भाषा

ENहिગુ
ग्रंथ पाठ

आयुर्वेदमहोदधौ अन्नपानविधि · अध्याय 28

28.1

॥ अथ चणकगुणाः कथ्यन्ते ॥
रूक्षा वातकरः प्रमेहशमनाः कृच्छ्राश्मरीछेदनाः
विड्भेदं जनयन्ति पित्तशमना आध्मानरोगप्रदाः ।
कण्ठध्वंसहराः सुभक्षसुखदाः भुक्तारुचिच्छेदनाः
बल्या वर्णकरा विभुक्तचणकाः पुंसश् च नैते हिताः

28.2

इति शुष्कचणकाः ॥
आर्द्रा वृष्यतमा बल्याः श्लेष्मला रुचिकारकाः
वातपित्तहराः शीता मूत्रकृच्छ्रनिवारणाः

28.3

इति आर्द्रचणकाः ॥
लघवो भृष्टचणकाः श्लमक्लमकराः पराः ।
छर्दिघ्ना रोचना निद्रासुखपुष्टिवलप्रदाः

28.4

इति भृष्टचणकाः ॥
आसितचणकयूषो दाहनाशं विधत्ते प्रबलम् अहितलब्धं (?) सर्वमेहप्रणाशम् ।
दहनमरिचयोगाद् वातरोगापहारी विदलजलविपक्वः सर्वदोषप्रयाति (णाशी)

28.5

इति कृष्णचणकाः ॥
पित्तघ्नाश् चणकाः श्वेताः श्लेष्मवातप्रकोप(णा) नाः ।
बलकृन्मलविष्टम्भमन्दाग्निश् चापि संयुतम् (?)

28.6

चणोदकं चन्द्रमरीचिशीतलं प्रमेहपित्तास्ररुजापहारि ॥
पुष्टिप्रदं तैल (नैज) गुणं हि पाके
संतर्पणं साधुजनमाधुरीयकम् (मञ्जुलमाधुरीकम्)

मूल पाठ: Āyurvedamahodadhau annapānavidhi · Edition: S. Venkatasubrahmanya Sastri: Sushena's Ayurveda Mahodadhi-annapanavidhi, Madras 1950 (Madras Government Oriental Series, 60). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc