ग्रंथ पाठ
अथर्ववेद · अध्याय 20.58
20.58.1
श्रायन्त इव सूर्यं विश्वेदिन्द्रस्य भक्षत ।
वसूनि जाते जनमान ओजसा प्रति भागं न दीधिम
20.58.2
अनर्शरातिं वसुदामुप स्तुहि भद्रा इन्द्रस्य रातयः ।
सो अस्य कामं विधतो न रोषति मनो दानाय चोदयन्
20.58.3
बण्महामसि सूर्य बडादित्य महामसि ।
महस्ते सतो महिमा पनस्यतेऽद्धा देव महामसि
20.58.4
बट्सूर्य श्रवसा महामसि सत्रा देव महामसि ।
मह्ना देवानामसुर्यः पुरोहितो विभु ज्योतिरदाभ्यम्
मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0