भाषा

ENहिગુ
ग्रंथ पाठ

आयुर्वेदमहोदधौ अन्नपानविधि · अध्याय 21

21.1

इति वेणुयवः ॥
अथ गोधूमगुणाः ।
गोधूम उक्तो मधुरो गुरुश् च बल्यः स्थिरः शुक्ररुचिप्रदश् च
स्निग्धो ऽ[ति] सि शीतो ऽनिलपीतहारी [पित्तहन्ता] संधानकृच्छ्राश्महरः सरश् च

21.2

स्निग्धस्वादुरसो विपाकमधुरः प्रायेण चामाश्रयः
बल्यः शीतकरः सरो रुचिकरः संधानकारी गुरुः ।
शुक्रश्लेष्मविवर्धनो धृतिकरः पित्तानिलध्वंसकृत्
गोधूमस् तु मनोहरः स्थिरकरः श्वेतो विकारापहा

मूल पाठ: Āyurvedamahodadhau annapānavidhi · Edition: S. Venkatasubrahmanya Sastri: Sushena's Ayurveda Mahodadhi-annapanavidhi, Madras 1950 (Madras Government Oriental Series, 60). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc