भाषा

ENहिગુ
ग्रंथ पाठ

अवदानशतक · अध्याय 24

24.1

इति
भगवान् आह: एवम् एतद् आनन्द, एवम् एतत् । नाहेत्वप्रत्ययम् आनन्द तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वन्ति । पश्यस्य् आनन्द अनया दारिकया तथागतस्य सौवर्णचक्रं क्षिप्तम्* । एवं भदन्त । एषा आनन्द दारिका अनेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च पञ्चदश कल्पान् विनिपातं न गमिष्यति, दिव्यं मानुषं सुखम् अनुभूय च चक्रान्तरो नाम प्रत्येकबुद्धो भविष्यति । अयम् अस्य देयधर्मो यो ममान्तिके चित्तप्रसादः इति । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यम्: यद् बुद्धप्रत्येकबुद्धश्रावकेषु कारान् करिष्यामः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
अव्श्_24 दशशिराः । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो मगधेषु जनपदेषु चारिकां चरन् गङ्गातीरम् अनुप्राप्तः सार्धं भिक्षुसंघेन । अद्राक्षुस् ते भिक्षवो दूरत एव पुराणस्तूपं वातातपवर्षैर् अवरुग्णं प्ररुग्णम्* । दृष्ट्वा च पुनर् भगवन्तं पप्रच्छुः: कस्यैष भदन्त स्तूप इति । भगवान् आह: दशशिरसः प्रत्येकबुद्धस्येति । भिक्षवः ऊचुः: कुतो भदन्त दशशिरसः प्रत्येकबुद्धस्योत्पत्तिर् नामाभिनिर्वृत्तिश् चेति । भगवान् आह: इच्छथ यूयं भिक्षवः श्रोतुम् इति? त ऊचुः: एवं भदन्तेति । तेन हि भिक्षवः शृणुत, साधु च सुष्ठु च मनसि कुरुत, भाषिष्ये ॥
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरं
-------------------- वैद्य, प्. 62 --------------------
तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नम्* । धार्मिको धर्मराजो धर्मेण राज्यं कारयति । स च राजा अपुत्रः पुत्राभिनन्दी शिववरुणकुबेरशक्रब्रह्मादीन् अन्यांश् च देवताविशेषान् आयाचते । तद्यथा: आरामदेवता वनदेवताश् चत्वरदेवताः शृङ्गाटकदेवता बलिप्रतिग्राहिका देवताः । सहजाः सहधार्मिका नित्यानुबद्धा अपि देवता आयाचते । स चैवम् आयाचनपरस् तिष्टति । तस्य चोद्याने नहती पद्मिनी उत्पलपद्मकुमुदपद्मपुण्डरीकसंछन्ना हंसचक्रवाककारण्डवादिशकुनोपशोभिता नलिनी । तत्र पद्मम् अतिप्रमाणम् अकण्टकं सहोत्पन्नम्* । तद् दिवसे दिवसे वर्धते न तु फुल्लति । तत आरामिकेण राज्ञे निवेदितम्* । रज्ञा उक्तः: परिरक्ष्यताम् एतत् पद्मम् इति । यावद् अपरेण समयेन सूर्योदये तत् पद्मं विकसितम्* । तस्य पद्मस्य कर्णिकायां दारकः पर्यङ्कं बद्ध्वावस्थितः, अभिरूपो दर्शनीयः प्रासादिको गौरः कनकवर्णश् छत्राकारशिराः प्रलम्बबाहुर् विस्तीर्णललाट उच्चघोषः संगतब्रूस् तुङ्गनासः द्वात्रिंशता महापुरुषलक्षणैः समलंकृतो ऽशीत्यानुव्यञ्जनैर् विराजितगात्रः । तं दृष्ट्वा आरामिकेण राज्ञे निवेदितम्* । श्रुत्वा राजा सामात्यः सान्तःपुरश् च तद् उद्यानं गतः । ददर्श राजा पद्मकर्णिकायां तथा विभाजमानम्* । दृष्ट्वा च पुनर् हृष्टतुष्टप्रमुदित उदग्रप्रीतिसौमनस्यजातः पद्मिनीम् अवगाह्य तं गृहीत्वा महता सत्कारेण स्वगृहम् आनीय श्रमणब्राह्मणनैमित्तिकानां निवेद्य त्रीणि सप्तकान्य् एकविंशतिं दिवसान् जातस्य जातिमहं कृत्वा दशशिरा इति नामधेयं कृतवान्* ॥
दशशिरा दारकः अष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्* । सो ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश् चोत्त्{अप्तोत्त्}अप्तैर् उपकरणविशेषैः । आशु वर्धते ह्रदस्थम् इव पङ्कजम्* । स च कुमारः श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलः । स पश्यति पितरं राजधर्मे स्थितं सावद्यम् अवद्यानि कर्माणि कुर्वाणम्* । दृष्ट्वा च कुमारः संविग्नः पितरं विज्ञापयामास: अनुजानीहि मां तात, प्रव्रजिष्यामि स्वाख्याते धर्मविनये इति । यावत् पित्रानुज्ञातः केशश्मश्रु अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजितः । तेन विनोपदेशेन सप्तत्रिंशद् बोधिपक्षान् धर्मान् आमुखीकृत्य प्रत्येका बोधिः साक्षात्कृता । स गगनतलम् उत्पत्य पितुः सकाशे विचित्राणि प्रातिहार्याणि चकार । ततो राज्ञा त्रैमास्य पिण्डकेनोपनिमन्त्रितः । स शरीरभारोद्वहनपरिखिन्नो विचित्राणि प्रातिहार्याणि दर्शयित्वा इन्धनक्षयाद् इवाग्निर् निर्वृतिम् उपजगाम । तस्यैष स्तूप इति ॥
अथ भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त दशशिरसा कर्माणि कृतानि, येन मातुः कुक्षौ नोपपन्नः, पद्म उपपन्न इति ॥ भगवान् आह: दशशिरसैव भिक्षवः कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । दशशिरसा कर्माणि कृतान्य् उपचितानि को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च ।
-------------------- वैद्य, प्. 63 --------------------
न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि । *{औछ्: कर्माण्य् अपि कल्पशतैर् अपि ।}*
सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्*

मूल पाठ: Avadānaśataka · Edition: the following editions: (1) Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19) and (2) Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc