ग्रंथ पाठ
अथर्ववेद · श्लोक 19.54-2
19.54-2.1
कालादापः समभवन् कालाद्ब्रह्म तपो दिशः ।
कालेनोदेति सूर्यः काले नि विशते पुनः
19.54-2.2
कालेन वातः पवते कालेन पृथिवी मही ।
द्यौर्मही काल आहिता
19.54-2.3
कालो ह भूतं भव्यं च पुत्रो अजनयत्पुरा ।
कालादृचः समभवन् यजुः कालादजायत
19.54-2.4
कालो यज्ञं समैरयद्देवेभ्यो भागमक्षितम् ।
काले गन्धर्वाप्सरसः काले लोकाः प्रतिष्ठिताः
19.54-2.5
कालेऽयमङ्गिरा देवोऽथर्वा चाधि तिष्ठतः ।
इमं च लोकं परमं च लोकं पुण्यांश्च लोकान् विधृतीश्च पुण्याः ।
सर्वांल्लोकान् अभिजित्य ब्रह्मणा कालः स ईयते परमो नु देवः
मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0