भाषा

ENहिગુ
ग्रंथ पाठ

अथर्ववेद · अध्याय 19.54

19.54.1

कालादापः समभवन् कालाद्ब्रह्म तपो दिशः ।
कालेनोदेति सूर्यः काले नि विशते पुनः

19.54.2

(१९.५४.१ )
कालेन वातः पवते कालेन पृथिवी मही ।
(१९.५४.२ ) द्यौर्मही काल आहिता

19.54.3

(१९.५४.२ )
कालो ह भूतं भव्यं च पुत्रो अजनयत्पुरा ।
कालादृचः समभवन् यजुः कालादजायत

19.54.4

(१९.५४.३ )
कालो यज्ञं समैरयद्देवेभ्यो भागमक्षितम् ।
काले गन्धर्वाप्सरसः काले लोकाः प्रतिष्ठिताः

19.54.5

(१९.५४.४ )
कालेऽयमङ्गिरा देवोऽथर्वा चाधि तिष्ठतः ।
इमं च लोकं परमं च लोकं पुण्यांश्च लोकान् विधृतीश्च पुण्याः ।
सर्वांल्लोकान् अभिजित्य ब्रह्मणा कालः स ईयते परमो नु देवः

मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc