ग्रंथ पाठ
अथर्ववेद · अध्याय 6.139
6.139.1
न्यस्तिका रुरोहिथ सुभगंकरणी मम ।
शतं तव प्रतानास्त्रयस्त्रिंशन् नितानाः ॥
तया सहस्रपर्ण्या हृदयं शोषयामि ते
6.139.2
शुष्यतु मयि ते हृदयमथो शुष्यत्वास्यम् ।
अथो नि शुष्य मां कामेनाथो शुष्कास्या चर
6.139.3
संवननी समुष्पला बभ्रु कल्याणि सं नुद ।
अमूं च मां च सं नुद समानं हृदयं कृधि
6.139.4
यथोदकमपपुषोऽपशुष्यत्यास्यम् ।
एवा नि शुष्य मां कामेनाथो शुष्कास्या चर
6.139.5
यथा नकुलो विछिद्य संदधात्यहिं पुनः ।
एवा कामस्य विछिन्नं सं धेहि वीर्यावति
मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0