भाषा

ENहिગુ
ग्रंथ पाठ

अथर्ववेद · अध्याय 4.37

4.37.1

त्वया पूर्वमथर्वाणो जघ्नू रक्षांस्योषधे ।
त्वया जघान कश्यपस्त्वया कण्वो अगस्त्यः

4.37.2

त्वया वयमप्सरसो गन्धर्वांस्चातयामहे ।
अजशृङ्ग्यज रक्षः सर्वान् गन्धेन नाशय

4.37.3

नदीं यन्त्वप्सरसोऽपां तारमवश्वसम् ।
गुल्गुलूः पीला नलद्यौक्षगन्धिः प्रमन्दनी ।
तत्परेताप्सरसः प्रतिबुद्धा अभूतन

4.37.4

यत्राश्वत्था न्यग्रोधा महावृक्षाः शिखण्डिनः ।
तत्परेताप्सरसः प्रतिबुद्धा अभूतन

4.37.5

यत्र वः प्रेङ्खा हरिता अर्जुना उत यत्राघाताः कर्कर्यः संवदन्ति ।
तत्परेताप्सरसः प्रतिबुद्धा अभूतन

4.37.6

एयमगन्न् ओषधीनां वीरुधां वीर्यावती ।
अजशृङ्ग्यराटकी तीक्ष्णशृङ्गी व्यृषतु

4.37.7

आनृत्यतः शिखण्डिनो गन्धर्वस्याप्सरापतेः ।
भिनद्मि मुष्कावपि यामि शेपः

4.37.8

भीमा इन्द्रस्य हेतयः शतमृष्टीरयस्मयीः ।
ताभिर्हविरदान् गन्धर्वान् अवकादान् व्यृषतु

4.37.9

भीमा इन्द्रस्य हेतयः शतमृष्टीर्हिरण्ययीः ।
ताभिर्हविरदान् गन्धर्वान् अवकादान् व्यृषतु

4.37.10

अवकादान् अभिशोचान् अप्सु ज्योतय मामकान् ।
पिशाचान्त्सर्वान् ओषधे प्र मृणीहि सहस्व च

4.37.11

श्वेवैकः कपिरिवैकः कुमारः सर्वकेशकः ।
प्रियो दृश इव भूत्वा गन्धर्वः सचते स्त्रियस्।
तमितो नाशयामसि ब्रह्मणा वीर्यावता

4.37.12

जाया इद्वो अप्सरसो गन्धर्वाः पतयो यूयम् ।
अप धावतामर्त्या मर्त्यान् मा सचध्वम्

मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc