भाषा

ENहिગુ
ग्रंथ पाठ

अथर्ववेद · अध्याय 6.120

6.120.1

यदन्तरिक्षं पृथिवीमुत द्यां यन् मातरं पितरं वा जिहिंसिम ।
अयं तस्माद्गार्हपत्यो नो अग्निरुदिन् नयाति सुकृतस्य लोकम्

6.120.2

भूमिर्मातादितिर्नो जनित्रं भ्रातान्तरिक्षमभिशस्त्या नः ।
द्यौर्नः पिता पित्र्याच्छं भवाति जामिमृत्वा माव पत्सि लोकात्

6.120.3

यत्रा सुहार्दः सुकृतो मदन्ति विहाय रोगं तन्वः स्वायाः ।
अश्लोना अङ्गैरह्रुताः स्वर्गे तत्र पश्येम पितरौ च पुत्रान्

मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc