भाषा

ENहिગુ
ग्रंथ पाठ

अथर्ववेद · अध्याय 6.140

6.140.1

यौ व्याघ्राववरूढौ जिघत्सतः पितरं मातरं च ।
तौ दन्तं ब्रह्मणस्पते शिवौ कृणु जातवेदः

6.140.2

व्रीहिमत्तं यवमत्तमथो माषमथो तिलम् ।
एष वां भागो निहितो रत्नधेयाय दन्तौ मा हिंसिष्टं पितरं मातरं च

6.140.3

उपहूतौ सयुजौ स्योनौ दन्तौ सुमङ्गलौ ।
अन्यत्र वां घोरं तन्वः परैतु दन्तौ मा हिंसिष्टं पितरं मातरं च

मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc