भगवद्गीता (टीका सहित) · अध्याय 1
भ्ग् 1
अथ अर्जुन-विषाद-योगो नाम
प्रथमो ऽध्यायः ।
==============================
भगवत्-शङ्कराचार्य-कृत-भाष्यम्
उपोद्घाटः
ओं
नारायणः परो ऽव्यक्ताद् अण्डम् अव्यक्त-सम्भवम् ।
अण्डस्यान्तस् त्व् इमे लोकाः सप्त-द्वीपा च मेदिनी ॥
स भगवान् सृष्ट्वेदं जगत् । तस्य च स्थितिं चिकीर्षुः मरीड्यादीन् अग्रे सृष्ट्वा प्रजापतीन् प्रवृत्ति-लक्षणं धर्मं ग्राहयामास वेदोक्तम् । ततो ऽन्यान् च सनक-सनन्दनादीन् उत्पाद्य निवृत्ति-लक्षणं धर्मं ज्ञान-वैराग्य-लक्षणं ग्राहयामास । द्विविधो हि वेदोक्तो धर्मः प्रवृत्ति-लक्षणो निवृत्ति-लक्षणश् च । जगतः स्थिति-कारणम् । प्राणिनां साक्षाद् अभ्युदय-निःश्रेयस-हेतुर् यः स धर्मो ब्राह्मणाद्यैर् वर्णिभिर् आश्रमिभिश् च श्रेयो ऽर्थिभिर् अनुष्ठीयमानः । दीर्घेण कालेन अनुष्ठातॄणां कामोद्भवाद् धीयमान-विवेक-ज्ञान-हेतुकेन अधर्मेण अभिभूयमाने धर्मे, प्रवर्धमाने च अधर्मे, जगतः स्थितिं परिपिपालयिषुः स आदि-कर्ता नारायणाख्यो विष्णुर् भौमस्य ब्रह्मणो ब्राह्मणत्वस्य चाभिरक्षणार्थं
देवक्यां वसुदेवाद् अंशेन कृष्णः किल सम्बभूव । ब्राह्मणत्वस्य हि रक्षणेन रक्षितः स्याद् वैदिको धर्मः तद्-अधीनत्वाद् वर्णाश्रम-भेदानाम् ।
स च भगवान् ज्ञानैश्वर्य-शक्ति-बल-वीर्य-तेजोभिः सदा सम्पन्नस् त्रिगुणात्मिकां वैष्णवीं स्वां मायां मूल-प्रकृतिं वशीकृत्य, अजो ऽव्ययो भूतानाम् ईश्वरो नित्य-शुद्ध-बुद्ध-मुक्त-स्वभावो ऽपि सन्, स्व-मायया देहवान् इव जात इव च लोकानुग्रहं कुर्वन् लक्ष्यते । स्व-प्रयोजनाभावे ऽपि भूतानुजिघृक्षया वैदिकं हि धर्म-द्वयम् अर्जुनाय शोक-मोह-महोदधौ निमग्नाय उपदिदेश गुणाधिकैर् हि गृहीतो ऽनुष्ठीयमानश् च धर्मः प्रचयं गमिष्यतीति । तं धर्मं भगवता यथोपदिष्टं वेद-व्यासः सर्वज्ञो भगवान् गीताख्यैः सप्तभिः श्लोक-शतैर् उपनिबबन्ध ।
तद् इदं गीता-शास्त्रं समस्त-वेदार्थ-सार-सङ्ग्रह-भूतं दुर्विज्ञयार्थं तद्-अर्थाविष्करणाय अनेकैर् विवृत-पद-पदार्थ-वाक्य-वाक्यार्थ-न्यायम् अपि अत्यन्त-विरुद्धानेकार्थत्वेन लौकिकैर् गृह्यमाणम् उपलभ्याहं विवेकतो ऽर्थ-निर्धारणार्थं संक्षेपतो विवरणं करिष्यामि ।
तस्य अस्य गीता-शास्त्रस्य संक्षेपतः प्रयोजनं परं निःश्रेयसं स-हेतुकस्य संसारस्य अत्यन्तोपरम-लक्षणम् । तच् च सर्व-कर्म-सन्न्यास-पूर्वकाद् आत्म-ज्ञान-निष्ठा-रूपाद् धर्माद् भवति । तथा इमम् एव गीतार्थ-धर्मम् उद्दिश्य भगवतैवोक्तम् । स हि धर्मः सुपर्याप्तो ब्रह्मणः पद-वेदने [म्भ् 14.16.12] इत्य् अनुगीतासु । तत्रैव चोक्तं - नैव धर्मी न चाधर्मी न चैव हि शुभाशुभी [म्भ् 14.19.7], यः स्याद् एकायने लीनस् तूष्णीं किंचिद् अचिन्तयन् [म्भ् 14.19.1], ज्ञानं संन्यास-लक्षणम् [म्भ् 14.43.26] इति च । इहापि चान्ते उक्तम् अर्जुनाय - सर्व-धर्मान् परित्यज्य माम् एकं शरणं व्रज [गीता 18.66] इति ।
अभ्युदयार्थो ऽपि यः प्रवृत्ति-लक्षणो धर्मो वर्णान् आश्रमांश् चोद्दिश्य विहितः स देवादि-स्थान-प्राप्ति-हेतुर् अपि सन्, ईश्वरार्पण-बुद्ध्यानुष्ठीयमानः सत्त्व-शुद्धये भवति फलाभिसन्धि-वर्जितः । शुद्ध-सत्त्वस्य च ज्ञान-निष्ठायोग्यता-प्राप्ति-द्वारेण ज्ञानोत्पत्ति-हेतुत्वेन च निःश्रेयस-हेतुत्वम् अपि प्रतिपद्यते । तथा चेमम् एवार्थम् अभिसन्धाय वक्ष्यति ब्रह्मण्य् आधाय कर्माणि [गीता 5.10], योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्म-शुद्धये [गीता 5.11] इति ।
इमं द्विप्रकारं धर्मं निःश्रेयस-प्रयोजनम् । परमार्थ-तत्त्वं च वासुदेवाख्यं पर-ब्रह्माभिधेय-भूतं विशेषतः अभिव्यञ्जयद् विशिष्ट-प्रयोजन-सम्बन्धाभिधेयवद् गीता-शास्त्रम् । यतस् तद्-अर्थ-विज्ञानेन समस्त-पुरुषार्थ-सिद्धिः । अतः तद्-विवरणे यत्नः क्रियते मया ॥
भ्ग् 1
धर्म-क्षेत्रे कुरु-क्षेत्रे समवेता युयुत्सवः ।
मामकाः पाण्डवाश् चैव किम् अकुर्वत संजय
संजय उवाच
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस् तदा ।
आचार्यम् उपसंगम्य राजा वचनम् अब्रवीत्
पश्यैतां पाण्डु-पुत्राणाम् आचार्य महतीं चमूम् ।
व्यूढां द्रुपद-पुत्रेण तव शिष्येण धीमता
अत्र शूरा महेष्वासा भीमार्जुन-समा युधि ।
युयुधानो विराटश् च द्रुपदश् च महारथः
धृष्टकेतुश् चेकितानः काशिराजश् च वीर्यवान् ।
पुरुजित् कुन्तिभोजश् च शैब्यश् च नर-पुंगवः
युधामन्युश् च विक्रान्त उत्तमौजाश् च वीर्यवान् ।
सौभद्रो द्रौपदेयाश् च सर्व एव महा-रथाः
अस्माकं तु विशिष्टा ये तान् निबोध द्विजोत्तम ।
नायका मम सैन्यस्य संज्ञार्थं तान् ब्रवीमि ते
भवान् भीष्मश् च कर्णश् च कृपश् च समितिंजयः ।
अश्वत्थामा विकर्णश् च सौमदत्तिर् जयद्रथः
अन्ये च बहवः शूरा मद्-अर्थे त्यक्त-जीविताः ।
नाना-शस्त्र-प्रहरणाः सर्वे युद्ध-विशारदाः
अपर्याप्तं तद् अस्माकं बलं भीष्माभिरक्षितम् ।
पर्याप्तं त्व् इदम् एतेषां बलं भीमाभिरक्षितम्
अयनेषु च सर्वेषु यथा-भागम् अवस्थिताः ।
भीष्मम् एवाभिरक्षन्तु भवन्तः सर्व एव हि
तस्य संजनयन् हर्षं कुरु-वृद्धः पितामहः ।
सिंह-नादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान्
ततः शङ्खाश् च भेर्यश् च पणवानक-गोमुखाः ।
सहसैवाभ्यहन्यन्त स शब्दस् तुमुलो ऽभवत्
ततः श्वेतैर् हयैर् युक्ते महति स्यन्दने स्थितौ ।
माधवः पाण्डवश् चैव दिव्यौ शङ्खौ प्रदध्मतुः
पाञ्चजन्यं हृषीकेशो देवदत्तं धनंजयः ।
पौण्ड्रं दध्मौ महा-शङ्खं भीम-कर्मा वृकोदरः
अनन्त-विजयं राजा कुन्ती-पुत्रो युधिष्ठिरः ।
नकुलः सहदेवश् च सुघोष-मणिपुष्पकौ
काश्यश् च परमेष्वासः शिखण्डी च महा-रथः ।
धृष्टद्युम्नो विराटश् च सात्यकिश् चापराजितः
द्रुपदो द्रौपदेयाश् च सर्वशः पृथिवी-पते ।
सौभद्रश् च महाबाहुः शङ्खान् दध्मुः पृथक् पृथक्
स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् ।
नभश् च पृथिवीं चैव तुमुलो व्यनुनादयन्
अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपि-ध्वजः ।
प्रवृत्ते शस्त्र-संपाते धनुर् उद्यम्य पाण्डवः
हृषीकेशं तदा वाक्यम् इदम् आह मही-पते ।
सेनयोर् उभयोर् मध्ये रथं स्थापय मे ऽच्युत
यावद् एतान् निरीक्षे ऽहं योद्धु-कामान् अवस्थितान् ।
कैर् मया सह योद्धव्यम् अस्मिन् रण-समुद्यमे
योत्स्यमानान् अवेक्षे ऽहं य एते ऽत्र समागताः ।
धार्तराष्ट्रस्य दुर्बुद्धेर् युद्धे प्रिय-चिकीर्षवः
एवम् उक्तो हृषीकेशो गुडाकेशेन भारत ।
सेनयोर् उभयोर् मध्ये स्थापयित्वा रथोत्तमम्
भीष्म-द्रोण-प्रमुखतः सर्वेषां च महीक्षिताम् ।
उवाच पार्थ पश्यैतान् समवेतान् कुरून् इति
तत्रापश्यत् स्थितान् पार्थः पितॄन् अथ पितामहान् ।
आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखींस् तथा
श्वशुरान् सुहृदश् चैव सेनयोर् उभयोर् अपि ।
तान् समीक्ष्य स कौन्तेयः सर्वान् बन्धून् अवस्थितान्
कृपया परयाविष्टो विषीदन्न् इदम् अब्रवीत् ।
दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम्
सीदन्ति मम गात्राणि मुखं च परिशुष्यति ।
वेपथुश् च शरीरे मे रोमहर्षश् च जायते
गाण्डीवं स्रंसते हस्तात् त्वक् चैव परिदह्यते ।
न च शक्नोम्य् अवस्थातुं भ्रमतीव च मे मनः
निमित्तानि च पश्यामि विपरीतानि केशव ।
न च श्रेयो ऽनुपश्यामि हत्वा स्वजनम् आहवे
न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ।
किं नो राज्येन गोविन्द किं भोगैर् जीवितेन वा
येषाम् अर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च ।
त इमे ऽवस्थिता युद्धे प्राणांस् त्यक्त्वा धनानि च
आचार्याः पितरः पुत्रास् तथैव च पितामहाः ।
मातुलाः श्वशुराः पौत्राः श्यालाः संबन्धिनस् तथा
एतान् न हन्तुम् इच्छामि घ्नतो ऽपि मधुसूदन ।
अपि त्रैलोक्य-राज्यस्य हेतोः किं नु मही-कृते
निहत्य धार्तराष्ट्रान् नः का प्रीतिः स्याज् जनार्दन ।
पापम् एवाश्रयेद् अस्मान् हत्वैतान् आततायिनः
तस्मान् नार्हा वयं हन्तुं धार्तराष्ट्रान् स्व-बान्धवान् ।
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव
यद्य् अप्य् एते न पश्यन्ति लोभोपहत-चेतसः ।
कुल-क्षय-कृतं दोषं मित्र-द्रोहे च पातकम्
कथं न ज्ञेयम् अस्माभिः पापाद् अस्मान् निवर्तितुम् ।
कुल-क्षय-कृतं दोषं प्रपश्यद्भिर् जनार्दन
कुल-क्षये प्रणश्यन्ति कुल-धर्माः सनातनाः ।
धर्मे नष्टे कुलं कृत्स्नम् अधर्मो ऽभिभवत्य् उत
अधर्माभिभवात् कृष्ण प्रदुष्यन्ति कुल-स्त्रियः ।
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्ण-संकरः
संकरो नरकायैव कुल-घ्नानां कुलस्य च ।
पतन्ति पितरो ह्य् एषां लुप्त-पिण्डोदक-क्रियाः
दोषैर् एतैः कुल-घ्नानां वर्ण-संकर-कारकैः ।
उत्साद्यन्ते जाति-धर्माः कुल-धर्माश् च शाश्वताः
उत्सन्न-कुल-धर्माणां मनुष्याणां जनार्दन ।
नरके नियतं वासो भवतीत्य् अनुशुश्रुम
अहो बत महत् पापं कर्तुं व्यवसिता वयम् ।
यद् राज्य-सुख-लोभेन हन्तुं स्वजनम् उद्यताः
यदि माम् अप्रतीकारम् अशस्त्रं शस्त्र-पाणयः ।
धार्तराष्ट्रा रणे हन्युस् तन् मे क्षेमतरं भवेत्
एवम् उक्त्वार्जुनः संख्ये रथोपस्थ उपाविशत् ।
विसृज्य सशरं चापं शोक-संविग्न-मानसः
मूल पाठ: Bhagavadgītā with the commentary ascribed to Śaṃkara (Adhyāyas 1-17) · Data entry Gaudiya Grantha Mandira · GRETIL (Göttingen) · CC BY-NC-SA 4.0