ग्रंथ पाठ
अथर्ववेद · अध्याय 20.139
20.139.1
आ नूनमश्विना युवं वत्सस्य गन्तमवसे ।
प्रास्मै यच्छतमवृकं पृथु छर्दिर्युयुतं या अरातयः
20.139.2
यदन्तरिक्षे यद्दिवि यत्पञ्च मानुषामनु ।
नृम्नं तद्धत्तमश्विना
20.139.3
ये वां दंसांस्यश्विना विप्रासः परिमामृशुः ।
एवेत्काण्वस्य बोधतम्
20.139.4
अयं वां घर्मो अश्विना स्तोमेन परि षिच्यते ।
अयं सोमो मधुमान् वाजिनीवसू येन वृत्रं चिकेतथः
20.139.5
यदप्सु यद्वनस्पतौ यदोषधीषु पुरुदंससा कृतम् ।
तेन माविष्टमश्विना
मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0