अथर्ववेद · अध्याय 4.19
उतो अस्यबन्धुकृदुतो असि नु जामिकृत्।
उतो कृत्याकृतः प्रजां नदमिवा छिन्धि वार्षिकम्
ब्राह्मणेन पर्युक्तासि कण्वेन नार्षदेन ।
सेनेवैषि त्विषीमती न तत्र भयमस्ति यत्र प्राप्नोष्योषधे
अग्रमेष्योषधीनां ज्योतिषेवाभिदीपयन् ।
उत त्रातासि पाकस्याथो हन्तासि रक्षसः
यददो देवा असुरांस्त्वयाग्रे निरकुर्वत ।
ततस्त्वमध्योषधेऽपामार्गो अजायथाः
विभिन्दती शतशाखा विभिन्दन् नाम ते पिता ।
प्रत्यग्वि भिन्धि त्वं तं यो अस्मामभिदासति
असद्भूम्याः समभवत्तद्यामेति महद्व्यचः ।
तद्वै ततो विधूपायत्प्रत्यक्कर्तारमृच्छतु
प्रत्यङ्हि संबभूविथ प्रतीचीनफलस्त्वम् ।
सर्वान् मच्छपथामधि वरीयो यावया वधम्
शतेन मा परि पाहि सहस्रेणाभि रक्षा मा ।
इन्द्रस्ते वीरुधां पत उग्र ओज्मानमा दधत्
मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0