ग्रंथ पाठ
अथर्ववेद · अध्याय 6.76
6.76.1
य एनं परिषीदन्ति समादधति चक्षसे ।
संप्रेद्धो अग्निर्जिह्वाभिरुदेतु हृदयादधि
6.76.2
अग्नेः साम्तपनस्याहमायुषे पदमा रभे ।
अद्धातिर्यस्य पश्यति धूममुद्यन्तमास्यतः
6.76.3
यो अस्य समिधं वेद क्षत्रियेण समाहिताम् ।
नाभिह्वारे पदं नि दधाति स मृत्यवे
6.76.4
नैनं घ्नन्ति पर्यायिणो न सन्नामव गच्छति ।
अग्नेर्यः क्षत्रियो विद्वान् नाम गृह्नाति आयुषे
मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0