भाषा

ENहिગુ
ग्रंथ पाठ

आत्मसिद्धि · अध्याय 4

4.1

अथ खलु भगवान् श्रीमद्यामुनमिनिः श्रीवैष्णवसंप्रदायप्रवर्तकाचार्येषु प्रथमपरिगाणितस्य योगरहस्यन्यायतत्त्वशास्त्रप्रणेतुर्भगवतः श्रीमन्नाथमुनेः पौत्र रिश्वरमुनितनुजन्मा विशिष्टाद्वैतसिद्धान्तप्रवर्तनधुरन्धरः प्रतिवादिवारणप्रकटाटोपविपाटनक्षमः परमाचार्य आत्मसिद्धिनामकं वेदान्तप्रकरणमुपक्रममाणो ऽविघ्नपरिसमाप्तिप्रचयगमनादिफलं मङ्गलमाशीरूपं वस्तुनिर्देशं च कुर्वाणः शिष्यशिक्षायै निबध्नाति "प्रकृतीऽ ति । प्रकृतिर्माया, तत्कार्याणि समष्टिव्यष्टिरूपाणि व्यक्तानि, प्रकृतिप्राकृतपरिणामहेतुः कालः, तद्बद्धो जीवराशिश्रेति लीलाविभूतिस्थाः सर्वे सङ्गृहीताः शब्दचतुष्टयेन । मुक्ताः भगवदुपासनाप्रभावाद्भवबन्धनात्कर्मपाशप्रग्रथिताद्विनिर्मुक्ताः । एते प्रकृत्यादयो यस्यैव परमपुरुषस्येच्छां सङ्कल्परूपां सदा समनुसरन्ति स्वरूपस्थितिप्रवृत्तिषु, तस्मिन् पूरुष इत्यन्वयः । इमानि च
सर्जनावनसंहरणसंसारविमोचनानि सङ्कल्पैकनिष्पाद्यानि भगवतो लीलारसाय कल्पन्ते । एवं लीलाविभूतियोग उक्तः । अथ नित्यविभूतियोगमाह ऽनित्यम्ऽ इति । नित्यमिति पूर्वोत्तरयोरन्वितं मध्यमणिन्यायेन । सदोद्भूतापहतपाप्मत्वादिस्वरूपैः सर्वज्ञैर्भगवदनुभवजनितप्रीतिकारिताशेषशेषवृत्त्यन्वयत एवाधिगतभोगैरनन्तैरनन्तगरुडविष्वक्सेनादिभिर्नित्यसूरिभिः श्रीमति महावैकुण्ठे दिव्ये ऽक्षरे धाम्नि सदा निरतिशयप्रीतिमनुभवति नारीणामुत्तमायाः श्रियो वल्लभे पुरुषोत्तमे परब्रह्मणि मम भक्तिप्रचयो भूयादित्याशंसा । उभयविभूतिनाथे रमानाथे भक्तिर्हि सर्वश्रेयस्करी । तत्तद्भक्त्याशंसनमुचिततरम् । भक्तिरेव भगवति प्रार्थ्या चेतनैः । स हि स्वयमेव श्रेयो विदधाति । तत्तस्मिन् श्वश्रेयःप्रार्थना नोचिततरा भक्तानामिति चानेन ज्ञाप्यते । अचेतनभेदश्चेतनभेदश्च परमार्थतः, श्रीमन्नारायणस्यैव पारम्यं, सर्वचेतनाचेतनानां तद्विभूतित्वं, निरतिशयप्रेमगर्भतदुपासनस्यैवापवर्गहेतुत्वमविच्छिन्नपूर्णभगवदनुभवगर्भसेवाया एव परमपुमर्थत्वं चेति स्वाभिमताः प्रकरणार्था अत्र संसूचिताः

4.2

विरुद्धमतयो ऽनेकाः सन्त्यात्मपरमात्मनोः ।
अतस्तत्परिशुद्ध्यर्थमात्मसिद्धिर्विधीयते

मूल पाठ: Ātmasiddhi · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc