भाषा

ENहिગુ
ग्रंथ पाठ

आत्मसिद्धि · अध्याय 3

3.1

व्याख्यानम्
जगज्जन्मस्थितिलयै रममाणं परात्परम् ।
स्वामिन् सर्वजगतां श्रियःपतिमुपास्महे

3.2

ज्ञानवैराग्यभक्तीनां शेवधिं करुणार्णवम् ।
यामुनार्थं मुनिवरं परमाचार्यमाश्रये

3.3

श्रीभाष्यादिप्रबन्धेन तत्त्वं सन्दर्शयन् परम् ।
रामानुजार्यो भगवान् दयता मयि संश्रिये

3.4

देशिकेन्द्रदयासारमवलम्ब्य विधीयते ।
सिद्धित्रयस्य व्याख्यानं रीत्या सरलया मया

3.5

क्क यामुनार्यश्रीसूक्तिसन्दर्भः क्क च मे मतिः ।
अत्यल्पविषयाथापि चापलं त्वपराध्यति

3.6

विशिष्टद्वैतसिद्धान्तनिर्धारणधुरन्धराः ।
संश्रितेषु दयासारा देशिकाः शरणं मम

3.7

वात्स्यं श्रीवादिभीकृद्गुरुकुलतिलकं कृष्णमार्यं गुणाढ्यं
तातं मन्नप्रदं मे द्रविडनिगमसूक्त्यर्थसन्दर्शकं तम् ।
नत्वा रामानुजार्यं गुरुवरमपि मे भाष्यकृद्वंशदीपं
हारीतं चारुकीर्तिं बुधकुलतिलकं यामुनोक्तीर्विवृण्वे

3.8

श्रीमन्नागपुराभिख्याभिजनो वादिभीकरः ।
अण्णङ्गरार्यदासो ऽहं विवृणोमि गुरोर्गिरः

मूल पाठ: Ātmasiddhi · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc