ग्रंथ पाठ
अथर्ववेद · अध्याय 6.103
6.103.1
संदानं वो बृहस्पतिः संदानं सविता करत्।
संदानं मित्रो अर्यमा संदानं भगो अश्विना
6.103.2
सं परमान्त्समवमान् अथो सं द्यामि मध्यमान् ।
इन्द्रस्तान् पर्यहार्दाम्ना तान् अग्ने सं द्या त्वम्
6.103.3
अमी ये युधमायन्ति केतून् कृत्वानीकशः ।
इन्द्रस्तान् पर्यहार्दाम्न तान् अग्ने सं द्या त्वम्
मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0