भाषा

ENहिગુ
ग्रंथ पाठ

अथर्ववेद · अध्याय 19.45

19.45.1

19.45
ऋणादृणमिव सं नय कृत्यां कृत्याकृतो गृहम् ।
चक्षुर्मन्त्रस्य दुर्हार्दः पृष्टीरपि शृणाञ्जन

19.45.2

यदस्मासु दुष्वप्न्यं यद्गोषु यच्च नो गृहे ।
अनामगस्तं च दुर्हार्दः प्रियः प्रति मुञ्चताम्

19.45.3

अपामूर्ज ओजसो वावृधानमग्नेर्जातमधि जातवेदसः ।
चतुर्वीरं पर्वतीयं यदाञ्जनं दिशः प्रदिशः करदिच्छिवास्ते

19.45.4

चतुर्वीरं बध्यत आञ्जनं ते सर्वा दिशो अभयास्ते भवन्तु ।
ध्रुवस्तिष्ठासि सवितेव चार्य इमा विशो अभि हरन्तु ते बलिम्

19.45.5

आक्ष्वैकं मणिमेकं कृणुष्व स्नाह्येकेना पिबैकमेषाम् ।
चतुर्वीरं नैरृतेभ्यश्चतुर्भ्यो ग्राह्या बन्धेभ्यः परि पात्वस्मान्

19.45.6

अग्निर्माग्निनावतु प्राणायापानायायुषे वर्चस ओजसे ।
तेजसे स्वस्तये सुभूतये स्वाहा

19.45.7

इन्द्रो मेन्द्रियेणावतु प्राणायापानायायुषे वर्चस ओजसे ।
तेजसे स्वस्तये सुभूतये स्वाहा

19.45.8

सोमो मा सौम्येनावतु प्राणायापानायायुषे वर्चस ओजसे ।
तेजसे स्वस्तये सुभूतये स्वाहा

19.45.9

भगो मा भगेनावतु प्राणायापानायायुषे वर्चस ओजसे ।
तेजसे स्वस्तये सुभूतये स्वाहा

19.45.10

मरुतो मा गणैरवन्तु प्राणायापानायुषे वर्चस ओजसे तेजसे ।
स्वस्तये सुभूतये स्वाहा

मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc