नेहाविष्टस्य च हर्षोद्भवात्, अश्रु-पूर्ण-नेत्रत्वे सति श्लेष्मणा कण्ठावरोधः । ततश् च वाचो ऽपाटवं मन्द-शब्दत्वं यत् स-गद्गदस् तेन सह वर्ततेति स-गद्गदं वचनम् आहेति वचन-क्रिया-विशेषणम् एतत् । भीत-भीतः पुनः पुनर् भयाविष्ट-चेताः सन् प्रणम्य प्रह्वो भूत्वा । आहेति व्यवहितेन संबन्धः
==============================
अर्जुन उवाच -
स्थाने हृषीकेश तव प्रकीर्त्या
जगत् प्रहृष्यत्य् अनुरज्यते च ।
रक्षांसि भीतानि दिशो द्रवन्ति
सर्वे नमस्यन्ति च सिद्ध-संघाः
स्थाने युक्तम् । किं तत् ? तव प्रकीत्र्या त्वन्-माहात्म्य-कीर्तनेन श्रुतेन । हे हृषीकेश ! यत् जगत् प्रहृष्यति प्रहर्षम् उपैति, तत् स्थाने युक्तम् इत्य् अर्थः । अथवा विषय-विशेषणं स्थान इति । युक्तो हर्षादि-विषयो भगवान्, यत ईश्वरः सर्वात्मा सर्व-भूत-सुहृच् चेति । तथानुरज्यते ऽनुरागं चोपैति । तच् च विषय इति व्याख्येयम् । किं च, रक्षांसि भीतानि भयाविष्टनि दिशो द्रवन्ति गच्छन्ति । तच् च स्थाने विषये । सर्वे नमस्यन्ति नमस्कुर्वन्ति च सिद्ध-संघाः सिद्धानां समुदायाः कपिलादीनाम्, तच् च स्थाने
==============================
भगवतो हर्षादि-विषयत्वे हेतुं दर्शयति -
कस्माच् च ते न नमेरन् महात्मन्
गरीयसे ब्रह्मणो ऽप्य् आदि-कर्त्रे ।
अनन्त देवेश जगन्-निवास
त्वम् अक्षरं सद् असत् तत्-परं यत्
कस्माच् च हेतोस् ते तुभ्यं न नमेरन् नमस्कुर्युर् हे महात्मन् ! गरीयसे गुरुतराय । यतो ब्रह्मणो हिरण्यगर्भस्यापि आदि-कर्ता कारणम् अतस् तस्माद् आदि-कर्त्रे । कथम् एते न नमस्कुर्युः ? अतो हर्षादीनां नमस्कारस्य च स्थानं त्वम् अर्हो विषय इत्य् अर्थः । हे ऽनन्त देवेश हे जगन्-निवास त्वम् अक्षरं तत् परम्, यद् वेदान्तेषु श्रूयते । किं तत् ? सद् असद् इति । सद् विद्यमानम्, असच् च यत्र नास्तीति बुद्धिः । त उपधान-भूते सद्-असती यस्याक्षरस्य, यद्-द्वारेण सद् असद् इत्य् उपचर्यते । परमार्थतस् तु सद्-असतोः परं तत् अक्षरं यद् अक्षरं वेद-विदो वदन्ति [गीता 8.11] । तत् त्वम् एव, नान्यद् इत्य् अभिप्रायः
==============================
पुनर् अपि स्तौति -
त्वम् आदि-देवः पुरुषः पुराणस्
त्वम् अस्य विश्वस्य परं निधानम् ।
वेत्तासि वेद्यं च परं च धाम
त्वया ततं विश्वम् अनन्त-रूप
त्वम् आदि-देवो जगतः स्रष्टृत्वात् । पुरुषः, पुरि शयनात् पुराणश् चिरन्तनस् त्वम् एवास्य विश्वस्य परं प्रकृष्टं निधानं निधीयते ऽस्मिन् जगत् सर्वं महा-प्रलयादाव् इति । किं च, वेत्तासि, वेदितासि सर्वस्यैव वेद्य-जातस्य । यच् च वेद्यं वेदनार्हं तच् चासि परं च धाम परमं पदं वैष्णवम् । त्वया ततं व्याप्तं विश्वं समस्तम् । हे ऽनन्त-रूप ! अन्तो न विद्यते तव रूपाणाम्
==============================
किं च -
वायुर् यमो ऽग्निर् वरुणः शशाङ्कः
प्रजापतिस् त्वं प्रपितामहश् च ।
नमो नमस् ते ऽस्तु सहस्र-कृत्वः
पुनश् च भूयो ऽपि नमो नमस् ते
वायुस् त्वं यमश् चाग्निः वरुणो ऽपां पतिः शशाङ्कश् चन्द्रमाः प्रजापतिस् त्वं कश्यपादिः प्रपितामहश् च पितामहस्यापि पिता प्रपितामहः, ब्रह्मणो ऽपि पिता इत्य् अर्थः । नमो नमस् ते तुभ्यम् अस्तु सहस्र-कृत्वः । पुनश् च भूयो ऽपि नमो नमस् ते । बहुशो नमस्कार-क्रियाभ्यासावृत्ति-गणनं कृत्व-सुचोच्यते । पुनश् च भूयो ऽपीति श्रद्धा-भक्त-यति-शयाद् अपरितोषम् आत्मनो दर्शयति
==============================
तथा -
नमः पुरस्ताद् अथ पृष्ठतस् ते
नमो ऽस्तु ते सर्वत एव सर्व ।
अनन्त-वीर्यामित-विक्रमस् त्वं
सर्वं समाप्नोषि ततो ऽसि सर्वः
नमः पुरस्तात् पूर्वस्यां दिशि तुभ्यम्, अथ पृष्ठतस् ते पृष्ठतो ऽपि च ते नमो ऽस्तु ते सर्वत एव सर्वासु दिक्षु सर्वत्र स्थिताय । हे सर्व ! अनन्त-वीर्यामित-विक्रमो ऽनन्तं वीर्यम् अस्य, अमितो विक्रमो ऽस्य । वीर्यं सामर्थ्यं विक्रमः पराक्रमः । वीर्यवान् अपि कश्चित् शत्रु-वधादि-विषये न पराक्रमते, मन्द-पराक्रमो वा । त्वं त्व् अनन्त-वीर्यो ऽमित-विक्रमश् चेत्य् अनन्त-वीर्यामित-विक्रमः । सर्वं समस्तं जगत् समाप्नोषि सम्यग् एकेनात्मना व्याप्नोषि यतः, ततस् तस्माद् असि भवसि सर्वस् त्वम् । त्वया विनाभूतं न किंचिद् अस्तीत्य् अभिप्रायः
==============================
यतो ऽहं त्वन्-माहात्म्यापरिज्ञानाद् अपराद्धः । अतः -
सखेति मत्वा प्रसभं यद् उक्तं
हे कृष्ण हे यादव हे सखेति ।
अजानता महिमानं तवेदं
मया प्रमादात् प्रणयेन वापि
सखा समान-वया इति मत्वा ज्ञात्वा विपरीत-बुद्ध्या प्रसभम् अभिभूय प्रसह्य यद् उक्तं हे कृष्ण हे यादव हे सखेति चाजानताज्ञानिना मूढेन । किम् अजानता ? इत्य् आह - महिमानं माहात्म्यं तवेदम् ईश्वरस्य विश्व-रूपम् । तवेदं महिमानम् अजानतेति वैयधिकरण्येन संबन्धः । तवेमम् इति पाठो यद्य् अस्ति, तदा सामानाधिकरण्यम् एव । मया प्रमादात् विक्षिप्त-चित्ततया, प्रणयेन वापि । प्रणयो नाम स्नेह-निमित्तो विस्रम्भः । तेनापि कारणेन यद् उक्तवान् अस्मि
==============================
यच् चावहासार्थम् असत्कृतो ऽसि
विहार-शय्यासन-भोजनेषु ।
एको ऽथ वाप्य् अच्युत तत्-समक्षं
तत् क्षामये त्वाम् अहम् अप्रमेयम्
यच् चावहासार्थं परिहास-प्रयोजनायासत्कृतः परिभूतो ऽसि भवसि । क्व ? विहार-शय्यासन-भोजनेषु । विहरणं विहारः पाद-व्यायामः, शयनं शय्या, आसनम् आस्थायिका, भोजनम् अदनम्, इत्य् एतेषु विहार-शय्यासन-भोजनेषु, एकः परोक्षः सन्न् असत्कृतो ऽसि परिभूतो ऽसि । अथवापि हे ऽच्युत ! तत् समक्षम्, तच्-छब्दः क्रिया-विशेषणार्थः, प्रत्यक्षं वासत्कृतो ऽसि तत् सर्वम् अपराध-जातं क्षामये क्षमां कारये त्वाम् अहम् अप्रमेयं प्रमाणातीतम्
==============================
यतस् त्वम् -
पितासि लोकस्य चराचरस्य
त्वम् अस्य पूज्यश् च गुरुर् गरीयान् ।
न त्वत्-समो ऽस्त्य् अभ्यधिकः कुतो ऽन्यो
लोक-त्रये ऽप्य् अप्रतिम-प्रभाव
पितासि जनयितासि लोकस्य प्राणि-जातस्य चराचरस्य स्थावर-जङ्गमस्य । न केवलं त्वम् अस्य जगतः पिता । पूज्यश् च पूजार्हः, यतो गुरुर् गरीयान् गुरुतरः । कस्माद् गुरुतरस् त्वम् इत्य् आह - न त्वत्-समस् त्वत्-तुल्यो ऽस्ति । न हीश्वर-द्वयं संभवति, अनेके वरत्वे व्यवहारानुपपत्तेः । त्वत्-सम एव तावद् अन्यो न संभवति । कुत एवान्यो ऽभ्यधिकः स्यात् लोक-त्रये ऽपि सर्वस्मिन् ? अप्रतिम-प्रभाव ! प्रतिमीयते यया सा प्रतिमा, न विद्यते प्रतिमा यस्य तव प्रभावस्य स त्वम् अप्रतिम-प्रभावो हे ऽप्रतिम-प्रभाव निरतिशय-प्रभाव इत्य् अर्थः
==============================
यत एवम् -
तस्मात् प्रणम्य प्रणिधाय कायं
प्रसादये त्वाम् अहम् ईशम् ईड्यम् ।
पितेव पुत्रस्य सखेव सख्युः
प्रियः प्रियायार्हसि देव सोढुम्
तस्मात् प्रणम्य नमस्कृत्य, प्रणिधाय प्रकर्षेण नीचैर् धृत्वा कायं शरीरम्, प्रसादये प्रसादं कारये त्वाम् अहम् ईशम् ईशितारम्, ईड्यं स्तुत्यम् । त्वं पुनः पुत्रस्यापराधं पिता यथा क्षमते, सर्वं सखेव सख्युर् अपराधम्, यथा वा प्रियः प्रियाया अपराधं क्षमते । एवम् अर्हसि हे देव ! सोढुं प्रसहितुम् क्षन्तुम् इत्य् अर्थः
==============================
अदृष्ट-पूर्वं हृषितो ऽस्मि दृष्ट्वा
भयेन च प्रव्यथितं मनो मे ।
तद् एव मे दर्शय देव रूपं
प्रसीद देवेश जगन्-निवास
अदृष्ट-पूर्वं न कदाचिद् अपि दृष्ट-पूर्वम् इदं विश्व-रूपं तव मयान्यैर्वा, तत् अहं दृष्ट्वा हृषितो ऽस्मि । भयेन च प्रव्यथितं मनः मे । अतस् तद् एव मे मम दर्शय हे देव रूपं यत् मत्सखम् । प्रसीद देवेश, जगन्-निवास जगतो निवासो जगन्-निवासः, हे जगन्-निवास
==============================
किरीटिनं गदिनं चक्र-हस्तम्
इच्छामि त्वां द्रष्टुम् अहं तथैव ।
तेनैव रूपेण चतुर्-भुजेन
सहस्र-बाहो भव विश्व-मूर्ते
किरीटिनं किरीटवन्तं तथा गदिनं गदावन्तं चक्र-हस्तम् इच्छामि त्वां प्रार्थये त्वां द्रष्टुम् अहम्, तथैव पूर्ववद् इत्य् अर्थः । यत एवम्, तस्मात् तेनैव रूपेण वसुदेव-पुत्र-रूपेण चतुर्-भुजेन, सहस्र-बाहो ! वार्तमानिकेन विश्व-रूपेण, भव विश्व-मूर्ते । उपसंहृत्य विश्व-रूपम्, तेनैव रूपेण भवेत्य् अर्थः
==============================
अर्जुनं भीतम् उपलभ्य, उपसंहृत्य विश्व-रूपम्, प्रिय-वचनेन आश्वासयन् श्री-भगवान् उवाच -
मया प्रसन्नेन तवार्जुनेदं
रूपं परं दर्शितम् आत्म-योगात् ।
तेजो-मयं विश्वम् अनन्तम्
आद्यं यन् मे त्वद्-अन्येन न दृष्ट-पूर्वम्
मया प्रसन्नेन, प्रसादो नाम त्वय्य् अनुग्रह-बुद्धिः, तद्वता प्रसन्नेन मया तव । हे ऽर्जुन ! इदं परं रूपं विश्व-रूपं दर्शितम् आत्म-योगाद् आत्मन ऐश्वर्यस्य सामर्थ्यात् । तेजो-मयं तेजः-प्रायं विश्वं समस्तम् अनन्तम् अन्त-रहितं आदौ भवम् आद्यं, यद् रूपं मे मम त्वद्-अन्येन त्वत्तो ऽन्येन केनचिन् न दृष्ट-पूर्वम्
==============================
आत्मनो मम रूप-दर्शनेन कृतार्थ एव त्वं संवृत्त इति तत् स्तौति -
न वेद यज्ञाध्ययनैर् न दानैर्
न च क्रियाभिर् न तपोभिर् उग्रैः ।
एवं-रूपः शक्य अहं नृ-लोके
द्रष्टुं त्वद्-अन्येन कुरु-प्रवीर
न वेद-यज्ञाध्ययनैश् चतुर्णाम् अपि वेदानाम् अध्ययनैर् यथावत् यज्ञाध्ययनैश् च - वेदाध्ययनैर् एव यज्ञाध्ययनस्य सिद्धत्वात् पृथक् यज्ञाध्ययन-ग्रहणं यज्ञ-विज्ञानोपलक्षणार्थम् - तथा न दानैस् तुला-पुरुषादिभिः, न च क्रियाभिर् अग्निहोत्रादिभिः श्रौतादिभिः, नापि तपोभिर् उग्रैश् चान्द्रायणादिभिर् उग्रैर् घोरैः, एवं-रूपो यथा-दर्शितं विश्व-रूपं यस्य सो ऽहम् एवं-रूपो न शक्यो ऽहं नृ-लोके मनुष्य-लोके द्रष्टुं त्वद्-अन्येन त्वत्तो ऽन्येन कुर-प्रवीर
==============================
मा ते व्यथा मा च विमूढ-भावो
दृष्ट्वा रूपं घोरम् ईदृङ् ममेदम् ।
व्यपेत-भीः प्रीत-मनाः पुनस् त्वं
तद् एव मे रूपम् इदं प्रपश्य
मा ते व्यथा मा भूत् ते भयम्, मा च विमूढ-भावो विमूढ-चित्तता, दृष्ट्वोपलभ्य रूपं घोरम् ईदृक् यथा-दर्शितं ममेदम् । व्यपेत-भीर् विगत-भयः, प्रीत-मनाश् च सन् पुनर् भूयस् त्वं तद् एव चतुर्-भुजं रूपं शङ्ख-चक्र-गदाधरं तवेष्टं रूपम् इदं प्रपश्य
==============================
संजय उवाच -
इत्य् अर्जुनं वासुदेवस् तथोक्त्वा
स्वकं रूपं दर्शयाम् आस भूयः ।
आश्वासयाम् आस च भीतम् एनं
भूत्वा पुनः सौम्य-वपुर् महात्मा
इत्य् एवम् अर्जुनं वासुदेवस् तथा-भूतं वचनम् उक्त्वा, स्वकं वसुदेवस्य गृहे जातं रूपं दर्शयामास दर्शितवान् भूयः पुनः । आश्वासयामास च आश्वासितवान् भीतम् एनम्, भूत्वा पुनः सौम्य-वपुः प्रसन्न-देहो महात्मा
==============================
अर्जुन उवाच -
दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन ।
इदानीम् अस्मि संवृत्तः स-चेताः प्रकृतिं गतः
दृष्ट्वेदं मानुषं रूपं मत्-सखं प्रसन्नं तव सौम्यं जनार्दन, इदानीम्, अधुनास्मि संवृत्तः संजातः । किम् ? स-चेताः प्रसन्न-चित्तः प्रकृतिं स्वभावं गतश् चास्मि
==============================
श्री-भगवान् उवाच -
सुदुर्दर्शम् इदं रूपं दृष्टवान् असि यन् मम ।
देवा अप्य् अस्य रूपस्य नित्यं दर्शन-काङ्क्षिणः
सुदुर्दर्शं सुष्ठु दुःखेन दर्शनम् अस्येति सुदुर्दर्शम् । इदं रूपं दृष्टवान् असि यन् मम, देवा अप्य् अस्य मम रूपस्य नित्यं सर्वदा दर्शन-काङ्क्षिणः । दर्शनेप्सवो ऽपि न त्वम् इव दृष्टवन्तः, न द्रक्ष्यन्ति चेत्य् अभिप्रायः
==============================
कस्मात् ? -
नाहं वेदैर् न तपसा न दानेन न चेज्यया ।
शक्य एवं-विधो द्रष्टुं दृष्टवान् असि मां यथा
नाहं वेदैः ऋग्-यजुः-सामाथर्व-वेदैश् चतुर्भिर् अपि, न तपसा उग्रेण चान्द्रायणादिना, न दानेन गो-भू-हिरण्यादिना, न चेज्यया यज्ञेन पूजया वा शक्यः एवं-विधो यथा-दर्शित-प्रकारो द्रष्टुं दृष्टवान् असि मां यथा त्वम्
==============================
कथं पुनः शक्य इत्य् उच्यते -
भक्त्या त्व् अनन्यया शक्य अहम् एवं-विधो ऽर्जुन ।
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप
भक्त्या तु किं-विशिष्टया इत्य् आह - अनन्ययापृथग्-भूतया, भगवतो ऽन्यत्र पृथङ् न कदाचिद् अपि या भवति सा त्व् अनन्या भक्तिः । सर्वैर् अपि करणैः वासुदेवाद् अन्यन् न उपलभ्यते यया, सानन्या भक्तिः, तया भक्त्या शक्यो ऽहम् एवं-विधो विश्व-रूप-प्रकारो हे ऽर्जुन, ज्ञातुं शास्त्रतः । न केवलं ज्ञातुं शास्त्रतः, द्रष्टुं च साक्षात्-कर्तुं तत्त्वेन तत्त्वतः, प्रवेष्टुं च मोक्षं च गन्तुं परन्तप
==============================
अधुना सर्वस्य गीता-शास्त्रस्य सार-भूतो ऽर्थो निःश्रेयसार्थो ऽनुष्ठेयत्वेन समुच्चित्योच्यते -
मत्-कर्म-कृन् मत्-परमो मद्-भक्तः सङ्ग-वर्जितः ।
निर्वैरः सर्व-भूतेषु यः स माम् एति पाण्डव
मत्-कर्म-कृन् मद्-अर्थं कर्म मत्-कर्म, तत् करोतीति मत्-कर्म-कृत् । मत्-परमः - करोति भृत्यः स्वामि-कर्म, न त्व् आत्मनः परमा प्रेत्य गन्तव्या गतिर् इति स्वामिनं प्रतिपद्यते । अयं तु मत्-कर्म-कृन् माम् एव परमां गतिं प्रतिपद्यते इति मत्-परमः, अहं परमः परा गतिर् यस्य सो ऽयं मत्-परमः । तथा मद्-भक्तो माम् एव सर्व-प्रकारैः सर्व-प्रकारैः सर्वात्मना सर्वोत्साहेन भजते इति मद्-भक्तः । सङ्ग-वर्जितो धन-पुत्र-मित्र-कलत्र-बन्धु-वर्गेषु सङ्ग-वर्जितः सङ्गः प्रीतिः स्नेहस् तद्-वर्जितः । निर्वैरो निर्गत-वैरः सर्व-भूतेषु शत्रु-भाव-रहित आत्मनो ऽ त्यन्तापकार-प्रवृत्तेष्व् अपि । य ईदृशो मद्-भक्तः स माम् एति । अहम् एव तस्य परा गतिः, नान्या गतिः काचित् भवति । अयं तवोपदेश इष्टो मया उपदिष्टः । हे पाण्डाव ! इति
मूल पाठ: Bhagavadgītā with the commentary ascribed to Śaṃkara (Adhyāyas 1-17) · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0