भाषा

ENहिગુ
ग्रंथ पाठ

अवदानशतक · अध्याय 68

68.1

-------------------- वैद्य, प्. 168 --------------------
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि एकनवते कल्पे विपश्यी नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* । स बन्धुमतीं राजधानीम् उपनिश्रित्य विहरति । यावद् विपश्यी सम्यक्संबुद्धः सकलं बुद्धकार्यं कृत्वेन्धनक्षयाद् इवाग्निर् निरुपधिशेषे निर्वाणधातौ परिनिर्वृतः, तस्य राज्ञा बन्धुमता शरीरे शरीरपूजां कृत्वा समन्तयोजनश् चतूरत्नमयः स्तूपः प्रतिष्ठापितः क्रोशम् उच्चत्वेन । तत्रानेकानि प्राणिशतसहस्राणि कारान् कृत्वा स्वर्गमोक्षपरायणानि भवन्ति । यावद् अन्यतरेण गृहपतिना विचित्राणि वाद्यभाण्डानि पुरुषाश् च शिक्षयित्वा तत्र स्तूपे निर्यातिताः, ये तत्र स्तूपे अहन्यहनि वाद्यविशेषैः सत्कारं कुर्वन्ति ॥
{भगवान् आह:} किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन गृहपतिर् आसीत्*, अयं स दुन्दुभिस्वरः । यत् तेन विपश्यिनः स्तूपे वाद्यभाण्डानि निर्यातितानि, तेनेदानीं दुन्दुभिस्वरः संवृत्तः । तेनैव हेतुनेदानीम् अर्हत्वं साक्षात्कृतम्* । इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानां कर्मनाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_68 पुत्राः । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः कपिलवस्तुनि विहरति न्यग्रोधारामे । कपिलवस्तुनि अन्यतमः शाक्य आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम्* । स तया सार्धं क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्वा संवृत्ता । सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । महती महती मांसपेशी जाता, यां दृष्ट्वा मातापितरौ विषण्णौ, अन्ये च गृहवासिनः परिचारका ज्ञातयश् च: को नामायम् एवंविधो जात इति । यावद् असौ गृहपतिः शोकागारं प्रविश्य करे कपोलं दत्वा चिन्तापरो व्यवस्थितः: कस्य निवेदयेयम्*, को ज्ञास्यति किम् एतद् इति । तस्य बुद्धिर् उत्पन्ना: अयं बुद्धो भगवान् सर्वज्ञः सर्वदर्शी । बुद्धस्य भगवतो निवेदयामि, स ज्ञास्यतीति । स येन भगवांस् तेनोपसंक्रान्तः । उपसंक्रम्य भगवन्तं पप्रच्छ । भगवान् आह: मा भैषीस् त्वं गृहपते, मा भैषीः । सुविहिते कर्पासे
-------------------- वैद्य, प्. 169 --------------------
मांसपेशीं स्थापयित्वा त्रिर् दिवसस्य पाणिनापमृज्य क्षीरेण पुनः परिप्रोक्षस्व यावत् सप्ताहम्* । ततः स्फुटिष्यति, कुमारशतम् उत्पत्स्यते । ते च सर्वे महानग्नबलिनो भविष्यन्ति । इति श्रुत्वा गृहपतिः परं विस्मयम् आपन्नः । चिन्तयति च: लाभा मे सुलब्धा यस्य मे ईदृशाः पुत्रा उत्पत्स्यन्तीति । तेन तथैव कृतम्* । यावत् सप्तमे दिवसे सा मांसपेशी स्फुटिता । कुमारशतम् उत्पन्नम्* । सर्वे अभिरूपा दर्शनीयाः प्रासादिकाः सर्वाङ्गप्रत्यङ्गोपेता महानग्नबलिनः ॥
यावत् क्रमेण उन्नीता वर्धिता महान्तः संवृत्ताश् च । सर्वे यौवनमदमत्ता इतश् चामुतश् च परिभ्रमन्तो न्यग्रोधारामं गताः । अथ ते ददृशुर् बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* । सहदर्शनाच् भगवतः पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णा धर्मश्रवणाय । तेषां भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा सर्वैर् एवं विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं साक्षात्कृतम्* । ते दृष्टसत्या मातापितराव् अनुज्ञाप्य भगवच्छासने प्रव्रजिताः । तैः सर्वैर् युज्यमानैर् घटमानैर् व्यायच्छमानैः सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । अर्हन्तो बभूवस् त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्ता वासीचन्दनकल्पा विद्याविदारिताण्डकोशा विद्याभिज्ञाप्रतिसंवित्प्राप्ता भवलाभलोभसत्कारपराङ्मुखाः । सेन्द्रोपेन्द्राणां देवानां पूज्या मान्या अभिवाद्याश् च संवृत्ताः ॥
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त कुमारशतेन कर्माणि कृतान्य् येन महानग्नबलिनः संवृत्ताः, सहिताश् च भ्रातर इति । भगवान् आह: एभिर् एव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । एभिर् कृतानिकर्माण्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च:
न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि ।
सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्*

मूल पाठ: Avadānaśataka · Edition: the following editions: (1) Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19) and (2) Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc