अवदानशतक · अध्याय 69
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि एकनवते कल्पे विपश्यी नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* । स बन्धुमतीं राजधानीम् उपनिश्रित्य विहरति । यावद् विपश्यी सम्यक्संबुद्धः सकलं बुद्धकार्यं कृत्वा इन्धनक्षयाद् इवाग्निर् निरुपधिशेषे निर्वाणधातौ परिनिर्वृतः, तस्य राज्ञा बन्धुमता शरीरे शरीरपूजां कृत्वा समन्तयोजनश् चतूरत्नमयः स्तूपः प्रतिष्ठापितः क्रोशम् उच्चत्वेन, यत्रानेकानि प्राणिशतसहस्राणि कारान् कृत्वा स्वर्गमोक्षपरायणानि भवन्ति । यावद् गोष्ठिकानां
-------------------- वैद्य, प्. 170 --------------------
शतं निर्गतम्* । तंब् स्तूपं दृष्ट्वा तथागतगुणान् अनुस्मृत्य तैस् तत्र स्तूपे एकपुरुषेण वा एकदेहिना वा एकात्मना वा एकचित्तेनेव एकात्मभावेनेव (स्पेयेर्: एकपुरुषेणेवैकदेहिनेवैकात्मनेवैकचित्तेनेवैकात्मभावेनेव) सर्वैर् एकसमूहीभूतैः प्रसन्नचित्तकैः प्रीतिजातैर् एकात्मनीभूतैस् तत्र स्तूपे पुण्यधूपगन्धमाल्यविलेपनानि नैवेद्यरसरसाग्रभोज्यानि सर्वोपहाराणि चोपढौकितानि । ध्वजवितानच्छत्राणि चारोपितानि । आरोप्य एकसमूहीभूत्वा एकस्वरेण स्तूतिं कृत्वा प्रदक्षिणशतसहस्रं कृतम्* । ततस् तैः सर्वैर् एकात्मभावेनैकचित्तकेन प्रणिधानं कृत्वा: अनेन कुशलमूलेनास्माकं तथैवैकात्मजाता एकचित्तकाः समानदेहाः समानाचाराः समानधर्माः समानपुण्याः समनिर्वाणा भवन्तु इति । तत्रैव स्तूपे एवं भक्तिपरायणा निर्वृत्ताः ॥
### <थे तेxत् इन् अल्ल् म्स् इस् मुतिलतेद्. थे पर मुस्त् बेगिन्न् wइथ् किं मन्यध्वे भिक्षवः ... संवृत्ताः.> {किं मन्यध्वे भुक्षवः ... संवृत्ताः} । तेनैव हेतुना इदानीम् एकपेशीजाताः समरूपाः समदेहभावाः समात्मचित्ताः समबलवीर्यपराक्रमाः समाचाराः समधर्मेषु परायणाः समं स्रोतापत्तिफलं प्राप्ताः, समं चार्हत्वं प्राप्ताः । इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_69 सूर्यः । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः कपिलवस्तुनि विहरति न्यग्रोधारामे । कपिलवस्तुनि अन्यतमः शाक्य आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम्* । स तया सार्धं क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातो ऽभिरूपो दर्शनीयः प्रासादिको महेशाख्यः शिरसि मणिरत्नयुक्तः । ### <तिब् त्रन्स्ल्. सेएम्स् तो अद्द् अfएw सेन्तनेचेस् हेरे, देस्च्रिबिन्ग् थे सुन् लिने स्प्लेन्दोउर् ओf थे गेम् ओन् थे च्रेस्त्. च्f. तस्य मणिरत्नस्य प्रभया सर्वं गृहम् अवभासितं सूर्यस्येव.> । तस्य जतौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते: किं भवतु दारकस्य नामेति । ज्ञातय ऊचुः: यस्माद् अस्य दारकस्य शिरसि मणिरत्नं प्रादुर्भूतम्*, तस्य मणिरत्नस्य प्रभया सर्वं गृहम् अवभासितं सूर्यस्येव, तस्माद् अस्य
-------------------- वैद्य, प्. 171 --------------------
सूर्यो नाम भवतु इति । सूर्यो दारको ऽष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्* । सो ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैः । आशु वर्धते ह्रदस्थम् इव पङ्कजम्* । स च श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलस् त्यागरुचिः प्रदानकौशलो महति त्यागे वर्तते ।
यावद् अपरेण समयेन सूर्यो दारको न्यग्रोधारामं गतः । अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* । सहदर्शनाच् चानेन भगवतो ऽन्तिके चित्तं प्रसाद्य स्वशिरसि मणिरत्नम् उद्धृत्य भगवत उपनामितम्* । ततः प्रसादजातो भगवतः पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णो धर्मश्रवणाय । ततो भगवता सूर्यस्यानुकम्पाम् उपादाय तन् मणिरत्नम् उपगृह्याशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा तेन सूर्येण दारकेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतापत्तिफलं साक्षात्कृतम्* । स दृष्टसत्यो दानप्रदानानि दत्वा श्रमणब्राह्मणवनीपकान् दुःखितान् सत्वान् संतर्पयित्वा मातापितराव् अनुज्ञाप्य भगवतः शासने प्रव्रजितः । तेन युज्यमानेन घटमानेन व्यायच्छमानेन इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । अर्हन् संवृत्तः त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः ॥
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त सूर्येण दारकेण कर्माणि कृतान्य् येन शिरसि मणिरत्नं जातम्*, येन च महेशाख्यो ऽर्हत्वं च प्राप्तम् इति । भगवान् आह: सूर्येणैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । सूर्येण कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च:
न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि ।
सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्*
मूल पाठ: Avadānaśataka · Edition: the following editions: (1) Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19) and (2) Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0