भाषा

ENहिગુ
ग्रंथ पाठ

अथर्ववेद · अध्याय 20.44

20.44.1

प्र सम्राजं चर्षणीनामिन्द्रं स्तोता नव्यं गीर्भिः ।
नरं नृषाहं मंहिष्ठम्

20.44.2

यस्मिन्न् उक्थानि रण्यन्ति विश्वानि च श्रवस्य ।
अपामवो न समुद्रे

20.44.3

तं सुष्टुत्या विवासे ज्येष्ठराजं भरे कृत्नुम् ।
महो वाजिनं सनिभ्यः

मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc