भाषा

ENहिગુ
ग्रंथ पाठ

अथर्ववेद · अध्याय 6.74

6.74.1

सं वः पृच्यन्तां तन्वः सं मनांसि समु व्रता ।
सं वोऽयं ब्रह्मणस्पतिर्भगः सं वो अजीगमत्

6.74.2

संज्ञपनं वो मनसोऽथो संज्ञपनं हृदः ।
अथो भगस्य यच्छ्रान्तं तेन संज्ञपयामि वः

6.74.3

यथादित्या वसुभिः सम्बभूवुर्मरुद्भिरुग्रा अहृणीयमानाः ।
एवा त्रिणामन्न् अहृणीयमान इमान् जनान्त्संमनसस्कृधीह

मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc