ग्रंथ पाठ
अथर्ववेद · अध्याय 20.138
20.138.1
महाँ इन्द्रो य ओजसा पर्जन्यो वृष्टिमामिव ।
स्तोमैर्वत्सस्य वावृधे
20.138.2
प्रजामृतस्य पिप्रतः प्र यद्भरन्त वह्नयः ।
विप्रा ऋतस्य वाहसा
20.138.3
कण्वाः इन्द्रं यदक्रत स्तोमैर्यज्ञस्य साधनम् ।
जामि ब्रुवत आयुधम्
मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0