भाषा

ENहिગુ
ग्रंथ पाठ

अथर्ववेद · अध्याय 15.2

15.2.6

स उदतिष्ठत्स प्राचीं दिशमनु व्यचलत्।
तं बृहच्च रथन्तरं चादित्याश्च विश्वे च देवा अनुव्यचलन् ।
बृहते च वै स रथन्तराय चादित्येभ्यश्च विश्वेभ्यश्च देवेभ्य आ वृश्चते य एवं विद्वांसं व्रात्यमुपवदति ।
बृहतश्च वै स रथन्तरस्य चादित्यानां च विश्वेषां च देवानां प्रियं धाम भवति य एवं वेद ।
तस्य प्राच्यां दिशि श्रद्धा पुंश्चली मित्रो मागधो विज्ञानं वासोऽहरुष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर्मणिः ।
भूतं च भविष्यच्च परिष्कन्दौ मनो विपथं

15.2.7

मातरिश्वा च पवमानश्च विपथवाहौ वातः सारथी रेष्मा प्रतोदः

15.2.15.2.1

कीर्तिश्च यशश्च पुरःसरौ
ऐनं कीर्तिर्गच्छत्या यशो गच्छति य एवं वेद

15.2.15.2.2

स उदतिष्ठत्स दक्षिणां दिशमनु व्यचलत्।
तं यज्ञायज्ञियं च वामदेव्यं च यज्ञश्च यजमानश्च पशवश्चानुव्यचलन् ।
यज्ञायज्ञियाय च वै स वामदेव्याय च यज्ञाय च यजमानाय च पशुभ्यश्चा वृश्चते य एवं विद्वांसं व्रात्यमुपवदति ।
यज्ञायज्ञियस्य च वै स वामदेव्यस्य च यज्ञस्य च यजमानस्य च पशूनां च प्रियं धाम भवति य एवं वेद ।
तस्य दक्षिणायां दिश्युषाः पुंश्चली मन्त्रो मागधो विज्ञानं वासोऽहरुष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर्मणिः ।
अमावास्या च पौर्णमासी च परिष्कन्दौ मनो विपथं मातरिश्वा च पवमानश्च विपथवाहौ वातः सारथी रेष्मा प्रतोदः
कीर्तिश्च यशश्च पुरःसरौ ।
ऐनं कीर्तिर्गच्छत्या यशो गच्छति य एवं वेद

15.2.15.2.3

स उदतिष्ठत्स प्रतीचीं दिशमनु व्यचलत्।
तं वैरूपं च वैराजं चापश्च वरुणश्च राजानुव्यचलन् ।
वैरूपाय च वै स वैराजाय चाद्भ्यश्च वरुणाय च राज्ञ आ वृश्चते य एवं विद्वांसं व्रात्यमुपवदति ।
वैरूपस्य च वै स वैराजस्य चापां च वरुणस्य च राज्ञः प्रियं धाम भवति य एवं वेद ।
तस्य प्रतीच्यां दिशीरा पुंश्चली हसो मागधो विज्ञानं वासोऽहरुष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर्मणिः ।
अहश्च रात्री च परिष्कन्दौ मनो विपथं मातरिश्वा च पवमानश्च विपथवाहौ वातः सारथी रेष्मा प्रतोदः
कीर्तिश्च यशश्च पुरःसरौ ।
ऐनं कीर्तिर्गच्छत्या यशो गच्छति य एवं वेद

15.2.15.2.4

स उदतिष्ठत्स उदीचीं दिशमनु व्यचलत्।
तं श्यैतं च नौधसं च सप्तर्षयश्च सोमश्च राजानुव्यचलन् ।
श्यैताय च वै स नौधसाय च सप्तर्षिभ्यश्च सोमाय च राज्ञ आ वृश्चते य एवं विद्वांसं व्रात्यमुपवदति ।
श्यैतस्य च वै स नौधसस्य च सप्तर्षीणां च सोमस्य च राज्ञः प्रियं धाम भवति य एवं वेद ।
तस्योदीच्यां दिशि विद्युत्पुंश्चली स्तनयित्नुर्मागधो विज्ञानं वासोऽहरुष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर्मणिः ।
श्रुतं च विश्रुतं च परिष्कन्दौ मनो विपथं मातरिश्वा च पवमानश्च विपथवाहौ वातः सारथी रेष्मा प्रतोदः
कीर्तिश्च यशश्च पुरःसरौ ।
ऐनं कीर्तिर्गच्छत्या यशो गच्छति य एवं वेद

मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc