भाषा

ENहिગુ
ग्रंथ पाठ

अथर्ववेद · अध्याय 6.75

6.75.1

निरमुं नुद ओकसः सपत्नो यः पृतन्यति ।
नैर्बाध्येन हविषेन्द्र एनं पराशरीत्

6.75.2

परमां तं परावतमिन्द्रो नुदतु वृत्रहा ।
यतो न पुनरायति शश्वतीभ्यः समाभ्यः

6.75.3

एतु तिस्रः परावत एतु पञ्च जनामति ।
एतु तिस्रोऽति रोचना यतो न पुनरायति ।
शश्वतीभ्यः समाभ्यो यावत्सूर्यो असद्दिवि

मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc