अथर्ववेद · अध्याय 19.44
19.44
आयुषोऽसि प्रतरणं विप्रं भेषजमुच्यसे ।
तदाञ्जन त्वं शंताते शमापो अभयं कृतम्
यो हरिमा जायान्योऽङ्गभेदो विसल्पकः ।
सर्वं ते यक्ष्ममङ्गेभ्यो बहिर्निर्हन्त्वाञ्जनम्
आञ्जनं पृथिव्यां जातं भद्रं पुरुषजीवनम् ।
कृणोत्वप्रमायुकं रथजूतिमनागसम्
प्राण प्राणं त्रायस्वासो असवे मृड ।
निरृते निरृत्या नः पाशेभ्यो मुञ्च
सिन्धोर्गर्भोऽसि विद्युतां पुष्पम् ।
वातः प्राणः सूर्यश्चक्षुर्दिवस्पयः
देवाञ्जन त्रैककुद परि मा पाहि विश्वतः ।
न त्वा तरन्त्योषधयो बाह्याः पर्वतीया उत
वीदं मध्यमवासृपद्रक्षोहामीवचातनः ।
अमीवाः सर्वाश्चातयन् नाशयदभिभा इतः
बह्विदं राजन् वरुणानृतमाह पूरुषः ।
तस्मात्सहस्रवीर्य मुञ्च नः पर्यंहसः
यदापो अघ्न्या इति वरुणेति यदूचिम ।
तस्मात्सहस्रवीर्य मुञ्च नः पर्यंहसः
मित्रश्च त्वा वरुणश्चानुप्रेयतुराञ्जन ।
तौ त्वानुगत्य दूरं भोगाय पुनरोहतुः
मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0