भाषा

ENहिગુ
ग्रंथ पाठ

अथर्ववेद · अध्याय 4.36

4.36.1

तान्त्सत्यौजाः प्र दहत्वग्निर्वैश्वानरो वृषा ।
यो नो दुरस्याद्दिप्साच्चाथो यो नो अरातियात्

4.36.2

यो नो दिप्साददिप्सतो दिप्सतो यश्च दिप्सति ।
वैश्वानरस्य दंष्ट्रयोरग्नेरपि दधामि तम्

4.36.3

य आगरे मृगयन्ते प्रतिक्रोशेऽमावास्ये ।
क्रव्यादो अन्यान् दिप्सतः सर्वांस्तान्त्सहसा सहे

4.36.4

सहे पिशाचान्त्सहसैषां द्रविणं ददे ।
सर्वान् दुरस्यतो हन्मि सं म आकूतिरृध्यताम्

4.36.5

ये देवास्तेन हासन्ते सूर्येण मिमते जवम् ।
नदीषु पर्वतेषु ये सं तैः पशुभिर्विदे

4.36.6

तपनो अस्मि पिशाचानां व्याघ्रो गोमतामिव ।
श्वानः सिंहमिव दृष्ट्वा ते न विन्दन्ते न्यञ्चनम्

4.36.7

न पिशाचैः सं शक्नोमि न स्तेनैः न वनर्गुभिः ।
पिशाचास्तस्मान् नश्यन्ति यमहं ग्राममाविशे

4.36.8

यं ग्राममाविशत इदमुग्रं सहो मम ।
पिशाचास्तस्मान् नश्यन्ति न पापमुप जानते

4.36.9

ये मा क्रोधयन्ति लपिता हस्तिनं मशका इव ।
तान् अहं मन्ये दुर्हितान् जने अल्पशयून् इव

4.36.10

अभि तं निरृतिर्धत्तामश्वमिव अश्वाभिधान्या ।
मल्वो यो मह्यं क्रुध्यति स उ पाशान् न मुच्यते

मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc