ग्रंथ पाठ
अथर्ववेद · अध्याय 6.119
6.119.1
6.119
यददीव्यन्न् ऋणमहं कृणोम्यदास्यन्न् अग्ने उत संगृणामि ।
वैश्वानरो नो अधिपा वसिष्ठ उदिन् नयाति सुकृतस्य लोकम्
6.119.2
वैश्वानराय प्रति वेदयामि यदि ऋणं संगरो देवतासु ।
स एतान् पाशान् विचृतं वेद सर्वान् अथ पक्वेन सह सं भवेम
6.119.3
वैश्वानरः पविता मा पुनातु यत्संगरमभिधावाम्याशाम् ।
अनाजानन् मनसा याचमानो यत्तत्रैनो अप तत्सुवामि
मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0