भाषा

ENहिગુ
ग्रंथ पाठ

अथर्ववेद · अध्याय 4.20

4.20.1

आ पश्यति प्रति पश्यति परा पश्यति पश्यति ।
दिवमन्तरिक्षमाद्भूमिं सर्वं तद्देवि पश्यति

4.20.2

तिस्रो दिवस्तिस्रः पृथिवीः षट्चेमाः प्रदिशाः पृथक्।
त्वयाहं सर्वा भूतानि पश्यानि देव्योषधे

4.20.3

दिव्यस्य सुपर्णस्य तस्य हासि कनीनिका ।
सा भूमिमा रुरोहिथ वह्यं श्रान्ता वधूरिव

4.20.4

तां मे सहस्राक्षो देवो दक्षिणे हस्त आ दधत्।
तयाहं सर्वं पश्यामि यश्च शूद्र उतार्यः

4.20.5

आविष्कृणुष्व रूपाणि मात्मानमप गूहथाः ।
अथो सहस्रचक्षो त्वं प्रति पश्याः किमीदिनः

4.20.6

दर्शय मा यातुधानान् दर्शय यातुधान्यः ।
पिशाचान्त्सर्वान् दर्शयेति त्वा रभ ओषधे

4.20.7

कश्यपस्य चक्षुरसि शुन्याश्च चतुरक्ष्याः ।
वीध्रे सूर्यमिव सर्पन्तं मा पिशाचं तिरस्करः

4.20.8

उदग्रभं परिपाणाद्यातुधानं किमीदिनम् ।
तेनाहं सर्वं पश्याम्युत शूद्रमुतार्यम्

4.20.9

यो अन्तरिक्षेण पतति दिवं यश्च अतिसर्पति ।
भूमिं यो मन्यते नाथं तं पिशाचं प्र दर्शय

मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc