भाषा

ENहिગુ
ग्रंथ पाठ

भगवद्गीता (टीका सहित) · अध्याय 10

10.1

इति श्रीमत्-परमहंस-परिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्-पूज्य-पाद-
शिष्यस्य श्रीमच्-छंकर-भगवतः कृतौ श्रीमद्-भगवद्-गीता-भाष्ये
राज-विद्या-राज-गुह्य-योगो नाम नवमो ऽध्यायः
॥9॥
भ्ग् 10
अथ विभूति-योगो नाम दशमो ऽध्यायः
(भगवत्-पाद-श्रीमच्-छङ्कराचार्य-कृत-भाष्यम्)
सप्तमे ऽध्याये भगवतस् तत्त्वं विभूतयश् च प्रकाशिताः, नवमे च । अथेदानीं येषु येषु भावेषु चिन्त्यो भगवांस् ते ते भावा वक्तव्याः । तत्त्वं च भगवतो वक्तव्यम् उक्तम् अपि, दुर्विज्ञेयत्वात्, इत्य् अतः श्री-भगवान् उवाच -
भूय एव महा-बाहो शृणु मे परमं वचः ।
यत् ते ऽहं प्रीयमाणाय वक्ष्यामि हित-काम्यया

10.1

भूय एव भूयः पुनर् हे महाबाहो सृणु मे मदीयं परमं प्रकृष्टं निरतिशय-वस्तुनः प्रकाशकं वचो वाक्यं यत् परमं ते तुभ्यं प्रीयमाणाय - मद्-वचनात् प्रीयसे त्वम् अतीवामृतम् इव पिबन्, ततः - वक्ष्यामि हित-काम्यया हितेच्छया

10.2

==============================
किम्-अर्थम् अहं वक्ष्यामीत्य् अत आह -
न मे विदुः सुरगणाः प्रभवं न महर्षयः ।
अहम् आदिर् हि देवानां महर्षीणां च सर्वशः

10.2

न मे विदुर् न जानन्ति सुर-गणा ब्रह्मादयः । किं ते न विदुः ? मम प्रभवं प्रभावं प्रभु-शक्त्य्-अतिशयम्, अथवा प्रभवं प्रभवनम् उत्पत्तिम् । नापि महर्षयो भृग्व्-आदयो विदुः । कस्मात् ते न विदुर् इत्य् उच्यते - अहम् आदिः कारणं हि यस्माद् देवानां महर्षीणां च सर्वशः सर्व-प्रकारैः

10.3

==============================
किं च -
यो माम् अजम् अनादिं च वेत्ति लोक-महेश्वरम् ।
असंमूढः स मर्त्येषु सर्व-पापैः प्रमुच्यते

10.3

यः माम् अजम् अनादिं च, यस्मात् अहम् आदिर् देवानां महर्षीणां च, न ममान्यः आदिः विद्यते । अतो ऽहम् अजो ऽनादि च । अनादित्वम् अजत्वे हेतुः, तं माम् अजम् अनादिं च यो वेत्ति विजानाति लोकमहेश्वरं लोकानां महान्तम् ईश्वरं तुरीयम् अज्ञानतत्कार्यवर्जितम् असंमूढः संमोहवर्जितः सः मत्र्येषु मनुष्येषु, सर्वपापैः सर्वेः पापैर् मति-पूर्वामतिपूर्व-कृतैः प्रमुच्यते प्रमोक्ष्यते

10.4

==============================
इतश् चाहं महेश्वरो लोकानाम् -
बुद्धिर् ज्ञानम् असंमोहः क्षमा सत्यं दमः शमः ।
सुखं दुःखं भवो ऽभावो भयं चाभयम् एव च

10.4

बुद्धिर् अन्तः-करणस्य सूक्ष्माद्य्-अर्थावबोधन-सामर्थ्यम्, तद्वन्तं बुद्धिमान् इति हि वदन्ति । ज्ञानम् आत्मादि-पदार्थानाम् अवबोधः । असंमोहः प्रत्युत्पन्नेषु बोद्धव्येषु विवेक-पूर्विका प्रवृत्तिः । क्षमा आक्रुष्टस्य ताडितस्य वाविकृत-चित्तता । सत्यं यथा-दृष्टस्य यथा-श्रुतस्य चात्मानुभवस्य पर-बुद्धि-संक्रान्तये तथैवोउचार्यमाणा वाक् सत्यम् उच्यते । दमो बाह्येन्द्रियोपशमः । शमो ऽन्तः-करणस्योपशमः । सुखम् आह्लादः । दुःखं सन्तापः । भव उद्भवः । अभावस् तद्-विपर्ययः । भयं च त्रासः, अभयम् एव च तद्-विपरीतम्

10.5

==============================
अहिंसा समता तुष्टिस् तपो दानं यशो ऽयशः ।
भवन्ति भावा भूतानां मत्त एव पृथग्-विधाः

10.5

अहिंसापीडा प्राणिनाम् । समता सम-चित्तता । तुष्टिः संतोषः पर्याप्त-बुद्धिर् लाभेषु । तप इन्द्रिय-संयम-पूर्वकं शरीर-पीडानम् । दानं यथा-शक्ति संविभागः । यशो धर्म-निमित्ता कीर्तिः । अयशस् त्व् अधर्म-निमित्ता कीर्तिः । भवन्ति भावा यथोक्ता बुद्ध्य्-आदयो भूतानां प्राणिनां मत्त एवेश्वरात् पृथग्-विधाः नाना-विधाः स्व-कर्मानुरूपेण

10.6

==============================
किं च -
महर्षयः सप्त पूर्वे चत्वारो मनवस् तथा ।
मद्-भावा मानसा जाता येषां लोक इमाः प्रजाः

10.6

महर्षयः सप्त भृग्व्-आदयः पूर्वे ऽतीत-काल-संबन्धिनः, चत्वारो मनवस् तथा सावर्णा इति प्रसिद्धाः । ते च मद्-भावा मद्-गत-भावना वैष्णवेन सामर्थ्येन उपेताः । मानसा मनसैवोत्पादिता मया जाता उत्पन्नाः । येषां मनूनां महर्षीणां च सृष्टिर् लोक इमाः स्थावर-जङ्गम-लक्षणाः प्रजाः

10.7

==============================
एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः ।
सो ऽविकम्पेन योगेन युज्यते नात्र संशयः

10.7

एतां यथोक्तां विभूतिं विस्तारं योगं च युक्तिं चात्मनो घटनम्, अथवा योगैश्वर्य-सामर्थ्यं सर्व-ज्ञत्वं योग-जं योग उच्यते, मम मदीयं योगं यो वेत्ति तत्त्वतस् तत्त्वेन यथावद् इत्य् एतत्, सो ऽविकम्पेनाप्रचलितेन योगेन सम्यग् दर्शन-स्थैर्य-लक्षणेन युज्यते संबध्यते । नात्र संशयो नास्मिन्न् अर्थे संशयो ऽस्ति

10.8

==============================
कीदृशेनाविकम्पेन योगेन युज्यते ? इत्य् उच्यते -
अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते ।
इति मत्वा भजन्ते मां बुधा भाव-समन्विताः

10.8

अहं परं ब्रह्म वासुदेवाख्यं सर्वस्य जगतः प्रभव उत्पत्तिः । मत्त एव स्थिति-नाश-क्रिया-फलोपभोग-लक्षणं विक्रिया-रूपं सर्वं जगत् प्रवर्तते । इत्य् एवं मत्वा भजन्ते सेवन्ते मां बुधा अवगत-परमार्थ-तत्त्वाः । भाव-समन्विता भावो भावना परमार्थ-तत्त्वाभिनिवेशस् तेन समन्विताः संयुक्ताः इत्य् अर्थः

10.9

==============================
किं च -
मच्-चित्ता मद्-गत-प्राणा बोधयन्तः परस्परम् ।
कथयन्तश् च मां नित्यं तुष्यन्ति च रमन्ति च

10.9

मच्-चित्ताः, मयि चित्तं येषां ते मच्-चित्ताः । मद्-गत-प्राणाः मां गताः प्राप्ताश् चक्षुर्-आदयः प्राणा येषां ते मद्-गत-प्राणाः । मय्य् उपसंहृत-करणाः इत्य् अर्थः । अथवा, मद्-गत-प्राणाः मद्-गत-जीवना इत्य् एतत् । बोधयन्तो ऽवगमयन्तः परस्परम् अन्योन्यम्, कथयन्तश् च ज्ञान-बल-वीर्यादि-धर्मैर् विशिष्टं माम् । तुष्यन्ति च परितोषम् उपयान्ति च रमन्ति च रतिं च प्राप्नुवन्ति प्रिय-संगत्येव

10.10

==============================
ये यथोक्तैः प्रकारैर् भजन्ते मां भक्ताः सन्तः -
तेषां सतत-युक्तानां भजतां प्रीति-पूर्वकम् ।
ददामि बुद्धि-योगं तं येन माम् उपयान्ति ते

10.10

तेषां सतत-युक्तानां नित्याभियुक्तानां निवृत्त-सर्व-बाह्यैषणानां भजतां सेवमानानाम् । किम् अर्थित्वादिना कारणेन ? नेत्य् आह - -प्रीति-पूर्वकं प्रीतिः स्नेहस् तत्-पूर्वकं मां भजताम् इत्य् अर्थः । ददामि प्रयच्छामि बुद्धि-योगं बुद्धिः सम्यग् दर्शनं मत्-तत्त्व-विषयं तेन योगो बुद्धि-योगस् तं बुद्धि-योगम्, येन बुद्धि-योगेन सम्यग् दर्शन-लक्षणेन मां परमेश्वरम् आत्म-भूतम् आत्मत्वेन उपयान्ति प्रतिपद्यन्ते । के ? ते ये मच्-चित्तत्वादि-प्रकारैर् मां भजन्ते

10.11

==============================
किम्-अर्थम् कस्य वा त्वत्-प्राप्ति-प्रतिबन्ध-हेतोर् नाशकं बुद्धि-योगं तेषां त्वद्-भक्तानां ददासि ? इत्य् अपेक्षायाम् आह -
तेषाम् एवानुकम्पार्थम् अहम् अज्ञान-जं तमः ।
नाशयाम्य् आत्म-भाव-स्थो ज्ञान-दीपेन भास्वता

10.11

तेषाम् एव कथं नु नाम श्रेयः स्यात् इत्य् अनुकम्पार्थं दया-हेतोर् अहम् अज्ञान-जम् अविवेकतो जातं मिथ्या-प्रत्यय-लक्षणं मोहान्धकारं तमो नाशयामि, आत्म-भाव-स्थ आत्मनो भावो ऽन्तः-करणाशयस् तस्मिन्न् एव स्थितः सन् ज्ञान-दीपेन विवेक-प्रत्यय-रूपेण भक्ति-प्रसाद-स्नेहाभिषिक्तेन मद्-भावनाभिनिवेश-वातेरितेन ब्रह्मचर्यादि-साधन-संस्कार-वत्-प्रज्ञावर्तिना विरक्तान्तः-करणाधारेण विषय-व्यावृत्त-चित्त-राग-द्वेषाकलुषित-निवातापवरक-स्थेन नित्य-प्रवृत्तैकाग्र्य-ध्यान-जनित-सम्यग्-दर्शन-भास्वता ज्ञान-दीपेनेत्य् अर्थः

10.12

==============================
यथोक्तां भगवतो विभूतिं योगं च श्रुत्वार्जुन उवाच -
परं ब्रह्म परं धाम पवित्रं परमं भवान् ।
पुरुषं शाश्वतं दिव्यम् आदि-देवम् अजं विभुम्

10.12

परं ब्रह्म परमात्मा परं धाम परं तेजः पवित्रं पावनं परमं प्रकृष्टं भवान् । पुरुषं शाश्वतं नित्यं दिव्यं दिवि भवम् आदि-देवं सर्व-देवानाम् आदौ भवम् आदि-देवम् अजं विभुं विभवन-शीलम्

10.13

==============================
ईदृशम् -
आहुस् त्वाम् ऋषयः सर्वे देवर्षिर् नारदस् तथा ।
असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे

10.13

आहुः कथयन्ति त्वाम् ऋषयो वसिष्ठादयः सर्वे देवर्षिर् नारदस् तथा । असितो देवलो ऽपि एवम् एवाह, व्यासश् च, स्वयं चैव त्वं च ब्रवीषि मे

10.14

==============================
सर्वम् एतद् ऋतं मन्ये यन् मां वदसि केशव ।
न हि ते भगवन् व्यक्तिं विदुर् देवा न दानवाः

10.14

सर्वम् एतद् यथोक्तम् ऋषिभिस् त्वया चैतद् ऋतं सत्यम् एव मन्ये, यन् मां प्रति वदसि भाषसे हे केशव । न हि ते तव भगवन् व्यक्तिं प्रभवं विदुर् न देवा न दानवाः

10.15

==============================
यतस् त्वं देवादीनाम् आदिः, अतः -
स्वयम् एवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम ।
भूत-भावन भूतेश देव-देव जगत्पते

10.15

स्वयम् एव आत्मनात्मानं वेत्थ जानासि त्वं निरतिशय-ज्ञानैश्वर्य-बलादि-शक्तिमन्तम् ईश्वरं । पुरुषोत्तम ! भूतानि भावयतीति भूत-भावनः । हे भूतभावन ! भूतेश ! भूतानाम् ईशितः ! हे देव-देव ! जगत्-पते !

10.16

==============================
वक्तुम् अर्हस्य् अशेषेण दिव्या ह्य् आत्म-विभूतयः ।
याभिर् विभूतिभिर् लोकान् इमांस् त्वं व्याप्य तिष्ठसि

10.16

वक्तुं कथयितुम् अर्हस्य् अशेषेण । दिव्या ह्य् आत्म-विभूतयः । आत्मनो विभूतयो यास् ताः वक्तुम् अर्हसि । याभिर् विभूतिभिर् आत्मनो माहात्म्य-विस्तरैर् इमान् लोकान् त्वं व्याप्य तिष्ठसि

10.17

==============================
कथं विद्याम् अहं योगिंस् त्वां सदा परिचिन्तयन् ।
केषु केषु च भावेषु चिन्त्यो ऽसि भगवन् मया

10.17

कथं विद्यां विजानीयाम् अहं हे योगिन् त्वां सदा परिचिन्तयन् । केषु केषु च भावेषु वस्तुषु चिन्त्यो ऽसि ध्येयो ऽसि भगवन् मया

10.18

==============================
विस्तरेणात्मनो योगं विभूतिं च जनार्दन ।
भूयः कथय तृप्तिर् हि शृण्वतो नास्ति मे ऽमृतम्

10.18

विस्तरेणात्मनो योगं योगैश्वर्य-शक्ति-विशेषं विभूतिं च विस्तरं ध्येय-पदार्थानां हे जनार्दन, अर्दतेर् गति-कर्मणो रूपम्, असुराणां देव-प्रतिपक्ष-भूतानां जनानां नरकादि-गमयितृत्वात् जनार्दनो ऽभ्युदय-निःश्रेयस-पुरुषार्थ-प्रयोजनं सर्वैर् जनैर् याच्यते इति वा । भूयः पूर्वम् उक्तम् अपि कथय । तृप्तिः परितोषो हि यस्मान् नास्ति मे मम शृण्वतस् त्वन्-मुख-निःसृत-वाक्यामृतम्

10.19

==============================
श्री-भगवान् उवाच -
हन्त ते कथयिष्यामि दिव्या ह्य् आत्म-विभूतयः ।
प्राधान्यतः कुरु-श्रेष्ठ नास्त्य् अन्तो विस्तरस्य मे

10.19

हन्त इदानीं ते तव दिव्या दिवि भवा आत्म-विभूतयो ऽत्मनो मम विभूतयो यास् ताः कथयिष्यामीत्य् एतत् । प्राधान्यतो यत्र यत्र प्रधाना या या विभूतिस् तां तां प्रधानां प्राधान्यतः कथयिष्याम्य् अहं कुरु-श्रेष्ठ ! अशेषतस् तु वर्ष-शतेनापि न शक्या वक्तुम्, यतो नास्त्य् अन्तो विस्तरस्य मे मम विभूतीनाम् इत्य् अर्थः

10.20

==============================
तत्र प्रथमम् एव तावत् सृणु -
अहम् आत्मा गुडाकेश सर्व-भूताशय-स्थितः ।
अहम् आदिश् च मध्यं च भूतानाम् अन्त एव च

10.20

अहम् आत्मा प्रत्यग्-आत्मा गुडाकेश, गुडाका निद्रा तस्याः ईशो गुडाकेशः, जित-निद्र इत्य् अर्थः । घन-केशेति वा । सर्व-भूताशय-स्थितः सर्वेषां भूतानाम् आशये ऽन्तर्-हृदि स्थितो ऽहम् आत्मा प्रत्यग्-आत्मा नित्यं ध्येयः । तद्-अशक्तेन चोत्तरेषु भावेषु चिन्त्यो ऽहम् । यस्माद् अहम् एव आदिर् भूतानां कारणं तथा मध्यं च स्थितिर् अन्तः प्रलयश् च

10.21

==============================
एवं च ध्येयो ऽहम् -
आदित्यानाम् अहं विष्णुर् ज्योतिषां रविर् अंशुमान् ।
मरीचिर् मरुताम् अस्मि नक्षत्राणाम् अहं शशी

10.21

आदित्यानां द्वादशानां विष्णुर् नाम आदित्यो ऽहम् । ज्योतिषां रविः प्रकाशयितॄणाम् अंशुमान् रश्मिमान् । मरीचिर् नाम मरुतां मरुद्-देवता-भेदानाम् अस्मि । नक्षत्राणाम् अहं शशी चन्द्रमाः

10.22

==============================
वेदानां साम-वेदो ऽस्मि देवानाम् अस्मि वासवः ।
इन्द्रियाणां मनश् चास्मि भूतानाम् अस्मि चेतना

10.22

वेदानां मध्ये साम-वेदो ऽस्मि । देवानां रूद्रादित्यादीनां वासव इन्द्रो ऽस्मि । इन्द्रियाणाम् एकादशानां चक्षुर्-आदीनां मनश् चास्मि संकल्प-विकल्पात्मकं मनश् चास्मि । भूतानाम् अस्मि चेतना कार्य-करण-संघाते नित्याभिव्यक्ता बुद्धि-वृत्तिश् चेतना

10.23

==============================
रुद्राणां शंकरश् चास्मि वित्तेशो यक्ष-रक्षसाम् ।
वसूनां पावकश्चास्मि मेरुः शिखरिणाम् अहम्

10.23

रुद्राणाम् एकादशानां शंकरश् चास्मि । वित्तेशः कुवेरो यक्ष-रक्षसां यक्षाणां रक्षसां च । वसूनाम् अष्टनां पावकश् चास्म्य् अग्निः । मेरुः शिखरिणां शिखरवताम् अहम्

10.24

==============================
पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् ।
सेनानीनाम् अहं स्कन्दः सरसाम् अस्मि सागरः

10.24

पुरोधसां च राज-पुरोहितानां च मुख्यं प्रधानं मां विद्धि हे पार्थ बृहस्पतिम् । स हीन्द्रस्येति मुख्यः स्यात् पुरोधाः । सेनानीनां सेनापतीनाम् अहं स्कन्दो देव-सेनापतिः । सरसां यानि देव-खातानि सरांसि तेषां सरसां सागरो ऽस्मि भवामि

10.25

==============================
महर्षीणां भृगुर् अहं गिराम् अस्म्य् एकम् अक्षरम् ।
यज्ञानां जप-यज्ञो ऽस्मि स्थावराणां हिमालयः

10.25

महर्षीणां भृगुर् अहम् । गिरां वाचां पद-लक्षणानाम् एकम् अक्षरम् ओंकारो ऽस्मि । यज्ञानां जप-यज्ञो ऽस्मि, स्थावराणां स्थिति-मतां हिमालयः

10.26

==============================
अश्वत्थः सर्व-वृक्षाणां देवर्षीणां च नारदः ।
गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः

10.26

अश्वत्थः सर्व-वृक्षाणाम्, देवर्षीणां च नारदो देवाः एव सन्तः ऋषित्वं प्राप्ताः मन्त्र-दर्शित्वात् ते देवर्षयः । तेषां नारदो ऽस्मि । गन्धर्वाणां चित्ररथो नाम गन्धर्वो ऽस्मि । सिद्धानां जन्मनैव धर्म-ज्ञान-वैराग्यैश्वर्यातिशयं प्राप्तानां कपिलो मुनिः

10.27

==============================
उच्चैःश्रवसम् अश्वानां विद्धि माम् अमृतोद्भवम् ।
ऐरावतं गजेन्द्राणां नराणां च नराधिपम्

10.27

उचैःश्रवसम् अ वानां उचैःश्रवाः नामा वराजस् तं मां विद्धि विजानीह्य् अमृतोद्भवम् अमृत-निमित्त-मथनोद्भवम् । ऐरावतम् इरावत्याः अपत्यं गजेन्द्राणां हस्तीश्वराणाम्, तम् मां विद्धीत्य् अनुवर्तते । नराणां च मनुष्याणां नराधिपं राजानं मां विद्धि जानीहि

10.28

==============================
आयुधानाम् अहं वज्रं धेनूनाम् अस्मि काम-धुक् ।
प्रजनश् चास्मि कन्दर्पः सर्पाणाम् अस्मि वासुकिः

10.28

आयुधानाम् अहं वज्रं दधीच्य्-अस्थि-संभवम् । धेनूनां दोग्ध्रीणाम् अस्मि काम-धुक् वसिष्ठस्य सर्व-कामानां दोग्ध्री, सामान्या वा काम-धुक् । प्रजनः प्रजनयितास्मि कन्दर्पः कामः । सर्पाणां सर्प-भेदानाम् अस्मि वासुकिः सर्प-राजः

10.29

==============================
अनन्तश् चास्मि नागानां वरुणो यादसाम् अहम् ।
पितॄणाम् अर्यमा चास्मि यमः संयमताम् अहम्

10.29

अनन्तश् चास्मि नागानां नाग-विशेषाणां नागराजश् चास्मि । वरुणो यादसाम् अहम् अब्-देवतानां राजाहम् । पितॄणाम् अर्यमा नाम पितृ-राजश् चास्मि । यमः संयमतां संयमनं कुर्वताम् अहम्

10.30

==============================
प्रह्लादश् चास्मि दैत्यानां कालः कलयताम् अहम् ।
मृगाणां च मृगेन्द्रो ऽहं वैनतेयश् च पक्षिणाम्

10.30

प्रह्लादो नामश् चास्मि दैत्यानां दिति-वंश्यानाम् । कालः कलयतां कलनं गणनं कुर्वताम् अहम् । मृगाणां च मृगेन्द्रः सिंहो व्याघ्रो वाहम् । वैनतेयश् च गरुत्मान् विनता-सुतः पक्षिणां पतत्रिणाम्

10.31

==============================
पवनः पवताम् अस्मि रामः शस्त्र-भृताम् अहम् ।
झषाणां मकरश् चास्मि स्रोतसाम् अस्मि जाह्नवी

10.31

पवनो वायुः पवतां पावयितॠणाम् अस्मि । रामः शस्त्र-भृताम् अहं शस्त्राणां धारयितॄणां दाशरथिः रामो ऽहम् । झषाणां मत्स्यादीनां मकरो नाम जाति-विशेषो ऽहम् । स्रोतसां स्रवन्तीनाम् अस्मि जाह्नवी गङ्गा

10.32

==============================
सर्गाणाम् आदिर् अन्तश् च मध्यं चैवाहम् अर्जुन ।
अध्यात्म-विद्या विद्यानां वादः प्रवदताम् अहम्

10.32

सर्गाणां सृष्टीनाम् आदिर् अन्तश् च मध्यं चैवाहम् उत्पत्ति-स्थिति-लया अहम् अर्जुन । भूतानां जीवाधिष्ठितानाम् एव आदिर् अन्तश् चेत्य् आद्य् उक्तम् उपक्रमे, इह तु सर्वस्यैव सर्ग-मात्रस्येति विशेषः । अध्यात्म-विद्या विद्यानां मोक्षार्थत्वात् प्रधानम् अस्मि । वादो ऽर्थ-निर्णय-हेतुत्वात् प्रवदतां प्रधानम्, अतः सो ऽहम् अस्मि । प्रवक्तृ-द्वारेण वदन-भेदानाम् एव वाद-जल्प-वितण्डानाम् इह ग्रहणं प्रवदताम् इति

10.33

==============================
अक्षराणाम् अकारो ऽस्मि द्वन्द्वः सामासिकस्य च ।
अहम् एवाक्षयः कालो धाताहं विश्वतो-मुखः

10.33

अक्षराणां वर्णानाम् अकारो वर्णो ऽस्मि । द्वन्द्वः समासो ऽस्मि सामासिकस्य च समास-समूहस्य । किं चाहम् एवाक्षयः कालः प्रसिद्धः क्षणाद्य्-आख्यः, अथवा परमेश्वरः कालस्यापि कालो ऽस्मि । धाताहं कर्म-फलस्य विधाता सर्व-जगतो विश्वतो-मुखः सर्वतो-मुखः

10.34

==============================
मृत्युः सर्व-हरश् चाहम् उद्भवश् च भविष्यताम् ।
कीर्तिः श्रीर् वाक् च नारीणां स्मृतिर् मेधा धृतिः क्षमा

10.34

मृत्युर् द्विविधो धनादि-हरः प्राण-हरश् च । तत्र यः प्राण-हरः, स सर्व-हर उच्यते । सो ऽहम् इत्य् अर्थः । अथवा, पर ईश्वरः प्रलये सर्व-हरणात् सर्व-हरः, सो ऽहम् । उद्भव उत्कर्षः अभ्युदयस् तत्-प्राप्ति-हेतुश् चाहम् । केषाम् ? भविष्यतां भावि-कल्याणानाम्, उत्कर्ष-प्राप्ति-योग्यानाम् इत्य् अर्थः । कीर्तिः श्रीः वाक् च नारीणां स्मृतिर् मेधा धृतिः क्षमा इत्य् एता उत्तमाः स्त्रीणाम् अहम् अस्मि, यासाम् आभास-मात्र-संबन्धेनापि लोकः कृतार्थम् आत्मानं मन्यते

10.35

==============================
बृहत्-साम तथा साम्नां गायत्री छन्दसाम् अहम् ।
मासानां मार्गशीर्षो ऽहम् ऋतूनां कुसुमाकरः

10.35

बृहत्-साम तथा साम्नां प्रधानम् अस्मि । गायत्री च्छन्दसाम् अहं गायत्र्य्-आदि-च्छन्दो-विशिष्टानाम् ऋचां गायत्री ऋग् अहम् अस्मीत्य् अर्थः । मासानां मार्गशीर्षो ऽहम्, ऋतूनां कुसुमाकरो वसन्तः

10.36

==============================
द्यूतं छलयताम् अस्मि तेजस् तेजस्विनाम् अहम् ।
जयो ऽस्मि व्यवसायो ऽस्मि सत्त्वं सत्त्ववताम् अहम्

10.36

द्यूतम् अक्ष-देवनादि-लक्षणं छलयतां छलस्य कर्तॄणाम् अस्मि । तेजस्विनां तेजो ऽहम् । जयो ऽस्मि जेतॄणाम् । व्यवसायो ऽस्मि व्यवसायिनाम् । सत्त्वं सत्त्ववतां सात्त्विकानाम् अहम्

10.37

==============================
वृष्णीनां वासुदेवो ऽस्मि पाण्डवानां धनंजयः ।
मुनीनाम् अप्य् अहं व्यासः कवीनाम् उशना कविः

10.37

वृष्णीनां यादवानां वासुदेवो ऽस्म्य् अयम् एवाहं त्वत्सखः । पाण्डावानां धनंजयस् त्वम् एव । मुनीनीं मननशीलानां सर्वपदार्थज्ञानिनाम् अप्य् अहं व्यासः, कवीनां क्त्रान्तदर्शिनाम् उशना कविर् अस्मि

10.38

==============================
दण्डो दमयताम् अस्मि नीतिर् अस्मि जिगीषताम् ।
मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवताम् अहम्

10.38

दण्डो दमयतां दमयितॄणाम् अस्म्य् अदान्तानां दमन-कारः । नीतिर् अस्मि जिगीषतां जेतुम् इच्छताम् । मौनं चैवास्मि गुह्यानां गोप्यानाम् । ज्ञानं ज्ञानवताम् अहम्

10.39

==============================
यच् चापि सर्व-भूतानां बीजं तद् अहम् अर्जुन ।
न तद् अस्ति विना यत् स्यान् मया भूतं चराचरम्

10.39

यच् चापि सर्व-भूतानां बीजं प्ररोह-कारणम्, तद् अहम् अर्जुन । प्रकरणोप-संहारार्थं विभूति-संक्षेपम् आह - न तद् अस्ति भूतं चराचरं चरम् अचरं वा, मया विना यत् स्यात् भवेत् । मयापकृष्टं परित्यक्तं निरात्मकं शून्यं हि तत् स्यात् । अतो मद्-आत्मकं सर्वम् इत्य् अर्थः

10.40

==============================
नान्तो ऽस्ति मम दिव्यानां विभूतीनां परन्तप ।
एष तूद्देशतः प्रोक्तो विभूतेर् विस्तरो मया

10.40

नान्तो ऽस्ति मम दिव्यानां विभूतीनां विस्तराणां परन्तप । न हीश्वरस्य सर्वात्मनो दिव्यानां विभूतीनाम् इयत्ता शक्या वक्तुं ज्ञातुं वा केनचित् । एष तूद्देशत एक-देशेन प्रोक्तो विभूतेर् विस्तरः मया

10.41

==============================
यद् यद् विभूतिमत् सत्त्वं श्रीमद् ऊर्जितम् एव वा ।
तत् तद् एवावगच्छ त्वं मम तेजो ऽंश-संभवम्

10.41

यद् यल् लोके विभूतिमद् विभूति-युक्तं सत्त्वं वस्तु श्रीमद् ऊर्जितम् एव वा श्रीर् लक्ष्मीस् तया सहितम् उत्साहोपेतं वा । तत् तद् एवावगच्छ त्वं जानीहि ममेश्वरस्य तेजो ऽंश-संभवं तेजसो ऽंश एक-देशः संभवो यस्य तत् तेजो ऽंश-संभवम् इत्य् अवगच्छ त्वम्

10.42

==============================
अथ वा बहुनैतेन किं ज्ञातेन तवार्जुन ।
विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत्

10.42

अथवा बहुनैतेन एवम् आदिना किं ज्ञातेन तवार्जुन स्यात् सावशेषेण । अशेषतस् त्वम् उच्यमानम् अर्थं सृणु - विष्टभ्य विशेषतः स्तम्भनं दृढं कृत्वेदं कृत्स्नं जगद् एकांशेनैकावयवेनैक-पादेन, सर्व-भूत-स्वरूपेणेत्य् एतत् । तथा च मन्त्र-वर्णः - पादो ऽस्य विश्वा भूतानि [ऋक् 8.4.17.3] इति । स्थितो ऽहम् इति

मूल पाठ: Bhagavadgītā with the commentary ascribed to Śaṃkara (Adhyāyas 1-17) · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc