भाषा

ENहिગુ
ग्रंथ पाठ

अथर्ववेद · अध्याय 20.59

20.59.1

उदु त्ये मधु मत्तमा गिर स्तोमास ईरते ।
सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव

20.59.2

कण्वा इव भृगवः सूर्य इव विश्वमिद्धीतमानशुः ।
इन्द्रं स्तोमेभिर्महयन्त आयवः प्रियमेधासो अस्वरन्

20.59.3

उदिन् न्वस्य रिच्यतेऽंशो धनं न जिग्युसः ।
य इन्द्रो हरिवान् न दभन्ति तं रिपो दक्षं दधाति सोमिनि

20.59.4

मन्त्रमखर्वं सुधितं सुपेशसं दधात यज्ञियेष्वा ।
पूर्वीश्चन प्रसितयस्तरन्ति तं य इन्द्रे कर्मणा भुवत्

मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc