भाषा

ENहिગુ
ग्रंथ पाठ

अथर्ववेद · अध्याय 6.104

6.104.1

आदानेन संदानेनामित्रान् आ द्यामसि ।
अपाना ये चैषां प्राणा असुनासून्त्समछिदन्

6.104.2

इदमादानमकरं तपसेन्द्रेण संशितम् ।
अमित्रा येऽत्र नः सन्ति तान् अग्न आ द्या त्वम्

6.104.3

ऐनान् द्यतामिन्द्राग्नी सोमो राजा च मेदिनौ ।
इन्द्रो मरुत्वान् आदानममित्रेभ्यः कृणोतु नः

मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc