भाषा

ENहिગુ
ग्रंथ पाठ

अथर्ववेद · अध्याय 6.102

6.102.1

यथायं वाहो अश्विना समैति सं च वर्तते ।
एवा मामभि ते मनः समैतु सं च वर्तताम्

6.102.2

आहं खिदामि ते मनो राजाश्वः पृष्ट्यामिव ।
रेष्मछिन्नं यथा तृणं मयि ते वेष्टतां मनः

6.102.3

आञ्जनस्य मदुघस्य कुष्ठस्य नलदस्य च ।
तुरो भगस्य हस्ताभ्यामनुरोधनमुद्भरे

मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc