आयुर्वेदमहोदधौ अन्नपानविधि · अध्याय 20
इति तिलः ॥
॥ अथ यवगुणाः कथ्यन्ते ॥
यवः कषायो मधुरो हिमश् च कटुर् विपाके कफपित्तहारः ।
व्रणेषु पथ्यस् तिलवच् च नित्यं प्रबद्धमूत्रो बहुवातवर्श [र्चा]ः
स्थैर्याग्निधातुस्वरवर्णकृच् च सपिच्छलस्थूलविलेखनश् च ।
मेदोमरुत्तृट् [ड्] हरणो विरूक्षः प्रसादनः शोणितपित्तयोश् च
एभिर् गुणैर् हीनमतश् च नित्यं विद्याद् यवेभ्यो ऽन्यथ [य] वानशेषः ।
यवः कषायो मधुरः सशीतो मेहे हितः पित्तकफामयघ्नः ।
प्रसृष्टवर्चो ऽन्ययवः सबल्यो बल्यश् च वृष्यश् च मले हितश् च
शीतः कषायः सुरसश् च रूक्षो मेहक्रिमिश्लेष्मविषापहश् च ।
माधुर्ययुक्तो बलवांस् तथैव पित्तापहो वेणुयवः प्रदिष्टः
मूल पाठ: Āyurvedamahodadhau annapānavidhi · Edition: S. Venkatasubrahmanya Sastri: Sushena's Ayurveda Mahodadhi-annapanavidhi, Madras 1950 (Madras Government Oriental Series, 60). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0