भाषा

ENहिગુ
ग्रंथ पाठ

अथर्ववेद · अध्याय 6.121

6.121.1

विषाणा पाशान् वि ष्याध्यस्मद्य उत्तमा अधमा वारुणा ये ।
दुष्वप्न्यं दुरितं नि ष्वास्मदथ गछेम सुकृतस्य लोकम्

6.121.2

यद्दारुणि बध्यसे यच्च रज्ज्वां यद्भूम्यां बध्यसे यच्च वाचा ।
अयं तस्माद्गार्हपत्यो नो अग्निरुदिन् नयाति सुकृतस्य लोकम्

6.121.3

उदगातां भगवती विचृतौ नाम तारके ।
प्रेहामृतस्य यच्छतां प्रैतु बद्धकमोचनम्

6.121.4

वि जिहीष्व लोकं कृणु बन्धान् मुञ्चासि बद्धकम् ।
योन्या इव प्रच्युतो गर्भः पथः सर्वामनु क्षिय

मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc